द्वितीयः परिच्छेदः
अथ सामान्यपूजापद्धतिः
तत्र ब्राह्म्येमुहूर्ते उत्थाय मुक्तस्वापः रात्रिवासस्त्यक्त्वा शिरसि
सहस्रदलकमलकर्णिका स्थितं श्वेतवर्ण गुरुं द्विभुजं
वराभयकरं श्वेतमाल्यानुलेपनं स्वप्रकाशरूपं
स्ववामस्थितसुरक्तशक्त्या स्वप्रकाशरूपया सहितं विभाव्य
मानसोपचारैराराध्य नमस्कुर्यात् ।
यथा-
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ।
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्री गुरुवे नमः ।
ततो मूलादिब्रह्मरन्ध्रान्तं मूलविद्यां विभावयेत् ।
मूलविद्यां कुण्डलिनीम् ॥
तथा च योगिनीहृदये-
विद्या कुण्डलिनीरूपा मण्डलत्रयभेदिनी ॥ १ ॥
अन्यत्रापि-
ध्यायेत्कुण्डलिनीं सूक्ष्मां मूलाधारनिवासिनीम् ।
तामिस्ट-देवतारूपां सार्द्धत्रिवलयान्विताम् ।
कोटिसौदामिनीभासां स्वयम्भुलिङ्गवेष्टिताम् ।
तामुत्थाय महादेवीं प्राणमन्त्रेण साधकः ।
उद्यद्दिनकरद्योतां यावच्छ्वासं दृढासनः ।
अशेषाशुभशान्त्यर्थं समाहितमनाः शिवम् ।
तत्प्रभापटलव्याप्तं शरीरमै चिन्तयेत् ॥ २ ॥
एतत्स्य नित्यत्वमाह गौतमीये-
इदानीं पूर्वकृत्यञ्च प्रसङ्गात्कथयामि ते ।
यत्कृत्वाधिकारितां याति मन्त्रयन्त्रार्चनादिषु ।
येन विना न सिद्ध्ः स्यान्नरकञ्च प्रपद्यते ॥ ३ ॥
यामले च-
प्रातःकृत्यमकृत्वा तु यो देवीं भक्तितोऽर्चयेत् ।
निष्फला तस्य पूजा स्याच्छौचहीना यथा क्रिया ॥ ४ ॥
लक्ष्मीकुलार्णवेऽपि-
सन्ध्यया तु विहीनो यो न दीक्षाफलमाप्नुयात् ।
इति वचनात्तस्यावश्यकत्वम् ॥ ५ ॥
वैदिकसन्ध्यानन्तरं तान्त्रिकसन्ध्या कर्त्तव्या ।
तदुक्म्-
वैदिकी तान्त्रिकी सन्ध्या यथानुक्रमयोगतः ॥ ६ ॥
अथ सन्ध्याप्रयोगः -
तत्र शक्तिविषये-
ॐ आत्मतत्त्वाय स्वाहा, ॐ विद्यातत्त्वाय स्वाहा, ॐ शिवतत्त्वाय
स्वाहा इत्याचामेत् ।
अन्यत्राचमनमात्रम् ॥
तथा च स्वतन्त्रतन्त्रे-
आत्मविद्याशिवैस्तत्त्वैराचामेत्साधकाग्रणीः ।
वह्निजायां ततो दत्त्वा शुद्धेन पाथसा प्रिये ॥
मालिनीतन्त्रे-
आचामेदात्मतत्त्वाद्यैः प्रणवाद्यैर्द्विठान्तकैरिति ।
ततो जले गङ्गे चेत्यादिना तीर्थमावाह्य मूलेन कुशेन त्रिवारं
भूमौ जलं क्षिपेत् ।
तज्जलेन सप्तधा मूर्द्धानमभिषिञ्चेत् ।
ततः प्राणायामषडङ्गन्यासौ कृत्वा वामहस्ततले जलं
निधाय दक्षिणहस्तेन जलमाच्छाद्य हं यं वं लं रम् इति
त्रिवारमभिमन्त्र्य, मूलमुच्चरन्गलितोदकविन्दुभिस्तत्त्वमुद्रया
मूर्द्धनि सप्तधाभ्युक्षणं कृत्वा, शेषजलं दक्षिणहस्ते
समादाय, तेजोरूपं ध्यात्वा, इडयाकृष्य, देहान्तःपापं
प्रक्षाल्य, कृष्णवर्णं तज्जलं पापरूपं ध्यात्वा, पिङ्गलया
विरेच्य, पुरःकल्पितवज्रशिलायां फडिति मन्त्रेण
पापपुरुषस्वरूपं तज्जलं क्षिपेदित्यघमर्षणम् ।
गङ्गे चेत्यादिमन्त्रं तीर्थेऽपि पठेत्, तीर्थे तदद्विगुणफलमिति
स्मृतेः ।
तथा च गौतमीये-
आचम्य विधिवन्मत्री शुचौ देशे च संविशेत् ।
जले संयोज्य तीर्थानि त्रिवारं मूलमन्त्रतः ।
क्षिपेद्भूमौ कुशाग्रेण सप्तधा मूर्ध्नि सेचयेत् ॥
तन्त्रान्तरे-
पुनराचम्य विन्यस्य षडङ्गमपि धर्मवित् ।
वामहस्ते जलं गृह्य गलितोदकविन्दुभिः ।
सप्तधा प्रोक्षणं कृवा मूर्ध्नि मन्त्रं समुच्चरन् ।
अवशिष्टोदकं दक्षहस्ते सङ्गृह्य बुद्धिमान् ।
इडयाकृष्य देहान्तः क्षालितं पापसञ्चयम् ।
कृष्णवर्णं तदुदकं दक्षनाड्या विरेचयेत् ।
दक्षहस्ते तु तन्मन्त्री पापरूपं विचिन्त्य च ।
पुरतो वज्रपाषाणे निक्षिपेदस्त्रमुच्चरन् ॥ ७ ॥
अन्यत्रापि-
षडङ्गन्यासमाचर्य वामहस्ते जलं ततः ।
गृहीत्वा दक्षिणेनैव सम्पुटं कारयेद्बुधः ।
शिव-वायु-जल-पृथ्वीवह्निबीजैस्त्रिधा पुनः ।
अभिमन्त्र्य च मूलेन सप्तधा तत्त्वमुद्रया ।
निक्षिप्य तज्जलं मूर्ध्नि शेषं दक्षे निधाय च ।
शरीरान्तःस्थितं पापं क्षालयेत्साधकाग्रणीः ॥ ८ ॥ ततोहस्तं
प्राक्षाल्याचम्य ह्रीं हं सः ॐ घृणि सूर्य आदित्य इति मन्त्रेण
वा सूर्यायार्घ्यं दद्यात् ॥
तथा सम्मोहनतन्त्रे-
शिवबीजं वह्निसंस्थं वामनेत्रविभूषितम् ।
विन्दु नादात्मकं देवि हंसः पदमथो लिखेत् ।
अनेन मनुना मन्त्रो भास्करस्य प्रियेण तु ।
अर्घ्यं दद्यादिति शेषः ।
विशेषस्तु स्नानप्रकरणे वक्तव्यः ॥ ९ ॥
ततः ॐ सूर्यमण्डलस्थायै अमुकदेवतायै नमः, इत्यनेन
तद्गायत्र्या वा त्रिवारं जलं निक्षिप्य तत्तद्देवताया गायत्रीं
जपेत् ॥ १० ॥
तथा चार्घ्यानन्तरं ज्ञानार्णवे-
ततश्च प्रजपेद्धीमान्गायत्रीं परमाक्षरीम् ।
गायत्री तु स्नान प्रकरने वक्तव्या ॥ ११ ॥
नन्दिकेश्वरसंहितायाम्-
यावन्न दीयते चार्घ्यं भास्कराय महात्मने ।
तावन्न पूजयेद्विष्णुं शङ्करं वा महेश्वरीम् ॥ १२ ॥
गौतमीये-
एवं ते कथिता मन्त्रसन्ध्या मन्त्रफलाप्तये ।
न कुर्याद्यदि मोहेन न दीक्षाफलमाप्नुयात् ॥ १३ ॥ सन्ध्यात्रयं
तथा कुर्याद्ब्राह्मणो विधिपूर्वकम् ।
तन्त्रोक्तविधिपूर्वन्तु शूद्रः सन्ध्यां समाचरेत् ।
सङ्क्षेपसन्ध्यामथवा कुर्यान्मन्त्री ह्यशक्तितः ।
सायं प्रातश्च मध्याह्ने देवं ध्यात्वा मनुं जपेत् ।
सन्ध्यायां पतितायान्तु गायत्रीं दशधा जपेत् ॥ १४ ॥
अथ स्नान विधिः
नद्यादौ दत्वा वैदिकस्नानं कृत्वा तान्त्रिकस्नानमाचरेत् ॥ १५ ॥
तथा च गौतमीयतन्त्रे-
अथ स्नानं तथा कुर्याद्यथाशास्त्रविधानतः मलप्रक्षालनं
स्नानं स्वशाखोक्तं समाचरेत् ।
मन्त्रस्नानं ततः कुर्यात्कर्मणा सिद्धिहेतवे ॥ १६ ॥
तद्यथा-
ॐ अद्येत्यादि अमुकदेवताप्रीतये स्नानमहं करिष्ये इति सङ्कल्पं
कुर्यात् ॥ १७ ॥
तथा च कुलचुडामणौ-
ताम्रपात्रं सदूर्वञ्च सतिलं सजलं तथा ।
गृहीत्वामुकदेवस्य प्रीतये स्नानामाचरेत् ॥ १८ ॥
ततः षडङ्गन्यास-
प्राणायामौ कृत्वा ॐ गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे ।
सिन्धुकावेरि जलेस्मिन् सन्निधिं कुरु ।
इत्येनेनाङ्कुशमुद्रया सूर्यमण्डलात्तीर्थमावाह्य, वमिति
धेनुमुद्रया अमृतीकृत्य, कवचेनावगुण्ठ्य, अस्तेण संरक्ष्य,
मूलेनैकादशधाभिमन्त्र्य, सूर्याभिमुखं
द्वादशवारिधारां निक्षिप्य,
तस्मिन्निष्ठदेवताचरणारविन्दनिःसृते जले त्रिर्निर्मज्य, देवतां
ध्यायन्मूलमन्त्रं यथाशक्ति जपन्, उदकेन त्रिवारजपेन
कलशमुद्रया त्रिवारमात्मानमभिषिच्य, वैदिकसन्ध्यातपर्णं
कृत्वा, सूर्यार्घ्यं दत्त्वा, तान्त्रिकाघमर्षणादि वारिधारान्तं
कर्म कुर्यात् ॥ १९ ॥
तथा च यामले-
ध्यात्वा जलाञ्जलीन् क्षिप्ता तर्पयेदिष्टदेवताम् ॥ २० ॥
तत्र क्रममाह-
ॐ देवांस्तर्पयामि, ॐ ऋषीस्तर्ययामि, ॐ पितॄंस्तर्पयामि, इति
सन्तर्प्यगुरुं परमगुरुं परापरगुरुं परमेष्ठिगुरुञ्च
तर्पयेत् ॥
तथा च-
देवान् ऋषीन् पितॄंश्चैव तं कल्पोक्तविधानतः ।
गुरुपङ्कि पुरा तर्प्य तर्पयेदिष्टदेवताम् ॥ २१ ॥
विषणवे तु विशेषः ।
नारदं पर्वतं जिष्णुं निशठोद्घवदारुकम् ।
विश्वक्सेनञ्च शैनेयं गुरुञ्च तर्पयेत्रिशः ।
वाक्यन्तु-
ॐ नारदं तर्पयामि इत्यादिक्रमेण प्रयोगः ॥ २२ ॥
ततो मूलमुच्चार्य अमुकदेवतां तर्पयामि नमः इति विष्णुविषयम् ।
तथा च गौतमीये-
आदौ मन्त्रं समुच्चार्य श्रीपूर्वं कृष्णमित्यपि ।
तर्पयामिपदञ्चोक्त्वा नमोन्तं तर्पयेत्ततः ॥ २३ ॥
अन्यत्र मूलमुच्चार्यम् अमुक्तदेवतां तर्पयामि ।
तथा च तन्त्रान्तरे-
तर्पयामिपदं योज्यं मन्त्रान्तेष्वेषु नामसु ।
द्वितीयान्तेषु चेत्येवं तर्पणस्य मनुः स्मृतः ॥ २४ ॥
शक्तिविषये पुनः ।
मूलच्चार्य अमुकदेवीं तर्पयामि स्वाहा ।
होमतर्पणयोः स्वाहेति तत्तन्मन्त्रवचनात् ॥ २५ ॥
तथा च नीलतन्रे-
मन्त्रान्ते नाम उच्चार्य तर्पयामि ततः परम् ।
स्वाहान्तं तर्पयन्त्वेवम् इत्यादि ॥ २६ ॥
विशुद्धेश्वरे-
विद्यां पूर्वं समुच्चार्य तदन्ते देवताभिधाम् ।
तर्पयामीति सम्प्रोक्त्वा स्वाहान्तस्तर्पणे मतः ।
पञ्चविंशतिसङ्ख्या वा दशधा वा त्रिधापि वा ।
मूलमन्त्रं समुच्चार्य श्रीकृष्णं तर्पयेत्सुधीः इति
गौतमीयवचनात्पञ्चविंशतिवारं दशधा त्रिधा वा सन्तर्पयेत्
॥ २७ ॥
अत्र श्रीकृष्णमित्युपलक्षणम् ।
शक्तिविषये त्रिधा तर्पणम् ।
स्नानकर्मणि सम्प्राप्ते मूर्ध्नि मन्त्री जलाञ्जलिम् ।
विद्ययाथ त्रिशः कुर्यात्पूतास्तु त्रिः पयः पिबेत् ॥
तर्पणञ्च त्रिधा भूयस्त्रिधा च प्रोक्षणं तेनोरिति
कुलामृतवचनात् ॥ २८ ॥
ततश्च तदावरणदेवतानां प्रत्येकेन सकृत्तर्पयेत् ।
तथा च कुलार्णवे-
एकैकमञ्जलिं तोयं परिवारान् प्रतर्पयेत् ।
तत्राशक्तश्चेन्मूलमन्त्रमुच्चार्य इष्टदेवतामात्रं तर्पयेत् ॥ २९ ॥
तथा च-
अशक्तौ मूलमुच्चार्य देवीमात्रं प्रतर्पयेत् ॥ ३० ॥
ततो जलादुत्थाय धौते वाससी परिधायाचम्य ह्रीं हंसः
इदमर्घ्यं स्वाहा ।
तारादौ तु ह्रीं हंसः मार्त्तण्डभैरवाय
प्रकाशशक्तिसहिताय इदमर्घ्यं स्वाहा ।
तन्त्रान्तरे-
सूर्यमन्त्रं समुच्चार्य मार्त्तण्डभैरवाय च ।
प्रकाशशक्तिसहिताय इदमर्घ्यं ततः पठेत् ।
स्वाहान्तं मन्त्रमुच्चार्यम् अर्घ्यं दत्वा जपेन्मनुम् ॥ ३१ ॥
श्रीविद्याविषये तु-
ऐं ह्रीं श्रीं ह्रां ह्रीं सः मार्त्तण्डभरवाय
प्रकाशशक्तिसहिताय
ग्रहराशिनक्षत्रतिथियोगकरणपरिवारसहिताय इदमर्घ्यं स्वाहा
इदमर्घ्यं दत्त्वा, तत्तद्देवता गायत्रीं शतधा वा जपेत् ॥ ३२ ॥
तथा च तन्त्रान्तरे-
अष्टोतरशतावृत्त्या गायत्रीं प्रजपेत्सुधीः ।
महापातकयुक्तोऽपि प्रजपेद्दशधा यदि ।
सत्यं महादेवि मुक्तो भवति तत्क्षणात् ।
इति दशधा शक्ताशक्तभेदेन ॥ ३३ ॥
गायत्रीजपानन्तरं सर्पणं वा ।
तथा च-
सूर्यमण्डलवासिन्यै देवतायै ततः परम् ।
अर्घ्यमञ्जलिमादाय गायत्र्या वा त्रिरुत्क्षिपेत् ।
यथाशक्ति जपेद्देवीं गायत्रीं तदनन्तरम् ।
तर्पणार्थं समाचम्य प्राणानायम्य साधकः ।
ध्यात्वा जलाञ्जलि क्षिप्त्वा तर्पयेदिष्टदेवताम् ।
इति यामलवचनात् ॥ ३४ ॥
गायत्री तु-
त्रैलोक्यमोहनाय विद्महे कामदेवाय धीमहि तन्नो विष्णुः
प्रचोदयात् ।
इति विष्णुगायत्री ।
नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् ।
इति नारायणगायत्री ।
वज्रनखाय विद्महे तीक्ष्णदंष्ट्राय धीमहि तन्नो नरसिंहः
प्रचोदयात् ।
इति नृसिंहगायत्री ।
वागीश्वराय विद्महे हयग्रीवाय धिमहि तन्नो हंसः प्रचोदयात् ।
इति हयग्रीवगायत्री ।
गोपालगायत्रि तु-
कृष्णाय विद्महे दामोदराय धीमहि तन्नो विष्णुः प्रचोदयादिति ।
दशरथाय विद्महे सीतावल्लभाय धीमहि तन्नो रामः प्रचोदयात्
।
इति रामगायत्री ।
तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ।
इति शिवगायत्री ।
तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् ।
इति गणेशगायत्री ।
दक्षिणामूर्त्तये विद्महे ध्यानस्थाय धीमहि तन्नो धीशः
प्रचोदयात् ।
इति दक्षिणामूर्तिगायत्री ।
आदित्याय विद्महे मार्त्तण्डाय धीमहि तन्नः सूर्यः प्रचोदयात् ।
इति सूर्यगायत्री ।
कामदेवाय विद्महे पुष्पवाणाय धीमहि तन्नोऽनङ्गः
प्रचोदयात् ।
इति कामदेवगायत्री ।
सर्वसम्मोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः
प्रचोदयात् ।
इति शक्तिगायत्री ।
त्वरितायै विद्महे महानित्यायै धिमहि तन्नो देवी प्रचोदयात् ।
इति त्वरितागायत्री ।
ऐं वागीश्वर्यै विद्महे क्लीं कामेश्वर्यै धीमहि सौस्तनः
शक्तिप्रचोदयात् ।
कालभैरवी गायत्री ।
ऐं त्रिपुरादेव्यै विद्महे क्लीं कामेश्वर्य धीमहि सौस्तनः क्लिन्ने
प्रचोदयात् ।
इति त्रिपुरासुन्दरी गायत्री ।
त्रिपुरायै विद्महे भैरव्यै धीमहि तन्नो देवी प्रचोदयात् ।
इति भैरवीगायत्री ।
महादेव्यै विद्महे दुर्गायै धीमहि तन्नो देवी प्रचोदयात् ।
इति दुर्गागायत्री ।
नारायण्यै विद्महे दुर्गायै धीमहि तन्नो गौरी प्रचोदयात् ।
इति जयदुर्गागायत्री ।
महालक्ष्म्यै विद्महे महाश्रियै धीमहि तन्नः श्रीः प्रचोदयात् ।
इति लक्ष्मीगायत्री ।
वाग्देव्यै विद्महे कामराजाय धीमहि तन्नो देवी प्रचोदयात् ।
इति सरस्वती गायत्री ।
नारायण्यै विद्महे भुवनेश्वर्यै धीमहि तन्नो देवी प्रचोदयात् ।
इति भुवनेश्वरी-गायत्री ।
भगवत्यै विद्महे माहेश्वर्यै धीमहि तन्नोऽन्नपूर्णे प्रचोदयात्
।
इति अन्नपूर्णागायत्री ।
महिषमर्दिन्यै विद्महे दुर्गायै धीमहि तन्नो घोरे प्रचोदयात् ।
इति महिषमर्दिनीगायत्री ।
वैरोचिन्ये विद्महे छिन्नमस्तायै धीमहि तन्नो देवी प्रचोदयात् ।
इति छिन्नमस्तागायत्री ।
कलिकायै विद्महे श्मशानवासिन्यै धिमहि तन्नो देवो प्रचोदयात् ।
इति कालिकागायत्री ।
तारायै विद्महे महोग्रायै धीमहि तन्नो देवी प्रचोदयात् ।
इति तारागायत्री ।
गरुडाय विद्महे सुपर्णाय धीमहि तन्नो गरुडः प्रचोदयात् ।
इति गरुडगायत्री ॥ ३५ ॥
ध्यानन्तु-
प्रातः, उद्यदादित्यसङ्काशां पुस्तकाक्षकरां स्मरेत् ।
कृष्णाजिनधरां ब्राह्मीं ध्यायेत्तारकितेऽम्बरे ॥
मध्याह्ने-
श्यामवर्णा चतुर्बाहुं शङ्खचक्रलसत्कराम् ।
गदापद्मधरां देवीं सूर्यासन-कृताश्रयाम् ॥ ३६ ॥
सायाह्ने वरदां देवीं गायत्रीं संस्मरेद्यतिः ।
शुक्लां शुक्लाम्बरधरां वृषासनकृताश्रयाम् ।
त्रिनेत्रां वरदां पाशं शूलञ्च नृकरोटिकाम् ।
सूर्यमण्लमध्यस्थां ध्यायन् देवीं समभ्यसेत् ॥ ३७ ॥
त्रिपुरादौ ध्यानविशेषो यथा-
प्रातराधारकमले हुतभ्ङ्मण्लोपरि ।
वाग्बीजरूपां विद्याया विद्युत्पटलभास्वराम् ।
पुष्पबाणेक्षुकोदण्डपाशाङ्कुशलसत्कराम् ।
स्वेच्छागृहीतवपुषीं गुरु विद्याक्षरात्मिकाम् ॥ ३८ ॥
मध्याह्ने हृदयाम्भोजकर्णिके सूर्यमण्डले ।
कामबीजात्मिकां देवीमलक्तकरसारुणाम् ।
प्रसूनवाणपुण्ड्रेक्षु-चापपाशाङ्कुशान्विताम् ।
परितः स्वात्ममुख्याभिः षट्त्रिंशत्तत्त्वशक्तिभिः ॥ ३९ ॥
सायमाज्ञासरोजस्थे चन्द्रे चन्द्रसमद्युतिम् ।
शक्तिबीजात्मिकां चाप-बाण-पाशाङ्कुशान्विताम् ।
युगन्तियाक्षराकारां स्फटिकाभरणान्विताम् ।
चिन्तयित्वा भगवतीं नित्याभिः परिवारिताम् ॥ ४० ॥
तारादौ तु-
ह्रीं हंसः इति सूर्यार्घ्यं दत्त्वा, ताम्रादिपात्रे
चन्दनार्ककुसुमापराजिता-पुष्पाणि निक्षिप्य,
उद्यदादित्यमण्डलवर्तिन्यै नित्यचैतन्योदितायै श्रीमदेकजटायै
स्वाहा इत्यर्घ्यं दत्त्वा, गायत्रीं जपेदिति विशेषः ।
तदुक्तं नीलतन्त्रे-
उद्यदादित्यमण्डलवर्त्तिन्यै च समुद्धरेत् ।
नित्यचैतन्योदितायै स्वाहेति च मनुः स्मृतः ।
अन्यत्र कालिकामन्त्रे एकजटापदस्थाने कालिकापदप्रयोगः ॥ ४१ ॥
ततः सूर्यमण्डले देवतां विभाव्य मूलमन्त्रं यथाशक्ति
जप्त्वा, संहारमुद्रया देवतां स्वहृदयमानीय, तीर्थ
नमस्कृत्य, यागस्थानमाविशेदिति स्नानविधिः ॥ ४२ ॥
ततः सामान्यार्घ्यं स्थापनाद्यसनोपवेशनान्तं
दीक्षापद्धत्युक्तं कर्म समाप्य वामे ॐ गुरुभ्यो नमः, ॐ
परमगुरुभ्यो नमः, ॐ परापरगुरुभ्यो नमः ।
दक्षिणे ॐ गणेशाय नमः ।
मूर्ध्नि मूलमुच्चार्य अमुक्तदेवतायै नमः ।
तथा च गौतमीये-
कृताञ्जलिपुटो भूत्वा वामे गुरुत्रयं यजेत् ।
गुरुञ्च परमादिञ्च परापरगुरुन्तथा ।
दक्षपार्श्व गणेशञ्च मूर्ध्नि देवं विभावयेत् ।
ततः पडितिमन्त्रेण गन्धपुष्पाभ्यां करौ संशोध्य
ऊर्ध्वोर्ध्वं तालत्रयं दत्त्वा, छोटिकाभिर्दशदिग्बन्धनं
कृत्वा, रमिति जलधारया वह्निप्राकारं विचिन्त्य भूतशुद्धिं
कुर्यात् ॥ ४३ ॥
तद्यथा-
स्वाङ्के उत्तानो करौ कृत्वा सोऽहमिति हृदयस्थं जीवान्तानं
दीपकलिकाकारं मूलाधारस्थितकुलकुण्डलिन्या सह
सुषुम्नावर्मना मूलाधार-स्वाधिष्ठानमणिपूरकानाहत-
विशुद्धाज्ञाख्यषट्चक्राणि भित्त्वा,
शिरोऽवस्थिताधोमुखसहस्रदलकमलकर्णिकान्तर्गतपरमात्मानि
संयोज्य, तत्रैव पृथिव्यप्ते जीवाय्वाकाश-गन्ध-रस-स्पर्श-
शब्द-नासिका-जीह्वा-चक्षुस्त्वक्-श्रोत्र-वाक्पाणि-पाद-
पायूपस्थ-प्रकृतिमनोबुद्ध्यऽहङ्काररूप-चतुर्विंशति-
तत्त्वानि विलीनानि विभाव्य, यमिति वायुबीजं धूम्रवर्णं
वामनासापुटे विचिन्त्य, तस्य षोडशवारजपेन वायुना
देहमापूर्यं नासापुटौ धृत्वा, तस्यचतुःषष्टिवार जपेन
कुम्भकं कृत्वा, वामकुषिस्थि-कृष्णवर्णपापपुरुषेण सह
देहं संशोष्य तस्य द्वात्रिंशद्वारजपे दक्षिणनासया वायु।य्
रेचयेत् ।
ततो दक्षिणनासापुटे रमिति वह्निबीजं रक्तवर्ण ध्यात्वा, तस्य
षोडशवारजपेन वायुना देहमापूर्यं, नासापुटौ धृत्वा,
तस्य चतुःषष्टिवारजपेन कुम्भकं कृत्वा, वामकुक्षिस्थ-
कृष्णवर्णपापपुरुषेण सह देहं मूलाधारस्थित वह्निना
दग्ध्वा, तस्य द्वात्रिंशद्वारजपेन वामनासया भस्मना सह
वायुं रेचयेत् ॥ ४४ ॥
ठमितिचन्द्रबीजं शुक्लवर्णं वामनासिकायां ध्यात्वा, तस्य
षोडशवारजपेन ललाटे चन्द्रं नीत्वा नासापुटौ धृत्वा, वमिति
वरुणबीजस्य चतुःषष्टिवारजपेन
तस्माल्ललाटचन्द्राद्गलितसुधया मातृकावर्णात्मिकया
समस्तदेहं विरर्च्य, लमिति पृथ्विबीजस्य द्वात्रिंशद्वारजपेन
देहं सुदृढं विचिन्त्य, अक्षिणेन वायुं रेचयेत् ।
मात्रासङ्ख्यया वा ।
तदुक्तं गौतमीये ।
सुषुम्नावर्त्मना सोऽहमिति मन्त्रेण योजयेत् ।
सहस्रारे शिवस्थाने परमात्मनि देशिकः ।
धूर्मवर्णं ततो वायुबीजं षड्विन्दुलाञ्छितम् ।
पूरयेदिडया वायुं सुधीः षोडशमात्रया ।
मात्रया तु चतुःषट्या कुम्भयेच्च सुषुम्नया ।
द्वात्रिंशन्मात्रया मन्त्रो रेचयेत्पिङ्गलाख्यया ।
पूरयेदनया चैव सञ्चिन्त्य नीलमारुतम् ।
रक्तवर्णं वह्निबीजं त्रिकोणं स्वस्तिकान्वितम् ।
तेन पूरकयोगेन मात्रया षोडशाख्यया ।
चतुःषष्ट्या मात्रया च निर्दहेत्कुम्भकेन तु ।
वामपार्श्वस्थितं पापपुरुषं कज्जलप्रभम् ।
ब्रह्महत्याशिरस्कञ्च स्वर्णस्तेय भुजद्वयम् ।
सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् ।
तत्संसर्गि-पदद्वन्द्वमङ्ग-प्रत्यङ्ग-पातकम् ।
उपपातकरोमाणं रक्तश्मश्रु विलोचनम् ।
खड्गचर्मधरं क्रुद्धमेवं कुक्षौविचिन्तयेत् ।
मूलाधारोत्थितेनैव वह्निना निर्दहेच्च तम् ।
एवं सन्दह्य परितो द्वात्रिंशन्मात्रया ततः ।
भस्मना सहितं मन्त्रो रेचयेदिडया पुनः ।
वामनाड्यां चन्द्रबीजं कुन्देन्द्वयुतसप्रभम् ।
भालेन्दुराजे संयोज्य ततः षोडशमात्रया ।
षुषुम्नया चतुःषष्टिमात्रया तोयबीजकम् ।
ध्यात्वामृतमयीं सृष्टिं पञ्चाशद्वर्णरूपिणीम् ।
तया देहं विचिन्त्यैवं मनसा पिङ्गलाध्वना ।
द्वात्रिंशन्मात्रया मन्त्री लं बीजेन दृढं नयेत् ।
स्वस्थाने हंसमन्त्रेण पुनस्तेनैव वर्त्मना ।
जीवं तत्त्वानि चानीय स्वस्थाने स्थापयेत्ततः ।
इति कृत्वा भूतशुद्धिं मातृकान्यासमाचरेत् ॥
ततः हंस इति बीजं स्वहृदयमानीय कुलकुण्डलिनीं पृथिव्यादीनि
यथास्थाने स्थापयेत् ॥ ४४ क ॥
विशेषस्तु शक्तिविषये-
हंस इति जीवादिकं परमशिवे संयोज्य सोऽहमिति मन्त्रेण
स्वस्थानमानयेत् ।
तथा च तन्त्रान्तरे-
सोऽहमेवं समाभास्य जीवं हृदि समानयेत् ॥ ४५ ॥
शूद्रे तु विशेषो वाराहीतन्त्रे-
हंसाख्यं न स्मरेत्शूद्रो भूतशूधो कदाचन ।
स्मरणान्नरकं याति दीक्षा च विफला भवेत् ॥ ४६ ॥
शारदायाम्-
जीवं तेजोमयं ध्यात्वा नमोमन्त्रेण योजयेत् ॥ ४७ ॥
भूतशुद्धिपदव्युत्पत्तिमाह विशुद्धेश्वरे-
शरीराकारभूतानां यद्विशोधनम् ।
अव्ययब्रह्मसंयोगाद्भूतशुद्धिरियं मतेति ॥ ४८ ॥
वाराहीये-
मूलाधारात्ततो जीवं ब्रह्ममार्गेण देशिकः ।
हंसेन पुष्कर स्थाने परमात्मनि योजयेत् ।
ब्रह्ममार्गेण देशिकः ।
हंसेन पुष्करस्थाने परमात्मनि योजयेत् ।
ब्रह्ममार्गः सुषुम्ना ॥ ४९ ॥
त्रिपुरासारसमुच्चये-
संयोज्य जीवमथ दुर्गममध्यनाडीमार्गेण पुष्करनिविष्टशिवे
सुसूक्ष्मे ॥ ५० ॥
तत आं सोऽहम् इति पठित्वा हृदि हस्तं दत्त्वा प्राणप्रतिष्ठां
कुर्यात् ॥
ज्ञनार्णवे-
प्राणप्रतिष्ठया पश्चाज्जीवं देहे नियोजयेत् ।
मुखवृत्तं समुच्चार्यं हंसस्तु विपरीतकम् ।
उद्धरेत्परमेशानि विद्येयं त्र्यक्षरी मता ।
प्राणप्रतिष्ठामन्त्रोऽयं सर्वकर्माणि साधयेत् ।
तेनैव विधिना देवि स्थिरो कुर्यान्निजां तनुम् ॥ ५१ ॥
पुरश्चरणचन्द्रिकायाम्-
अथवान्यप्रकारेण भूतशुद्धिर्विधीयते ।
धर्मकन्दसमुद्भूतं ज्ञाननालसुशोभनम् ।
ऐश्वर्याष्टदलोपेतं परं वैराग्यकर्णिकम् ।
स्वीयहृत्कमलं ध्यायेत्प्रणवेन प्रकाशितम् ।
कृत्वा तत्कर्णिकासंस्थं प्रदीपकलिकानिभम् ।
जीवात्मानं हृदि ध्यात्वा भूले सञ्ञ्चिन्त्य कुण्डलीम् ।
षुषुम्नावर्त्मनात्मानं परमात्मनि योजयेत् ॥ ५२ ॥
अथ मातृकान्यासः
तत्र मातृकाया ऋष्यादिन्यासः ।
अस्य मातृकामन्त्रस्य ब्रह्म-ऋषिर्गायत्रीच्छन्दो मातृकासरस्वती
देवता हलो बीजानि स्वराः शक्तयो मातृकान्यासे विनियोगः ।
शिरसि ॐ ब्रह्मणे ऋषये नमः, मुखे ॐ गायत्रीच्छन्दसे नमः,
हृदि ॐ मातृकासरस्वत्यै देवतायै नमः, गुह्ये ॐ व्यञ्जनेभ्यो
बीजेभ्यो नमः, पादयो ॐ स्वरेभ्यः शक्तिभ्यो नमः ।
तथा च ज्ञानार्णवे-
मातृकां शृणु देविशि न्यसेत्पापनिकृन्तनीम् ।
ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्रीच्छन्द उच्यते ।
देवता मातृका देवी बीजं व्यञ्जनमुच्यते ।
शक्तयस्तु स्वरा देवि षडङ्गन्यासमाचरेत् ।
ततः कराङ्गन्यासो-
अं कं खं गं घं ङम् आम् अङ्गुष्ठाभ्यां नमः ।
इं चं छं जं झं ञम् ईं तर्जनीभ्यां स्वाहा ।
उं टं ठं डं ढं णम् ऊं मध्यमाभ्यां वषट् ।
एं तं थं दं धं नम् ऐम् अनामिकाभ्यां हुम् ।
ॐ पं फं बं भं मम् औं कनिष्ठाभ्यां वौषट् ।
अं यं रं लं वं शं षं सं हं लं क्षम् अः
करतलऋष्ठाभ्यां फट् ।
एवं हृदयादिषु ।
अं कं खं गं घं ङम् आं हृदयाय नमः इत्यादि क्रमेण
न्यसेत् ।
तथा च ज्ञार्णवे-
अम् आं मध्ये कवर्गन्तु इम् ईं मध्ये चवर्गकम् ।
उम् ऊं मध्ये टवर्गन्तु एम् ऐं मध्ये तवर्गकम् ।
ॐ औं मध्ये पवर्गन्तु विन्दुयुक्तं न्यसेत् प्रिये अनुस्वार-
विसर्गान्तौ यशवगौ सलक्षकौ ।
हृदयञ्च शिरो देवि शिखा कवचकं तथा ।
तेत्रमन्त्रं न्यसेत् ङेऽन्तं नमः स्वाहा क्रमेण तु ।
वषट् हुं वौषडन्तञ्च फडन्तं योजयेत्प्रिये ।
षडङ्गोऽयं मातृकायाः सर्वपापहरः स्मृतः ॥
अथान्तर्मातृका अगस्त्यसंहितायाम्-
एकैकवर्णानेकैकपत्रान्ते विन्यसेत्प्रिये ।
अकारादिषोडशस्वरान् सविन्दून्षोडशदलकमले कण्ठमूले
न्यसेत् ।
ककारादि-द्वादशवर्णान् दशकमले नाभौ त्यसेत् ।
वकारादिषड्वर्णान् सविन्दून् षडदलकमले लिङ्गमूले न्यसेत् ।
वकारादि चतुरोवर्णान् सान्ताञ्चतुर्दलकमले मूलाधारे न्यसेत् ।
हक्षवर्णद्वयं द्विदलकमले भ्रूमध्ये न्यसेत् ।
तथा च ज्ञानार्णवे-
द्व्यष्टपत्राम्बुजे कण्ठे स्वरान् षोडश विन्यसेत् ।
द्वादशच्छदहृत्पद्मे कादीन्द्वादश विन्यसेत् ।
दशपत्राम्बुजे नाभौ डकारादीन्न्यसेद्दश ।
षट्पत्रमध्ये लिङ्गस्थे वकारादीन्न्यसेच्च षट् ।
आधारे चतुरो वर्णान्न्यसेद्वादीञ्चतुर्दले ।
हक्षौ भ्रूमध्यगे पद्मे द्विदले विन्यसेत्प्रिये ।
इत्यन्तर्मार्तृकां न्यस्य सर्वाङ्गन्यासमाचरेत् ॥ ५३ ॥
अगस्त्यसंहितायाम्-
एकैकवर्णमेकैकपत्रान्ते विन्यसेत्प्रिये ।
एवमन्तः प्रविन्यस्य मनसातो वहिर्न्यसेत् ।
वैष्णवे तु विशेषः-
एकैकं वर्णमुच्चार्यं मूलाधाराच्छिरोऽन्तकम् ।
नमोऽन्त इति विन्यास आन्तरः परिकीर्तितः ।
तथा-
अथान्तर्मातृकान्यासो मूलाधारे चतुर्दले ।
सुवर्णाभे व श ष स चतुर्वर्णविभूषिते ।
षड्दले वैद्युतनिभे स्वाधिष्ठानेऽनलत्विषि ।
ब भ मैर्यरलैर्युक्ते वर्णः षड्भिश्च सुव्रते ।
मणिपूरे दशदले नीलजीमूतसन्निभे ।
डादिफान्तर्दलैर्युक्ते विन्दूद्भासितमस्तकैः ।
अनाहते द्वादशारे प्रवालरुचिसन्निभे ।
कादिठान्तदलैर्युक्ते योगिनां हृदयङ्गमे ।
विशुद्धे षोडशदले धूम्राभे स्वरभूषिते ।
आज्ञाचक्रे तु चन्द्राभे द्विदले हक्षलाञ्छिते ।
सहस्रारे हिमानिभे सर्ववर्णविभूषिते ।
अकथादिवित्रिरेखात्महलक्षत्रयभूषिते ।
तन्मध्ये परविन्दुञ्च सृष्टिस्थितिलयात्मकम् ।
एवं समाहितमना ध्यायेन्न्यासोऽयमान्तरः ॥ ५३ क ॥
वाह्यमातृकाध्याम्
अथ वाह्यमातृकाध्याम् -
पञ्चाशल्लिपिभिर्विभक्तमुखदोःपन्मध्यवक्षःस्थलाम् ।
भास्वन्मौलि निबद्ध-चन्द्रशकलामापीनतुङ्गस्तनीम् ।
मुद्रामक्षगुणं सुधाढ्यकलसं विद्याञ्च
हस्ताम्बुजैर्विभ्राणां विशदप्रभां त्रिनयनां
वाग्देवतामाश्रये ।
एवं ध्यात्वा न्यसेत् ।
तत्र अङ्गुलिनियमतन्त्रे-
ललाटेऽनामिकामध्ये विन्यासेन्मुखपङ्कजे ।
तर्जनीमध्यमानामा वृद्धानामे च नेत्रयोः ।
अङ्गुष्ठं कर्णयोर्न्यस्य कनिष्ठाङ्गुष्ठको नसोः ।
मध्यास्तिस्रो गण्डयोस्तु मध्यमाञ्चोष्ठयोर्न्यसेत् ।
अनामां दन्तयोर्न्यस्य मध्यमामुत्तमाङ्गके ।
मुखेऽनामां मध्यमाञ्च हस्ते पादे च पार्श्वयोः ।
कनिष्ठानामिकामध्यास्तास्तु पृष्ठे च विन्यसेत् ।
ताः साङ्गुष्ठा नाभिदेशे सर्वाः कुक्षौ च विन्यसेत् ।
हृदये च तलं सर्वमंसयोश्च ककुत्स्थले तलमेव च ।
एताश्च मातृकामुद्राः रमेण परिकीर्तिताः ॥ ५४ ॥
नित्यत्वमाह तत्रैव-
अज्ञात्वा विन्यसेद्यस्तु न्यासः स्यात्तस्य निष्फलः ।
इति ।
स्थानमाह गौतमीये-
ललाटमुखवृत्ताक्षिश्रुतिघ्राणेषु गण्डयोः ।
ओष्ठदन्तोत्तमाङ्गास्यदोःपत्सन्ध्यग्रकेषु च ।
पार्श्वयोः पृष्ठतो नाभौ जठरे हृदयेऽङ्के ।
ककुद्यंसे च हृत्पूर्वपाणिपादयुगे तथा ।
जठराननयोर्न्यस्येन्मातृकावर्णान्यथाक्रमम् ।
तद्यथा-
अं नमो ललाटे, आं नमो मुखवृत्ते, इम् ईं चक्षुषोः, उम् ऊं
कर्णयोः, ऋं ॠं नसोः, ऌं ॡ गण्डयोः, एम् ओष्ठे, ऐम् अधरे,
ॐ ऊर्ध्वदन्ते, औम् अधोदन्ते, अं ब्रह्मरन्ध्रे, अः मुखे ।
कं दक्षबाहुमूले, खं कूर्परे, गं मणिबन्धे, घम्
अङ्गुलिमूले, ङम् अङ्गुल्यग्रे ।
एवं चं छं जं झं ञं वामबाहुमूलसन्ध्यग्रकेषु ।
एवं टं ठं डं ढं णं दक्षपादमूलसन्ध्यग्रकेषु ।
एवं तं थं दं धं नं वामपादमूलसन्ध्यग्रकेषु ।
पं दक्षपार्श्वे, फं वामपार्श्वे, वं पृष्ठे, भं नाभौ,
मम् उदरे, यं हृदि, रं दक्षबाहुमूले, लं ककुदि, वं
वामबाहुमूले, शं हृदादिदक्षकरे, यं हृदादिवामकरे, सं
हृदादिदक्षपादे, हं हृदादिवामपादे, लं हृदाद्युदरे, क्षं
हृदादिमुखे, सर्वत्र नमोऽन्तेन न्यसेत् ॥
तथा च-
ओमाद्यन्तो नमोऽन्तो वा सविन्दुर्विन्दुवर्जितः ।
पञ्चाशद्वर्णविन्यासः क्रमादुक्तो मनीषिभिः ।
इति राघवभट्टः ॥ ५४ क ॥
अथ संहारमातृक्कान्यासः
अस्या ध्यानं यथा-
अक्षस्रजं हरिणपोतमुदग्रटङ्कं, विद्यां करैरविरतं
दधतीं त्रिनेत्राम् ।
अर्द्धेन्दुमौलिमरुणामरविन्दरामां वर्णेश्वरीं प्रणमतः
स्तनभारनम्राम् ।
न्यासस्तु क्षकरादि अकारान्तः ।
यथा-
क्षं नमो हृदादिमुखे इत्यादि ।
अपरञ्च-
चतुर्द्धा मातृका प्रोक्ता केवला विन्दुसंयुता ।
सविसर्गा सोभया च रहस्यं शृणु कथ्यते ।
विद्याकरी केवला च सोभया भुक्तिदायिनी ।
पुत्रदा सविसर्गा तु सविन्दुर्वित्तदायिनी ।
विशुद्धेश्वरे-
वाग्भवाद्या च वाक्सिद्ध्ये रमाद्या श्रीप्रवृद्धये ।
हृल्लेखाद्या सर्वसिद्ध्यै कामाद्या लोकवश्यदा ।
श्रीकण्ठाद्यानिमान्न्यस्येत्सर्वमन्त्रः प्रसीदति ॥ ५५ ॥
श्रीविद्याविषयेनवरत्नेश्वरे-
वाग्भवाद्या नमोऽन्ताश्च न्यस्तव्या मातृकाक्षराः ।
श्रीविद्याविषये मन्त्री वाग्भवाद्यष्टसिद्धये ॥ ५६ ॥
नित्यतामाह यामले-
भूतशुद्धिलिपिन्यासौ विना यस्तु प्रपूजयेत् ।
विपरीतफलं दद्यादभक्त्या पूजनं यथा ॥ ५७ ॥
सामान्यन्यासे अङ्गुलिनियमस्तु गौतमीये-
मनसा वा न्यसेन्न्यासान् पुष्पेणैवाथ वा मुने ।
अङ्गुष्ठानामिकाभ्यां वा चान्यथा विफलं भवेत् ॥ ५८ ॥
विशेषन्यासे तु नायं नियमः ।
श्यामादिविद्यायां विशेषमातृकान्यासो वक्तव्यः ॥ ५९ ॥
प्राणायामे अङ्गुलिनियमस्तु ज्ञानार्णवे-
भूतशुद्धिं ततः कुर्यात्प्राणायामक्रमेण च ।
कनिष्ठानामिकागुष्ठैर्यन्नासापुटधारणम् ।
प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना ॥ ६० ॥
प्राणायामो द्विविधः-
सगर्भो निर्गर्भश्च ।
तथा च-
सगर्भो मन्त्रजापेन निर्गर्भो मात्रया भवेत् ॥ ६१ ॥
मात्रा च-
वामजानुनि तद्धस्तभ्रामणं यावता भवेत् ।
कालेन मात्रा साज्ञेया मुनिभिर्वेदपारगैऽ ॥ ६२ ॥
अथ प्राणायामः
मूलमन्त्रस्य बीजस्य प्रणवस्य वा षोडशवारजपेन
वामनासापुटेन वायुं पूरयेत् ।
तथा च कालीहृदये-
प्राणायामत्रयं कुर्यान्मूलेन प्रणवेन वा ।
अथवा मन्त्रबीजेन यथोक्तविधिना सुधीः ।
तस्य चतुःषष्टिवारजपेन वायुं कुम्भयेत् ।
तस्य द्वात्रिंशद्वारजपेन वायुं रेचयेत् ।
पुनर्दक्षिणेनापूर्य उभाभ्यां कुम्भयित्वा वामेन रेचयेत् ।
पुनर्वामेनापूर्य उभाभ्यां कुम्भयित्वा दक्षिणेन रेचयेत् ।
यथासारसमुच्चये-
विपरीतमतो विदधीत बुधः पुनरेव तु तद्विपरीतकमिति ।
यौगिके पुनर्मात्रानियमः ॥ ६३ ॥
तथा च गौतमीये-
मन्त्रप्राणायामः प्रोक्तो यौगिकं कथयामि ते ।
पूरयेद्वामया विद्वान्मात्रषोडशसङ्ख्यया ।
इत्यादि ।
यद्वा-
चतुःषोडशाष्टवारजपे पूरकादिकं कुर्यात् ।
अथवा एकचतुर्द्विवारेण ।
तथा च तन्त्रान्तरे-
पूजयेत्षोडशभिर्वायुं धारयेच्च चतुर्गुणैः ।
रेचयेत्कुम्भकार्द्धेन अशक्त्या तत्तुरीयकैः ।
तदशक्तौ तच्चतुर्थमेवं प्राणस्य संयमः ।
अस्य नित्यत्वमाह स एव-
प्राणायामं विना मन्त्रपूजने न हि योग्यता ।
निबन्धे-
आदावन्ते च यत्नेन प्राणायामं समाचरेत् ।
कर्मस्वपि समस्तेषु शुभेष्वप्यशुभेषु च ।
गोपाले तु विशेषो वक्तव्यः ॥ ६३ क ॥
अथ पीठन्यासः
ॐ आधारशक्तये नम, प्रकृतये, कूर्माय, अनन्ताय, पृथिव्यै
क्षीरसमुद्राय, श्वेतद्वीपाय, मणिमण्डपाय, कल्पवृक्षाय,
मणिवेदिकायै, रत्नसिंहासनाय ।
एतत्सर्वं हृदि ।
ततो दक्षिणस्कन्धे धर्माय, वामस्कन्धे ज्ञानाय, वामोरौ
वैराग्याय, दक्षिणोरौ ऐश्वर्याय, मुखे अधर्माय, वामपार्श्वे
अज्ञानाय, नाभौ अवैराग्याय, दक्षिणपार्श्वे अनैश्वर्याय,
सर्वत्र प्रणवादिनमोऽन्तेन न्यसेत् ।
तथा च शारदायाम्-
अंसोरुयुग्मयोर्विद्वान्प्रादक्षिण्येन साधकः ।
धर्मं ज्ञानञ्च वैराग्यमैश्वर्यं क्रमशः सुधीः ।
मुखपार्श्व-नाभिपार्श्वेष्वधर्मादीन्प्रकल्पयेदिति ।
पुनश्च हृदि ॐ अनन्ताय नमः, एवं पद्माय, अं
सूर्यमण्डलाय द्वादशकलात्मने नमः, उं सोममण्डलाय
षोडशकलात्मने नमः, मं वह्निमण्डलाय दशकलात्मने
नमः, सं सत्त्वाय, रं रजसे, तं तमसे, आम् आत्मने, अम्
अन्तरात्मने, पं परमात्मने, ह्रीं ज्ञानात्मने ।
सर्वत्र नमः, इत्यन्तं विन्यस्य हृत्पद्मस्य पूर्वादिकेशरेषु
तत्तत्कल्पोक्त पीठशक्तीर्मध्ये पीठमनुञ्च न्यसेत् ॥ ६४ ॥
शारदायाम्-
ननन्तं हृदये पद्मं तस्मिन्सूर्येन्दुपावकान् ।
एषु स्वस्वकलां न्यस्य नामाद्यक्षरपूर्वकम् ।
सत्त्वादीन्त्रिगुणान्न्यस्य तथैवात्र गुरूत्तमः ।
आत्मानमन्तरात्मनं परमात्मानवेम्व च ।
ज्ञानात्मानं प्रविन्यस्य न्यसेत्पीठमनुं तत्तः ॥ ६४ क ॥
अथ ऋष्यादिन्यासः
ऋषिस्तु-
महेश्वरमुखाज्ज्ञात्वा यः साक्षात्तपसा मनुम् ।
संसाधयति शुद्धात्मा स तस्य ऋषिरीरितः ॥ ६५ ॥
गुरुत्वान्मस्तके चास्य न्यासस्तु परिकीर्तितः ॥ ६६ ॥
सर्वेषां मन्त्रतत्त्वानां छादनाच्छन्द उच्यते ।
अक्षरत्वात्पदत्वाच्च मुखे छन्दः समीरितम् ॥ ६७ ॥
सर्वेषामेव जन्तूनां भाषणात्प्रेरणात्तथा ।
हृदयाम्भोजमध्यस्था देवता तत्र तां न्यसेत् ॥ ६८ ॥
ऋषिच्छन्दोऽपरिज्ञानान्न मन्त्रफलभाग्भवेत् ।
दौर्बल्यं याति मन्त्राणां विनियोगमजानताम् ॥ ६९ ॥
तन्त्रान्तरे-
ऋषिं न्यसेन्मूर्ध्नि देशे छन्दस्तु मुखपङ्कजे ।
देवतां हृदये चैव बीजन्तु गुह्यदेशके ।
शक्तिञ्च पादयोश्चैव सर्वाङ्गे कीलकं न्यसेत् ॥ ७० ॥
ततस्तु तत्तन्मन्त्रोक्तन्यासान्कुर्यात् ।
तदुक्तं कुलार्णवे-
आगमोक्तेन विधिना नित्यं न्यासं करोति यः ।
देवताभावमाप्नोति मन्त्रसिद्धिः प्रजायते ॥ ७१ ॥
यो न्यासकवच्छन्नो मन्त्रं जपति तं प्रिये ।
दृष्ट्वाविघ्नाः पलायन्ते सिंहं दृष्ट्वा यथा गजाः ॥ ७२ ॥
अकृत्वा न्यासजालं यो मूढत्वात्प्रजपेन्मनुम् ।
सर्वविघ्नैः स बाध्यः स्याद्व्याघ्रैर्मृगशिशुर्यथा ॥ ७३ ॥
षडङ्गन्यासे अगुलिनियमस्तु -
त्रिद्व्येकदशक-त्रिद्विसङ्ख्यया शैलसम्भवे ।
अङ्गुलीनामिति वचनादिति सर्वत्र साधारणम् ॥ ७४ ॥
यामले-
हृदयं मध्यमानामातर्जनीभिः स्मृतं शिरः ।
मध्यमातर्जनीभ्यां स्यादङ्गुष्ठेन शिखा तथा ।
दशभिः कवचं प्रोक्तं त्रिसृभिर्नेत्रमीरितम् ।
प्रोक्ताङ्गुलीभ्यामन्त्रं स्यादङ्गकॢप्तिरियं मता ।
इति ।
तिसृभिस्तर्जनीमध्यमानामाभिः ॥ ७५ ॥
तर्जनीमध्यमानामा प्रोक्तानेत्रत्रये क्रमात् ।
यदि नेत्रद्वयं प्रोक्तं तदा तर्जनीमध्यमे ।
इति राघवभट्टधृतवचनात् ॥ ७६ ॥
हृदयादिषु विन्यस्येदङ्गमन्त्रांस्ततः सुधीः ।
हृदयाय नमः पूर्व शिरसे वह्निवल्लभा ।
शिखायै वषडित्युक्तं कवचाय हुमीरितम् ।
नेत्रत्रयाय वौषट् स्यादस्त्राय फडिति क्रमात् ।
षडङ्गमन्त्रानित्युक्तान् षडङ्गेषु नियोजयेत् ॥ ७७ ॥
पञ्चाङ्गानि मनोयन्त्र तत्र नेत्रमनुं त्यजेत् ।
इति शारदावचनम् ॥ ७८ ॥
वैष्णवे तु -
अनङ्गुष्ठा ऋजवो हस्तशाखा भवेन्मुद्रा हृदये शीर्षकेऽपि च ॥
अधोङ्गुष्ठा खलु मुष्टिः शिखायां करद्वन्द्वाङ्गुलयो
वर्मणि स्युः ।
नाराचमुष्ट्युद्धृतबाहुयुग्मकाङ्गुष्ठतर्जन्युदितो ध्वनिस्तु ।
विश्वग्विषक्तः कथितास्त्रमुद्रा यत्राक्षिणी तर्जनीमध्यमे च ॥ ७८ ॥
नेत्रत्रयं यत्र भवेदनामा षडङ्गमुद्रा कथिता यथावत् ।
अङ्गहीनस्य मन्त्रस्य स्वेनेवाङ्गानि कल्पयेत् ।
तथा च ब्रह्मयामले -
स्वनामाद्यक्षरं बीजं सर्वेषामभिधीयते ॥ ८० ॥
ततस्तत्तत्कल्पोक्तमुद्रां प्रदर्श्य ध्यानं कृत्वा मानसैः
सम्पूज्य शङ्खस्थापनं कुर्यात् ।
तथा च सनत्कुमारतन्त्रे - अकृत्वा मानसं यागं न
कुर्याद्वहिरर्चनम् ॥ ८१ ॥
शङ्खस्थापन्तु दीक्षाप्रकरणे उक्तम् ॥ ८२ ॥
ततः शरीरे धर्मादिपूजा ।
तथा च शारदायाम् -
न्यासक्रमेण देहेषु धर्मादीन्पूजयेत्ततः ।
पुष्पाद्यैः पीठमन्वन्तं तस्मिश्च परदेवताम् ।
इति दर्शनात्शरीरे पीठपूजा ॥ ८३ ॥
ततः पीठपूजा ।
पीठस्योत्तरे गुरुपङ्क्तीः पूजयेत् ।
यथा -
वायव्यादीशपर्यन्तं ॐ गुरुभ्यो नमः, ॐ परमगुरुभ्यो नमः,
ॐ परापरगुरुभ्यो नमः, ॐ परमेष्ठिगुरुभ्यो नमः ॥ ८४ ॥
त्रिपुरादौ तु विशेषगुरुपूजा वक्तव्या ॥ ८५ ॥
ततः पीठमध्ये ॐ आधारशक्तये नमः, एवं प्रकृतये,
कूर्माय, शेषाय, पृथिव्यै, क्षीरसमुद्राय, श्वेतद्वीपाय,
मणिमण्डपाय, कल्पवृक्षाय, मणिवेदिकायै, रत्नसिंहासनाय ।
अग्निकोणे धर्माय ।
निर्-ऋतिवाय्वीशानेषु ज्ञानम् ऐश्वर्यञ्च पूजयेत् ।
ततः पूर्वादिचर्तुदिक्षु
अधर्माज्ञानावैराग्यानैश्वर्यान्पूजयेत् ।
मध्ये अनन्तादि ह्रीं ज्ञानात्मने नमः ।
इत्यन्तं सम्पूज्य पूर्वादि-केशरेषु मध्ये तत्तत्कल्पोक्त
पीठशक्तीः सम्पूज्य मध्ये पीठमनुं प्रपूजयेत् ।
क्रमदीपिकायाम् - वायव्यादीशपर्यन्तम् अर्च्या पीठस्योत्तरे
गौरवी पङ्क्तिरादौ ।
पूज्योऽन्यत्राप्याम्बिकेयः कराब्जैः पाशं दण्डं सृण्भीती
दधानः ।
आरभ्याधारशक्त्याद्यमरचरणपावध्यतो मध्यभागे,
धर्मादीन् वह्निरक्षःपरमशिवगतान्दिक्ष्वधर्मादिकांश्च ।
मध्ये शेषाब्जविम्बत्रितयगुणगुणात्मस्रजं केशराणां,
मध्ये मध्ये च शक्तीर्नव समभियजेत्पीठमन्त्रेण भूयः ॥ ८६ ॥
तारादिविद्यादौ तु विशेषो वक्तव्यः ॥ ८७ ॥
पूर्वादि-दिङ्नियमस्तु यामले-
पूज्यपूजकयोर्मध्यं प्राचीति कीर्त्त्यते बुधैः ।
तद्दक्षिणं दक्षिणं स्यादुत्तरं चोत्तरं स्मृतम् ।
पृष्ठन्तु पश्चिमं ज्ञेयं सर्वत्रैव प्रयोजयेत् ।
स्पष्टमाह शाम्ववीये-
स्वसम्मुखं भवेत्प्राचो देवीपृष्ठन्तु पश्चिमम् ।
सव्यञ्च दक्षिणं विद्याद्दक्षिणञ्चोत्तरं मतम् ॥ ८८ ॥
भावचुडामणौ-
साधकेच्छावशाद्देवि सर्वदिङ्मुखदेवता ।
रात्रावुदङ्मुखः कुर्याद्देवकार्यं सदैव हि ।
शिवार्चने सदाप्येवं शुचिः कुर्यादुदङ्मुखः ।
विष्णुविषये वाराहीये-
स्नातः शुक्लाम्बरधरः स्वाचान्तः पूर्वदिङ्मुखः ।
अनेन विधिना मन्त्री पूर्वादौ पूजनं चरेत् ॥ ८९ ॥
अविशेषे यन्त्रनियमस्तु मत्स्यसूक्ते-
अनुक्तकल्पे यन्त्रन्तु लिखेत्पद्मं दलाष्टकम् ।
षट्कोणकर्णिकं तत्र वेदद्वारोपशोभितम् ॥ ९० ॥
ततः पुनर्ध्यात्वा दीक्षापद्धत्युक्तक्रमेण आवाहनादि
प्राणप्रतिष्ठान्तं कर्म कुर्यत् ॥ ९१ ॥
आवाहने तु विशेषो यथा आगमकल्पद्रुमे-
मूलमन्त्रं समुच्चार्य सुषुम्नावर्त्मना सुधीः ।
आनीय तेजः स्वस्थानान्नसिकारन्ध्रनिर्गतम् ।
करस्थमातृकाम्भोजे चैतन्यं पुष्पसञ्चये ।
संयोज्य-यन्त्रमध्ये तत्संस्थाप्यावाहयेत्ततः ॥ ९२ ॥
ततः षोडशोप"चारैः पञ्चोपचारैर्वा पूजयेत् ॥ ९३ ॥
षोडशोपचारनियमस्तु-
आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ।
मधुपर्काचमनस्नानवसनाभरणानि च ।
सुगन्धसुमनोधूपदीपनंवेद्यवन्दनम् ।
प्रयोजयेदर्चनायामुपचारस्तु षोडशः ॥ ९४ ॥
अथवा एषामप्यभावे पञ्चोपचारान् कल्पयेत् ।
गन्धादयो नैवेद्यान्ता पूजा पञ्चोपरचारिका इति ॥ ९५ ॥
विष्णुविषये तु-
अर्घ्याद्याः पञ्चपञ्चैव गन्धाया इति भेदतः ।
प्रयोजयेदर्चनायामुपचारान्दश क्रमात् ॥ ९६ ॥
ततः पुष्पपर्यन्तमुपचार तत्तन्मन्त्रेण दत्त्वा षडङ्गेन पूजयेत्
॥ ९७ ॥
पुष्पदाने तु विशेषः-
पुष्पं वा यदि वा पत्रं फले नेष्ठमधोमुखम् ।
दुःखदं तत्समाध्यातं यथोत्पन्नं तथार्पणम् ।
अधोमुख फलं नेष्टं पुष्पाञ्जलिविधौ न च ।
सर्वस्व द्रव्यदानेऽयं क्रमः ।
आदौ मूलं ततो द्रव्यं देवतायै ततः पदम् ।
श्रीतत्त्वचिन्तामणौ-
हृद्वह्निवल्लभातोयमन्त्रं पाद्यादिषु क्रमात् ।
नमो वौषट् गन्धपुष्पे हृदान्यानि निवेदयेत् ।
मूलमुच्चार्य एतत्पाद्यम् अमुकदेवतायै नमः ।
इत्यादिना स्यात् ॥ ९८ ॥
ततो मूर्द्धहृद्गुह्यपादसर्वाङ्गकेषु मूलेन
पञ्चपुष्पाञ्जलीन दत्त्वा तत्तत्कल्पोक्तावरणपूजां कुर्यात् ।
तथा च-
पञ्चपुष्पाञ्जलीन् दत्त्वा परिवारार्चनं चरेदिति भट्टः ।
ततो धूपदीपौ दद्यात् ॥ ९९ ॥
तद्यथा-
जयध्वनि-मन्त्रमातः र्वाहेति पुष्पाक्षतैर्घण्टां सम्पूज्य,
वामहस्तेन तां वादयन्, तत्तन्मन्त्रेण नीचैर्धूपम् एवं
दृष्टिपर्यन्तं दीपं दद्यात् ॥ १०० ॥
ततो मूलेन पुष्पाञ्जलित्रयं दत्त्वा, नैवेद्यमानीय, फडिति
सम्प्रोक्ष्य, चक्रमुद्रया अभिरक्ष्य, तदुपरि मूलमष्टधा जप्त्वा
धुनुमुद्रया अमृतीकृत्य, मूलमुच्चार्य नैवेद्यं दद्यात् ।
यत्तोयमध्यम्पात्रस्य तदादाय निवेदयेत् ।
अन्यतोयैर्यदुत्सृष्टमर्घ्यपात्रस्थितेतरैः ।
न गृह्णाति महादेवो दत्तं विधिशतैरपि ।
इति वचनादुपारानर्घ्यपात्रस्थलेनोत्सृज्य दद्यात् ॥ १ ॥
ततः पुनराचमनीयं दत्त्वा ताम्बूलादीन् दद्यात् ।
वैष्णवे तु नैवेद्ये विशेषो वक्त्रव्यः ॥ २ ॥
ततः सपरिवारां देवता गन्धादिभिरभ्यर्च्यं, नृत्यगीतैर्देवं
सन्तोष्य, जय जयेत्युक्त्वा, विशेषार्घ्यं दत्त्वा पुष्पाञ्जलिं
दद्यात् ॥ ३ ॥
दाने तु-
आदौ मूलं ततो द्रव्योल्लेखः ततः सम्प्रदानं
ततस्त्यागार्थवं पदमिति सर्वत्र ।
तथा च कुलार्णवे-
आदौ मूलं समुच्चर्यं पश्चाद्देयं समुच्चरेत् ।
सम्प्रदानं तदन्ते तु त्यागार्थकपदन्ततः ।
एवं क्रमेण देवेशि उपचारान्प्रकल्पयेत् ।
मन्त्राते कर्मसन्निपात इति न्यायात् ॥ ४ ॥
ततश्चुलूकोदकमादाय ॐ इतः पूर्वं
प्राणबुद्धिदेहधर्माकारतो जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा
वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत्स्मृतं यदुक्तं
यत्कृतं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा, मां मदीयं
सकलं सम्यगमुकदेवतायै समर्पयेत् ॐ तत्सत् ।
नमस्कारानन्तरं वा ॥ ५ ॥
ततोऽष्टोत्तरसहस्रं शतं वा जप्त्वा ॐ गुह्यतिगुह्यागोप्ता त्वं
गृहणस्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादात्त्वयि स्थिते ।
अन्यत्र गोप्त्री देवीति विशेषः ।
इति जपं समर्प्यं स्तुत्वा नत्वाऽष्टाङ्गप्रमाणं कुर्यात् ॥ ६ ॥
अष्टाङ्गप्रणामो यथा-
पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा ।
वचसा मनसा चैव प्रणामोऽष्टाङ्ग ईरितः ॥ ७ ॥ बाहुभ्याञ्चैव
जानुभ्यां शिरसा वचसा दृशा ।
पञ्चाङ्गोऽयं प्रणामः स्यात्पूजासु प्रवराविमौ ॥ ८ ॥ भूमौ
निपत्य यः कुर्यात्कृष्णेऽष्टाङ्गनतिं सुधीः ।
सहस्रजन्मजं पापं त्यक्त्वा वैकुण्ठमाप्नुयात् ॥ ९ ॥
तथा च-
वेदविद्भ्यो धरा दत्त्वा यत्फलं लभते नरः ।
तत्फलं लभते भक्त्या कृष्णे कृत्वा प्रदक्षिणम् ।
कृष्ण इत्युपलक्षणम् ॥
विश्वसारे-
शङ्खहस्तेन सर्वत्र प्रदक्षिणं प्रकीर्तितम् ॥ १० ॥
नतिविशेषस्तु यामले-
त्रिकोणकारा सर्वत्र नतिः शक्तेः प्रकीर्तित्तिता ।
दक्षिणाद्वारवीं गत्वा दिशस्तस्माच्च शाम्भवीम् ।
ततश्च दक्षिणं गत्वा नमस्कारस्त्रिकोणवत् ॥ ११ ॥
अर्द्धचन्द्रं महेशस्य पृष्ठतश्च समीरिता ।
शिवप्रदक्षिणे मन्त्री अर्द्धचन्द्रक्रमेण तु ।
सव्यासव्यक्रमेणैव सोमसूत्रं न लङ्घयेत् ।
सोमसूत्रं जलनिःसरणस्थानम् ॥ १२ ॥
प्रसार्य दक्षिणं हस्तं स्वयं नम्रशिराः पुनः ।
दर्शयेद्दक्षिणं पार्श्वं मनसाऽपि विचक्षणः ।
त्रिधा च वेष्टयेत्सम्यग्देवतायाः प्रदक्षिणे ॥ १३ ॥
एकहस्तप्रणामश्च एकं वाऽपि प्रदक्षिणम् ।
अकाले दर्शनं विष्णोर्हन्ति पुण्यं पुराकृतम् ॥ १४ ॥
ततो देवताङ्गे आवरणदेवता निलाप्य, क्षमस्वेति विसर्जनं कृत्वा,
संहारमुद्रया तत्तेजः पुष्पैः सार्द्धमाघ्राय
स्वहृदयमानयेत् ।
(पुरश्चरणचन्द्रिकायाम्-
क्षमस्वेति वदन्मूमन्त्रेण व्यापकं त्रिश इति
वचनात्विसर्जनान्तरं व्यापकं कुर्यात् ।)
तथा च-
निधाय देवतां पश्चात्स्वीयहृत्सरसीरुहे ।
सुषुम्नावर्त्मना पुष्पमाघ्रायोद्वासयेत्ततः ॥ १५ ॥
ततः ऐशान्णां त्रिकोणमण्डले कृत्वा निर्माल्यशेषं दद्यात् ।
विष्णौ तु-
ॐ विश्वक्सेनाय नमः ।
शक्तौ ॐ शेषिकायै नमः ।
शिवे-
ॐ चण्डेश्वराय नमः ।
सूर्ये-
ॐ तेजश्चण्डाय नमः ।
गणेशे ॐ उच्छिष्टगणेशाय नमः ।
कालिकादौ-
ॐ उच्छिष्टचाण्डालिन्यै नमः ।
तथा च-
विश्वक्सेनः स्मृतो विष्णोस्तेजश्चण्डो विवस्वत इत्यादि ॥ १६ ॥
तथा च निबन्धे-
सूर्ये गणपतावुग्रे शाक्ते शैवेऽथ वैष्णेवे ।
तेजश्चण्डमखोच्छिष्टसोजमुच्छिष्ट पूर्विकाम् ।
चाण्डालीं शेषिकां चण्डं विश्वक्सेनं क्रमाद्यजेत् ।
सोज इति उमा शम्भुना सह वर्त्तते इति सो-दुर्गा तज्जो गणेशः ॥ १६ क
॥
ततः पादोदकं पीत्वा नैवेद्यं किञ्चित्स्वीकृत्य
अन्यद्यथायोग्याय दत्त्वा यथासुखं विहरेदिति ॥ १७ ॥
मत्स्यसूक्ते-
अनिवेद्यं न भुञ्जीत मत्स्य-मांसादिकञ्च यत् ।
अत्रं विष्ठा पयो मूत्रं यद्विष्णोरनिवेदितम् ।
विष्णोरिति तत्तदेवतापरम् ॥ १८ ॥
तथा च भैरवतन्त्रे-
हृदये च वहिर्देवीं समर्प्यं विधिवत्ततः ।
निर्माल्यञ्च शुचौ देशे नैवेद्यं भक्षयेत्सुधीः ॥ १९ ॥
तन्त्रान्तरे-
निर्माल्यं शिरसा धार्यं सर्वाङ्गे चानुलेपनम् ।
नैवेद्यं चोपभुञ्जीत दत्त्वा तद्भक्तिशालिने ।
देवतार्चावशिष्टं यत्सलिलं शङ्घमध्यगम् ।
अङ्गलग्नं मनुष्याणां ब्रह्महत्यां व्यपोहति ॥ २० ॥
इति सामान्यपूजापद्धति-
(सामान्य पूजायन्त्रम् चित्रम् १४) ।
विविध-देवीमन्त्राः
यामाहुराद्यां प्रकृतिं मुनीन्द्राः पद्मां त्रिशक्तिं
गिरमन्नपूर्णाम् ।
नित्याञ्च दुर्गां त्वरिताः तथान्यां भजामि नित्यं
भुवनेश्वरीं ताम् ॥ २१ ॥
अथ वक्ष्ये जगद्धात्रीमधुना भुवनेश्वरीम् ।
ब्रह्मादयोऽपि वां ज्ञात्वा लेभिरे परमां श्रियम् ॥ २२ ॥
अथ भुवनेश्वरीमन्त्राः-
नकुलीशोऽग्निमारूढो वामनेत्रार्द्धचन्द्रवान् ।
बीजं तस्याः समाख्यातं सेवितं सिद्धिकाङ्क्षिभिः ।
नकुलीशो हकारः, अग्नी रेफः, वामनेत्रमीकारः,
अर्द्धचन्द्रोऽनुस्वारः ॥ २३ ॥
भुवनेश्वरी पदार्थमाह दक्षिणामूर्त्तिसंहितायाम्-
व्योमबीजे महेशानि कैलासादि प्रतिष्ठितम् ।
वह्निबीजात्सुवर्णादि निष्पन्नं बहुधा प्रिये ।
तेनायं वर्त्तते लोको भूमिमण्डलसंस्थितः ।
तूर्यस्वरेण पाताले शेषरूपेण धार्यते ।
महाभूमण्डलं तस्मात्पातालस्याऽपि नायिका ।
अत एव महेशानि भुवनाधीश्वरी प्रिये ।
मतान्तरमाह-
हकारो व्योम तूर्येण स्वरेणानिलसम्भवः ।
विकारे सति रेफेण साक्षद्वह्निस्वरूपिणी ।
वह्निबीजं वसुधेयं तस्माद्रेफञ्च सुन्दरि ।
अत एव महेशानि सवायोः समता भवेत् ।
विन्दुचक्रामृताद्देवि प्लावयन्ती जगत्त्रयम् ।
द्रवरूपी भवेत्तस्मात्प्लवन्ती चार्द्धमात्रया ।
अत एव महेशानि भुवनेशीति कथ्यते ॥ २४ ॥
अस्याः पूजाप्रयोगः-
सामान्यपूजापद्धत्युक्तक्रमेण प्रातःकृत्यादि
पीष्ठन्यासान्तं कर्मं विधाय हृत्पद्मस्य पूर्वादिकेशरेषु
मध्ये च पीठशक्तीर्न्यसेत् ।
तद्यथा-
जया विजया अजिता अपराजिता नित्या विलासिनी दोग्ध्री अघोरा मङ्गला ।
वाक्यन्तु-
ॐ जयाय नमः इत्यादि ।
कर्णिकायां ह्रीं सर्वशक्तिकमलासनाय नमः ॥ २५ ॥
ततः ऋष्यादिन्यासः-
अस्य भुवनेश्वरीमन्त्रस्य शक्तिर्-ऋषिर्गायत्रीच्छन्दो भुवनेश्वरी
देवता हकारो बीजम् ईकारः शक्तिः रेफः कीलकं
चतुर्वर्गसिद्ध्यर्थे विनियोगः ।
शिरसि ॐ शक्त्ये ऋषये नमः ।
मुखे ॐ गायत्र्यै छन्दसे नमः, हृदि ॐ भुवनेश्वर्यै देवतायै
नमः, गुह्ये ॐ हं बीजाय नमः, पादयोः ई शक्तये नमः,
सर्वाङ्गे रं कीलकाय नमः ।
तथा च शारदायाम्-
ऋषिः शक्तिर्भवेच्छन्दो गायत्री देवता मनोः ।
कथिता सुरसङ्घेन सेविता भुवनेश्वरी ।
हतूर्यबीजशक्ती च कीलकं रेफ उच्यते ॥ २६ ॥
ततो मन्त्रन्यासं कुर्यात् ।
शिरसि ॐ हृल्लेखायै नमः एवं वदने एं गगनायै नमः, हृदि
उं रक्तायै नमः, गुह्ये इं करालिकायै नमः, पादयोः अं
महोच्छुष्मायै नमः ।
एवमूर्ध्वप्राग्याम्योदीच्य-पश्चिमेषु मुखेषु तां न्यसेत् ।
एतासां बीजानि निबन्धे-
हृल्लेखां मूर्ध्निं वदने गगनां हृदयाम्बुजे ।
रक्तां करालिकां गुह्ये महोच्छुष्मां पदद्वये ॥
ऊर्ध्वप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु ताः ।
सत्यादि पञ्चह्रस्वाढ्या न्यस्तव्या भूतसम्प्रभाः ॥ २७ ॥
ततः कराङ्गन्यासौ कुर्यात्-
ह्राम् अङ्गुष्ठाभ्यां नमः, ह्रीं तर्जनीभ्यां स्वाहा, ह्रूं
मध्यमाभ्यां वषट्, ह्रैम् अनामिकाभ्यां हुं, ह्रीं
कनिष्ठाभ्यां वौषट्, ह्रः करतलपृष्ठायां फट् ।
एव हृदयादिषु ह्रां हृदयाय नमः इत्यादि ।
तथा च-
षड्दीर्घभाजा बीजेन कुर्यादङ्गक्रियां मनोः ।
स्वच्छन्दसङ्ग्रहे-
स्वरं विहाय बीजं तं दीर्घषट्केन योजयेत् ।
षडङ्गानि विधेयानि सर्वत्रायं विधिः स्मृतम् ।
अङ्गुलिनियमस्तु पूर्वमेवोक्तः ।
सर्वत्र कराङ्गन्यासे एवं क्रमः ॥ २८ ॥
ततो भाले ॐ गायत्री सहित ब्रह्मणे नमः, दक्षिणकपोले ॐ
सावित्रीसहित विष्णवे नमः, वामकपोले ॐ वागीश्वरीसहित
महेश्वराय नमः, वामकर्णोपरि ॐ श्रीसहित धनपतये नमः ।
मुखे ॐ रतिसहितस्मराय नमः, सव्यकर्णोपरि ॐ
पुष्टिसहितगणपतये नमः, दक्षिणगण्डकर्णान्तराले ॐ
शङ्खनिधये नमः, वामगण्डकार्णान्तराले ॐ पद्मनिधये
नमः, मुखे ॐ भुवनेश्वर्ये देवतायै नमः, एवं कण्ठमूल-
दक्षिणस्तन-वामस्तन-वामांस-हृदय-दक्षिणांस-
नाभिषु एतान्न्यसेत् ।
तथा च-
ब्रह्माणं विन्यसेद्भाले गायत्र्या सह संयुतम् ।
सावित्र्या सहितं विष्णुं कपोले दक्षिणे न्यसेत् ।
वागीश्वर्या समायुक्तं वामगण्डे महेश्वरम् ।
न्यसेत्श्रिया धनपतिं वामकर्णाग्रके पुनः ।
रत्या स्मरं मुखे पुष्ट्या गणपति न्यसेत् ।
सव्यकर्णोपरि निधीकर्णगण्डान्तरालयोः ।
न्यस्तव्यं वदने मूलं भूयश्चैतां स्तनौ न्यसेत् ॥ २९ ॥
तथा च शारदायाम्-
कण्ठमूले स्तनद्वत्द्वे वामांसे हृदयाम्बुजे ।
सव्यांसे पर्श्वयुगले नाभिदेशे च देशिकः ॥ ३० ॥
तथा च वर्णभिन्नन्यासे तु विश्वसारे-
ॐ काराद्यं ङेयुतञ्च नमोऽन्तञ्च यथा स्थितिः ।
विधिना विन्यसेत्सर्वं शङ्करस्य मतेन च ।
एवं सर्वत्र ॥ ३१ ॥
ततो भाले ॐ ब्राह्म्यै नमः, वामांसे ॐ माहेश्वर्यै नमः,
वामापार्श्वे ॐ कौमार्यै नमः, जठरे ॐ वैष्णव्यै नमः,
सक्षिणपार्श्वे ॐ वाराह्यै नमः, दक्षिणांसे ॐ इन्द्राण्यै नमः,
गले ॐ चामुण्डायै नमः, हृदि ॐ महालक्ष्म्यै नमः, इति न्यस्य
मूलेन व्यापकत्रयं सप्तमं वा कुर्यात् ।
तथा च-
भालेऽंसे पार्श्वे जठरे पार्श्वेऽंसे च गले हृदि ।
ब्राह्माण्याद्यास्ततो न्यस्य विधिना प्रोक्तलक्षणा ।
मूलेन व्यापकं देहे न्यस्य देवी विभावयेदिति ॥
ततो ध्यानम्-
उद्याद्दिनकरद्युतिमिन्दुकिरीटां तुङ्गकुचां नयन त्रययुक्ताम् ।
स्मरेमुखीं वराङ्कुशपाशाभीतिकरां प्रजजेद्भुवनेशीम् ।
एवं ध्यात्वा मानसैः सम्पूज्य वहिःपूजामारभेत ॥ ३३ ॥
पूजायन्त्रं-
पद्ममष्टदलं वाह्ये वृत्तं षोडशभिर्दलैः ।
विलिखेत्कर्णिकामध्ये षट्कोणमतिसुन्दरम् ।
चतुरस्रं चतुर्द्वारमेव मण्डलमालिखेत् ॥ ३४ ॥
ततो दीक्षापद्धत्युक्तक्रमेण शङ्खस्थापनं कुर्यात् ।
ततः सामान्यपूजापद्धत्युक्तक्रमेण पीठपूजां विधाय
पीठशक्तिः पूजयेत् ।
(भुवनेश्वरी यन्त्रम्, चित्र १५) ।
तद्यथा-
पूर्वादिकेशरेषु ॐ जयायै नमः, एवं विजयायै अजितायै,
अपराजितायै, नित्यायै, विलासिन्यै दोग्घ्र्यै, अघोरायै, मध्ये
मङ्गलायै ।
तथा च निबन्धे-
ततः सम्पूजयेत्पीठं नवशक्तिसमन्वितम् जयाख्या विजया
पश्चात् अजिता चापराजिता ।
नित्या विलासिनी दोग्घ्रो त्वघोरा मङ्गलाऽपि च ।
बीजाढ्यमासनं दत्त्वा मूर्तिं मूलेन कल्पयेत् ।
सर्वत्र प्रणवादिनमोऽन्तेन पूजयेत् ॥ ३५ ॥
तदुपरि ह्रीं सर्वंशक्तिकमलासनाय नमः ।
ततः पूर्ववत्ध्यानावाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं
विधाय आवरणपूजामारभेत् ।
तद्यथा-
ह्रां हृदयाय नमः इत्यादिना षडङ्गानि सम्पूज्य,
कर्णिकामध्ये ॐ हृल्लेखायै नमः, पूर्वे एं गगनायै नमः,
दक्षिणे उं रक्तायै, उत्तरे इं करालिकायै, पश्चिमे अं
महोच्छुष्मायै, षट्कोणेषु पूर्वादिक्रमेण ॐ गायत्र्यै नमः,
एवं ब्रह्मणे नमः, नैर्-ऋते सावित्र्यै, विष्णवे, वायव्ये सरस्वत्यै,
रुद्राय ।
वह्निकोणे श्रियै, धनपतये, पश्चिमे रत्यै, स्मराय, ऐशान्यां
पुष्ट्यै, गणपतये, षट्कोणस्योभयपार्श्वयोः ॐ शङ्खनिधये, ॐ
पद्मनिधये, सर्वत्र प्रणवादिनमोऽन्तम् ।
केशरेषु अग्निर्-ऋतिवायव्योशानेषु मध्ये चतुर्दिक्षु च ह्रां
हृदयाय नमः इत्यादिना षडङ्गानि पूजयेत् ।
तथा च निभन्धे-
केशरेष्वग्निकोणादौ हृदयादीनि पूजयेत् ।
नेत्रमग्रे दिशास्वस्त्रं ध्यातव्याश्चाङ्गदेवताः ।
एवं सर्वत्र ।
भैरव्यादौ विशेषो वक्तव्यः ।
पूर्वाद्यष्टदलेषु ॐ अनङ्गकुसुमायै नमः, एव
अनङ्गकुसुमातुरायै, अनङ्गमदनायै, अनङ्गमदनातुरायै,
भुवनपालायै, अनगङ्गवेद्यायै, शशिरेखायै, गगनरेखायै ॥
३६ ॥
पूर्वादि षोडशदलेषु कराल्यै, विकराल्यै, उमायै , सरस्वत्यै,
श्रियै, दुर्गायै, उषायै, लक्ष्म्यै, श्रुत्यै, स्मृत्यै, धृत्यै,
श्रद्धायै, मेधायै, मत्यै, कान्त्यै, अर्घ्यायै ।
तद्बहिः भूमागे पूर्वादितः, अनङ्गरूपायै, अनङ्गमदनायै,
अनङ्गमदनातुरायै, भुवनवेगायै, भुवनपालिकायै,
सर्वशिशिरायै, अनङ्गवेदनायै, अनङ्गमेखलायै ।
प्रणवादिनमोऽन्तेनैताः पूजयेत् ।
तद्बहिश्चतुरस्रे पूर्वादौ ॐ लाम् इन्द्राय देवाधिपतये सायुधाय
सवाहनाय सपरिवाराय नमः ।
ॐ राम् अग्नये तेजोधिपतये सायुधाय सवाहनाय सपरिवाराय
नमः ।
ॐ यां यमाय प्रेताधिपतये सायुधेत्यादि ।
ॐ क्षां निर्-ऋतये रक्षोधिपतये सायुधेत्यादि ।
ॐ वां वरुणाय जलाधिपतये सायुधेत्यादि ।
ॐ यां वायवे प्राणाधिपतये सायुधेत्यादि ।
ॐ सां सोमाय ताराधिपतये सायुधेत्यादि ।
ॐ हाम् ईशानाय गणाधिपतये सायुधेत्यादि ।
इन्द्रेशानयोर्मध्ये ॐ आं ब्रह्मणे प्रजाधिपतये सायुधेत्यादि ।
निर्-ऋतिवरुणयोर्मध्ये ॐ ह्रीम् अनन्ताय नागाधिपतये सायुधेत्यादि
।
तथा च-
लोकपाला वहिः पूज्याः समस्ताश्चतुरस्रके ।
पुरुहुतेशयोर्मध्ये रक्षोवरुणयोस्तथा ।
ब्रह्मविष्णु सदा पूज्यौ दिगीशार्चां विदुर्बुधाः ।
इन्द्रादिलोकपालानां ये मन्त्रास्ते ध्रुवादिकाः ।
स्वस्वबीजान्विताः सर्वे सचतुर्थीनमोऽन्तिकाः ।
इति वचनात्सर्वत्र प्रणवादिनमोऽन्तेन पूजनम् ॥ ३६ क ॥
स्व स्व बीजमाह मन्त्रदर्शने-
पृथिव्याग्निपवनाद्यन्तवरुणानिलसेश्वरैः ।
अनन्तविन्दुसंयुक्तैरर्च्याः पाशेन मायया ।
तथा-
अन्ते यजेल्लोकपालान्मूलपारिषदान्वितान् ।
हेतिजात्यधिपोपेतान्दिक्षु पूर्वादितो यजेत् ।
सवाहनायेति क्रमदीपिका ॥ ३७ ॥
तद्बहिः पूर्वादौ वज्राय शक्तये दण्डाय खड्गाय पाशाय
अङ्कुशाय गदायै शूलाय पद्माय चक्राय प्रणवादिनमोऽन्तेन
पूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ।
अस्य पुरश्चरणं द्वात्रिंशल्लक्षजपः ॥ ३८ ॥
तथा च-
प्रजपेन्मन्त्रविन्मन्त्रं द्वात्रिंशल्लक्षमानतः ।
त्रिस्वादुर्युक्तैर्जुहुयादष्टद्रव्यैर्दशांशतः ॥ ३९ ॥
अष्टद्रव्याणि यथा-
अश्वत्थोडुम्बरप्लक्षग्रोधसमिधस्तिलाः ।
सिद्धार्थपायसाज्यानि द्रव्याण्यष्टौ विदुर्बुधाः ।
त्रिस्वाद्विति घृतमधुशर्करा इति ॥ ४० ॥
मन्त्रान्तरम्-
वाग्भवं शम्भुवनितारमाबीजत्रयात्मकम् ।
मन्त्रं समुद्धरेन्मन्त्री त्रिवर्गफलसाधनम् ।
न्यासपूजादिकं सर्वं पूर्ववच्च समाचरेत् ॥ ४१ ॥ षडङ्गन्यासे
तु विशेषः ।
ऐं ह्राम् अङ्गुष्ठाभ्यां नमः इत्यादि ।
तथा च निबन्धे-
षड्दीर्घभाजा बीजेन वाग्भवाद्येन कल्पयेत् ।
षडङ्गानि मनोरस्य जातियुक्तेन देशिकः ॥ ४२ ॥
ध्यानन्तु-
सिन्दूरारुणविग्रहां त्रिनयनां
माणिक्यमौलिस्फुरत्तारानायकशेखरां
स्मितमुखीमापीनवक्षोरुहाम् ।
पाणिभ्यां मणिपूर्णरत्नचषकं रक्तोत्पलं विभ्रतीं
सौम्यां रत्नघटस्थसव्यचरणां ध्यायेत्परामम्बिकाम् ॥ ४३ ॥
अस्य पुरश्चरणं द्वादशलक्षजपः
तथा च शारदायाम्-
रविलक्षं जपेन्मन्त्रं पायसैर्मधूरान्वितैः ।
तद्दशांशं जुहुयान्मन्त्री पीठे प्रागीरिते यजेदितिवचनात् ॥ ४४ ॥
मन्त्रान्तरम्-
वाग्बीजपुटिता माया विद्येयं त्र्यक्षरी मता अस्य मन्त्रस्य
पूर्ववन्न्यासः ॥ ४५ ॥
कराङ्गन्यासौ-
ऐं ह्राम् ऐम् अङ्गुष्ठाभ्यां नमः, इत्यादि ।
ऐं ह्राम् ऐं हृदयाय नमः इत्यादि ।
तथा च-
मध्येन दीर्घयुकेन वाक्पुटेन प्रकल्पयेत् ।
षडङ्गानीत्यादि ॥ ४६ ॥
ध्यानन्तु-
श्यामाङ्गीं शशिशेखरां निजकरैर्दानञ्च रक्तोत्पलं,
रत्नाढ्यं चषकं परं भयहरं संविभ्रतीं शाश्वतीम् ।
मुक्ताहारलसत्पयोधरनतां नेत्रत्रयोल्लासिनीं वन्देऽहं
सुरपूजितां हरवधूं रक्तारविन्दस्थिताम् ॥
एवं ध्यात्वा पूर्ववद्यजेत् ॥ ४७ ॥
अष्टपत्रेषु विशेषः-
आं ब्राह्म्यै, ईं माहेश्वर्यै, ऊं कौमार्यै, ऋं वैष्णव्यै,
ऌं वाराह्यै, ऐम् इन्द्राण्यै, औं चामुण्डायै, अः महालक्ष्म्यै ।
पुनरष्टदले-
अम् असिताङ्गाय, इं रुरवे, उं चण्डाय, ऋं क्रोधाय, ऌम्
उन्मत्ताय, एवं कपालिने, ॐ भीषणाय, अं संहाराय ।
नमः सर्वत्र ।
यद्वा-
अम् आम् असिताङ्गब्राह्मीभ्यां नमः इत्यादि ।
तथा च-
दीर्घाद्या मातरः प्रोक्ता ह्रस्वाद्या भैरवाः स्मृताः ।
अन्यत् सर्वं पूर्ववद्बोधाम् ॥ ४८ ॥
अस्य पुरश्चरणजपो दशलक्षः ।
त्रिमधुरान्वितैः पलाशपुष्पैर्दशांश होमः ।
तथा च-
तत्वलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ।
पलाशपुष्पैः स्वाद्वक्तैः पुष्पैर्वा राजवृक्षजैः ।
तत्त्वलक्षं दशलक्षम्-
अन्तरङ्गात्वात्शक्तेर्दशतत्त्वमिति वचनाच्च इति गुरवः ।
चतुर्विंशतिलक्षमिति केचित् ॥ ४९ ॥
मन्त्रान्तरम्-
अनन्तो विन्दुसंयुक्तो मायाब्रह्माग्नितारवान् ।
पाशादिस्त्र्यक्षरो मन्त्रः सर्वकामफलप्रदः ।
अस्यैकाक्षरीवत् ऋषिच्छन्दोदेवतान्यासः ॥ ५० ॥
अङ्गमन्त्रस्तु-
ह्रीम् अङ्गुष्ठाभ्यां नमः, ह्रीं हृदयाय नमः इत्यादि ।
सर्वत्र ह्रीं बीजेन कराङ्गन्यासौ कुर्यात् ।
तथा च निबन्धे-
ऋष्याद्याः पूर्वमुक्ताः स्युर्बीजेनाङ्गक्रिया मन्ता ॥ ५१ ॥
ध्यानम्-
वराङ्कुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम्
।
बालार्ककोटिप्रतिमां त्रिनेत्रां भजेऽहमाद्यां भुवनेश्वरीं
ताम् ॥ ५२ ॥
अस्याः पूजा तु एकाक्षरीवत् ।
अष्टदलेषु ब्राह्म्यादियुगलं पूर्ववत्पूजयेत् ।
षोडशदले पूजाया अनुक्तत्वात्षोडशदलाभावः ॥ ५३ ॥
अस्य पुरश्चरणजपो दशलक्षः ।
दक्षिमधुघृताक्ताभिरश्वत्थोडुम्बरप्लक्षाणाम् ।
समिद्भिस्तिलैर्दुग्धाक्तैर्दशसहस्रहोमः ।
तथा च-
हविष्यभुग्जपेन्मन्त्रं तत्त्वलक्षं जितेन्द्रियः ।
तत्सहस्रं जुहुयाच्च जपान्ते मन्त्रवित्तमः ।
दधिक्षौद्रघृताक्ताभिः समिद्भिः क्षीरिभुरुहाम् ।
तत्सङ्ख्यया तिलैः शुद्धैः पयोऽक्तैर्जुहुयात्ततः ।
अत्र तत्त्वशब्देन दश उच्यन्ते शक्तेर्दश तत्त्वानीति वचनात् ।
अन्ये तु भुवनेश्वरीमन्त्रा न निबद्धा अप्रसिद्धत्वात् ।
अथान्नपूर्णामन्त्राः
मायाहृद्भगवत्यन्ते माहेश्वरिपदं ततः ।
अन्नपूर्ण ठयुगलं मनुः सप्तदशाक्षरः ॥ ५५ ॥
कल्पे च-
प्रणवाद्या यदा देवि तदा सप्तदशाक्षरी ।
अन्नप्रदामोक्षदा च सदा विभवदायिनी ॥ ५६ ॥
मायाद्या च यदा देवि तदा सा सकलेष्टदा ।
श्रीबीजाद्या यदा देवि तदा सुखविवर्द्धिनी ॥ ५७ ॥
वाग्बीजाद्या यदा वागीशत्वप्रदायिनी ।
कामाद्या च यदा विद्या सर्वकामप्रदायिनी ॥ ५८ ॥ तारमायादिका
विद्या भोगमोक्षप्रदायिनी ।
मायाश्रीबीजयुग्माद्या सदा ।
विभवदायिनी श्रीमायायुग्मबीजाद्या सर्वसम्पत्तिपूरणी ॥ ५९ ॥
अस्याः पूजाप्रयोग-
प्रातःकृत्यादि पीठन्यासान्तं कर्म विधाय हृत्पद्मस्य केशरेषु
मध्ये च भुवनेश्वरीपीठमन्त्रोक्तपीठशक्तीर्विन्यस्य
ऋष्यादिन्यासं कुर्यात् ।
तद्यथा-
शिरसि ॐ ब्रह्मणे ऋषये नमः, मुखे पङ्क्तये छन्दसे नमः, हृदि
अन्नपूर्णायै देवतायै नमः ।
तत्रैव-
एतेषां मन्त्रराशीनाम् ऋषिर्ब्रह्मा उदाहृतः ।
पङ्क्तिश्छन्दः समाख्यातं देवता चान्नपूर्णिका ॥ ६० ॥
ततः कराङ्गन्यासौ-
ह्रीम् अङ्गुष्ठाब्यां नमः, ह्रीं हृदयाय नमः इत्यादि ।
सर्वत्र मायाबीजेन कुर्यात् ।
तथा च निबन्धे-
अङ्गानि मायया कुर्यात्ततो देवीं विचिन्तयेत् ।
कल्पे च- यद्वीजाद्या भवेद्विद्या तद्बीजेनाङ्गकल्पना ॥ ६१ ॥
ततो ध्यानम्-
रक्तां विचित्रवसनां नवचन्द्रचूडामन्नप्रदाननिरतां
स्तनभारनम्राम् ॥
नृत्यन्तमिन्दुसकलाभरणं विलोक्य हृष्टां भजे भगवतीं
भवदुःखहन्त्रीम् ।
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्यात् ॥ ६२ ॥
ततः समान्योक्त पीठपूजां विधाय
भुवनेश्वरीमन्त्रोक्तजयादिपीठमन्वन्तां पीठपूजां विधाय
पुनर्ध्यात्वा आवाहनादि पञ्चपुष्पाञ्जलिदानपर्यन्तं कर्म
विधाय आवरणपूजामारभेत् ।
तद्यथा-
केशरेषु अग्निकोणे ह्रीं हृदयाय नमः, नैर्-ऋते ह्रीं शिरसे
स्वाहा, वायव्ये ह्रीं शिखायै वषट्, ऐशान्यां ह्रीं कवचाय
हुं, मध्ये ह्रीं नेत्रत्रयाय वौषट्, चतुर्दिक्षु ह्रीम् अस्त्राय फट् ॥
अष्टदलेषु-
पूर्वादिक्रमेण ब्राह्म्यै माहेश्वर्यै वैष्णव्यै वाराह्यै
इन्द्राण्यै चामुण्डायै महालक्ष्म्यै प्रणवादिनमोऽन्तेन पूजयेत्
।
तत्रैव-
दलेषु पूजयेदेताः ब्राह्म्याद्याः क्रमतः सुधीः ।
शूद्रस्य प्रणवस्थले चतुर्दशस्वरो विन्दुसंयुक्तः ।
कालिकापुराणे-
मन्त्रस्य सेतुकरणे उक्तत्वात् ॥
तथा च- चतुर्दशस्वरेणाढ्यं विन्दुभूषितमस्तकम् ।
शूद्रस्य प्रणवं देवि कथितं तन्त्रवेदिभिः ॥ ६३ ॥
अतः पूर्वादौ इन्द्रादीन्वज्रादींश्च पूर्ववत्सम्पूज्य
धूपादिविसर्जनान्तं कर्म समापयेत् ।
अस्य पुरश्चरणजपः षोडशसहस्रसङ्ख्यः ।
तथा च-
यथाविधि जपेन्मन्त्रं वसुयुग्मसहस्रकम् ।
साज्येन्नान्नेन जुहुयात्तद्दशांशमनन्तरम् ।
(अयं मन्त्रः प्रणवादिरष्टादशाक्षरः ।
मायादिः श्रीबीजादिश्च ।) तथा मायां विना प्रणवादिः
कामादिः श्रीबीजादिर्वाग्भवादिश्च सप्तदशाक्षरः कवचे तथा
प्रतिपादनात् ।
विशेषस्तु-
यद्यद्बीजादिको मन्त्रस्तेनैवाङ्ग प्रकल्पना ॥ ६४ ॥
अथ त्रिपुटामन्त्राः
श्रीमायामदनैः प्रोक्तो मन्त्रो बीजत्र्यात्मकः ॥ ६५ ॥
तत्र पूजायन्त्रम्- (चित्र १६)
तदुक्तं दशपटल्याम्-
षट्कोणं पूर्वामालिख्य मध्ये विद्यां लिखेत्सुधीः ।
वीप्सया तान्तु षट्कोणकोणेषु क्रमतो लिखेत् ।
वाह्ये वसुदलं कुर्याद्दीर्घस्वरविभूषितम् ।
चतुरस्रं चतुर्द्वारभूषितं मण्डलं लिखेत् ।
मध्ये देवीं समावाह्य ध्यायेत्सर्वं समृद्धिदाम् ॥ ६६ ॥
अस्याः पूजाप्रयोगः-
ततः प्रातः कृत्यादि पीठन्यासान्तं कर्म विधाय
भुवनेश्वरीमन्त्रोक्तजयादिपीठमन्वन्तं विन्यस्य
ऋष्यादिन्यासं कुर्यात् ।
तद्यथा-
शिरसि सम्मोहनाय ऋषये नमः, मुखे गायत्र्यै छन्दसे नमः
हृदि त्रिपुटायै देवतायै नमः ।
ततः कराङ्गन्यासौ-
श्रीम् अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां स्वाहा क्लीं मध्यमाभ्यां वषट्, श्रीम्
अनामिकाभ्यां हुं, ह्रीं कनिष्ठाभ्यां वौषट्, क्लीं
करतलपृष्ठाभ्यां फट् ।
एवं श्रीं हृदयाय नमः इत्यादि ।
तथा च निबन्धे-
ऋषिः सम्मोहनश्छन्दो गायत्री देवता पुनः त्रिपुटाख्या
द्विरुक्तैस्तद्बीजैरङ्गानि षट्क्रमात् ॥ ६७ ॥
ततो ध्यानम्-
पारिजातवने रम्ये मण्डपे मणिकुट्टिमे ।
रत्नसिंहासने रम्ये पद्मे षट्कोणशोभिते ।
अधस्तात्कल्पवृक्षस्य निष्ण्णां देवतां स्मरेत् ।
चापं पाशाम्बुजसरसिजान्यङ्कुशं पुष्पबाणान्,
संविभ्राणां करसरसिजैः रत्नमौलिं त्रिनेत्राम् ।
हेमाब्जाभां कुचभारनतां रत्नमञ्जीरकाञ्चीं,
ग्रैवेयाद्यैर्विलसिततनुं भावयेच्छक्तिमाद्याम् ॥
चामरादर्शताम्बूलकरण्डकसमुद्गकान् ।
वहन्तीभिः कुचार्त्ताभिर्दूतीभिः परिवारिताम् ।
करुणामृतवर्षिण्या पश्यन्तीं साधकं दृशा ।
अम्बुजं पद्मं न तु शङ्खं, दधतीं पद्मयुगलमिति
दक्षिणामूर्तिवचनात् ।
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्यात् ॥ ६८ ॥
ततः सामान्यपूजापद्धत्युक्त पीठपूजा विध्याय केशरेषु
भुवनेश्वरीमन्त्रोक्तजयादिपीठमन्वन्तं सम्पूज्य
पुनर्ध्यात्वा आवाहनादि-पञ्चपुष्पाञ्जलिदानपर्यन्तं
विधाय आवरणपूजां कुर्यात् ।
तद्यथा-
अग्न्यादिषट्कोणेषु ॐ लक्ष्म्यै नमः, ॐ हरये नमः, एवं गौर्यै,
शिवाय, रत्यै, कामाय, षट्कोणस्योभयतः पार्श्वयोः ॐ
शङ्खनिधये नमः, ॐ पद्मनिधये नमः ।
ततः केशरेषु अग्न्यादिकोणचतुष्टयेषु मध्ये दिक्षु च श्रीं
हृदयाय नमः ।
इत्यादिना षडङ्गानि पूजयेत् ॥ ६९ ॥
ततः पत्रेषु ब्राह्म्याद्या मातरः पूज्याः ।
तथा च निबन्धे-
हृल्लेखाविहिते पीठे पूजयेत्तां समाहितः ।
अग्न्यादिषट्सु कोणेषु लक्ष्म्याद्या पूजयेद्ध्रुवम् ।
लक्ष्मीं हेमप्रभां तन्वीं स-वराब्जयुगाभयाम् ।
शङ्खचक्रगदाम्भोजधरं हेमनिभं हरिम् ।
पाशाङ्कुशाभयाभीष्टधरां गौरीं जवारुणाम् ।
मृगटङ्काभयाभिष्टधरं हेमनिभं हरम् ।
नीलोत्पलकरां सौम्यां रतिं काञ्चनसन्निभाम् ।
धृतपाशाङ्कुशेष्वासं पुष्पेषुमरुणं स्मरन् ।
पूर्ववन्निधियुग्मन्तु यजेदुभयपार्श्वर्योः ।
बहिरङ्गानि सम्पूज्य पूज्याः पत्रेषु मातर इति ।
तद्बहिरिन्द्रादीन्वनिता रूपान्पूजयेत् ॥ ७० ॥
निभन्धे-
लोकेशान्वनितारूपानर्चयेत्सौम्यविग्रहान् ।
ततो धूपादि विसर्जनान्तं कर्म समापयेत् ।
अस्य पुरश्चरणजपो द्वादशलक्षः ।
तथा च-
भानुलक्षं जपेदेनं मनुं तावत्सहस्रकम् ।
विल्वारग्वधसम्भूतैर्मधुराक्तैः समिद्वरैः ।
जवापुष्पैश्च जुहुयात्तोषयेद्वसुना गुरुम् ।
आरग्वधः शोणालुः ।
अयं मन्त्रस्त्रिधा भवति ।
परादिर्वा भवेद्देवि कामादिर्वा भवेदियमिति
दक्षिणामूर्तिवचनात् ॥ ७२ ॥
अथ त्वरितामन्त्राः
अथाभिधास्ये त्वरिवां त्वरितं फलदायिनीम् ।
तारो माया धर्मबीजम् ऋद्धिरीशस्वरान्विता ।
कूर्मस्तदन्त्यो भगवान्क्षस्त्री दीर्घतनुच्छदम् ।
संवर्तो भगवान्माया फडन्तो द्वादशाक्षरः ।
माया भुवनेशी, वर्म हुं, ऋद्धिः खकारः, ईश्वरः एकारः,
कूर्मश्चकारः, तदन्त्यश्छकारः, भग एकारस्तद्युक्तः क्षः,
स्त्री स्वरूपं, दीर्घतनुच्छदं हुं, संवर्त्तः क्षकारः भग
एकारस्तद्युक्तः क्षः, पुनर्भुवनेश्वरी फट् ॥ ७३ ॥
अस्यार्जुन-ऋषिर्विराट छन्दः त्वरिता देवता
पुरुषार्थचतुष्टयसिद्ध्यर्थे विनियोगः ।
तथा च निबन्धे-
मुनिरर्जुन आख्यातो विराट् छन्द उदाहृतम् ।
त्वरिता देवता प्रोक्ता पुरुषार्थफलप्रदा ॥ ७४ ॥
अस्याः पूजापद्धतिः (त्वरितायन्त्र चित्र १७)
पूतत्र जायन्त्रं दक्षिणामूर्तौः अष्टपत्रं लिखेत्पद्मं
बहिर्भूविन्द्वमालिखेत् ।
प्रत्येकं वसुकोणेषु कवचञ्चाष्टधा लिखेत् ।
मध्ये तु भुवनेशानीं वेष्टयेन्मातृकाक्षरैः ।
सर्वरक्षाकरं नाम यन्त्रमेतदुदाहृतम् ।
यत्रावाह्य महेशानीमुपचारैः समर्चयेत् ॥ ७५ ॥
ततः प्रातःकृत्य पीठादि न्यासान्तं कर्म समाप्य केशरेषु
भुवनेश्वरीमन्त्रोक्त जयादिपीठशक्तीर्विन्यस्य मध्ये क्षं हुं
हं वज्रदेह घुरु घुरु हिङ्गुलु हिङ्गुलु गर्ज गर्ज हं हूं
क्षां पञ्चाननाय नमः ।
इति मन्त्रं न्यसेत् ।
तथा च निबन्धे-
संवर्तको विन्दुयुतः कवचं सकलं वियत् ।
वज्रदेह घुरुद्वन्द्वमाभाष्य हिङ्गुलुद्वयम् ।
गर्ज गर्ज वियत्सेन्दु वर्मान्त्यो दीर्घविन्दुवान् ।
पञ्चाननाय हृदयं पीठमन्त्रः प्रकीर्तितः ॥ ७६ ॥
ततः ऋष्यादिन्यासः-
शिरसि अर्जुन-ऋषये नमः, मुखे विराट छन्दसे नमः, हृदि
त्वरितायै देवतायै नमः ।
ततो मन्त्रन्यासः-
मूर्ध्नि, ॐ नमः, भाले हुं नमः, गले खे नमः, हृदि च नमः,
नाभौ छे नमः, गुह्ये क्ष नमः, ऊर्वो स्त्री नमः, जानुनोः हूं
नमः, जङ्घयोः क्षे नमः, पादद्वन्द्वे फट् नमः ।
मूलेन व्यापकं कुर्यात् ॥ ७७ ॥
तथा च निभन्धे-
मायाविवर्जितान् वर्णान्मूर्ध्नि भाले गले हृदि ।
नाभिगुह्योरुयुगे च जानुजङ्घापदेषु च ।
विन्यस्य व्यापकं कुर्यात्समस्तेनैव साधकः ॥ ७८ ॥
ततः कराङ्गन्यासौ-
चछे अङ्गुष्ठाभ्यां नमः, छेक्ष तर्जनीभ्यां स्वाहा, क्षस्त्री
मध्यमाभ्यां वषट्, स्त्रीहुम् अनामिकाभ्यां हुं, हूङ्क्षे
कनिष्ठाभ्यां वौषट्, क्षेफट्, करतलपृष्ठाभ्यां फट् ।
एवं चक्षे हृदयाय नमः इत्यादिना हृदयादिषु ।
तथा च निबन्धे-
कूर्माद्यैः सप्तभिर्वर्णैः पूर्वपूर्व विवर्जितैः ।
द्वाभ्यां द्वाभ्यां षडङ्गानि कुर्यात्साधकसत्तमः ॥ ७९ ॥
ततो ध्यानम्-
श्यामां वर्हिकलापशेखरयुतामाबद्धपर्णांशुकां,
गुञ्जाहारलसत्पयोधरनतामष्टाहिपान्बिभ्रतीम् ।
ताडाङ्काङ्गदमेखलागुणरणन्मञ्जीरतां प्रार्पितान्,
कैरातीं वरदाभयोद्यतकरां देवीं त्रिनेत्रां भजे ॥
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्यात् ॥ ८० ॥
ततः सामान्योक्त पीठपूजां विधाय पद्मस्य केशरेषु
पूर्वादिक्रमेण जया-विजया-अजिता-अपराजिता-नित्या-विलासिनी-
दोग्ध्री-अघोरा-मङ्गलाः, प्रणवादिनमोऽन्तेन पूज्याः ।
मध्ये क्षं हुं हं वज्रदेह घुरु घुरु हिङ्गुलु हिङ्गुलु गर्ज
गर्ज हं हूं क्षां पञ्चाननाय नमः ।
ततः पूर्ववद्ध्यात्वा आवाहनादि
पञ्चपुष्पाञ्जलिदानपर्यन्तं विधाय आवरणपूजामारभेत ।
अग्न्यादिकोणेषु चछे गायन्त्र्यै हृदयाय नमः, छेक्ष गायत्र्यै
शिरसे स्वाहा, क्षस्त्री गायत्र्यै शिखायै वषट्, स्त्रीहूं गायत्र्यं
कवचाय हुं, हूङ्क्षे गायत्र्यै नेत्रत्रयाय वौषट् ।
दिक्षु क्षे फट् गायत्र्यै अस्त्राय फट् ।
इति सम्पूज्य उत्तरेशानयोः प्रणीतां गायत्रीञ्च पूजयेत् ।
तथा च निबन्धे-
अङ्गं प्रणीतां गायत्रीं केशरेष्वर्चयेत्क्रमात् ।
दलेषु पूजयेदेताः श्रीबीजाद्याः सुभूषिताः ।
हुङ्कारीं खेचरीं चण्डां छेदिनीं क्षेपिणीं स्त्रियम् ।
हुङ्कारीं क्षेमकारीञ्च लोके सायुधभूषणाम् ।
फट्कारीमग्रतो वाह्ये कोदण्डशरधारीणीम् ।
वाक्यन्तु-
श्रीं हुङ्कार्यै नमः, वाह्ये अग्रतः ॐ फट्कारिण्यै नमः इत्यादि
॥ ८१ ॥
द्वारस्योभयपार्श्वयोः ॐ जयायै नमः, ॐ विजयायै नमः ।
तद्वाह्ये किङ्कराय रक्ष रक्ष त्वरिताज्ञास्थिरो भव हुं फट् इति
मन्त्रेण किङ्करा पूजयेत् ।
तथा च निबन्धे-
द्वारस्यो पार्श्वयोः पूज्ये हेमवेत्रकराम्बुजे ।
जयाख्या विजयाख्या च किङ्कराय पदं ततः ।
रक्ष रक्ष पदस्यान्ते त्वरिताज्ञास्थिरो भव ।
वर्मास्त्रान्तेन मनुना किङ्करं तद्वहिर्यजेत् ।
लगुडं विभ्रतं कृष्णं कृष्णचर्चरमूर्द्धजम् ।
आरण्यैररुणैः पुष्पैरतिरम्यैः सुगन्धिभिः ।
पूजयेद्धूपदीपाद्यैर्नृत्यगोर्मतैर्महोत्सवैरिति ।
अत्र न इन्द्रादिपूजा अनुक्तत्वात् ॥ ८० क ॥
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ।
अस्य पुरश्चरण जपो लक्षसङ्ख्यकः ।
तद्दशांशं विल्वस्य समिद्धरैस्त्रिमध्वर्क्तैर्होमयेत् ।
तथा च-
लक्षं सञ्जयप्य मन्त्रज्ञो मन्त्रमेनं जितेन्द्रियः ।
दशांशं जुहुयाद्विल्वैस्त्रिमध्वक्तैः समिद्वरैः ॥ ८२ ॥
अथ नित्यामन्त्रः
वाग्भवं कामबीजञ्च नित्यक्लिन्ने मदौ पुनः ।
द्रवे वह्निवधूर्मन्त्रो द्वादशार्णोऽयमीरितः ॥ ८३ ॥
अस्याः पूजाप्रयोग-
प्रातःकृत्यादि पीठन्यासान्तं विधाय केशरेषु पूर्वादिक्रमेण
जयादि ह्रीं सर्वशक्ति कमलासनाय नमः इत्यन्तं विन्यस्य
ऋष्यादिन्यासं समाचरेत्
तद्यथा-
शिरसि सम्मोहनऋषये नमः, मुखे निवृच्छन्दसे नमः, हृदि
नित्यायै देवतायै नमः ।
तथा च निबन्धे-
ऋषिः सम्मोहनश्छन्दो निवृन्नित्या च देवता इति ॥ ८४ ॥
ततः कराङ्गन्यासौ-
ऐम् अङ्गुष्ठाभ्यां नमः, ऐं तर्जनीभ्या स्वाहा, ऐं
मध्यमाभ्यां वषट्, ऐम् अनामिकाभ्यां हुं, ऐं
कनिष्ठाभ्यां वौषट्, ऐं करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु ऐं हृदयाय नमः इत्यादिना षडङ्गेषु न्यसेत् ॥
तथा च निबन्धे-
वाचा कृत्वा षडङ्गानि नित्यां ध्यायेद्यथाविधि ॥ ८५ ॥
ततो ध्यानम्-
अर्द्धेन्दुमौलिमरुणाममराभिवन्द्या-
मम्भोजपाशशृणिपूर्णकपालहस्ताम् ।
रक्ताङ्गरागवसनाभरणां त्रिनेत्रां ध्यायेच्छिवस्य वनितां
मदविह्वलाङ्गीम् ॥
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्यात् ॥ ८६ ॥
ततः पीठपूजां विधाय केशरेषु जयादि पीठ शक्तीः सम्पूज्य
मध्ये ह्रीं सर्वशक्तिकमलासनाय नमः इत्यन्तं सम्पूज्य
पुनर्ध्यात्वा आवाहनादि पञ्चपुष्पाञ्जलिदानपर्यन्तं
विध्याय आवरणपूजामारभेत्-
(नित्यायन्त्रम् चित्र १८)
तद्यथा-
अग्न्यादिकोणचतुष्टये मध्येदिक्षु च ऐं हृदयाय नमः, ऐं
शिरसे स्वाहा, ऐं शिखायै वषट्, ऐं कवचाय हुं, मध्ये ऐं
नेत्रत्रयाय वौषट्, चतुर्दिक्षु ऐम् अस्त्राय फट् ।
अष्टदलेषु ॐ नित्यायै निरञ्जनायै, क्लिन्नायै, क्लेदिन्यै,
मदनातुरायै, मदद्रवायै, द्राविण्यै, द्रविण्ये, सर्वत्र प्रणवादि
नमोऽन्तेन पूजयेत् ।
तथा च निबन्धे-
नित्या निरञ्जना क्लिन्ना क्लेदिनी मदनातुरा ।
मदद्रवा द्राविणी च द्रविणीत्यष्टशक्तयः ।
नीलोत्पलकपालाढ्यकरा सक्ताम्बुजप्रभा इति ।
तद्वाह्ये इन्द्रादीन वज्रादींश्च पूजयेत् ।
ततो धूपादि विसर्जनान्तं कर्म समापयेत् ॥ ८७ ॥
अस्य पुरश्चरणजपश्चतुर्लक्षः ।
तथा च-
चतुर्लक्षं जपित्वा च मधुराक्तैर्मधूकजैः ।
कुसुमैरयुतं हुत्वा तोषयेद्गुरुमात्मनः ॥ ८८ ॥
अथ वज्रप्रस्तारिणीमन्त्राः
वाङ्मायानन्तरं भूयो नित्यक्लिन्ने मदद्रवे ।
स्वाहान्तो रविसङ्ख्यार्णो मन्त्रो वश्यप्रदायकः ॥ ८९ ॥
अस्याः पूजायन्त्रम्-
षट्कोणं द्वादशदलञ्चतुर्द्वारं चतुरस्रञ्च ॥ ९० ॥
(चित्र १९)
ततः पूजा-
प्रातः कृत्यादिपीठन्यासान्तं विधाय केशरेषु
जयादिपीठमन्वन्ते विन्यस्य ऋष्यादिन्यासं कुर्यात् ।
शिरसि अङ्गिरसे ऋषये नमः, मुखे त्रिष्टुप्छन्दसे नमः, हृदि
वज्रप्रस्तारिण्यै देवतायै नमः ।
तथा च निबन्धे-
अङ्गिराः स्याद्दृषिस्त्रिष्टुप्छन्दो मुनिभिरोरितम् ।
वज्रप्रस्तारिणी प्रोक्ता देवताभीष्टदायिनीति ॥ ९१ ॥
ततः कराङ्गन्यासौ-
ऐम् अङ्गुष्ठाभ्यां नमः इत्यादि, ऐं हृदयाय नमः इत्यादिना
हृदयादिषु ।
तथा च निबन्धे-
वाग्भवेन षडङ्गानि विदध्यान्मन्त्रवित्तमः ॥ ९२ ॥
ततो ध्यानम्-
रक्ताब्धौ रक्तपोते रविदलकमलाभ्यन्तरे सन्निषण्णां,
रक्ताक्षीं रक्तमौलिस्फुरितशशिकलां स्मेरवक्त्रां त्रिनेत्राम् ।
बीजापूरेषुपाशाङ्कुशमदनधनुःसत्कपालानि
हस्तैर्विभ्राणामानताङ्गीं
स्तनभारनमितामम्बिकामाश्रयामः ॥ ९३ ॥
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं विधाय
पूर्ववत् पीठपूजां कृत्वा पुनर्ध्यात्वा
आवाहनादिपञ्चपुष्पाञ्जलि दानपर्यन्तं विधाय
आवरणपूजामारभेत् ।
अग्न्यादिकोणेषु मध्ये दिक्षु च ऐं हृदयाय नमः इत्यादिना
सम्पूज्य द्वादशदलेषु पूर्वादिक्रमेण ॐ हृल्लेखायै नमः
एवं क्लेदिन्यै, क्लिन्नायै, क्षोभिण्यै, मदनातुरायै, निरञ्जनायै,
रागवत्यै, मदनावत्यै, मेखलायै, द्राविण्यै, वेगवत्यै, स्मरायै,
सर्वत्र प्रणवादिनमोऽन्तेन पूजयेत् ।
तथा च निबन्धे-
हृल्लेखा क्लेदिनी क्लिन्ना क्षोभिणी मदनातुरा ।
निरञ्जना रागवतो सप्तमी मदनावती ।
मेखला द्राविणी पश्चात्वेगवत्यपरा स्मरेति ।
कपालोत्पलधारिण्यः शक्तयो रक्तविग्रहाः ।
तद्वाह्ये ब्राह्मयादि मातृः पूजयेत् ।
तद्बहिरिन्द्रादीन् वज्रादींश्च पूजयेत् ।
तथा च निभन्धे-
मातरो दिग्विदिक्ष्वर्च्याः पुनः पूज्या दिगीश्वराः ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ ९३ क ॥
अस्य पुरश्चरणं लक्षजपः ।
तथा च-
मन्त्रं मन्त्री जपेल्लक्षं जपान्ते जुहुयात्ततः ।
अयुतं राजवृक्षोत्थैर्घृतसिक्तैः समिद्वरैः ।
राजवृक्षः शोणालुः ॥ ९४ ॥
अथ दुरामन्त्राः
अथ दुर्गामनुं वक्ष्ये दृष्टादृष्ट फलप्रदाम् ।
मायाद्रि-कर्ण विन्द्वाढ्यो भूयोऽसौ सर्गवान् भवेत् ।
पञ्चान्तकः प्रतिष्ठावान् मारुतो भौतिकासनः ।
तारादि हृदयान्तोऽयं मन्त्रो वस्वक्षरात्मकः ।
अद्रिर्दकारः, कर्णः उकारः, पञ्चान्तको गकारः, प्रतिष्ठा
आकारः, मारुतो यकारः, भुतिकः ऐकाः ।
(प्रमाणान्तरं)-
तारो माया स्वबीजञ्च दुर्गायै हृदयं ततः ।
इति भट्टः ॥ ९५ ॥
अस्याः पूजाप्रयोगः-
प्रातः कृत्यादिपीठन्यासान्तं विधाय हृत्पद्मस्य केशरेषु
मध्ये च पीठशक्तीन्यसेत् ।
तद्यथा-
आं प्रभायै ईं मायायै ऊं जयायै एं सूक्ष्मायै ऐं
विशुद्धायै ॐ नन्दिन्यै औं सुप्रभायै अं विजयायै अः
सर्वसिद्धिदायै, नमः सर्वत्र ।
तदुपरि ॐ वज्रनखदंष्ट्रायुधाय महासिंहाय हुं फट्
नमः इति न्यसेत् ।
तथा च निबन्धे-
प्रभा माया जया सूक्ष्मा विशुद्धा नन्दिनी पुनः ।
सुप्रभा विजया सर्वसिद्धिदा नवशक्तयः ।
अज्भिर्ह्रस्वत्रयक्लीवरहितैः पूजयेदिमाः ।
प्रणवानन्तरं वज्रनखदंष्ट्रायुधाय चा ।
महासिंहाय वर्मान्तं नतिः सिंहमनुर्मतः ।
दद्यादासनमेतेन मूर्तिं मूलेन कल्पयेत् ॥ ९६ ॥
ततः ऋष्यादिन्यासः
तद्यथा-
शिरसि नारदऋषये नमः, मुखे गायत्रीच्छन्दसे नमः, हृदि
दुर्गायै देवतायै नमः ।
तथा च निबन्धे-
ऋषि स्यान्नारदश्छन्दो गायत्री देवता मनोः ।
दुर्गा समीरिता सद्भिर्दुरितापन्निवारिणीति ॥ ९७ ॥
ततः कराङ्गन्यासौ-
ह्रां ॐ ह्रीं दुं दुर्गायै अङ्गुष्ठाभ्यां नमः, ह्रीं ॐ ह्रीं
दुं दुर्गायै तर्जनीभ्यां स्वाहा, ह्रूं ॐ ह्रीं दुं दुर्गायै
मध्यमाभ्यां वषट्, ह्रैं ॐ ह्रीं दुं दुर्गायै
अनामिकाभ्यां हुं, ह्रौं दुं दुर्गायै कनिष्ठाभ्यां वौषट्,
ह्रः ॐ ह्रीं दुं दुर्गायै करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु ह्रां ॐ ह्रीं दुं दुर्गायै नमः इत्यादि ।
तथा च निबन्धे-
नमस्कारविमुक्तेन मूलमन्त्रेण साधकः ।
ह्रामाद्यैः सह कुर्वीत षडङ्गानि यथाविधि ॥ ९८ ॥
ततो ध्यानम्-
सिंहस्था शशिशेखरा मरकतप्रख्या चतुर्भिर्भुजैः, शङ्खं
चक्र-धनुः-शरांश्च दधती नेत्रैस्त्रिभिः शोभिता ।
आमुक्ताङ्गदहारकङ्कणरणत्काञ्चोक्वणन्नूपुरा, दुर्गा
दुर्गतिहारिणी भवतु वो रत्नोल्लसत्कुण्डला ।
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्यात् ॥ ९९ ॥
ततः पीठपूजां कृत्वा केशरेषु मध्ये च आं प्रभायै, ईं
मायायै, उं जयायै, एं सूक्ष्मायै, ऐं विशुद्ध्यायै, ॐ
नन्दिन्यै, औं सुप्रभायै, अं विजयायै, अः सर्वसिद्धिदायै, तदुपरि
वज्रनखदंष्ट्रायुधाय महासिंहाय हुं फट् नमः इति
पूजयेत् ।
तथा च-
अज्भिर्ह्रस्वत्रयक्लीवरहितैः पूजयेदिमाः ।
प्रणवानन्तरं वज्रनखदंष्ट्रायुधाय च ।
महासिंहाय वर्मान्तं नतिः सिंहमनुर्मतः ।
दद्यादासनमेतेन मूर्तिं मूलेन कल्पयेत् ।
ततः पुनर्ध्यात्वा आवाहनादि पञ्चपुष्पाञ्जलिदानपर्यन्तं
विधाय आवरणपूजामारभेत् ।
तद्यथा-
अग्निनिर्-ऋतिवायव्यीशानकोणेषु मध्ये दिक्षु च ह्रां ॐ ह्रीं दुं
दुर्गायै हृदयाय नमः इत्यादिना पूजयेत् ॥ १०० ॥
ततः पत्रेषु जं जयायै, विं विजयायै, कीं कीर्त्यै, प्रीं प्रीत्यै,
प्रं प्रभायै, श्रं श्रद्धायै, श्रुं श्रुत्यै, मं मेधायै ।
पत्रेषु ॐ शङ्खाय चक्राय गदायै खड्गाय पाशाय अङ्कुशाय
चापाय शराय ।
तद्बाह्ये इन्द्रादीन् वज्रादींश्च पूजयेत् ।
ततो धूपादि विसर्जनान्तं कर्म समापयेत् ॥ १ ॥
अस्य पुरश्चर्णमष्टलक्षजपः ।
तथा च-
वसुलक्षं जपेन्मन्त्रं तिलैर्मधुरलोडितैः ।
पयोन्धसा वा जुहुयात्तत्सहस्रं जितेन्द्रियः तेन
वाचनिकोऽष्टसहस्रहोमः ॥ २ ॥
अथ महिषमर्दिनीमन्त्राः
शारदायाम्-
भान्तं वियत्सनयनं श्वेतो मर्दिनि ठ द्वयम् ।
अष्टाक्षरी समाख्याता विद्या महिषमर्दिनी ।
नारायणीतन्त्रे-
विष हि मज्जा कालोऽग्निरद्रिरिस्थो नि ठ द्वयम् ।
विषं मकारः, हि स्वरूपं मज्जा यकारः, कालो मकार, अग्नि
रेफः, अद्रिर्दकारः, इस्थः इकारयुक्तः, इति वचनादिकारयुक्तो
दकारः ।
अयं मन्त्रः तारादिः मायादिः कामादिः वाग्भवादिः
वधूवीजादिः कवचादिश्च नवाक्षरः ॥ ३ ॥
तथा च विश्वसारे-
प्रणवाद्यां जपेद्विद्यां मायाद्यां वा जपेत्सुधीः ।
वधूबीजादिकां वापि कवचाद्यां जपेत्तथा ।
सर्वकालेषु सर्वत्र मामाद्यां प्रजपेत्सुधीः ।
वाग्भवाद्यां जपेत्तान्तु देवीं वाक्यविशुद्धये ।
विना वीजैर्महाविद्या निर्वीर्या परिकीर्तिता ।
पुटिता बीजयुग्मेन मुखे युग्मेदेशके ।
दशाक्षरी समा नास्ति विद्या त्रिभुवनेश्वरी ।
प्रणवञ्च तथा माया भवेद्विद्या पुनर्दश ।
कामं प्रणवमित्युक्तं भवेद्विद्या पुनर्दश ॥ ४ ॥
एतेषां पूजा-
प्रातःकृत्यादिपीठन्यसेत् ।
ततः पूर्वोक्त - ऋष्यादिन्यासञ्च कृत्वा कराङ्गन्यासौ कुर्यात् ॥ ५ ॥
तद्यथा-
महिषहिंसिके हूं फट् अङ्गुष्ठाभ्यां नमः,
महिषशत्रोशार्वि हूं फट् तर्जनीभ्यां स्वाहा, महिषं हेषय
हूं फट् मध्यमाभ्यां वषट्, महिषं हन हन देवि हूं
फट् अनामिकाभ्यां हूं, महिषसूदनी हूं फट्
कनिष्ठाभ्यां फट् ।
एवं हृदयादि महिषहिंसिके हूं फट् हृदयाय नमः इत्यादि ।
तथा च, पञ्चाङ्गानि मनोर्यत्र तत्र नेत्रं विवर्जयेत् ।
नेत्ररहितं पञ्चाङ्गं कुर्यात् ॥
तथा च निभन्धे-
महिषहिंसिके हूं फट् हृदयं परिकीर्त्तितम् ।
महिषत्रोशार्वि हूं शिर उदाहृतम् ।
महिषं हेषय-द्वन्द्वं हूं फडन्तः शिखामुः ।
महिषं हन युग्मान्ते देवि हूं फट् तनुच्छदम् ।
महिषान्ते सूदनि हूं फडन्तमस्त्रमीरितम् ॥ ५ क ॥
ततो ध्यानम्-
गारुडोपलसन्निभां मणिमौलिकुण्डलमण्डिताम् ।
नौमि भालविलोचनां महिषोत्तमाङ्गनिषेदुषीम् ।
शङ्खचक्र-कृपाणखेटक-बाण कार्मुकशूलकान् ।
तर्जनिअमपि विभ्रतीं निजबाहुभिः शशिशेखराम् ॥ ६ ॥
एवं ध्यात्वा मानसैः सम्पूज्य अर्घ्यस्थापनं कृत्वा
पीठपूजां विधाय कशरेषु मध्ये च पूर्वाक्त-पीठमनुञ्च
यजेत् ।
अर्घ्य पात्रन्तु विश्वसारे-
कालीवत् पूजयेद्देवी कालीवत् फलमाप्नुयात् ।
न वैष्णवैर्यजेद्देवीं न तुलस्या कदाचन ।
न शङ्खेरर्घ्यपात्रं स्यात् कथितं पद्मयोनिना ।
विश्वामित्रस्य पात्रेण मृदा वापि शिवायजेत् ।
इति वचनात् शङ्खनिषेधः ॥ ७ ॥
पुनर्ध्यात्वा आवाहनादि पञ्चपुष्पाञ्जलिदानपर्यन्तं विधाय
आवरणपूजामारभेत ।
अग्न्यादिषु पूर्ववदङ्गं पूजयेत् ।
ततः पत्रेषु पूर्वादि आं दुर्गायै नमः, ईं वरवर्णिन्यै, ऊ
आर्यायै, ऋं कनकप्रतिभायै, ऌं कृत्तिकायै, ऐम् अभयप्रदायै,
औं कन्यायै, अः सुरूपायै ।
तथा तन्त्रान्तरे-
आदौ दुर्गा ततो वरवर्णिनीमाध्यङ्काह्वयाम् ।
कनकप्रतिभाञ्चैवकृत्तिकाम भयप्रदाम् ।
कन्याञ्चैव सुरूपाञ्च यजेत्पूर्वादितः क्रमात् ।
दीर्घाद्यत्वमेतासान्तु ॥ ८ ॥
अष्टपत्रे यजेद्देवी दुराद्या दीर्घपूर्विकाः ।
इति मन्त्रचूडामणिना उक्तत्वात् ।
दीर्घस्वरैः क्रमादिति शारदावचनाच्च ॥ ९ ॥
पत्राग्रेषु यं चक्राय, रं शङ्खाय, लं खड्गाय, वं
खेटकाय, शं बाणाय, षं धनुषे, सं शूलाय, हं तर्जन्यै ।
नमः सर्वत्र ।
तथा च निबन्धे-
यजेद्ग्रेष्वायुधानि चक्रशङ्खावासिखेटकान् ।
बाणं बाणासनं शूलं तर्जनीं यादिभिः क्रमात् ।
पत्राग्रेषु ब्राह्म्याद्याः पूजयेत् ।
ततो दिक्षु तद्वहिरिन्द्रादीन्वज्रादींश्च प्रपूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ।
तथा च कुलचुडामणौ-
ब्राह्म्याद्याश्च ततः पश्चाल्लोकपालांस्ततो बहिः ।
तसस्त्राणि सिद्धमयी प्रयोगञ्च समाचरेत् ॥ १० ॥
अस्य पुरश्चरणमष्टलक्षजपः अष्टसहस्रं तिलेर्होमः
तथा च-
अष्टलक्षं जपेन्मन्त्रं तत्सहस्रं तिलैः शुभैः ।
इत्यादि वचनात् ॥ ११ ॥
जपसमर्पणात्पूर्वमुत्तरस्यां दिशि त्रिकोणमण्डलं विलिख्य
वलिं दद्यात् ।
एहि एहि पदद्वन्द्वं गृह्ण गृह्ण पदद्वयम् ।
मदीयञ्च बलिं देवि लुलापकपदद्वयम् ।
साधय-द्वितयं ब्रूयात्खादय-द्वितयं पुनः ।
सर्वं सिद्धिपदं देहि ततः स्वाहापदं वदेत् ।
बलिदानस्य मन्त्रोऽयं मर्दिन्याः परिकीर्तितः ॥ १२ ॥
अथ जयदुर्गामन्त्राः
तारो दुर्ग युगं रक्तमन्त्योढान्तं सलोचनम् ।
द्विठान्तो जयदुर्गयं विद्या वेद्या दशाक्षरी ॥ १३ ॥
अस्याः पूजा-
प्रातःकृत्यादि दुर्गामन्त्रोक्तम् ऋष्यादिन्यासान्तं कर्मं कृत्वा
कराङ्गन्यासौ कुर्यात् ।
ॐ दुर्गे अङ्गुष्ठाभ्यां नमः, दुर्गे तर्जनीभ्यां स्वाहा,
दुर्गायै मध्यमाभ्यां वषट्, भूतरक्षणि अनामिकाभ्यां
हुं, ॐ दुर्गे दुर्गे अक्षणि कनिष्ठाभ्यां वौषट्, ॐ दुर्गे दुर्गे
रक्षणि करतलपृष्ठाभ्यां फट् हृदयादिषु ॥ १४क ॥
ततो ध्यानम्-
कालाभ्राभां कटाक्षैररिकुभयदां मौलिबद्धेन्दुरेखां,
शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।
सिंहस्कन्धाधिरूणां त्रिभुवनमखिलं तेजसा पूर्यन्तीं,
ध्यायेद्दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां
सिद्धिकामैः ।
एवं ध्यात्वा मानसैः सम्पूज्य अर्घ्यस्थानं कुर्यात् ॥ १५ ॥
ततः पूर्वोक्त पीठपूजा विधाय पूर्ववत्पूजां कुर्यात् ।
अस्य पुरश्चरणं पञ्चलक्षजपः ।
घृतेन दशांशहोमः ।
तथा च निबन्धे-
बाणलक्षंअ जपेन्मन्त्रं घृतेन जुहुयात्ततः ।
दशांशं संस्कृते वह्नौ ब्राह्मणानपि भोजयेत् ।
अष्टाक्षरोदिते पीठे पूर्ववत्पूजयेत्सुधीः ॥ १६ ॥
अथ शूलिनीमन्त्राः
ज्वलज्वलपदस्यान्ते शूलनितो पदं ततः ।
दुष्टग्रहहुमस्त्रान्ते वह्नियायावधिर्मनुः ।
भूतेन्द्रियाक्षरैः प्रोक्तो ग्रहक्षुद्रविनाशकृत् ॥ १७ ॥
अस्याः पूजा प्रातः कृत्यादि दुर्गामन्त्रोक्त पीठन्यासान्तं कर्म
कृत्वा ऋष्यादिन्यासं कुर्यात् ।
यथा-
शिरसि दीर्घतपसे ऋषये नमः, मुखे ककुप्छन्दसे नमः, हृदि
शूलिन्यै देवताय नमः ।
निबन्धे-
ऋषिर्दीर्घतपाः प्रोक्त ककुप छन्द उदाहृतम् ।
शूलिनी देवता प्रोक्ता समस्तसुरवन्दितेति ॥ १८ ॥
ततः कराङ्गन्यासौ कुर्यात्यथा-
शूलिनि दुर्गे हुं फट् अङ्गुष्ठाभ्यां नमः, शूलिनि वरदे हुं
फट् तर्जनीभ्यां स्वाहा, शूलिनि विन्ध्यवासिनि हुं फट्
मध्यमाभ्यां वषट्, शूलिनि असुरमर्नि युद्धप्रिये त्रासय
त्रासय हुं फट् अनामिकाभ्यां हुं, शूलिनि देवसिद्धसुपूजिते
नन्दिनि रक्ष रक्ष महायोगेश्वरि हुं फट् कनिष्ठाभ्यां फट् ।
एवं हृदयादिषु ।
तथा च निबन्धे-
दुर्गे हृद्वरदे शीर्षे विन्ध्यवासिनि तच्छिखा ।
असुरान्ते मर्दिनि स्याद्युद्धपूर्व प्रिये पुनः ।
त्रासय-द्वितयं वर्म देवसिद्धसुपुजिते ।
नन्दिनि स्याद्रक्षयुतं महायोगेश्वरि क्रमात् ।
शूलिन्याद्या हुं फडन्ताः पञ्च वै मनवः क्रमात् ॥ १९ ॥
ततो ध्यानम्-
अध्यारूढां मृगेन्द्रं सजलजलधरश्यामलां हस्तपद्मैः
शूलं बाणं कृपाणन्त्वरिजलजगदाचापपाशान्वहन्तीम् ।
चन्द्रोत्तंसा त्रिनेत्रा चतसृभिरसिनाखेटकं विभ्रतीभिः
कन्याभिः सेव्यमानां प्रतिभटभयदा शूलिनीं भावयामि ।
एवं ध्यात्वा मानसैः सम्पूज्य अर्घ्यस्थानं कुर्यात् ॥ २० ॥ ततः
पूर्वोक्तपीठपूजां विधाय पुनर्ध्यात्वा आवाहनादि
पञ्चपुष्पाञ्जलिदानपर्यन्तं कर्म कृत्वा
आवरणपूजामारभेत् ।
तद्यथा-
अग्निनिर्-ऋतिवाय्वी शानकोणेषु दिक्षु च शूलिनि दुर्ग हुं फट्
हृदयाय नमः इत्यादिना पूर्वोक्तपञ्चङ्गानि यजेत् ।
ततः पत्रेषु पूर्वादि ॐ दुर्गायै नमः, एवं वरदायै
विन्ध्यवासिन्यै असुरभर्दिन्यै युद्धप्रियायै देवसिद्धसुपूजितायै
नन्दिन्यै महायोगेश्वर्ये ।
ततः पत्राग्रेषु तदस्त्राणि पूजयेत् ॥ २१ ॥
तथा च निबन्धे-
विधाय पूजामङ्गानां पूज्यां पत्रेषु शक्तयः दुर्गाद्या
वरदा विन्ध्यवासिन्यसुरमर्दिनी ।
युद्धप्रिया पञ्चमी स्याद्देवसिद्ध सुपूजिता ।
सप्तमी नन्दिनी प्रोक्ता महायोगेश्वरी परा ।
दलाग्रेषु तदस्त्राणि शङ्खं चक्रमसिं पुनः ।
गदेषुचापशूलानि पाशं पश्चद्दिशोऽधिपान् ॥
ततो धूपादि-विसर्जनान्तं कर्म समापयेत् ।
अस्यपुरश्चरणं पञ्चदशलक्षजपः ।
तथा च-
मनुमेनं जपेन्मन्त्री वर्णलक्षं विचक्षणः ।
सर्पिषान्नेन वा होमस्तद्दशांशमितो भवेत् ॥ २२ ॥
अथ वागीश्वरीमन्त्राः
अथ वर्णतनुं वक्ष्ये विश्वबोध प्रबोधिनीम् ।
यस्यामनुपलब्धायां सर्वमेतज्जगज्जडम् ॥
वद वद वाग्वादिनि वह्निवल्लभा इति दशाक्षरः ॥ २३ ॥
तथा च निबन्धे-
अद्रिर्वरुणसंरुद्धो-द-वाग्वादिनि ठ-द्वयम् ।
सरस्वत्या दशार्णोऽयं वागैश्वर्यम्प्रदायकः ।
भुवनेशीसम्पुटोऽयं महासारस्वतप्रदः ॥ २४ ॥
अस्याः पूजायन्त्रं-
व्योमेन्द्वौ रसनार्णकार्णिकमचां द्वन्द्वैः स्फुरत्केशरं
पत्रान्तर्गत पञ्चवर्गयशलार्णादिब्जिवर्गं क्रमात् ।
आशास्वस्रिषु लान्तलाङ्गलियुजा क्षौणी पुरेणावृतं यन्त्रं
वर्णतनोः परं निगदितं सर्वथिसिद्धि प्रदम् ॥ २५ ॥ (चित्र २०)
अस्याः पूजा-
प्रातकृत्यादि पीठन्यासान्तं विधाय केशरेषु मध्ये दिक्षु च ॐ
मेधायै नमः एवं प्रज्ञायै प्रभायै विद्यायै श्रियै धृत्यै
स्मृत्यै बुद्ध्यै विद्येश्वर्य, मध्ये, मध्ये वर्ण पद्मासनाय ।
नमः सर्वत्र ॥ २६ ॥
तत-ऋष्यादिन्यासः-
शिरसि कण्व-ऋषये नमः, मायापुटिश्चेत्बृहस्पतये ऋषये नमः ।
मुखे विराट्च्छन्दसे नमः ।
हृदि वागीश्वर्यै देवतायै नमः ॥ २७ ॥
अथ मन्त्रन्यासः-
वं शिरसि नमः ।
श्रवणयोः दं नमः वं नमः ।
चक्षुषोः दं नमः वां नमः ।
नासिकयोः ग्वां नमः दिं नमः ।
वदने निं नमः ।
लिङ्गे स्वां नमः ।
गुह्ये हां नमः ।
ततो मातृकायाः कराङ्गन्यासौ कृत्वा ध्यायेत् ॥ २८ ॥
तथा च निबन्धे-
शिरः-श्रवणदृङ्नासावदनान्धुगुदेष्विमान् ।
न्यस्य वर्णान् षडङ्गानि मातृकोक्तानि कल्पयेत् ॥ २९ ॥
ततो ध्यानम्-
तरुणसकलमिन्दोर्विभ्रती शुभ्र-कान्तिः कुचभारनमिताङ्गी
सन्निषण्णा सिताब्जे ।
निजकर कमलोद्यल्लेखनी पुस्तकश्रीः, सकलविभव सिद्धयै पातु
वाग्देवता नः ॥
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्यात् ॥ ३० ॥
ततः पीठपूजां कृत्वा केशरेषु मध्ये दिक्षु च मेधादि पीठ
मन्वन्तं सम्पूज्य पुनर्ध्यात्वा आवाहनादि-
पञ्चपुष्पाञ्जलिदानपर्यन्तं विधाय आवरणपूजां कुर्यात् ।
अग्निकोणे अं कं खं गं घं ङम् आं हृदयायै नमः ।
नैर्-ऋते इं चं छं जं झं ञम् ईं शिरसे स्वाहा ।
वायुकोणे उं टं ठं डं ढं णम् ऊं शिखायै वषट् ।
ईशाने एं तं थं दं धं नम् ऐं कवचाय हुम् ।
मध्ये ॐ पं फं बं भं मम् औं नेत्रत्रयाय वौषट् ।
दिक्षु अं यं रं लं वं शं षं सं हं लं क्षम् अः
अस्त्राय फट् ।
पत्रेषु पूर्वादि ॐ योगायै नमः, ॐ सत्यायै नमः, एवं विमलायै
ज्ञानायै बुद्धयै स्मृत्यै मेधायै प्रज्ञायै ।
दलाग्रेषु ब्राह्म्याद्या मातरः पूज्याः ।
यथा निबन्धे-
ब्राह्म्याद्या मातरः पूज्याः प्रणवादिनमोऽन्तिकाः ।
तथा च-
आदावङ्गानि सम्पूज्य पश्चात् शक्तिरिमा यजेत् ।
योगा सत्या च विमला ज्ञाना बुद्धिः स्मृतिः पुनः ।
मेधा प्रज्ञा च पत्रेषु मुद्रापुस्तकधारिणी ।
दलाग्रेषु समभ्यर्च्य ब्राह्मयाद्याश्च यथाविधि ।
लोकपाला बहिः पूज्यास्तेषामस्त्राणि तद्बहिः ।
इति प्रपञ्चसारात् ।
तद्बहिरिन्द्रादीन् वज्रादींश्च पूजयेत् ॥ ३१ ॥
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ।
अस्य पुरश्चवरणं दशलक्षजपः ।
तथा च-
दशलक्षं जपेन्मन्त्रं-दशांशं जुहुयात्ततः ।
पुण्डरीकैः पयोऽभ्यक्तैस्तिलैर्वा मधुराप्लुतैः ॥ ३२ ॥
मन्त्रान्तरम्
अथ मन्त्रान्तरम्
हृदयान्ते भगवति वदशब्दयुगं ततः ।
वाग्देवि वह्निजायान्तं वाग्भवाद्यं समुद्धरेत् ।
मनुः षोडशवर्णाध्यो वागैश्वर्यफलप्रदः ॥ ३३ ॥
अस्य पूजा-
प्रातःकृत्यादि पीठन्यासान्तं विधाय केशरेषु मध्ये च
पूर्वोक्तपीठशक्तिः पीठमनुञ्च न्यसेत् ॥ ३४ ॥
ततः पूर्वोक्त-ऋष्यादिन्यासं कृत्वा कराङ्गन्यासौ कुर्यात् ।
तद्यथा-
ऐम् अङ्गुष्ठाभ्यां नमः ।
नमस्तर्जनीभ्यां स्वाहा ।
भगवति मध्यमाभ्यां वषट् ।
वद वद अनामिकाभ्यां हुम् ।
वाग्देवि कनिष्ठाभ्यां वौषट् ।
स्वाहा करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु ।
तथा च निबन्धे-
मनोः षड्भिः पदैः कुर्याज्जातियुक्तं षडङ्गकम् ॥ ३५ ॥
ततो ध्यानम्-
शुभ्रां स्वच्छविलेपमाल्यवसनां पीतांशुखण्डो ज्ज्वलां,
व्याख्यामक्षगुणं सुधाढ्यकलसं विद्याञ्च हस्ताम्बुजैः ।
विभ्राणां कमलासनां कुचलतां वाग्देवतां सस्मितां, वन्दे
वाग्विभवप्रदां त्रिनयनां सौभाग्यसम्पत्करीम् ।
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्यात् ॥ ३६ ॥
ततः पूर्वोक्तक्रमेण पूजयेत् ।
किन्त्वङ्गमन्त्रे विशेषः ।
अस्य पुरश्चचरमष्टलक्षजपः ।
तथा च-
हविष्याशी जपेन्मन्त्रं वसुलक्षमनन्यधीः ।
दशांशं जुहुयादन्ते तिलैराज्यपरिप्लुतैः ॥ ३७ ॥
मन्त्रान्तरम्
तारो मायाधरो विन्दुशक्तिस्तारः सरवस्ती ।
ङेन्तानत्यन्तको मन्त्रं प्रोक्त एकादशाक्षरः ॥ ३८ ॥
अस्य पूजा-
प्रातःकृत्यादिपूर्वोक्त पीठमन्वन्तं विन्यस्य पूर्वोक्त
ऋष्यादिन्यासं कुर्यात् ॥ ३९ ॥
ततो मन्त्रन्यासः-
ॐ नमो ब्रह्मरन्ध्रे ।
ह्रीं नमो भ्रूवोर्मध्ये ।
चक्षुषो ऐं नमः ह्रीं नमः ।
कर्णयोः ॐ नमः सं नमः ।
नासिकयोः रं नमः स्वं नमः मुखे त्यैं नमः-
लिङ्गे नं नमः ।
गुह्ये मं नमः ॥ ४० ॥
ततः कराङ्गन्यासौ-
ऐम् अङ्गुष्ठभ्यां नमः ।
ऐं तर्जनीभ्यां स्वाहा ।
ऐं मध्यमाभ्यां वषट् फट् ।
एवम् अनामिकाभ्यां हुम् ।
ऐं कनिष्ठाभ्यां वौषट् ।
ऐं करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु ऐं हृदयाय नमः इत्यादि ।
तथा च निबन्धे-
ब्रह्मरन्ध्रे भ्रुवोर्मध्ये नवरन्ध्रेषु च क्रमात् ।
मन्त्रवर्णान्न्यसेन्मन्त्री वाग्भवेनाङ्गकल्पना ॥ ४१ ॥
ततो ध्यानम् ।
वाणीं पूर्णनिशाकरोज्ज्वलमुखीं कर्पूरकुन्दप्रभां,
चन्द्रार्द्धाङ्कितमस्तकां निजकरैः संविभ्रतीमादरात् ।
वीणामक्षगुणं सुधाढ्यकलसं विद्याञ्च तुङ्गस्तनीं,
दिव्यैराभरणैर्विभूषिततनुं हंसाधिरूढां भजे ।
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्यात् ॥ ४२ ॥
ततः पीठपूजां विधाय केशरेषु मध्ये च पूर्वोक्त
पीठशक्तीः पिठमनुञ्च यजेत् ।
ततः पुनर्ध्यात्वा, आवहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं
विधायावरणपूजामारभेत ।
देव्या दक्षिणे ॐ संस्कृतायै वाङ्मयै नमः ।
वामे ॐ प्राकृतायै वाङ्मयै नमः ।
ततः केशरेषु अग्निकोणे ऐं हृदयाय नमः, नैर्-ऋते ऐं शिरसे
स्वाहा, वायव्ये ऐं शिखायै वषट् ईशाने ए कवचाय हुं, मध्ये
ऐं नेत्रत्रयाय वौषट्, दिक्षु ऐम् अस्त्राय फट् ।
ततः पत्रेषु पूर्वादि प्रज्ञायै मेधायै श्रुत्यै शक्त्यै स्मृत्यै
वागीश्वर्यै मत्यै स्वस्त्यै, सर्वत्र प्रणवादिनमोऽन्तेन पूजयेत् ।
ततः पत्राग्रेषु ब्राह्म्याद्या मातरः पूज्याः ।
तथा च निबन्धे-
देव्या दक्षिणतः पूज्याः संस्कृता वाङ्मयी शुभा ।
प्राकृता वाङ्मयी पूज्या वामतः सर्वदा शुभा ।
इष्टा पूर्ववदङ्गानि प्रज्ञाद्याः पूजयेत् पुनः ।
प्रज्ञा मेधा श्रूतिः शक्तिः स्मृतिर्वागीश्वरी मतिः ।
स्वस्तिश्चेति समाख्याता ब्राह्म्याद्यास्तदनन्तरम् ।
ततस्तद्वहिरिन्द्रादीन् वज्रादींश्च प्रपूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ ४३ ॥
अस्य पुरश्चरणं द्वादशलक्षजपः
तथा च-
जपेद्द्वाशलक्षाणि तत्सहस्रं सिताम्बुजैः ।
नागचम्पकपुष्पैर्वा जुहुयात्साधकोत्तमः ॥ ४४ ॥
मन्त्रान्तरम् शारदायाम्-
वाचस्पतेऽमृते भूयः प्लुवः प्लुरिति कीर्तियेत् ।
वागाद्यो मनुराख्यातो रुद्रसङ्ख्याक्षरोऽपरः ॥ ४५ ॥
अस्य पूजादिकं पूर्ववत् ।
कराङ्गन्यासौ तु ऐम् अङ्गुष्ठाभ्यां नमः ।
वाचस्पते तर्जनीभ्यां स्वाहा ।
अमृते मध्यमाभ्यां वषट् ।
प्लुवः अनामिकाभ्यां हुम् ।
प्लुः कनिष्ठाभ्यां फट् ।
एवं हृदयादिषु ॥ ४६ ॥
तथा च निबन्धे-
कुर्यादङ्गानि विधिवद्वागाद्यैः पञ्चभिः पदैः ॥ ४६क ॥
ध्यानन्तु-
आसिना कमले करैर्जपवटीं पद्मद्वयं पुस्तकं, विभ्राणा
तरुणेन्दुवद्धमुकुटा मुक्तेन्दुकुन्दप्रभा ।
भालोन्मिलितलोचना कुचभारक्लान्ता भवद्मूतये,
भूयाद्वागधिदेवता मुनिगणैरासेव्यमानानिशम् ॥ ४७ ॥
अस्य पुरश्चरणमेकादशलक्षजपः ।
तथा च-
रुद्रलक्षं जपेन्मन्त्रं दशांशं जुहुयाद्घृतैः ॥ ४८ ॥
तथा च शारदायाम्-
तोयस्थं शयनं विष्णोः सकेवल चतुर्मुखम् ।
अर्घीशेन्दुयुतोवह्निर्विन्दुसत्याम्बुमान् भृगुः ।
उक्तानि त्रीणि बीजानि सद्भिः सारस्वती मनुः ।
तोयं वकारः, विष्णोः शयनमाकारः, केवलेन स्वररहितेन
ककारेण सह तेन वाक् ।
वाग्भवमिति पर्यवसितार्थः ।
केचित्तुलक्षितलक्षणाभयादेवं वर्णयन्ति ।
आकारयुक्तो वकारः के मस्तके वलते केवलोऽनुस्वारः तद्युक्तेन
ककारेण सह वर्त्तत तेन क्वामिति तन्न निरूढलक्षणायाः
शक्तितुल्यत्वात् वाक्वाग्भवमिति पर्यायः ।
वस्तुतस्तु-
द्वादशस्वरमुद्धृत्य विन्दुनादभूषितम् ।
विन्दुनादसमायुक्तं वह्निबीजं समुद्धरेत् ।
षष्ठस्वरसमायुक्तं द्वितीयं बीजमुद्धरेत् ।
चन्द्रबीजं समुद्धृत्य वारुणं योजयेत्ततः ।
त्रयोदशस्वरारूढं विन्दुनादविभूषितमिति
विश्वसारवचनात्वाग्भवबीजमेव ॥ ४९ ॥
अस्य पूजा पूर्ववत् ।
कराङ्गन्यासस्तु द्विरुक्तैस्त्रिभिर्बीजैर्विधेयः ।
ऐम् अङ्गुष्ठाभ्यां नमः, रूं तर्जनीभ्यां स्वाहा, स्वों
मध्यमाभ्यां वषट् इत्यादि ।
तथा च निबन्धे-
अङ्गानि कल्पयेन्मन्त्री द्विरुक्तैर्जातिसंयुतैः ॥ ५० ॥
ध्यानन्तु मुक्ताहारावदातां शिरसि शशिकलालङ्कृतां
बाहुभिः स्वैर्व्याख्यां वर्णाख्यमालां मणिभयकलसं
पुस्तकञ्चोद्वहन्तीम् ।
आपीनोत्तुङ्गवक्षोरुहभरविलसन्मध्यदेशामधीशां
वाचमीडे चिराय त्रिभुवननमितां पुण्डरीके निषण्णाम् ।
इति ध्यात्वा पूर्ववत्पूजयेत् ॥ ५१ ॥
अस्य पुरश्चरणं त्रिलक्षजपः ॥
तथा च-
त्रिलक्षं प्रजपेन्मन्त्रं जुहुयात्तद्दशांशतः ।
पायसैराज्यसम्मिश्रैः संस्कृते हव्यवाहने ॥ ५२ ॥
अथ पारिजातसरस्वतीमन्त्रः
मन्त्रदेवप्रकाशिकायाम्-
स च प्रणवहृल्लेखासम्पुटितहकारसकारौकारविन्दुयुक्तः
सरस्वती ङेन्ताः नतिश्च ॥ ५३ ॥
अस्याः पूजा-
प्रातःकृत्यादि पीठमन्वन्तं विन्यस्य ऋष्यादिन्यासं कुर्यात्शिरसि
कण्व-ऋषये नमः, मुखे त्रिष्टुप्छन्दसे नमः, हृदि पारिजात
सरस्वत्यै नमः ॥ ५४ ॥
ततो मातृकोक्तकराङ्गन्यासौ कुर्यात् ।
मूर्द्धभ्रूमध्यनेत्रकर्णनासापुटद्वयवदनगुह्यपादेष्वेक
अदशाक्षरविन्यासः ।
(ततो ह्साम् अङ्गुष्ठाभ्यां नमः इत्यादिना कराङ्गन्यासौ
कुर्यात्) अन्यत्सर्वं पूर्ववत् ॥ ५५ ॥
दक्षिणामूर्तिसंहितायान्तु-
सम्पत्प्रदाया भैरव्या वाग्भवं बीजमालिखेत् ।
तारेण परया देवि सम्पुटीकृत्य मन्त्रवित् ।
सरस्वत्यै हृदन्तोऽयं रुद्रार्णो मनुरीतः ।
प्रपञ्चसारे-
आद्यन्तप्रणवशक्तिमध्यसंस्था वाग्भूयो भवति सरस्वती
ङेन्ता नत्यन्तामनुरयमीशसङ्ख्यवर्णः सम्प्रोक्तो भजमानः
परिजातः ।
दक्षिणामूर्तिर्-ऋषिः प्रोक्ता गायत्री छन्द ईरितम् ।
पारिजातेश्वरी वाणी देवता परिकीर्तिता ।
तृतीयञ्च बीजं शक्तिञ्च तारकम् ।
कीलकं परमेशानि महासारस्वतप्रदम् ।
षड्दीर्घस्वरसभिन्नबीजेनाङ्गक्रिया मता ॥ ५६ ॥
ततो ध्यानम्-
हंसारूढा (हरहसितहारेन्दु) कुन्दावदाता, वाणी
मन्दस्मिततरमुखो मौलिबद्धेन्दुलेखा ।
विद्यावीणामृतमयघटाक्षस्रजा दीप्तहस्ता, श्वेताब्जस्था
भवदभिमतप्राप्तये भारती स्यात् ॥ ५७ ॥
अस्याः पूजादिकं पूर्वोक्तैकादशाक्षरीवत् ।
पुरश्चरणं द्वादशलक्षजपः ।
अर्कपुष्पैर्नागचम्पकैर्वा जुहुयाद्द्वादशसहस्रकम् ।
इति सरस्वतीमन्त्राः ॥ ५८ ॥
अथ गनेशमन्त्रः
अथ वक्ष्ये गणपतेर्मन्त्रान्सर्वार्थसिद्धिदान् ।
यान् ज्ञात्वा मानवा नित्यं साधयन्ति मनोरथान् ॥ ५९ ॥
पञ्चान्तकं शशिधरं बीजं गणपतेर्विदुः ।
पञ्चान्तकं गकारः ॥ ६० ॥
अस्य पूजाप्रयोगः-
प्रातःकृत्यादिपीठन्यासान्तं विधाय केशरेषु मध्ये च ॐ
तीब्रायै नमः, ज्वालिन्यै नन्दायै भोगदायै कामरूपिण्यै
उग्रायै तेजोवत्यै सत्यायै विघ्ननाशिन्यै तदुपरि
सर्वशक्तिकमलासनाय नमः ।
सर्वत्र प्रणवादिनमोऽन्तेन पूजयेत् ॥
तथा च निभन्दे-
तीव्राख्या ज्वालिनी नन्दा भोगदा कामरूपिणी ।
उग्रा तेजोवती सत्या नवमी विघ्ननाशिनी ।
सर्वादिशक्तिकमलासनाय हृदयावधिः ।
पीठमन्त्रोऽयमेतेन प्रदद्यादासनं विभोः ॥ ६१ ॥
ततः ऋष्यादिन्यासः-
शिरसि गणक-ऋषये नमः, मुखे निवृच्छन्दसे नमः, हृदि
गणेशाय देवतायै नमः ॥ ६२ ॥
ततः कराङ्गन्यासौ-
गाम् अङ्गुष्ठाभ्यां नमः, गीं तर्जनीभ्यां स्वाहा, गूं
मध्यमाभ्यां वषट्, तैम् अनामिकाभ्यां हुं, गौं
कनिष्ठाभ्यां वौषट्, गः करतलपृष्ठाभ्यां फट् एवं गां
हृदयाय नमः इत्यादिना हृदयादौ न्यसेत् ॥
तथा च निबन्धे-
षड्दीर्घभाजा वीजेन कुर्यादङ्गानि षट्क्रमात् ॥ ६३ ॥
ततो ध्यानम्-
सिन्दूराभं त्रिनेत्रं पृथुतरजठरं हस्तपद्मैर्दधानं,
दण्डं पाशाङ्कुशेष्टान्युरुकरविलसद्बीजपूराभिरामम् ।
बालेन्दुद्योतिमौलिं करिपतिवदनं दानपूरार्द्रगण्डं,
भोगीन्द्राबद्धभूषं भजत्गणपतिं रक्तवस्त्राङ्गरागम् ॥
एवं ध्यात्वा मानसैः सम्पूज्यार्घ्यस्थापनं कुर्यात् ॥ ६४ ॥
ततः पीठपूजां विधाय केशरेषु मध्ये च
तीव्रादिपीठमन्वन्तं पूजयेत् ।
ततो मूलेन मूर्तिं परिकल्प्य पुनर्ध्यत्वा आवाहनदि-
पञ्चपुष्पाञ्जलिदानपर्यन्तं कर्म विधाय
आवरणपूजामारभेत ।
यथा-
कर्णिकायां पूर्वादिदिक्षु ॐ गणाधिपतये नमः एवं गणेशाय
गणनायकाय गणक्रीडाय ।
ततः केशरेषु अग्निनिर्-ऋति वायव्योशानकोणेषु मध्ये दिक्षु च गां
हृदयाय नमः इत्यादिक्रमेण पूजयेत् ।
पत्रमध्ये पूर्वादि-
वक्रतुण्डमेकदन्तं महोदरगजाननौ ।
लम्बोदराख्यं विकटं विघ्नराजमनन्तरम् ।
धूम्रवर्णं दलाग्रेषु ब्राह्म्याद्याः पूजयेत्ततः ।
वाक्यन्तु-
ॐ वक्रतुण्डाय नमः इत्यादिक्रमेण पूजयेत् ।
दलाग्रेषु ब्राह्म्याद्या मातरः पूर्वादिक्रमेण पूज्याः ।
तद्बहिरिन्द्रादीन् वज्रादींश्च प्रपूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ ६५ ॥
अस्य पुरश्चरणं चतुर्लक्षजपः ॥
तथा च-
वेदलक्षं जपेन्मन्त्रं दशांशं जुहुयात्ततः ।
मोदकैः पृथुकैर्लाजैः शक्तुभिः सेक्षुपर्वभिः ।
नारिकेलैस्तिलैः शुद्धैः सुपक्वैः कदलीफलैः ।
अष्टद्रव्याणि विघ्नस्य कथितानि मनीषिभिः ॥ ६६ ॥
अथ महागणेशमन्त्रः
निबन्धे-
श्रीशक्तिस्मरभूमिविघ्नबीजानि प्रथमं लिखेत् ।
ङेन्तं गणपतिं पश्चाद्वरान्ते वरदं पदम् ।
उक्त्वा सर्वजनं मेन्ते वशमानय ठद्वयम् ।
अष्टाविंशत्यक्षरोऽयं ताराद्यो मनुरीरितः ॥ ६७ ॥
भूबीजमाह-
स्मृतिस्थं मांसमौबिन्दुयुक्तं भूबीजमीरितम् ।
स्मृतिर्गकारः, मांसं लकारः ।
तेन ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं
मे वशमानय स्वाहा ॥ ६८ ॥
अस्य पूजाप्रयोगः-
प्रातःकृत्यादिपीठन्यासान्तं कर्मविधाय पूर्वोक्ततीव्रादि-
पीठमन्वन्तं पीठशक्तीर्विन्यस्य ऋष्यादिन्यासमाचरेत् ।
शिरसि गणक-ऋसये नमः, मुखे निवृद्गायत्रीच्छन्दसे नमः, हृदि
महागणपतये देवतायै नमः ॥ ६९ ॥
ततः कराङ्गन्यासौ-
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गाम् अङ्गुष्ठाभ्यां नमः,
एवं ॐ ५ गीं तर्जनीभ्यां स्वाहा, ॐ ५ गूं मध्यमाभ्यां
वषट्, ॐ ५ गैम् अनामिकाभ्यां हुं, ॐ ५ गौं कनिष्ठाभ्यां
वषट्, ॐ ५ गः करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु ।
केचित्तु ॐ गां हृदयाय नमः इत्यादि वदन्ति तन्न, डड्बीजस्य
स्वबीजने दीर्घभाजा प्रकल्पयेत् ।
इति प्रपञ्चसारवचनाद्विशिष्टस्यैव ग्रहणात् ॥ ६९क ॥
ततो ध्यानम्-
नवरत्नमयं द्वीप स्मरेदिक्षुरसाम्बुधौ ।
तद्वीचिधोतपर्यन्तं मन्दमारुतसेवितम् ।
मन्दारपारिजातादिकल्पवृक्षलताकुलम् ।
उद्भूतरत्नच्छायाभिररुणीकृतभूतलम् ।
उद्यद्दिनकरेन्दुभ्यामुद्भाषितदिगन्तरम् तस्य मध्ये पारिजातं
नवरत्नमयं स्मरेत् ।
ऋतुभिः सवितं षडभिरनिशं प्रीतिवर्द्धनैः ।
तस्याधस्तान्महापीठे रचिते मातृकाम्बुजे ।
षट्कोणान्तस्त्रिकोणस्थं महागणपतिं स्मरेत् ।
हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसादाश्लिटं
प्रियया सपद्मकरया साङ्कस्थया सङ्गतम् ।
बीजापूरगदाध्नौस्त्रिशिखयुक्चक्राब्जपाशोत्पलं
व्रीह्यग्रस्वविषाणरत्नकलसान् हस्तैर्वहन्तै भजे ।
गण्डपालीगलाद्दनपूरलालसमानसान् ।
द्विरेफान् कर्ण-तालाभ्यां वारयन्तं मुहुर्मुहुः ।
कराग्रधृतमाणिक्य कुम्भवक्त्रविनिसृतैः ।
रत्नवर्षैः प्रीणयन्तं साधकान् मदविह्वलम् ।
माणिक्यमुकुटोपेतं रत्नाभरणभूषितम् ॥
एवं ध्यात्वा मानसैःसम्पूज्य वहिः पूजामारभेत ॥ ७० ॥
अस्य पूजायन्त्रम्-
त्रिकोणं तद्बहिः षट्कोणञ्च, अन्यत् सर्व मातृकायन्त्रवत् बोध्यम्
॥ ७१ ॥ (चित्र २१)
ततः शङ्खस्थापनं कृत्वा पीठपूजां विधाय
पूर्ववत्पीठशक्तिः पीठमनुञ्च सम्पूज्य पुनर्ध्यत्वा
आवाहनादि पञ्चपुष्पाञ्जलिदानपर्यन्तं विधाय
आवरणपूजामारभेत ।
त्रिकोणवाह्ये पूर्वादि चतुर्दिक्षु पूर्वे विल्ववृक्षाधः श्रियं
श्रीपतिं, दक्षिणे वटवृक्षाधः गौरीं गौरीपतिं, पश्चिमे
पिप्प्लवृक्षाधः रतिं रतिपतिम्, उत्तरे प्रियङ्गुवृक्षाधः महीं
वराहं, देवताग्रे लक्ष्मीं गणनायकं, षट्कोणेषु अग्रकोणे
सिद्धिसहितमामोदम्, अग्निकोणे समृद्धिसहितं प्रमोदं,
ईशानकोणे कान्तिसहितं सुमुखं, पश्चिमे मदनावतीसहितं
दुर्मुखं, नैर्-ऋते मदद्रवासहितं विघ्नं, वायव्ये
द्राविणीसहितं विघ्नकर्त्तारं पूजयेत् ।
षट्कोणस्योभय पार्श्वयोः ॐ वसुधसहित शङ्खनिधये नमः, ॐ
वसुमतीसहित पद्मनिधये नमः ।
यथा निबन्धे-
त्रिकोणस्य बहिर्विल्वटपिप्पलभूरुहाम् ।
प्रियङ्गोरप्यधो मन्री दिक्षु पूर्वादितो यजेत् ।
द्वौ द्वौ श्रियं श्रीपतिञ्च गौरिं गौरीपति तथा ।
रतिं रतिपतिञ्चापि महीमपि वराहकम् ।
अग्रे च पूजयेल्लक्ष्मीसहितं गणनायकम् ।
अग्रेकोणे तथा सिद्धिसहितामोदमित्यपि ।
अग्नि कोणे समृद्ध्या च सहितञ्च प्रमोदकम् ।
ईशाने कान्तिसहितं सुमुखं पश्चिमे तथा ।
दुर्मुखं मदनावत्या सहितं नैर्-ऋते तथा ।
सहितं मदद्रवया गणस्याप्यधिनायकम् ।
द्राविण्या सहितं वायौ विघ्नकर्त्तारमेव च ।
षट्कोणपार्श्वयोः शङ्खनिधिं वसुधया युतम् ।
वसुमत्या युतञ्चापि यजेत् पद्मनिधिं द्रुतम् ।
ततः, केशरेषु अग्न्यादि-कोणे मध्ये दिक्षु च षड्बीजसम्पूज्य
तद्बहिः भूगृहे इन्द्रदीन् वज्रादींश्च पूजयेत् ।
ततो धूपादी विसर्जनान्तं कर्म समापयेत् ॥ ७२ ॥
अस्य पुरश्चरणजपश्चतुश्चत्वारिंशत्सहस्राधिकश्चतुर्लक्षः ।
तथा-
ध्यायेन्मन्त्रं जपेन्मन्त्री चतुर्लक्षं समाहितः ।
चतुःसहस्रसंयुक्तं चत्वादिंशत्सहस्रकं दशांशं
जुहुयाद्द्रव्यैरष्टाभिर्मोदकादिभिः ॥ ७३ ॥
मन्त्रान्तरम् -
शक्तिरुद्धं निजं बीजं महागणपतिं वदेत् ।
ङेन्तमग्निवधुः प्रोक्तो मन्त्रोऽयं द्वादशाक्षरः ॥ ७४ ॥
अस्य पूजाप्रयोग-
प्रातःकृत्यादितीव्रादिपीठशक्तीः पीठमन्वन्तं पीठमनुञ्च
विधाय ऋष्यादिन्यासं कुर्यात् ॥
निबन्धे-
गणकः स्यादृषिश्छन्दो गायत्री निवृदादिका ।
उदिता देवता मन्त्रे नाम्ना शक्तिगणाधिपः ॥ ७५ ॥
ततः कराङ्गन्यासौ-
ह्रीम् अङ्गुष्ठाभ्यां नमः ।
गं तर्जनीभ्यां स्वाहा ।
ह्रीं मध्यमाभ्यां वषट् ।
महागणपतये अनामिकाभ्यां हुम् ।
स्वाहा कनिष्ठाभ्यां वौषट् ।
समुदायमुच्चार्य करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु ।
तथा च निबन्धे-
व्यस्तैः समस्तैर्मन्त्रस्य पदैरङ्गानि कल्पयेत् ।
तथा-
शिरसि गणक-ऋषये नमः, मुखे निवृद्गायत्रीच्छन्दसे नमः हृदि
शक्तिगणाधिपतये देवतायै नमः ॥ ७६ ॥
ततो ध्यायेत्-
मुक्तागौरं मदगजमुखं चन्द्रचूडं त्रिनेत्रं हस्तैः
स्वीयैर्दधतमरविन्दाङ्कुशौ रत्नकुम्भम् ।
अङ्कस्थाया सरसिजरुचेस्तद्ध्वजालम्बिपाणेर्देव्या योनौ
विनिहितकरं रत्नमौलिं भजामः ॥
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्यात् ॥ ७७ ॥
ततः पीठपूजां विधाय तीव्रादिपीठमन्वन्तं पूजयेत् ।
पुनर्ध्यात्वा आवाहनादि पञ्चपुष्पाञ्जलिदानपर्यन्तं विधाय
आवरपूजां कुर्यात् ॥ ७८ ॥
पूर्वोक्तचत्वारि मिथुनानि श्री श्रीपतिप्रभृतीनि षट्कोणेषु
आमोदादीन् केशरेष्वग्न्यादिकोणेषु मध्ये दिक्षु च ह्रीं हृदयाय
नमः, गं शिरसे स्वाहा, ह्रीं शिखायै वषट्, महागणपतये
कवचाय हुं, स्वाहा नेत्रत्रयाय वौषट्, समुदायमूलमुच्चार्य
अस्त्राय फट् ।
पत्रेषु ब्राह्म्यादिमातृकास्तद्बहिरिन्द्रादीन् वज्रादींश्च सम्पूज्य
धूपादिविसर्जनान्तं कर्म समापयेत् ।
यन्त्रस्तु महागणपतियन्त्रवत् ॥ ७८क ॥
अस्य पुरश्चर्णं लक्षजपः ।
तथा च-
लक्षमेकं जपेन्मन्त्रमपूपैस्तद्दशांशतः ।
जुहुयादर्चिते वह्नौ दिनेशो देवमर्चयेत् ॥ ७९ ॥
मन्त्रान्तरम् -
शक्तिरुद्धं निजं बीजं वशमानय ठद्वयम् ।
ताराद्यो मनुराख्यातो रुद्रसङ्ख्याक्षरोऽपरः ।
अस्य पूजायन्त्रञ्च पूर्ववत् ॥ ८० ॥
अङ्गमन्त्रस्तु-
एकेन त्रिभिर्द्वाभ्यां समस्तेन प्रकल्पयेत् ।
ॐ अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं गं तर्जनीभ्यां स्वाहा ।
वशं मध्यमाभ्यां वषट् ।
आनय अनामिकाभ्यां हुम् ।
स्वाहा कनिष्ठाभ्यां वौषट् ।
समस्तमुचार्य करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु ।
तथा च निबन्धे-
एकेनादौ त्रिभिर्द्वाभ्यां त्रिभिर्द्वाभ्यामनन्तरम् ।
समस्तेनास्त्रमाख्यातमङ्गकॢप्तिरियं मता ।
एतान्यङ्गुष्ठादिषु हृदयादिषु विन्यसेत् ॥ ८१ ॥
ततो ध्यानम्-
हस्तैर्विभ्रतमिक्षुदण्डरदौ पाशाङ्कुशौ
पुष्करपृष्ठस्वप्रमदावराङ्गमनयाश्लिष्टं ध्वजाग्रस्पृशा
।
श्यामाङ्ग्या विधृताब्जया त्रिनयनं चन्द्रार्द्धचूडं
जपारक्तं हस्तिमुखं स्मरामि सततं भोगातिलोलं विभुम् ।
अन्यत्सर्वं पूर्ववत् ।
अस्य पुरश्चरणजपो लक्षत्रयम् ।
तथा च निभन्धे-
लक्षत्रयं जपेन्मन्त्रमिक्षुदण्डैर्दशांशतः ।
अपूपैराज्ययुक्तैर्वा जुहुयान्मन्त्रसिद्धये ॥ ८३ ॥
अथ हेरम्बमन्त्रः
स च उकारयुक्तो गकारः सविन्दुः प्रणवादिनमोऽन्तश्चतुरक्षरः ।
तथा च निबन्धे-
पञ्चान्तको विन्दुयुक्तो वामकर्णविभूषितः ।
तारादिहृदयान्तोऽयं हेरम्बमनुरीरितः ।
चतुर्वर्णात्मको नृणां चतुर्वर्गफलप्रदः ॥ ८४ ॥
अस्य पूजाप्रयोगः-
प्रातःकृत्यादिपीठन्यासान्तं विधाय गणेशोक्त पीठशक्तीः
पीठमनुञ्च विन्यस्य ऋष्यादिन्यासं कुर्यात् ।
अस्य गणक-ऋषिर्गायत्रीच्छन्दो हेरम्बो देवता गकारो बीजं विन्दुः
शक्तिश्चतुर्वर्गसिद्ध्यर्थे विनियोगः ।
शिरसि गणक-ऋषये नमः इत्यादि ॥ ८५ ॥
ततः कराङ्गन्यासौ-
गां गीं गूं गैं गौं गः इत्येतैः षडङ्गानि कुर्यात् ॥
तथा च-
षड्दीर्घभाजा बीजेन षडङ्गानि प्रकल्पयेत् ॥ ८६ ॥
ततो ध्यानम्-
मुक्ताकाञ्चननीलकुन्दघुसृणच्छायैस्त्रि-
नेत्रान्वितैर्नागास्यर्हरिवाहनं शशिधरं हेरम्बमर्कप्रभम् ।
दृप्तं दानमभीतिमोदकरदान् टङ्कं शिरोक्षात्मिकां मालां
मुद्गरमङ्कुशं त्रिशिखकं दोभिर्दधानं भजे ॥
एवं ध्यात्वा मानसैः सम्पूज्यार्घ्यस्थापनं कुर्यात् ॥ ८७ ॥
ततो गणेशोक्तपीठशक्त्यन्तं सम्पूज्य ॐ हुं हुं महासिंहाय
गां हेरम्बासनाय नमः इत्यासनं पूजयेत् ।
तथा च निबन्धे ।
प्रणवं कवचद्वन्द्वं महासिंहाय गां ततः ।
हेरम्बेति पदं पश्चादासनाय हृदन्ततः ।
अयमासनमन्त्रः स्यात्प्रदद्यादमुनासनम् ।
पीठन्यासेऽप्ययं मन्त्रः ।
तथा च निबन्धे-
आसने यो मनुः प्रोक्तस्तन्न्यासेऽपि स एव हि ।
ततः ॐ गमितिमन्त्रेण मूर्तिं कल्पयेत् ।
तथा च निबन्धे-
तारादिविघ्नबीजेन मूर्तिं तस्य प्रकल्पयेत् ।
ततः पुनर्ध्यात्वा आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं
विधायावरणपूजामारभेत ॥
यथा-
अग्न्यादिकोणे मध्ये दिक्षु च गां हृदयाय नमः इत्यादिना
पूजयेत् ॥ ८८ ॥
पत्रेषु-
विघ्नं विनायकं शूरं वीरं वरदसञ्ज्ञकम् ।
इभवक्त्रञ्चैकरदं लम्बोदरञ्च पूजयेत् ।
पत्राग्रे लोकपालान् तद्वहिरिन्द्रासोन्वज्रादींश्च पूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्मं समापयेत् ॥ ८८क ॥
अस्य पुरश्चरणं त्रिलक्षजपः ।
तथा च-
लक्षत्रयं जपेन्मन्त्रं दशांशं जुहुयात्ततः ।
होतव्यं पूर्ववत् ॥ ८९ ॥
मन्त्रान्तरम्-
गं क्षिप्रप्रसादनाय नमः ।
तथा च निबन्धे-
संवर्त्तको नेत्रयुतः पार्श्वो वह्न्यासने स्थितः ।
प्रसादनाय हृन्मन्त्रं स्वबीजाद्यो दशाक्षरः ॥ ९० ॥
अस्य पूजा-
प्रातःकृत्यादिपीठन्यासन्तं कर्म विधाय ऋष्यादिन्यासं कुर्यात्
।
शिरसि गणक-ऋषये नमः, मुखे विराट्छन्दसे नमः, हृदि
क्षिप्रप्रसादनाय देवतायै नमः ।
तदुक्तम्-
गणको मुनिराख्यातो विराट्छन्द उदीरितम् ।
क्षिप्रप्रसादनो विघ्नो देवतास्य प्रकीर्तिता ।
दीर्घयुत्तेन बीजेन षडङ्गानि प्रकल्पयेत् ।
एकाक्षरवत् कराङ्गन्यासौ कृत्वा ध्यायेत् ॥ ९१ ॥
ध्यान-
पाशाङ्कुशौ कल्पलतां विषाणं दधत् स्वशुण्डाहितबीजपूरः
।
रक्तस्त्रिनेत्रस्तरुणेन्दुमौलिर्हारोज्ज्वलो हस्तिमुखोऽवताद्वः ।
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्यात् ॥ ९२ ॥
ततः पीठपूजां विधाय पुनर्ध्यात्वा
आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं विधाय
आवरणपूजामारभेत् अग्न्यादिकोणे मध्ये दिक्षु च गां हृदयाय
नमः इत्यादिना षडङ्गानि पूजयेत् ।
तथा च निबन्धे-
अङ्गानि पूर्वमभ्यर्च्य विघ्नानष्टौ यजेत्ततः ।
पत्रेषु पूजयेदेता ब्राह्म्याद्यास्तदनन्तरम् ।
पत्रेषु-
विघनं विनायकं शूरं वीरं वरदसञ्ज्ञकम् ।
इभवक्त्रञ्चैकरदं लम्बोदरञ्च पूजयेत् ।
पत्राग्रे-
ब्राह्म्याद्यास्तद्वहिरिन्द्रादीन् वज्रादींश्च पूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ ९३ ॥
अस्य पुरश्चरणं लक्षजपः ।
तथा च-
लक्षं जपेज्जपस्यान्ते जुहुयादयुतं तिलैः ।
मधुरत्रितयैर्वापि द्रव्यैरष्टाभिरीरितैः ॥ ९४ ॥
अथ हरिद्रागणेशमन्त्राः
पञ्चान्तको धरासंस्थो विन्दुभूषितमस्तकः ।
एकाक्षरो महामन्त्रः सर्वकामफलप्रदः ।
अस्य वसिष्ठ ऋषिर्गायत्रीच्छन्दो हरिद्रागणपतिर्देवता गकारो
बीजं लकारः शक्तिः ।
बीजेनैव षडङ्गकम् ॥ ९५ ॥
ध्यानन्तु-
हरिद्राभं चतुर्बाहुं हारिद्रवसनं विभुम ।
पाशाङ्कुशधरं देवं मोदकं दन्तमेव च ।
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनादि
तीव्रादिपीठमन्वन्तां पीठपूजां विधाय पुनर्ध्यात्वा
गणपतिं पूजयेत् ॥ ९६ ॥
(गणेशस्यधारणयन्त्रम् चित्र २२)
आवरणपूजाविनियोगमेकाक्षरगणपतिवत् ॥ ९७ ॥
अस्य पुरश्चरणं चतुर्लक्षजपः ।
त्रिमधुर-युक्त हरिद्रा-चूर्ण-मिश्रितैस्तण्डुलैरयुतहोमः ॥ ९८ ॥
मन्त्रान्तरम्
मन्त्रोद्धारमहं वक्ष्ये शृणुष्व कमलानने ।
इन्द्रबीजं समुद्धृत्य निजबीजं समुद्धरेत् ।
चतुर्द्वशस्वरेणाढ्यं विन्दुभूषितमस्तकम् ।
एकाक्षरी महाविया कथिता पद्मयोगिना ॥ ९९ ॥
अस्य पूजादिकं सर्वं महागणपतिवत् ।
कराङ्गन्यासो तु षड्दीर्घयुक्तेन स्वबीजेन ॥ १०० ॥
अस्य भेदान्तरम्-
लक्ष्म्याद्यां वाथ कूर्चाद्यां मायाद्यां वा जपेत् सुधीः ।
कामाद्यां वधूबीजाद्यां वागाद्यां वा जपेत् सदा ।
ॐ कराद्यां महाविद्यां निजबीजादिकां तथा ॥ १ ॥
तथा च-
द्व्यक्षरी च महाविद्या त्र्यक्षरी चास्त्रसंयुता ।
चतुर्वर्णात्मिका विद्या वह्निजायावधिः प्रिये ॥ २ ॥
एषा विद्या महाविद्या त्रैलोक्ये च सुदुर्लभा ।
चतुर्वर्गप्रदा साक्षान्महापातकनाशिनी ।
एतासां पूजादिकं महागणपतिमन्त्रवत् ॥ ३ ॥
अथ लक्ष्मीमन्त्राः
अथ वक्ष्ये श्रिये मन्त्रान् श्रीसौभाग्यफलप्रदाम् ।
यस्याः कटाक्षमात्रेण त्रैलोक्यमपि वर्द्धते ॥ ४ ॥
वान्तं वह्निसमारूढं वामनेत्रेन्दुसंयुतम् ।
बीजमेतत् श्रियो देव्याः सर्वकामफलप्रदम् ॥ ५ ॥
अस्य पूजाप्रयोगः-
सामान्यपूजापद्धत्युक्त प्रातः कृत्यादिपीठन्यासान्तं कर्म
विधाय ऋष्यादिन्यासं कुर्यात् ।
शिरसि भृगवे ऋषये नमः, मुखे निवृद्गायत्रीच्छन्दसे नमः,
हृदये श्रियै देवतायै नमः ।
केशरेषु मध्ये च पीठशक्तीः पीठमनुञ्च न्यसेत् ।
यथा-
ॐ विभूत्यै नमः ।
एवम् उन्नत्यै कान्त्यै सृष्ट्यै कीर्त्यै सन्नत्यै व्युष्ट्यै उत्कृष्ट्यै
ऋद्ध्यै ।
तथा च निबन्धे-
विभूतिरुन्नतिः कान्तिः कान्त्यै सृष्टिः कीर्तिश्च सन्नतिः ।
व्युष्टिरुत्कृष्टिर्-ऋद्धिश्च सम्प्रोक्ता नवशक्तयः ॥ ६ ॥
ततः श्रीं कमलासनाय नमः इत्यासनं न्यसेत् ।
ततः कराङ्गन्यासौ-
श्राम् अङ्गुष्ठाब्यां नमः ।
श्रीं तर्जनीभ्यां स्वाहा ।
श्रूं मध्यमाभ्यां वषट् ।
श्रैम् अनामिकाभ्यां हुम् ।
श्रौं कनिष्ठाभ्यां वौषट् ।
श्रः करतलपृष्ठाभ्यां फट् ।
एवं श्रां हृदयाय नमः इत्यादिना न्यसेत् ।
तथा च निभन्धे-
अङ्गानि दीर्घयुक्तेन रमाबीजेन कल्पयेत् ॥ ७ ॥
ततो ध्यानम्-
कान्त्या काञ्चनसन्निभां
हिमगिरिप्रख्यैश्चतुर्भिर्गजैर्हस्तोत्क्षिप्तहिरण्यमयामृतघटै-
रासिच्यमानां श्रियम् ।
विभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटोज्ज्वालां,
क्षौमावद्धनितम्बविम्बललितां वन्देऽरविन्दस्थिताम् ॥
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्यात् ।
ततः पीठपूजां विधाय केशरेषु मध्ये च
विभूत्यादिपीठमन्वन्तं सम्पूज्य, मूलेन मूर्तिं परिकल्प्य,
पुनर्ध्यात्वा आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं कर्म
विधाय, आवरणपूजामारभेत ॥
तद्यथा-
अग्न्यादि केशरेषु मध्ये दिक्षु च श्रां हृदयाय नमः इत्यादिना
सम्पूज्य दिग्दलेषु पूर्वादि ॐ वासुदेवाय नमः एवं
सङ्कर्षणाय, प्रद्युम्नाय, अनिरुद्धाय ।
विदिग्दलेषु अग्न्यादि ॐ दमकाय नमः, सलिलाय, गुग्गुलवे,
कुरुण्टकाय ।
ततो देव्या दक्षिणे ॐ शङ्खनिधये नमः, एवं वसुधायै, वामे
ॐ पद्मनिधये नमः एवं वसुमत्यै ।
पत्राग्रेषु पूर्वादि ॐ बलाक्यै नमः एवं विमलायै कमलायै
वनमालिकायै विभीषिकायै मालिकायै शाङ्कर्यै वसुमालिकायै,
तद्वहिरिन्द्रादीन् वज्रादींश्च पूजयेत् ।
ततो धूपादिविसर्जनान्त कर्म समापयेत् ॥ ९ ॥
अस्य पुरश्चरणं द्वादशलक्षजपः ।
तथा च-
भानुलक्षं जपेन्मन्त्रं दीक्षितो विजितेन्द्रियः ।
तत्सहस्रञ्च जुहुयात्कमलैर्मधुरोक्षितैः ।
जपान्ते जुहुयामन्त्री तिलैर्वा मधुराप्लुतैः ।
विल्वैः फलैर्वा जुहुयात्त्रिभिर्वा साधकोत्तम ॥ १० ॥
मन्त्रानतरम्
वाग्भवं वनिता विष्णौर्माया मकरकेतनः ।
चतुर्वर्णात्मको मन्त्रःचतुर्वर्गफलप्रदः ॥ ११ ॥
अस्य पूजादिकं पूर्ववद्दोध्यम् ॥ १२ ॥
तथा च-
रमायाः कल्पिते पीठे तद्विधानेन पूजयेत् ।
कुर्यात् प्रयोगांस्तत्रस्थान मनुना साधकोत्तमः ।
निधिभिः सव्यते नित्यं मूर्तिमद्भिरुपस्थितैः ।
ध्याने तु विशेषो तथा-
माणिक्यप्रतिमप्रभा
हिमनिभैस्तुङ्गैश्चतुर्भिर्गजैर्हस्तग्राहितरत्नकुम्भसलिलैरासिच्यम्
आनां सदा ।
हस्ताब्जैर्वरदानमम्बुजयुगाभीतोर्दधानां हरेः, कान्तां
काङ्क्षितपरिजातलतिकां वन्दे सरोजासनाम् ॥ १३ ॥
अस्य पुरश्चरणं द्वादशलक्षजपः ।
तथा च-
भानुलक्षं हविष्याशी जपेदन्ते सरोरुहैः ।
जुहुयादरुणैः फुल्लैस्तत्सहस्रं जितेन्द्रियः ॥ १४ ॥
मन्त्रान्तरम् -
नमः कमलवासिन्यै ठद्वयमिति प्रोक्तो दशाक्षरः ।
तथा च निबन्धे-
दीर्घो यादिर्विसर्गान्तो ब्रह्मा भानुर्वसुन्धरा ।
वान्ते सिन्यै प्रिया वह्नेर्मनुः प्रोक्तो दशाक्षरः ॥ १५ ॥
अस्य पूजा-
पूर्ववत्पीठमन्वन्तं विन्यस्य ऋष्यादिन्यासं कुर्यात् ।
यथा-
शिरसि दक्षऋषये नमः ।
मुखे विराटच्छन्दसे नमः ।
हृदि श्रियै देवतायै नमः ।
तथा च शारदायाम्-
ऋषिर्दक्षो विराटछन्दो देवताश्री समीरिता ॥ १६ ॥
ततः कराङ्गन्यासौ-
ॐ देव्यै नमोऽङ्गुष्ठाभ्यां नमः ।
ॐ पद्मिन्यै नमस्तर्जनीभ्यां स्वाहा ।
ॐ विष्णुपत्न्ये नमो मध्यमाभ्यां वषट ।
ॐ वरदायै नमोऽनामिकाभ्यां हुम् ।
ॐ कमलरूपायै नमः कनिष्ठाभ्यां फट् ।
एवं ॐ देव्यै नमो हृदयाय नमः इत्यादि ।
तथा च निबन्धे-
देव्यै हृदयमाख्यातं पद्मिन्यै शिर ईरितम् ।
विष्णुपत्न्यै शिखा प्रोक्ता वरदायै तनुच्छदम् ।
अस्त्रं कमलरूपायै नमोऽन्ताः प्रणवादिकाः ॥ १७ ॥
ततो ध्यानम्-
आसीना सरसीरुहे स्मितमुखी हस्ताम्बुर्जैर्विभ्रती, दानं
पद्मयुगाभये च वपुषा सौदामिनी सन्निभा ।
मुक्ताहारविराजमानपृथुलोत्तुङ्गस्तनोद्भासिनी, पायाद्वः,
कमला कटाक्षविभवैरानन्दयन्ती हरिम् ॥
एवं ध्यात्वा मानसैः सम्पूज्य, शङ्खस्थापनं कृत्वा,
पूर्वोक्तपीठशक्तिसहितपीठमन्वन्तां पीठपूजां विधाय,
पुनर्ध्यत्वा आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं
विधायावरणपूजां कुर्यात् ॥ १८ ॥
अग्न्यादि चतुष्कोणमध्ये दिक्षु च ॐ देव्यै नमो हृदयाय नमः ।
ॐ पद्मिन्यै नमः शिरसे स्वाहा ।
ॐ विष्णुपत्न्यै नमः शिखायै वषट् ।
ॐ वरदायै नमः कवचाय हुम् ।
ॐ कमलरूपायै नमोऽस्त्राय फट् ।
ततः पूर्वादिदलेषु पूर्ववद्वलाक्यादिकाः पूजयेत् ।
तद्वहिरिन्द्रादीन् वज्रादींश्च पूजएत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ १९ ॥
अस्य पुरश्चरणजपो दशलक्षः ।
तथा च-
दशलक्षं जपेन्मन्त्रं मन्त्रविद्विजितेन्द्रियः ।
दशांशं जुहुयान्मन्त्री मधुराक्तेः सरोरुहैः ॥ २० ॥
अथ महालक्ष्मीमन्त्राः
तारो वाग्भवं माया रमा कामः हेसोर्जगत्प्रसूत्यै नमः ।
तथा च-
वाग्भवं शम्भुवनिता रमा मकरकेतनः ।
तार्तीयञ्च जगत्पार्श्वो वह्निबीजसमुज्ज्वलः ।
अर्घीशाढ्यो भृगुस्त्यैहृन्मन्त्रोऽयं द्वादशक्षरः ।
महालक्ष्म्याः समुद्दिष्टस्ताराद्यः सर्वसिद्धिदः ॥ २१ ॥
अस्य पूजा-
प्रातःकृत्यादिश्रीबीजोक्तपीठन्यासान्तं विधाय ऋष्यादिन्यासं
कुर्यात् ।
शिरसि ब्रह्मणे ऋषये नमः, मुखे गायत्रीच्छन्दसे नमः, हृदि
महालक्ष्म्यै देवतायै नमः ॥ २२ ॥
ततो मूलेन करौ संशोध्य अङ्गुष्ठादिक्रमेण प्रत्येकं
तारादिनमोऽन्तानि पञ्चबीजानि न्यसेत् ।
ॐ ऐं नमः, ॐ ह्रीं नमः, ॐ श्रीं नमः, ॐ क्लीं नमः, ॐ हेसो
नमः, ॐ जगत्प्रसूत्यैनमः ।
इति करतले ।
ततो मस्तकादिचरणं यावन्मूलेन व्यापकं कुर्यात् ।
ततो मूर्द्धास्यहृदयगुह्यपादेषु पञ्चबीजानि न्यसेत् ।
शेषाक्षराणि हृदये सप्तधातुषु ।
तथा च निबन्धे-
हस्तौ संशोध्य मूलेन तारादिहृदयान्तकम् ।
बीजानां पञ्चकं न्यस्येदङ्गुलिषु यथाक्रमम् ।
मन्त्रशेषं न्यसेन्मत्री तलयोरुभयोरपि ।
मूर्द्धादिचरणं यावन्मूलेन व्यापकं न्यसेत् ।
मूर्द्धास्यवक्षोगुह्याङ्घ्रौ पञ्चबीजानि विन्यसेत् ।
शेषान्न्यसेत्सप्तवर्णान् हृदये सप्तधातुषु ॥ २३ ॥
ततः कराङ्गन्यासौ-
ऐं ज्ञानाय अङ्गुष्ठाभ्यां नमः ।
ह्रीम् ऐश्वर्याय तर्जनीभ्या स्वाहा ।
श्रीं शक्तये मध्यमाभ्यां वषट ।
क्लीं बलाय अनामिकाभ्यां हुम् ।
हेसोः वीर्याय कनिष्ठाभ्यां वौषट ।
जगत्प्रसूत्यै नमस्तेजसे करतलपृष्ठभ्यां फट ।
एवं हृदयादिषु ।
तथा च निबन्धे-
अङ्गानि पञ्चभिर्बीजैरस्त्रं शेषाक्षरैर्भवेत् ।
ज्ञनैश्वर्यादिभिर्युक्तैश्चतुर्थ्यन्तै सजातिभिः ।
ज्ञानमैश्वर्यशक्ती च बलवीर्ये सतेजसी ।
ज्ञानैश्वर्यादयः प्रोक्ताः षट्क्रमादङ्गदेवताः ॥ २४ ॥
ततो ध्यानम्-
बालार्कद्युतिमिन्दुखण्डविलसत्कोटीरहारोज्ज्वलां
रत्नाकल्पविभूषितां कुचनतां शालेः करैर्मञ्जरीम् ।
पद्मं कौस्तुभरत्नमप्यविरतं संविभ्रतीं सस्मितां,
फुल्लाम्भोजविलोचनत्रययुतां ध्यायेत् परामम्बिकाम् ॥ विस्तरेण
तु ध्यानं शारदायां द्रष्टव्यम् ।
इति ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्यात् ॥ २५ ॥ ततः
श्रीबीजोक्तपीठपूजां विधाय पुनर्ध्यात्वा
आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं
विधायावरणपूजामारभेत् ।
यथा-
देव्या दक्षिणे शङ्करनन्दनाय नमः, एवं वामे पुष्पधन्वने,
अग्न्यादिकोणेषु मध्ये दिक्षु च ऐं ज्ञानाय हृदयाय नमः
इत्यादिना पूजयेत् ।
तथा च शारदायाम्-
पूजयेद्दक्षिणे पार्श्वे देव्याः शङ्करनन्दनम् ।
अन्यतः पुष्पधन्वानं पुष्पाञ्जलिकरं यजेत् ।
अङ्गानि पूर्वमुक्तेषु स्थानेषु विधिवद्यजेत् ।
पत्रेषु पूर्वादि ॐ उमायै नमः, एवं श्रियै सरस्वत्यै दुर्गायै
धरण्यै गायत्र्यै देव्यै उषायै ।
दक्षिणे जह्नसुतायै, वामे सूर्यसुतायै, पुर्नदक्षिणे ॐ
शङ्खनिधये, पुनर्वामे ॐ पद्मनिधये, पश्चिमे धृतातपत्रं
वरुणं पूजयेत् ।
यथा-
उमाद्याः पत्रमध्यस्थाः शक्तीरष्टौ यजेत् क्रमात् ।
अथोमा श्री सरस्वत्यै दुर्गाधरणीसंयुता ॥
गायत्री देव्युषा चेति पद्महस्ताः सुशोभनाः ।
तद्बाह्ये द्वादशराशीन् नवग्रहान् प्रत्येकेन यजेत् ।
तद्वाह्ये अष्टौ गजान् ऐरावत-
पुण्डरीकवामनकुमुदाञ्जनपुष्पदन्तसार्वभौमसुप्रतीकान्
पूजयेत् ।
तथा च निबन्धे-
जह्नुसूर्यसुते पूज्ये पादप्रक्षालनोद्यते ।
शङ्खपद्मनिधी पूज्यौ पार्श्वयोर्धृतचामरौ ॥
धृतातत्रवरुणं पूजयेत् पश्चिमे ततः ।
सम्पूज्य राशीन् परितो यजेदथ नवग्रहान् ।
अर्चयेद्दिग्गजान् दिक्षु चतुर्दन्तविभूषितान् ।
ऐरावतः पुण्डरीको वा नमः कुमुदोऽञ्जनः ॥
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च ते क्रमात् ।
तत इन्द्रादीन् वज्रादींश्च प्रपूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ २६ ॥
अस्य पुरश्चरणं द्वादशलक्षजपः ।
तथा च-
भानुलक्षं जपेन्मन्त्रं दशांशं जुहुयाद्यधृतैः ।
जुहुयात् श्रीफलैः पद्मैः प्रत्येकमयुतद्वयम् ॥
तर्पयेत् सलिलैः शुद्धैः सुगन्धैरयुतद्वयम् ।
अयुतद्वयमिति वाचनिकव्यवस्था ॥ २७ ॥
मन्त्रान्तरम्-
शम्भूपत्नी श्रिया रुद्धा कमो भगवती मही ।
ब्रह्मादित्यौ धरा दीर्घा लक्ष्म्यादिर्भगवान्मरुत् ॥
प्रसीदयुगलं भूयः श्रीरुद्धा भुवनेश्वरी ।
महालक्ष्मि नमोऽन्तः स्यात् प्रणवादिरयं मनुः ।
महीलकारः, भगवती एकारवती, ब्रह्मा ककारः, आदित्यो मकारः,
धरा लकारः, दीर्घा आकारयुक्ता, लक्ष्म्यादिर्लकारः, मरुत्
यकार एकारयुक्तः, ॥ २० ॥
अस्य पूजा-
प्रातःकृत्यादिपूर्वोक्त ऋष्यादिन्यासान्तं विधाय कराङ्गन्यासौ
कुर्यात् ।
श्रीं ह्रीं श्रीं कमले श्रीं ह्रीं श्रीम् अङ्गुष्ठाभ्यां
नमः ।
एवं श्रीं ह्रीं श्रीं कमलालये श्रीं ह्रीं श्रीं तर्जनीभ्यां
स्वाहा ।
श्रीं ह्रीं श्रीं प्रसीद श्रीं ह्रीं श्रीं मध्यमाभ्यां
वषट् ।
श्रीं ह्रीं श्रीं प्रसीद श्रीं ह्रीं श्रीम् अनामिकाभ्यां हुम् ।
श्रीं ह्रीं श्रीं महालक्ष्मि श्रीं ह्रीं श्रीं कनिष्ठाभ्यां
वौषट् ।
श्रीं ह्रीं श्रीं नमः श्रीं ह्रीं श्रीम् अस्त्राय फट् ।
एवं हृदयादिषु ।
तथा च निबन्धे-
कमले हृदयं प्रोक्तं शिरः स्यात्कमलालये ।
शिखा प्रसीद तेनैव कवचं चतुरक्षरैः ।
अस्त्रमेतैः पदैः कुर्यात्रिबीजपुटितैः पृथक् ॥ २९ ॥
ततो ध्यानम्-
सिन्दूरारुणकान्तिमब्जवसतिं सौन्दर्यवारां निधिं,
कोटीराङ्गदहारकुण्डलकटीसूत्रादिभिर्भूषिताम् ।
हस्ताब्जैर्वसुपात्रमब्जयुगलादर्शौवहन्तीं परामावीतां
परिचारिकाभिरनिशं ध्यायेत्प्रियां शार्ङ्गिणः ॥
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थानं कुर्यात् ॥ ३० ॥
पूर्ववत्पीठपूजां विधाय, पुनर्ध्यात्वा
आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं
विधायावरणपूजामारभेत ।
केशरेषु अग्न्यादिकोणे मध्ये दिक्षु च श्रीं ह्रीं श्रीं कमले
श्रीं ह्रीं श्रीं हृदयाय नमः इत्यादिना पूजयेत् ।
दलमूले पूर्वादि ॐ श्रीधराय नमः एवं हृषिकेशाय
वैकुण्ठाय विश्वरूपाय वासुदेवाय सङ्कर्षणाय प्रद्युम्नाय
अनिरुद्धाय ।
दलमध्ये भारत्यै पार्वत्यै चान्द्र्यं शच्यै दमकाय सलिलाय
गुग्गुलवे कुरुण्टकाय ।
दलाग्रेषु-
अनुरागं विसंवादं विजयं वल्लभं मदम् ।
हर्ष वलं तेज इति महालक्ष्मीबाणान्यजेत् ।
वाक्यन्तु-
अनुरागाय महालक्ष्मीबाणाय नमः एवं क्रमेण पूजयेत् ॥ ३१ ॥
तथा च निबन्धे-
दलाग्रेष्वर्चयेद्वाणान्महालक्ष्म्या क्रमादमून् ।
तद्बहिरिन्द्रादीन्वज्रादींश्च पूजयेत् ॥
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ ३१क ॥
अस्य पुरश्चरणं लक्षजपः ॥
तथा च-
लक्ष जपेत्फलैर्विल्वैर्जुहुयान्मधुरोक्षितैः ।
दशांशं संस्कृते वह्नौ प्राक्प्रोक्तेनैव वर्त्मना ॥ ३२ ॥
अथ सूर्यमन्त्राः ।
तारो घृणिर्भृगुः पश्चाद्वामकर्णविभूषितः ।
वह्न्यासनो मरुच्छेषः सनेत्रोऽद्रिस्त्य पश्चिमः ॥
अष्टाक्षरो मनुः प्रोक्तो भानोरभिमतप्रदः ॥ ३३ ॥
अस्य पूजा-
सामान्यपूजापद्धत्युक्त प्रातःकृत्यादिप्राणायामान्तं
विधाय पीठन्यासं कुर्यात् ।
तत्र विशेषः-
स्वहृदयस्य पूर्वादिदिक्षु मध्ये च प्रभूतं विमलं सारं
समाराध्यं परमसुखं विन्यस्य आधारशक्त्यादि अं
सूर्यमण्डलाय द्वादशकलात्मने नमः इत्यन्तं न्यसेत् ।
तथा च निबन्धे-
पीठे कॢप्ते प्रथमं दिक्षु मध्ये च संयजेत् ।
प्रभूतं विमलं सारं समाराध्यमनन्तरम् ।
परमादिसुखं पीठं स्वविद्यान्तं प्रकल्पयेत् ।
ततः केशरेषु मध्ये च रां दीप्तायै नमः, रीं सूक्ष्मायै
नमः, रूपं जयायै, रें भद्रायै, रैं विभूत्यै, रों
विमलायै, रौम् अमोघायै, रं विद्युतायै, रः सर्वतोमुख्यै नमः
।
तदुक्तं निबन्धे-
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला पुनः ।
अमोघा विद्युता सर्वतोमुखी पीठशक्तयः ।
दीप्तदीपशिखाकारा बीजन्यासं विद्युः क्रमात् ।
अक्लीवह्रस्वत्रितयस्वरान्विन्द्वग्निसंयुतान् ॥ तदुपरि ॐ
ब्रह्मविष्णुशिवात्मकाय सौराय योगपीठाय नमः ।
तथा च शारदायाम्-
वदेत्पदं चतुर्थ्यन्तं ब्रह्मविष्णु शिवात्मकम् ।
सौराय योगपीठाय नमः पदमनन्तरम् ॥
पीठमन्त्रोऽयमाख्यातो दिनेशस्य जगत्पतेः ॥ ३४ ॥
ततः ऋष्यादिन्यासः-
शिरसि देवभाग-ऋषये नमः, मुखे गायत्रीच्छन्दसे नमः, हृदि
आदित्याय देवतायै नमः ।
तथा च निबन्धे-
देवभागो मुनिःप्रोक्तो गायत्रीच्छन्द ईरितम् ।
आदित्यो देवता प्रोक्तो दृष्टादृष्टफलप्रदः ॥ ३५ ॥
रामार्चनचन्द्रिकायाम्-
तारं बीजमिति प्रोक्तं यः शक्तिः समुदाहृतः ।
चैतन्मन्त्रस्य भार्गव-ऋषिः ॥
तदुक्तं रामार्चनचन्द्रिकायाम्-
भार्गववोऽस्य मुनिः प्रोक्ता गायत्री देवता मनोः ।
इत्यादि ।
ततः कराङ्गन्यासः-
सत्याय तेजोज्वालामणे हुं फट् स्वाहा अङ्गुष्ठाभ्यां नमः ।
ब्रह्मणे तेजोज्वालामणे हुं फट् स्वाहा तर्जनीभ्यां स्वाहा ।
विष्णवेतेजोज्वालामणे हुं फट् स्वाहा मध्यमाभ्यां वषट् ।
रुद्राय तेजोज्वालामणे हुं फट् स्वाहा अनामिकाभ्यां हुम् ।
अग्नये तेजोज्वालामणे हुं फट् स्वाहा कनिष्ठाभ्यां वौषट् ।
सर्वाय तेजोज्वालामणे हुं फट् स्वाहा करतलपृष्ठाभ्यां फट्
।
एवं हृदयादिषु ॥ ३६ ॥
तथा च शारदायाम्-
सत्याय हृदयं प्रोक्तं ब्रह्मणे शिर ईरितम् ।
विष्णवे स्याच्छिखा वर्म रुद्राय परीकीर्तितम् ।
अग्नयेनेत्रमाख्यातं सर्वाया स्त्रमुदाहृतम् तेजोज्वालामणे हुं
फट् द्विठान्ताः पृथगीरिताः ॥ ३७ ॥
ततो मूर्तिन्यासः
यथा-
शिरसि ॐ आत्यिया नमः, एवं मुखे एं रवये, हृदये उं भानवे,
गुह्ये इं भास्कराय, चरणयोः अं सूर्याय ॥ ३८ ॥
तथा च निबन्धे-
आदित्यं विन्यसेन्मूर्ध्निरविञ्च मुखतो न्यसेत् ।
हृदये भानुनामानं भास्करं गुह्यदेशतः ॥
सूर्यञ्चरणयोर्न्यसेत् ।
ह्रस्वैः सत्यादिपञ्चभिः ।
ततो मन्त्रन्यासः-
शरसि ॐ ॐ नमः, मुखे ॐ घृ नमः ।
कण्ठे ॐ णि नमः, हृदये ॐ सू नमः, कुक्षौ ॐ र्य्य नमः, नाभौ
ॐ आ नमः ।
लिङ्गे ॐ दि नमः, पादयोः ॐ त्य नमः ।
तथा च निबन्धे-
मूर्द्धास्य कण्ठहृदयकुक्षिनाभिध्वजाङ्घ्रिषु ।
मन्त्रवर्णान् न्यसेदष्टौ प्रत्येकं प्रणवादिना ॥ ३९ ॥
ततो ध्यानम्-
रक्ताब्जयुग्माभयदानहस्तं, केयूरहाराङ्गदकुण्डलाढ्यम् ।
माणिक्यमौलिं दिननाथमीडे वन्धूककान्तिं विलसत्त्रिनेत्रम् ॥ ४०
॥
एवं ध्यात्वा मानसोपचारैः सम्पूज्य अर्घ्यस्थापनं कुर्यात् ॥
४१ ॥
ततो गुरुपङ्क्तिपूजां कृत्वा पीठपूजां कुर्यात् ।
ॐ खं खखोल्काय नमः इति मूर्तिं परिकल्प्य पुनर्ध्यात्वा
आवाहनादिपञ्चपुष्पञ्जलिदानपर्यन्तं विधाय
आवरणपूजामारभेत ।
तथा च निबन्धे-
तारादि खं खखोल्काय मनुना मूर्तिकल्पना ।
साक्षिणं सर्वलोकानां तस्यामावाह्य पूजयेत् ॥
केशरेषु अग्न्यादिकोणे मध्ये दिक्षु च ॐ सत्याय तेजोज्वालामणे हुं
फट् स्वाहा हृदयाय नमः ।
एवं ॐ ब्रह्मणे तेजोज्वालामणे हुं फट् स्वाहा हृदयाय नमः ।
एवं ॐ ब्रह्मणे तेजोज्वालामणे हुं फट् स्वाहा शिरसे स्वाहा ।
ॐ विष्णवे तेजोज्वालामणे हुं फट् स्वाहा शिखायै वषट् ।
ॐ रुद्राय तेजोज्वालामणे हुं फट् स्वाहा कवचाय हुम् ।
ॐ अग्नये तेजोज्वालामने हुं फट् स्वाहा नेत्रत्रयाय वौषट् ।
ॐ सर्वाय तेजोज्वालामणे हुं फट् स्वाहा अस्त्राय फट् ।
दिक्पत्रेषु पूर्वादि ॐ आदित्याय नमः, एवम् एं रवये उं भानवे
इं भास्कराय ।
विदिक्पत्रेषु ऊम् ऊषायै, पं प्रज्ञायै, पं प्रभायै, सं
सन्ध्यायै ।
तथा च निबन्धे-
अङ्गानि पूजयेदादौ दिक्पत्रेष्वर्कमूर्तयः ।
आदित्याद्याश्चतस्रोऽर्च्याः शक्तयः कोणपत्रगाः ॥
स्वस्वनामादिवर्णाः स्युस्तासां वीजान्यनुक्रमात् ।
ऊषा प्रज्ञा प्रभा सन्ध्या शक्तयः परिकीर्तिताः ॥
ततः पत्राग्रेयु ब्राह्म्याद्याः सम्पूज्य पुरतोऽरुणमर्चयेत् ।
तथा च शारदायाम्-
पत्राग्रस्था ब्राह्म्याद्याः पुरतोऽरुणमर्चयेत् ।
तद्बाह्ये पूर्वादि चन्द्रादीन् पूजयेत् ।
ॐ चन्द्राय नमः, एवं मङ्गलाय बुधाय वृहस्पतये शुक्राय
शनैश्चराय राहवे केतवे ।
तथा च शारदायाम्-
चन्द्रादीन् पूजयेत् पश्चाद्ग्रहानष्टौ ततो बहिः ।
तत इन्द्रादीन् वज्रादींश्च सम्पूज्य धूपादिविसर्जनान्तं कर्म
समापयेत् ॥ ४२ ॥
अस्य पुरश्चरणमष्टलक्षजपः ।
तथा च-
वसुलक्ष जपेन्मन्त्रं समिद्भिः क्षीरशाखिनाम् ।
तत्सहस्रं प्रजुहुयात् क्षीराक्ताभिर्जितेन्द्रियः ॥
अत्रापि वाचनिक एवाष्टसहस्रहोमः ॥ ४३ ॥
मन्त्रान्तरम्
आकाशमग्निदीर्घेन्दुसंयुतं भुवनेश्वरी ।
सर्गान्वितो भृगुर्भानोस्त्र्यक्षरोऽयं समीरितः ॥ ४४ ॥
अस्य पूजा-
प्रातःकृत्यादिपूर्वमन्त्रोक्त पीठन्यासं विधाय पूर्वमन्त्रोक्त-
ऋष्यादिन्यासं कुर्यात् ॥ ४५ ॥
ततो मन्त्रन्यासः-
आधारादिपादपर्यन्तं ह्रां नमः ।
कण्ठादाधारपर्यन्तं ह्रीं नमः ।
मूर्द्धादिकण्ठपर्यन्तं सः नमः ।
शारदायाम्-
आधारादिपदाग्रान्तं कण्ठदाधारकावधि
मूर्द्धादिकण्ठपर्यन्तं क्रमाद्वीजत्रयं न्यसेत् ॥ ४६ ॥
ततः कराङ्गन्यासौ-
ह्राम् अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां स्वाहा ।
ह्रूं मध्यमाभ्यां वषट् ।
ह्रैम् अनामिकाभ्यां हुम् ।
ह्रौं कनिष्ठाभ्यां वौषट् ।
ह्रः करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु ।
तथा च निबन्धे-
षड्दीर्घयुक्तमध्येन बीजेनाङ्गादिकल्पना ॥ ४७ ॥
ततो ध्यानम्-
रक्ताम्बुजासनमशेषगुणैकसिन्धुं, भानुं
समस्तजगतामधिपं भजामि ।
पद्मद्वयाभयवरान्दधतं
कराब्जैर्माणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम् ॥
इति ध्यात्वा मानसैः सम्पूज्य अर्घ्यस्थापनं कुर्यात् ।
ततः पूर्वोक्तक्रमेण पीठपूजां विधाय मूलमन्त्रेण मूर्तिं
सङ्कल्प्य पुनर्ध्यात्वा
आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं विधाय
आवरणपूजां कुर्यात् ।
अग्निनिर्-ऋति-वायव्यीशानकोणेषु मध्ये दिक्षु च ह्रां हृदयाय
नमः इत्यादिना पूजयेत् ।
पत्रेषु चन्द्रादीन्पूर्ववत्पूजयेत् ॥
तत इन्द्रादीन्वज्रादींश्च प्रपूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ ४९ ॥
अस्य पुरश्चरणं द्वादशलक्षजपः ।
तथा च-
भानुलक्षं जपेन्मन्त्रमाज्येन च दशांशतः ।
तिलैर्वा मधुरासिक्तैर्जुहुयाद्विजितेन्द्रियः ॥ ५० ॥
मन्त्रान्तम्
आकाशवह्निपवनसत्यान्तार्घीशविन्दुमत् ।
मार्त्तण्डभैरवं नाम बीजमेतदुदाहृतम् ।
पुटितं विम्बबीजेन सर्वकामफलप्रदम् ॥ ५१॥
विम्बबीजमाह तन्त्रे-
टान्तं दहननेत्रेन्दुसहितं तदुदाहृतम् ॥ ५२ ॥
अस्य पूजाप्रयोगः-
प्रातःकृत्यादि पूर्वमन्त्रोक्त पीठन्यासान्तं कर्म विधाय
पूर्ववत्-ऋष्यादिन्यासं कुर्यात् ॥ ५३ ॥
ततो मूर्तिन्यासः-
ठ्रं सूर्याय नमो।आङ्गुष्ठयोः ।
ठ्रिं भास्काराय नमस्तर्जन्योः ।
ठ्रुं भानवे नमो मध्यमयोः ।
ठ्रें रवये नमोऽनामिकयोः ।
ठ्रों दिवाकराय नमः कनिष्ठयोः ।
ततः शिरसि वदने हृदये पादेषुतान् तत्तद्वीजादिकान् न्यसेत् ।
तथा च निबन्धे-
पञ्चह्रस्वाढ्य बीजेन पञ्चमूर्तीः प्रविन्यसेत् ।
अङ्गुष्ठादिकनिष्ठान्तमङ्गुलीषु क्रमादिमाः ॥
सूर्यस्तु भास्करो भानुस्ततो रविर्दिवाकरौ ।
शिरोवदनहृद्गुह्य पाददेशेषुतान् पुनः ॥
ततः कराङ्गन्यासः-
ठ्राम् अङ्गुष्ठाभ्यां नमः ।
ठ्रीं तर्जनीभ्यां स्वाहा ।
ठ्रूं मध्यमाभ्यां वषट् ।
ठ्रैम् अनामिकाभ्यां हुम् ।
ठ्रौं कनिष्ठाभ्यां वौषट् ।
ठ्रः करतलपृष्ठाभ्यां फट् ।
एवं ठ्रां हृदयाय नमः इत्यादि ॥
तथा च निबन्धे-
व्यापकं मूलबीजेन कुर्वीत तदन्तरम् ॥ ५४ ॥
ततो धायनम्-
हेमाम्भोज प्रवालप्रतिमनिजरुचिञ्चारुखट्टाङ्ग चापौ चक्रं
शक्तिं सपाशं सृणुमतिरुचिरामक्षमालां कपालम् ।
हस्ताम्भोजैर्दधानं त्रियनयनविलसद्वेदवक्त्राभिरामं,
मार्त्तण्डं वल्लभार्द्ध मणिमयमुकुटं हारदीप्तं
भजामः ॥
एवं ध्यात्वा मानसैः सम्पूज्य अर्घ्यस्थापनं कुर्यात् ॥ ५५ ॥
ततः पूर्वोक्तक्रमेण पीठमन्वन्तं सम्पूज्य पूर्वादिषु
कर्णिकायां ॐ ऊषायै नमः ।
एवं प्रज्ञायै प्रभायै सन्ध्यायै इति सम्पूज्य मूर्ति मूलेन
कल्पयेत् ।
ततः पुनर्ध्यात्वा आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं
कर्म विधाय आवरणपूजामारभेत् ।
तथा च निबन्धे-
पीठे दिप्तादिभिर्युक्ते कर्णिकायामुषादिकाः ।
पूर्वादिदिक्षु सम्पूज्य मूर्ति मूलेन कल्पयेत् ।
ततः पूर्वादि दिक्षु सूर्यं भास्करं भानुं रविञ्च पूजयेत् ।
कोणेषु दिवाकरम् ।
ततोऽग्निनिर्-ऋतिवायव्यीशानकोणेषु ठ्रां हृदयाय नमः इत्यादि ।
ईशाने ठ्रौं नेत्रत्रयाय वौषट् ।
शारदायाम्-
सूर्यादीन् चतुरो दिक्षु विदिक्ष्वन्यं समर्चयेत् ।
अङ्गपूजा यथा पूर्वं नेत्रमीशादिदिग्गतमिति ।
ततः पूर्ववच्चन्द्रादि अष्टग्रहान् सम्पूज्य भूगृहेषु लोकपालान्
पूजयेत् ।
तथा च निबन्धे-
ग्रहानष्टौ तथा वाये लोकपालांस्ततः परम् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ ५६ ॥
अस्य पुरश्चरणजपो लक्षत्रयसङ्ख्यः ।
त्रिमधुरोपेतैः पद्मैर्दशांशहोमः ।
तथा च-
लक्षत्रयं जपेन्मन्त्रं विम्बबीजपुटीकृतम् ।
दक्षांशं कमलैः फुल्लैर्जुहुयान्मधुरोक्षितैः ॥ ५७ ॥
इमं मन्त्रं जपेन्मर्त्त्यः कान्तिं पुत्रान् धनं द्युतिम् ।
वाक्सिद्धिमतुलां लक्ष्मीं सौभाग्यमपि साधयेत् ॥ ५८ ॥
अथ अजपामन्त्रः
वियदर्द्धेन्दुललितं तदादिः सर्गसंयुतः ।
अजपाख्यो मनुः प्रोक्तो द्व्यक्षरः सुरपादपः ॥ ५९ ॥
अस्य पूजा-
प्रातःकृत्यादि पूर्वोक्तपीठमन्वन्तं समाप्य ऋष्यादिन्यासं
कुर्यात् ।
शिरसि ब्रह्मणे ऋषये नमः ।
मुखे गायत्रीच्छन्दसे नमः ।
हृदि श्रीगिरिजापतये देवतायै नमः ।
तथा च निबन्धे-
ऋषिर्ब्रह्मा स्मृतो देवि गायत्रीच्छन्द ईरितम् ।
देवता जगतामादिः सम्प्रोक्ता गिरिजापतिः ॥ ६० ॥
ततः कराङ्गन्तासौ-
ह्साम् अङ्गुष्ठाभ्यां नमः इत्यादि ।
एवं हृदयादिषु ।
तथा च निबन्धे-
ह्सां षड्दीर्घयुक्तेन कुर्यादङ्गक्रियां मनोः ॥ ६१ ॥
ततो ध्यानम्-
उद्यद्भानुस्फुरिततडिदाकारमर्द्धाम्बिकेशं, पाशाभीतिं
वरदपरशुं सन्दधानं कराब्जैः ।
दिव्याकल्पैर्नवमणिमयैः शोभितं विश्वमूलं, सौम्याग्नेयं
वपुरवतु वश्चन्द्रचूडं त्रिनेत्रम् ॥
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कृत्वा,
पूर्वोक्तपीठपूजां विधाय पुनर्ध्यात्वा
आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं
विधायावरणपूजामारभेत ।
अग्निनिर्-ऋतिवायव्यीशानकोणेषु मध्ये दिक्षु च ह्सां हृदयाय
नमः इत्यादिना पूजयेत् ।
दिग्दलेषु ऋतं वरं वसुं नरं वरं विदिग्दलेषु ऋतजा गोजा-
अब्जद्रिजा पूजयेत् ।
तथा च निबन्धे-
ऋतं वसुं नरवरौ दिग्दलेषु विदिक्ष्वथ ।
अर्चयेत् ऋतजां गोजामब्जाख्यामद्रिजां पुनः ।
तद्वाह्ये इन्द्रादीन् वज्रादींश्च प्रपूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ ६२ ॥
अस्य पुरश्चरणं द्वादशलक्षजपः ।
घृतयुक्तपायसेन दशांशहोमः ।
तथा च-
भानुलक्षं जपेन्मन्त्रं पायसेन ससर्पिषा ।
दशांशं जुहुयान्मन्त्री ततः सिद्धो भवेन्नरः ॥ ६३ ॥
अथ विष्णुमन्त्राः
अथ वक्ष्ये महान्त्रान् विष्णोः सर्वसमृद्धिदान् ।
यस्य संस्मरणात् सन्तो भावाब्धे पारमाश्रिताः ॥ ६४ ॥
तारं नमः पदं ब्रूयान्नरौ दीर्घसमन्वितौ ।
पावनो नाम मन्त्रोऽयं प्रोक्तो वस्वक्षरः परः ॥ ६५ ॥
अस्य पूजा-प्रयोगः-
प्रातःकृत्यादिस्नानान्तं कर्म कृत्वा पूजामण्डपमागत्य
वैष्णवाचमनं कुर्यात् ॥ ६६ ॥
तद्यथा गौतमीये-
केशवाद्यैस्त्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत् करौ ।
द्वाभ्यामोष्ठौ च सम्मृज्य द्वाभ्यां मृज्यान्मुखः ततः ।
एकेन हस्तं प्रक्षाल्य पादावपि तथैकतः ।
सम्प्रोक्ष्यैकेन मूर्द्धानं ततः सङ्कर्षणादिभिः ।
आस्यनासाक्षिकर्णांश्च नाभ्युरस्कं भुजौ क्रमात् ।
स्पृशेदेवं भवेदाचमनन्तु वैष्णवान्वये ।
एवमाचमनं कृत्वा साक्षान्नारायणो भवेत् ॥ ६७ ॥ केशवादयस्तु
केशव नारायण-माधव-गोविन्द-विष्णु मधुसूदन-
त्रिविक्रमवामन-श्रीधर-हृषीकेशपद्मनाभ-दामोदर-
सङ्कर्षण-वासुदेव-प्रद्युम्नानिरुद्धपुरुषोत्तम-अधोक्षज-
नृसिंह-अच्युत-जनार्दन-उपेन्द्र-हरि-विष्णवः ।
वाक ॐ केशवाय नमः इत्यादि ।
तथा च-
सचतुर्थीनमोऽन्तैश्च नामभिर्विन्यसेत् सुधीः ॥ ६८ ॥
ततः सामान्यार्घ्यादि-मातृकान्यासान्तं कर्म विधाय
केशवकीर्त्त्यादिन्यासं कुर्यात् ।
अस्य ऋष्यादिन्यासः-
शिरसि प्रजापतये ऋषये नमः ।
मुखे गायत्रीच्छन्दसे नमः ।
हृदि अर्द्धलक्ष्मीहरये देवतायै नमः ॥ ६९ ॥
ततः कराङ्गन्यासौ-
श्रीम् अङ्गुष्ठाभ्यां नमः इत्यादि ।
एवं हृदयादिषु ।
तथा च गौतमीये-
ऋषिः प्रजापतिशच्छन्दो गयात्री देवता पुनः ।
अर्द्धलक्ष्मीहरिः प्रोक्तः श्रीबीजेन षडङ्गकम् ॥ ७० ॥
ततो ध्यानम्-
उद्यत्-प्रद्योतनशतरुचिं तप्तहेमावदाभं पार्श्वद्वन्द्वे
जलधिसुतया विश्वधात्र्या च जुष्टम ।
नानारत्नोल्लसितविविधाकल्पमापीतवस्त्रं, विष्णुं वन्दे
दरकमलकौमोदकी चक्र पाणिम् ॥
एवं ध्यात्वा न्यसेत् ।
तथा च क्रमदीपिकायाम्-
वर्णानुक्त्वा सार्द्धञ्चन्द्रान् पुरस्तात् इत्यादि दर्शनात्सर्वत्र
सानुस्वारः ॥ ७१ ॥
अं केशवाय कीर्त्त्यै नमो ललाटे आं नारायणाय कान्त्यै नमो
मुखे ।
इं माधवाय तुष्ट्यै नमो दक्षनेत्रे ।
ईं गोविन्दाय पुष्ट्यै नमो वामनेत्रे ।
सर्वत्र एवम् उं विष्णवे धृत्यै दक्षकर्ण ।
ऊं मधुसूदनाय शान्त्यै वामकर्णे ।
ऋं त्रिविक्रमाय क्रियायै दक्षनासापुटे ।
ॠं वामनाय दयायै वामनासापुते ।
ऌं श्रीधराय मेधायै दक्षगण्डे ।
ॡं हृषीकेशाय हर्षायै वामगण्डे ।
एं पद्मनाभाय श्रद्धायै ओष्ठे ।
एं दामोदराय लज्जायै अधरे ।
ॐ वासुदेवाय लक्ष्म्यै ऊर्ध्वदन्तपङ्क्तौम् ।
औं सङ्कर्षणाय सरस्वत्यै अधोदन्तपङ्क्तौ ।
अं प्रद्युम्नाय प्रीत्यै मस्तके ।
अः अनिरुद्धाय रत्यै मुखे ।
कं चक्रिणे जयायै ।
खं गदिने दुर्गायै, गं शार्ङ्गिणे प्रभायै, घं खड्गिने
सत्यायै, ङं शङ्खिने चण्डायै, इतिदक्षकरमूलसन्ध्यग्रकेषु ।
चं हलिने बाण्यै, छं मुषलिने विलासिन्यै, जं शूलिने बिजयायै,
झं पाशिने विरजायै, ञम् अङ्कुशिने विश्वायै, इति
वामकरमूलसन्ध्यग्रकेषु ।
टं मुकुन्दाय विनदायै, ठं नन्दजाय सुनदायै, डं नन्दिने
स्मृत्यै, ढं नराय ऋद्धयै, णं नरकजिते समृद्ध्यै, इति
दक्षपादमूलसन्ध्यग्रकेषु ।
तं हरये शुद्ध्यै, थं कृष्णाय बुद्ध्यै, दं सत्याय भक्त्यै,
धं सात्त्वताय मत्यै, नं शौरये क्षमायै, इति
वामपादमूलसन्ध्यग्रकेषु ।
पं शूराय रमायै दक्षपार्श्वे ।
फं जनार्दनाय उमायै वामपार्श्वे ।
बं भुधराय क्लेदिन्यै पृष्ठे ।
भं विश्वमूर्त्तये क्लिन्नायै नाभौ ।
मं वैकुण्ठाय वसुदायै उदरे ।
यं त्वगात्मने पुरुषोत्तमाय वसुधायै हृदि ।
रम् असृगात्मने बलिने परायै दक्षांसे ।
लं मांसात्मने बलानुजाय परायणायै ककुदि ।
वं मेदात्मने बालाय सूक्ष्मायै वामांसे ॥
शम् अस्थ्यात्मने वृषघ्नाय सन्ध्यायै हृदादिदक्षकरे ।
षं मज्जात्मने वृषाय प्रज्ञायै हृदादिवामकरे ।
सं शुक्रात्मने हंसाय प्रभायै हृदादिदक्षपादे ।
हं प्राणात्मने वराहाय निशायै हृदादिवामपादे ।
लं जीवात्मने विमलाय अमोघायै हृदाद्युदरे ।
क्षं क्रोधात्मने नृसिंहाय विद्युतायै हृदादिमुखे इति ।
नमः सर्वत्र ॥ ७२ ॥
केशवादिमाह शारदायाम्-
केशवनारायणमाधवगोविन्दविष्णवः ।
मधुसूदनसञ्ज्ञोऽन्यः स्यात्त्रिविक्रमवामनो ।
श्रीधरश्च हृषीकेशः पद्मनाभस्ततः परः ।
दामोदरः वासुदेवः सङ्कर्षण इतीरितः ।
प्रद्युम्नश्चानिरुद्धश्च स्वरार्णमूर्त्तयः स्मृताः ।
पश्चाच्चक्री गदी शार्ङ्गी खड्गी शङ्खो हली पुनः ।
मुषली शूलिसञ्ज्ञोऽन्यः पाशी स्यादङ्कुशी पुनः ।
मुकुन्दो नन्दजो नन्दो नरो नरकजिद्धरिः ॥
कृष्णः सत्यः सात्त्वतः स्यात्शौरिः शूरो जनार्दनः ।
भूधरो विश्वमूर्तिश्च वैकुण्ठः पुरुषोत्तमः ।
बली बलानुजो बालो वृषघ्नश्च वृषः पुनः ।
हंसो वराहो विमलो नृसिंहो मूर्त्तयो हलाम ॥
केशवाद्या इमे श्यामाः शङ्खचक्रलसत्कराः ।
कीर्ति कान्तिस्तुष्टिपुष्टि धृतिः शान्तिः क्रिया दया ॥
मेधा सहर्षा श्रद्धा स्याल्लज्जा लक्ष्मीः सरस्वती ।
प्रीति रतिरिमाः प्रोक्ताः क्रमेण स्वरशक्तयः ॥
जया दुर्गा प्रभा सत्या चण्डा वाणी विलासिनी ।
विजया विरजा विश्वा विनदा सुनदा स्मृतिः ।
ऋषिः समृद्धिः शुद्धिः स्याद्भुक्तिर्बुद्धिर्मति क्षमा ।
रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधा परा ॥
तथा परायणा सूक्ष्मा सन्ध्या प्रज्ञा प्रभा निशा ।
अमोघा विद्युता चेति कीर्त्त्याद्याः सर्वकामदाः ॥
एताः प्रियतमाङ्गेषु निमग्नाः सस्मिताननाः ।
विद्युद्दामसमाभाः स्युः पङ्कजाभयवाहवः ॥ ७३ ॥
गौतमीये-
केशवादिरयं न्यासो न्यासमात्रेण देहिनाम् ।
अच्युतत्वं ददात्येव सत्यं सत्यं न संशयः ।
मातृकार्णं समुच्चार्य केशवाय इति स्मरेत् ।
कीर्त्त्यै च नमसा युक्तमित्यादि न्यासमाचरेत् ॥
आगमनकल्पद्रुमे-
आदिक्षान्तान्विदुयुक्तान्मातृकार्णान्यथाक्रमम् ।
ङेऽन्तं देवं तथा शक्तिं पश्चान्नम इति क्रमः ।
केशवाय ततः कीर्त्यै कान्त्यै नारायणाय च ॥
इत्याद्यगस्त्यसंहितावचनादयं क्रमः ।
न तु केशवकीर्त्तिभ्यां नमः इत्यादि ।
तथा भुक्तिमिच्छता अयं न्यासः कर्त्तव्यः श्री बीजादिकः ।
यथा-
ॐ श्रीम् अं केशवाय कीर्त्त्यै नमः इत्यादि ॥ ७५ ॥
तथा च गौतमीये-
प्रणवं पूर्वमुच्चायं श्रीबीजं तदनन्तरम् ।
मातृकार्णं ततो न्यस्येद्वक्ष्यामि तत्प्रकारकम् ॥ वाग्भवाद्यं
न्यसेद्वाथ वागीशत्वमवाप्नुयात् ।
यद्यदाद्यं न्यसेन्न्यासं तद्बीजेनाङ्ग कल्पना ।
एवं प्रविन्यसेन्न्यासं लक्ष्मीबीजपुरःसरम् ।
स्मृति धृतिं महालक्ष्मीं प्राप्यान्ते हरितां व्रजेत् ॥ ७६ ॥
ततस्तत्त्वन्यासः-
मादिकान्तानथार्णांश्च बीजान्येकैकशो वदेत् ।
नमः परायेत्युच्चार्य ततस्तत्त्वात्मने नमः ॥
इति गौतमीय दर्शनात्सर्वत्र तत्त्वपद प्रयोगः ।
यथा-
मं नमः पराय जीवतत्त्वात्मने नमः ।
भं नमः पराय प्राणतत्त्वात्मने नमः ।
एतद्द्वयं सर्वगात्रे ।
बं नमः पराय मतितत्त्वात्मने नमः ।
फं नमः परायाहङ्कारतत्त्वात्मने नमः ।
पं नमः पराय मनस्तत्त्वात्मने नमः ।
एतत्त्रितयं हृदि ॥
नं नमः पराय शब्दतत्त्वात्मने नमो मस्तके ।
धं नमः पराय स्पर्शतत्त्वात्मने नमो मुखे ।
दं नमः पराय रूपतत्त्वात्मने नमो हृदि ।
थं नमः पराय रसतत्वात्मने नमो गुह्ये ।
तं नमः पराय गन्धतत्त्वात्मने नमः पादयोः ।
णं नमः पराय श्रोत्रतत्त्वात्मने नमः कर्णयोः ॥
ढं नमः पराय त्वक्तत्त्वात्मने नमः त्वचि ।
डं नमः पराय नेत्रतत्त्वात्मने नमो नेत्रयोः ॥
ठं नमः पराय जिह्वातत्त्वात्मने नमो जिह्वायाम् ।
टं नमः पराय घ्राणतत्त्वात्मने नमो घ्राणयोः ॥
ञं नमः पराय वाक्तत्त्वात्मने नमो वाचि ।
झं नमः पराय पाणितत्त्वात्मने नमः पाण्योः ॥
जं नमः पराय पादतत्त्वात्मने नमः पादयोः ।
छं नमः पराय वायुतत्त्वात्मने नमो गुह्ये ।
चं नमः पराय उपस्थतत्त्वात्मने नमो लिङ्गे ।
ङं नमः पराय आकाशतत्त्वात्मने नमो मूर्ध्नि ।
घं नमः पराय वायुतत्त्वात्मने नमो मुखे ।
गं नमः पराय तेजस्तत्त्वात्मने नमो हृदि ॥
खं नमः पराय जलतत्त्वात्मने नमो लिङ्गमूले ।
कं नमः पराय पृथिवीतत्त्वात्मने नमः पादयोः ॥ ७७ ॥
तथा च दीपिकायाम्-
इत्युच्युतीकृततनुर्विदधीत तत्त्वन्यासं
मपूर्वकपराक्षरनत्युपेतम् ।
भूयः पराय च तदाह्वयमात्मने च नत्यन्तमुद्धरत
तत्त्वमनुक्रमेण ॥
सकलवपुषि जीवं प्राणमायोज्य मध्ये न्यसतु मतिमहङ्कारं
मनश्चेति मन्त्री ।
कमुखहृदयगुह्याङ्घ्रिष्वथो शब्दपूर्वं गुणगणमथ
कर्णादिस्थितं श्रोत्रपूर्वम् ॥
वागादीन्द्रियवर्गमात्मनि नयेदाकासपूर्वं गणं
मूर्द्धास्ये हृदये शिरे चरणयोर्हृत् पुण्डरीकं हृदि ।
शं नमः पराय हृत्पुण्डरीकतत्त्वात्मने नमो हृदि ।
हं नमः पराय द्वादशकलाव्याप्तसूर्यमण्डलतत्त्वात्मने
नमो हृदि ।
सं नमः पराय षोडशकलाव्याप्तसोममण्डलतत्त्वात्मने नमो
हृदि ।
रं नमः पराय दशकलाव्याप्तवह्निमण्डलतत्त्वात्मने नमो
हृदि ।
यं नमः पराय परमेष्टितत्त्वात्मने वासुदेवाय नमः शिरसि ।
यं नमः परायं पुरुषतत्त्वात्मने सङ्कर्षणाय नमो मुखे ।
लं नमः पराय विश्वतत्त्वात्मने प्रद्यूम्नाय नमो हृदि ।
वं नमः परायनिवृत्तितत्त्वातत्मने अनिरुद्धाय नमो लिङ्गे ।
लं नमः पराय सर्वतत्त्वात्मने नारायणाय नमः पादयोः ।
क्ष्रौं नमः पराय कोपतत्त्वात्मने नृसिंहाय नमः सर्वगात्रे ॥
७८ ॥
तथा च गौतमीये-
शं-बीजं हृत्पुण्डरीकतत्त्वं हृदि प्रविन्यसेत् ।
हं बीजं सूर्यमण्डलत्त्वं हृदि प्रविन्यसेत् ।
सं-बीजं चन्द्रमण्डलतत्त्वं हृदि प्रविन्यसेत् ।
रं-बीजं वह्निमण्डलतत्त्वं तत्र प्रविन्यसेत् ।
यं-बीजं परमेष्ठितत्त्वं वासुदेवञ्च मूर्ध्नि ॥
यं-बीजमथ पुंस्तत्त्वं सङ्कर्षणमथो मुखे ।
लं बीजं विश्वतत्त्वञ्च प्रद्युम्नञ्च हृदि न्यसेत् ॥
वं बीजं निवृत्तितत्त्वञ्च अनिरुद्धमुपस्थके ।
लं बीजं सर्वतत्त्वञ्च पादे नारायणं न्यसेत् ।
क्ष्रौं-बीजं कोपतत्त्वञ्च नृसिंहं सर्वगात्रके ।
एवं तत्त्वानि विन्यस्य प्राणायामं समाचरेत् ॥ ७९ ॥
फलस्तु तत्रैव-
तत्त्वन्यासं ततः कुर्यात्साधकः सिद्धिहेतवे ।
कृतेन येन देवस्य रूपतामेव यात्यसौ ।
ततो यथाविधि प्राणायामं कृत्वा पीठन्यासं विधाय केशरेषु
पूर्वादि प्रादक्षिण्येन मध्ये च ॐ विमलायै नमः एवम्
उत्कर्षिण्यै ज्ञानायै क्रियायै योगायै प्रह्व्यै सत्यायै ईशानायै
अनुग्रहायै ।
तदुपरि ॐ नमो विष्नवे भगवते सर्वभूतात्मने वासुदेवाय
सर्वात्मसंयोगयोगपद्मपीठात्मने नमः ॥ ८० ॥
तथा च निबन्धे-
विमलोत्कर्षिणी ज्ञाना क्रिया योगा च शक्तयः ।
प्रह्वी सत्या तथेशानानुग्रहा नवमी स्मृता ॥ ८१ ॥
पीठमन्त्रोच्चारणमाह-
नमो भगवते ब्रूयाद्विष्णवेऽथ पदं वदेत् ।
सर्वभूतात्मने वासुदेवायेति वदेत्ततः ॥
सर्वात्मसंयोगपदाद्योगपद्मपदं ततः ।
पीठात्मने हृदन्तोऽयं मन्त्रस्तारादिको हरेः ॥ ८२ ॥
ततः ऋष्यादि न्यासः ।
तद्यथा-
शिरसि साध्यनारायणाय ऋषये नमः ।
मुखे देवीगायत्रीच्छन्दसे नमः ।
हृदि श्रीविष्णवे देवतायै नमः ।
तथा च-
साध्यनारायणः प्रोक्त ऋषिश्छन्द उदाहृतम् ।
मन्त्रस्य देवी गायत्री देवता विष्णुरव्ययः ॥ ८३ ॥
ततः कराङ्गन्यासौ-
क्रुद्धोल्काय अङ्गुष्ठाभ्यां नमः ।
महोल्काय तर्जनीभ्यां स्वाहा ।
वीरोल्काय मध्यमाभ्यां वषट् ।
अत्युल्काय अनामिकाभ्यां हुम् ।
सहस्रोल्काय कनिस्ठाभ्यां फट् ।
एवं हृदयादिषु ।
तथा च प्रपञ्चसारे-
क्रुद्धोल्काय हृदाख्यातं महोल्काय शिरः स्मृतम् ।
वीरोल्काय शिखा प्रोक्तात्युल्काय कवचं स्मृतम् ।
सहस्रोल्कायास्त्रमुक्तमङ्गकॢप्तिरियं मता ॥ ८४ ॥
ततो मन्त्रेण षडङ्गन्यासं कुर्यात् ।
ॐ हृदयाय नमः, नं शिरसे स्वाहा, मों शिखायै वषट्, नां
कवचाय हूं, रां नेत्रत्रयाय वौषट्, यम् अस्त्राय फट् ।
णां नमो दक्षपार्श्वे, यं नमो वामपार्श्वे ॥ ८५ ॥
तथा च-
भूयो वर्णैर्मनोः षड्भिः षडङ्गानि समाचरेत् ।
अवशिटैः पुनर्वर्णैर्विन्यसेत्कुक्षिपार्श्वयोः ।
ततः ॐ नमः सुदर्शनाय अस्त्राय फट् इति मन्त्रेण दिग्बन्धनं
कृत्वा मन्त्रन्यासं कुर्यात् ।
तथा च-
मन्त्रन्यासं ततः कुर्यात्सर्वकामफलप्रदम् ।
यं विना नैव तत्सम्यगासुरं निष्फलं भवेत् ॥ ८६ ॥
तद्यथा-
आधारे ॐ नमः, हृदि नं ममः, वक्त्रे मों नमः, दोर्मूले नां
नमः रां नमः, पादयोः यं नमः णां नमः नाभौ यं
नमः ।
एवं कण्ठे नाभौ हृदि कुचयोः पार्श्वयोः पृष्ठे च ।
मूर्ध्नि आस्ये नेत्रयोः श्रवणयोघ्राणयोः हस्तयोः
सन्ध्यङ्गुलीषु ।
तथा पादयोः सन्ध्यङ्गुलीषु ।
हृदये सप्तधातुषु प्राणेषु ।
धातवस्तु-
त्वग्सृङ्मांसमेदोस्थिमज्जशुक्राणि धातवः ।
मूर्ध्नि नेत्रे आस्ये हृदि कुक्षौ ऊर्वोः ।
जङ्घयोः पादयोर्गण्डयोरंसयोः ऊर्वोः पादयोश्चक्रे शङ्खे
गदायां पद्मे च विन्यसेत् ॥ ८७ ॥
तथा च निबन्धे-
बद्धदिक्चक्रमन्त्रेण मन्त्रवर्णांस्तनौ न्यसेत् ।
आधारे हृदये वक्त्रे दोःपन्मूलेषु नाभिके ।
कण्ठे नाभौ हृदि कुचे पार्श्वे पृष्ठे च तत्परम् ।
मूर्द्धास्यनेत्रश्रवणघ्राणेषु तदनन्तरम् ।
दोःपादसन्ध्यङ्गुलीषु धातुप्राणेषु हृत्स्थले ।
मूर्द्धक्षणास्यहृत्कुक्षिसोरुजङ्घापदद्वये ।
एकैकशो न्यसेद्वर्णान्गण्डांसोरुपदेषु च ।
शङ्खचक्रगदाम्भोजपादष्ववहितो न्यसेत् ॥ ८८ ॥
ततो मूर्तिपञ्जरन्यासः-
ललाटे ॐ अं केशवाय धात्रे नमः ।
कुक्षौ नम् आं नारायणाय अर्यम्ने नमः ॥
हृदि षोम् इं माधाय मित्राय नमः ।
गलकूपे भम् ईं गोविन्दाय वरुणाय नमः ।
दक्षपार्श्वे गम् उं विष्णवे अंशवे नमः ।
दक्षिणांसे वम् ऊं मधुसूदनाय भगाय नमः ।
गलदक्षिणभागे तेम् एं त्रिविक्रमाय विवस्वते नमः ।
वामपार्श्वे वाम् ऐं वामनाय इन्द्राय नमः ॥
वामांसे सुं ॐ श्रीधराय पूष्णे नमः ।
गलवामभागे देम् औं हृषिकेशाय पर्जन्याय नमः ।
पृष्ठे वाम् अं पद्मनाभाय त्वष्ट्रे नमः ।
ककुदि यम् अः दामोदराय विष्णवे नमः ।
ततो वक्ष्यमाणकिरीटमन्त्रेण व्यापकं कृत्वा शिरसि
द्वादशाक्षरमन्त्रं न्यसेत् ॥ ८९ ॥
तथा च निबन्धे-
अष्टार्णोऽष्टप्रकृत्यर्थो ज्ञेयः स्याच्चतुरात्मनाम् ।
संयोगात्सूरीभिः प्रोक्तो विशिष्टो द्वादशक्षरः ।
अतस्तन्मन्त्रवर्णाद्या द्वादशस्वरसंयुताः ॥
द्वादशादित्यसहिता ।
मूत्तीर्द्वादश विन्यसेत् ।
केशवाद्याः क्रमाद्देहे वक्ष्यमाणविधानतः ॥
ललाटे केशवं धात्रा कुक्षौ नारायणं पुनः ।
अर्यम्ना हृदि मन्त्रेण माधवं कण्ठदेशतः वरुणेन च
गोविन्दं पुनर्दक्षिणपार्श्वके ।
अंशुना विष्णुमंसे स्यात्भगेन मधुसूदनम् ॥
गले विवस्वता युज्तं त्रिविक्रममनन्तरम् ।
वामपार्श्वस्थमिन्द्रेण वामनाख्यमथांसके ॥
पूष्णा श्रीधरनामानं गले पर्जन्यसंयुतम् ।
हृषीकेशाह्वयं पृष्ठे पद्मनाभं ततः परम् ॥
त्वष्ट्रा दामोदरं पश्चाद्विष्णुना ककुदि न्यसेत् ।
द्वादशार्णं महामन्त्रं ततो मूर्ध्नि प्रविन्यसेत् ॥
ततः किरीटमन्त्रेण व्यापकं विन्यसेत्ततः ॥ ९० ॥
तथा च गौतमीये-
द्वादशाक्षरं मन्त्रवरं विन्यसेद्ब्रह्मरन्ध्रके वासुदेवो
भवेत्साक्षाद्व्यापितस्तस्य तेजसा ।
त्रिमात्रिकं समुद्धृत्य नमो भगवते लिखेत् ।
वासुदेवं चतुर्थ्या तु मन्त्रोऽयं सुरपादपः ॥
अस्य विज्ञानमात्रेण वासुदेवः प्रजायते ॥ ९१ ॥
तत अमुं मन्त्रं पठेत्-
चैतन्यामृतवपुरर्ककोटितेजा मूर्ध्निस्थो वपुरखिलं स
वासुदेवः ।
उघस्यं सुविमलपाथसीव सिक्तं व्याप्नोति प्रकटितमन्त्रवर्ण
सङ्कीर्णम् ।
न्यासफलन्तु-
तन्मूर्त्तिपञ्जरन्यासोऽभिहितः परमेष्ठिना ।
सकृन्न्यासाद्भवेन्मन्त्री विष्णुमूर्तिरनुत्तमा ॥
मूर्तिपञ्जरन्यासस्तु वहुधा ।
ॐ अं धातृसहितकेशवाय नमः इति केचित् ।
ॐ अं केशव धातृभ्यां नमः इत्यन्ये ।
ॐ अं केशवसहित-धात्रे नमः इत्यपरे ।
तन्न ॥
वासुदेवमनोरेकं वर्णं क्लीवविवजर्तिम् ।
स्वरैकं विन्दुसंयुक्तं चतुर्थ्या केशवादिकम् ॥
तथा धात्र्यादिकञ्चोक्त्वा नमो न्यास उदाहृतः ।
इति नारदीयतन्त्रात् ॐ अं देशवाय धात्रे नमः इति वदन्ति ॥ ९२ ॥ ततः
ॐ किरीट-केयूरहारमकर-कुण्डल-
शङ्खचक्रगदाम्भोजहस्तपीताम्बरधरश्रीवत्साङ्कित
वक्षःस्थल श्रीभूमिसहितस्वात्मज्योतिर्मयदीप्तकराय
सहस्रादित्यतेजसे नमः ।
इति मन्त्रेण व्यापकं विन्यस्य मुद्राः प्रदर्श्य ध्यानं कुर्यात् ॥
९३ ॥
तथा च प्रपञ्चसारे-
किरीटकेयूरहारपदान्याभाष्य मन्त्रवित् ।
मकारान्ते कुण्डलञ्च शङ्गचक्रगदादिकम् पद्महस्तपदं
प्रोक्त्वा पीताम्बरधरेति च ।
श्रीवत्साङ्कितमाभाष्य वक्षःस्थलमथो वदेत् ।
श्रीभूमिसहितं स्वात्मज्योतिर्मयपदं वदेत् ।
दीप्तमुक्त्वा करायेति सहस्रादित्यतेजसे ।
हृदन्तः प्रणवादिः स्यात् किरीटादिमनुद्वयम् ।
एवं न्यासं पुरा कृत्वा ध्यायेन्नारायणं परम् ॥ ९४ ॥
ध्यानं यथा-
उद्यत्कोटिदिवाकराभमनिशं शङ्खं गदां पङ्कजं, चक्रं
विभ्रतमिन्दिरावसुमतीसंशोभिपार्श्वद्वयम् ।
कोटीराङ्गदहारकुण्डलधरं पीताम्बरं कौस्तुभोद्दीप्तं
विश्वधरं स्ववक्षसि लसत्श्रीवत्सचिह्नं भजे ॥
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्यात् ॥ ९५ ॥
तत्र वैष्णवपात्रस्तु गौतमीये-
ताम्रपात्रन्तु विप्रर्षे ।
विष्णोरतिप्रियं मतम् ।
तथैव सर्वपात्राणां मुख्यं शङ्खं प्रकीर्त्तितम् ।
मृत्पात्रञ्च तथा प्रोक्तं सौवर्णं राजतन्तथा ।
पञ्चपात्रं हरेः शुद्धं नान्यत्तत्र नियोजयेत् ॥ ९६ ॥
नैवेद्यदाने तु तत्र-
स्वर्णे वा ताम्रपात्रे वा रौप्ये वा पङ्कजे दले इत्यादि ।
भक्तिकल्पद्रुमे-
हैरण्यं राजतं कांस्यं ताम्रं मृण्मयमेव वा ।
पालाशं श्रीहरेः पात्रं नैवेद्यं कल्पयेद्बुधः ।
तथा च पुरश्चरणचन्द्रिकायाम्-
सौवर्णे राजते रौप्ये इत्यादि ॥ ९७ ॥
ततः सामान्यपीठपूजानन्तरं विमलादिशक्तिसहितपीठपूजां
कृत्वा, पुनर्ध्यात्वा, मूलेन
कल्पितमूर्त्तावावाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं विधाय
आवरणपूजामारभेत् ।
तद्यथा-
अग्निकोणे ॐ क्रुद्धोल्काय हृदयाय नमः ।
नैर्-ऋते महोल्काय शिरसे स्वाहा ।
वायुकोणे वीरोल्काय शिखायै वषट् ।
ईशाने अत्युल्काय कवचाय हुम् ।
दिक्षु सहस्रोल्काय अस्त्राय फट् ।
ततः केशरेषु पूर्वादि ॐ नमः, नण् नमं, मों नमः, नां
नमः, रां नमः, यं नमः, णां नमः, यं नमः ।
ततो दलेषु पूर्वादिदिक्षु ॐ वासुबेवाय नमः, ॐ सङ्कर्षणाय
नमः, ॐ प्राद्युम्नाय नमः, ॐ अनिरुद्धाय नमः ।
आग्नेयादिकोणदलेषु ॐ शान्त्यै नमः, एवं श्रियै, सरस्वत्यै, रत्यै
॥ ९८ ॥
ततोऽष्टदलाग्रेषु पूर्वादिदिक्षु ॐ चक्राय नमः, एवं शङ्खाय
गदायै पद्माय कोस्तुभाय मुषलाय खड्गाय वनमालायै ।
तद्वहिरग्रे ॐ गरुडाय नमः ; दक्षिणे ॐ शङ्खनिधये; वामे ॐ
पद्मनिधये; पश्चिमे ॐ ध्वजाय; अग्निकोणे ॐ विघ्नाय, नैर्-ऋते ॐ
आर्यायै; वायुकोणे ॐ दुर्गायै; ईशाने ॐ सेनान्यै ।
नमः सर्वत्र ।
तद्बहिरिन्द्रादीन् वज्रादींश्च सम्पूज्य धूपदीपौ दत्त्वा,
नैवेद्यं दद्यात् ॥ ९८क ॥
तद्यथा-
नैवेद्यमानीय देवाय मूलेन पाद्यार्घ्याचमनीयं दत्त्वा,
फडिति मन्त्रेण नैवेद्यं सम्प्रोक्ष्य, चक्रमुद्रया अभिरक्ष्य,
यम् इति मन्त्रेण दोषसमूहं, संशोध्य, रमिति दोषं सन्दह्य,
वामकरसौधधाराभिपूर्णं वमित्यमृतीकृतं विभाव्य,
मूलमष्टधा जपेत् ।
ततो वमिति धेनुमुद्रया अमृतीकृत्य, गन्धपुष्पाभ्यां नैवेद्यं
सम्पूज्य, देवाय मूलमन्त्रेण पुष्पाञ्जलिं दत्त्वा, कृताञ्जलिः
सन् हरिं प्रार्थयेत् ।
अस्य मुखतो महः प्रसवेदिति विभाव्य, स्वाहान्तं मूलमुच्चार्य,
नैवेद्ये जलं दद्यात् ।
ततो मूलमुच्चार्य एतन्नैवेद्यम् अमुकदेवतायै नमः ।
ततो नैवेद्यमुद्धृत्य, ॐ निवेदयामि भवते जुषाणेदं हविर्हरे इति
नैवेद्यं समर्प्यं, अमुकदेवतायै एतज्जलम् अमृतोपस्तरणमसीति
जलं दत्त्वा, वामहस्तेन ग्रासमुद्रां प्रदर्श्य दक्षिणहस्तेन
प्राणादिमुद्राः प्रदर्शयेत् ।
यथा-
ॐ प्राणाय स्वाहा इति कनिष्ठानामिके अङ्गुष्ठेन स्पृशेत् ।
ॐ अपानाया स्वाहा इति तर्जनीमध्यमे अङ्गुष्ठेन स्पृशेत् ।
ॐ व्यानाय स्वाहा इति मध्यमानामिके अङ्गुष्ठेन स्पृशेत् ।
ॐ उदानाय स्वाहा इति तर्जनीमध्यमानामा अङ्गुष्ठेन स्पृशेत् ।
ॐ समानाय स्वाह इति सर्वाडङ्गुलीरङ्गुष्ठेन स्पृशेत् ॥ ९९ ॥
ततोऽगुष्ठाभ्यामनामिकाग्र स्पृशन् ठ्रौं नमः पराय
अन्तरात्मने अनिरुद्धाय नैवेद्यं कल्पयामि इति नैवेद्ये मुद्राः
प्रदर्श्य, मूलमन्त्रमुच्चार्य, अमुकदेवं तर्पयामि इति चतुर्धा
सन्तर्प्य, अमुकदेवतायै एतज्जलम् अमृतापिधानमसीति जलं दत्त्वा,
तत्तेजो देवतामुखे स्थापयित्वा आचमनीयादिकं दद्यादिति ।
वैष्णवे तु सर्वत्र नैवेद्यदाने अयं क्रमः ।
ततः सामान्य पद्धतिक्रमेण विसर्जनान्तं कर्म समापयेत् ।
अस्य पुरश्चरण षोडशलक्षजपः ।
तथा च-
विकारलक्षं प्रजपेन्मनुमेनं समाहितः ।
तद्दशांशं सरसिजैर्जुहुयान्मधुराप्लुतैः ॥ १०० ॥
अथ श्रीराममन्त्राः
अनन्तोऽग्न्यासनः सन्दुर्बीजं रामाय हृन्मनुः ।
षडक्षरोऽयमादिष्टो भजतां कामदो मणिः ॥ १ ॥
अस्य पूजा-
प्रातःकृत्यादि वैष्णवोक्तपीठन्यासान्तं विधाय ऋष्यादिन्यासं
कुर्यात् ।
यथा-
शिरसि ब्रह्मणे ऋषये नमः, मुखे गायत्रीच्छन्दसे नमः, हृदि
श्रीरामाय देवतायै नमः ॥ २ ॥
ततः कराङ्गन्यासौ-
राम् अङ्गुष्ठाभ्यां नमः, रीं तर्जनीभ्यां स्वाहा, रूं
मध्यमाभ्यां वषट्, रैम् अनामिकाभ्यां हुं, रौं
कनिष्ठाभ्यां वौषट्, रः करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु रां हृदयाय नमः इत्यादि ॥ ३ ॥
ततः मन्त्रन्यासः-
ब्रह्मरन्ध्रे रां नमः, भुवोर्मध्ये रां नमः, हृदि मां
नमः, नाभौ यं नमः, लिङ्गे नं नमः, पादयोः मं नमः ।
ततो मूर्तिपञ्जरन्यासादिकं पूर्वोक्तं विधाय ध्यायेत्-
कालाम्भोधरकान्तिकान्तमनिशं वीरासनाध्यासीनं, मुद्रां
ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि ।
सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं,
पश्यन्तं मुकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्यात् ॥ ४ ॥
ततः पीठपूजां विधाय वैष्णवोक्तपीष्ठशक्तीः पीठमनुञ्च
सम्पूज्य, पुनर्ध्यात्वा आवाहनादि
पञ्चपुष्पाञ्जलिदानपर्यन्तं विधायावरणपूजामारभेत ॥ ५
॥
देववामपार्श्वे श्रीं सीतायै नमः ।
अग्रे ॐ शार्ङ्गाय नमः, वामदक्षिणपार्श्वयोः ॐ परेभ्यो
नमः, ॐ चापाय नमः ।
तद्बहिः केशरेषु अग्न्यादि कोणेषु मध्ये दिक्षु च रां हृदयाय
नमः इत्यादिना षडङ्गानि पूजयेत् ॥ ६ ॥
ततो दलेषु पूर्वादिदिक्षु ॐ हनूमते नमः, एवं सुग्रीवाय
भरताय विभीषणाय लक्ष्मणाय अङ्गदाय शत्रुघ्नाय
जाम्बवते ।
दलेग्रेषु ॐ सृष्टये नमः, एवं जयन्ताय विजयाय सुराष्ट्राय
राष्ट्रवर्द्धनाय अकोपाय धर्मपालाय स्वमन्त्राय ।
ततः इन्द्रादीन्वज्रादींश्च पूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ ७ ॥
अस्य पुरश्चरणं षड्लक्षजपः ।
तथा च-
ऋतुलक्षं जपेन्मन्त्रं दशांशं कमलैः शुभैः ।
जुहुयादर्चिते वह्नौ ब्राह्मणान्भोजयेत्ततः ॥ ८ ॥
अयं मन्त्रः षड्विधः ।
तथा च-
स्वकामशक्तिवाक्लक्ष्मीताराद्यः पञ्चवर्णकः ।
षडक्षरः षड्विधः स्याच्चतुर्वर्गफलप्रदः ॥ ९ ॥
ब्रह्मा सम्मोहनः षक्तिर्दक्षिणामूर्तिरव्ययः ।
अगस्त्यः श्रीशिवः प्रोक्तो मुनयोऽत्र क्रमादिमे ॥ १० ॥
अथवा कामबीजादेर्विश्वामित्रमुनिर्मनोः ।
छन्दो गायत्रीसञ्ज्ञञ्च श्रीरामश्चैव देवता ।
ध्यानपूजादिकं सर्वं पूर्ववच्च समाचरेत् ॥ ११ ॥
मन्त्रान्तरम् -
जानकीवल्लभं ङेऽन्तं वह्निजाया हुमादिकम् ।
दशाक्षरोऽयं मन्त्रः स्याद्वसिटः स्यादृषिर्विराट ॥ १२ ॥
छग्दश्च देवता रामः सीतापाणिपरिग्रहः ।
आद्यं बीजं द्विठः शक्तिः कामेनाङ्गक्रिया मता ॥ १३ ॥
शिरोललाटभ्रूमध्यतालुकण्ठेषु हृद्यपि ।
नाभ्यूरुजानुपादेषु दशार्णान्विन्यसेन्मनोः ॥ १४ ॥
ततो ध्यानम्-
अयोध्यानगरे रम्ये रत्नसौन्दर्यमण्डपे ।
मन्दारपुष्पैराबद्धवितानतोरणान्विते ।
सिंहासनसमारूढ पुष्पकोपरि राघवम् ।
रक्षोभिर्हरिभिर्देवैर्दिययानगतैः शुभैः ।
संस्तूयमानं मुनिभिः सर्वज्ञैः परिशोभितम् ।
सीतालङ्कृत वामाङ्गं लक्ष्मणेनोपसेवितम् ॥
श्यामं प्रसन्नवदनं सर्वाभरणभूषितम् ।
ध्यायन्नेवं जपेन्मन्त्रं वर्णलक्षमनन्यधीः ।
दशांशं जुहुयाद्विल्वपुष्पैर्मधुरसंयुतैः ।
अन्यत्सर्वं पूर्ववत् ॥ १५ ॥
मन्त्रान्तरम्-
वह्निर्नारायणेनाढ्यो जठरः केवलस्तथा ।
द्व्यक्षरो मन्त्रराजोऽयं सर्वाभीष्टफलप्रदः ॥ १६ ॥
श्रीमायामन्मथैकैकबीजाद्यन्तगतो मनुः ।
चतुर्वर्णः स एव स्यात्षड्वर्णो वाञ्छितप्रदः ॥
स्वाहान्तो हुम्फडन्तो वा नमोऽन्तो वा भवेन्मनुः ।
तारामायारमानङ्गवाक्स्वबीजैस्तु षड्विधः ॥
त्र्यक्षरो मन्त्रराजः स्यात्सर्वाभीष्टफलप्रदः ॥ १७ ॥
द्व्यक्षरश्चन्द्रभद्रान्तो मन्त्रोऽयं चतुरक्षरः ।
रामाय हृन्मनुः प्रोक्तो मन्त्रः पञ्चाक्षरः परः ॥
पञ्चाशन्मातृकावर्णप्रत्येकपूर्वको मनुः ।
लक्ष्मीवाङ्मन्मथादिश्च तारादिः स्यादनेकधा ॥
तेन अं रामाय नमः इत्यादि षडक्षरः ।
वह्निस्थं शयनं विष्णोरर्द्धचन्द्रविभूषितम् ॥
एकाक्षरो मनुः प्रोक्तो मन्त्रराजः सुरद्रुमः ।
ब्रह्मा ऋषिः स्याद्गायत्रीच्छन्दो रामश्च देवता ॥ १८ ॥
एकाक्षरे तु द्वादशलक्षजपः पुरश्चरणम् ।
तथा च-
भानुलक्षं जपेन्मन्त्रम् इति वचनात् ।
अन्येषां षड्लक्षजप इति विशेषः ॥
एतेषां ध्यानपूजादिकं प्रागुक्तषडक्षरवत् ॥ १९ ॥
अथ श्रीकृष्णमन्त्राः
गोपीजन पदस्यान्ते वल्लभाय द्विठावधिः ।
अयं दशाक्षरो मन्त्रो दृष्टादृष्टफलप्रदः ॥
अयं मन्त्रः कामबीजादिः ।
राशिनक्षत्रविचारे पुनर्बीजरहितेन विचारः ॥ १ ॥
बीजपूर्वो जपश्चास्य रहस्यं कथितं मुने ।
लुप्तबीजस्वभावत्वाद्दशाक्षर इहोच्यते ॥ इति गौतमीयात् ॥ २ ॥
तथा च बृहद्गौतमीये-
भोगमोक्षैकनिलयो लुप्तबीजो दशाक्षरः ।
उद्धरेत्तु पृथक्त्वेन कामबीजं महामुने तद्योगात्फलदो मन्त्रो
नान्यथा सिद्धये भवेत् ॥ ३ ॥
अस्य पूजाप्रयोगः-
विष्णुमन्त्रोक्तवैष्णवाचमनं कृत्वा प्रातःकृत्यादि
तत्त्वन्यासन्तं कर्म विधाय प्रणायामं कुर्यात् ।
तथा च गौतमीये-
एवं तत्त्वानि विन्यस्य प्राणायामत्रयं चरेत् ।
कामबीजस्यैकवारजपेन दक्षिणनासया वायुं रेचयेत् ।
पुनः सप्तवारजपेन वामनासया वायुं पूरयेत् ।
ततो नासापुटौ धृत्वा विंशतिवारजपेन वायुं कुम्भयेत् ।
पुनर्वामनासया रेचयेत्, दक्षिणेन पूरयेत् उभाभ्यां कुम्भयेत्
।
पुनर्दक्षिणेन रेचयेत्वामेनापूर्य उभाभ्यां कुम्भयेत् ।
तथा च-
एकेन रेचयेत्कामबीजेनैव पृथक्पृथक् ।
पूरयेत्सप्तजप्तेन विंश्त्या तेन धारयेत् ।
सर्वेषु कृष्णमन्त्रेषु बीजेनानेन वा जपेत् ।
यद्वा मूलेनैव मन्त्रेण सर्वत्र प्राणायामः ॥ ४ ॥
तदुक्तं क्रमदीपिकायाम्-
पवनसंयमनस्त्वमुनाचरेत्यमिह जप्तुमासौ मनुमिच्छति ।
यदि दशाक्षर जपति तदा दशाक्षरेण चेत्तत्र
चाष्टाविंशतिवारं रेचयेत् ।
पूरयेद्वामतस्तद्वद्धारयेत्तत्प्रमाणतः ।
प्राणायामे भवेदेको रेचकपूरककुम्भकैः ।
अष्टादशाक्षरेण चेद्द्वादशैवं समाचरेत् ।
अन्यमनुर्भिर्वर्णानुरूपमित्युक्तत्वात् ।
तत्तन्मन्त्रवर्णसङ्ख्याकै रेचकादित्रयं कुर्यात् ॥ ५ ॥
रेचयेन्मारुतं दक्षया दक्षिणः पूरयेद्वामया
मध्यमाभ्यां पुनर्धारयेदित्यादि ।
एतत्तु श्रीकृष्णमन्त्रविषयं, नान्यत्र ॥ ५क ॥
ततः पीठन्यासं विधाय केशरेषु मध्ये च
विमलादिपीठमन्वन्तं विन्यस्य ऋष्यादिन्यासं कुर्यात् ॥
तद्यथा-
शिरसि नारद - ऋषये नमः, मुखे विराटछन्दसे नमः, हृदि
श्रीकृष्णाय देवतायै नमः, गुह्ये क्लीं बीजाय नमः, पादयोः
स्वाहा शक्तये नमः ।
मन्त्राधिष्ठातृदेवतायै दुर्गायै नमः इति दुर्गा नमस्कुर्यात् ॥ ६ ॥
ततः प्रणवपुटितं मूलमन्त्रं करयोर्मध्ये पृष्ठे पार्श्वे च
त्रिशो विन्यस्य प्रणवपुटितान् सविन्दून्मूलवर्णान् अङ्गुलीनां
पर्वसु नमोन्तेन न्यसेत् ।
तद्यथा-
दक्षिणाङ्गुष्ठे त्रिषु पर्वसु ॐ गों ॐ नमः ।
दक्षिणतर्जन्यां ॐ पीं ॐ नमः ।
दक्षिणमध्यमायां ॐ जं ॐ नमः ।
दक्षिण अनामिकायां ॐ नं ॐ नमः ।
दक्षिणकनिष्ठायां ॐ वं ॐ नमः ।
वामकनिष्ठायां ॐ ल्लं ॐ नमः ।
वामानामिकायां ॐ भां ॐ नमः ।
वामामध्यमायां ॐ यं ॐ नमः ।
वामतर्जन्यां ॐ स्वां ॐ नमः ।
वामाङ्गुष्ठे ॐ हां ॐ नमः ।
अयन्तु सृष्टिन्यासः ।
एवं दक्षिणाङ्गुष्ठपूर्वा वामकनिष्ठान्ता स्थितिः ।
संहृतिश्च वामाङ्गुष्ठादिदक्षिणाङ्गुष्ठान्ता ।
पुनः सृष्टिस्थितीति पञ्चधा कुर्यात् ॥ ७ ॥
तथा च गौतमीये-
संहृतिर्दोषसङ्घानां हारिणी परिकीर्तिता ।
विद्याप्रदश्च सृष्ट्यन्तो वर्णिनां शुद्धचेतसाम् ।
स्थित्यन्तः स्याद्गृहस्थानां त्रयं कामानुरूपतः ॥
सहजानौ वानप्रस्थे स्थित्यन्तं कश्चिदिच्छति ।
संहारान्तो मुनानाञ्च विरक्तस्य च सर्वशः ॥
अशक्तश्चेदेकमात्रं कुर्यात् ।
तथा च-
न्यासत्रयं सदा कुर्यादशक्तावेक एव हि ।
इति गौतमीयात् ॥ ८ ॥ ततः स्थितिक्रमेणाङ्गुलीषु दशाक्षराणि विन्यसेत्
।
तद्यथा-
प्रणवपुटितं सर्वत्र ।
गा नमो दक्षाङ्गुष्ठे ।
पीं नमस्तर्जन्याम् ।
जं नमो मध्यमायाम् ।
नं नमोऽनामिकायाम् ।
वं नमः कनिष्ठायाम् ।
ल्लं नमो वामाङ्गुष्ठे ।
भां नमो वामतर्जन्याम् ।
यं नमो वाममध्यमायाम् ।
स्वां नमो वामानामिकायाम् ।
हां नमो वामकनिष्ठयाम् ।
ततः करयो रङ्गुलीषु पञ्चाङ्गन्यासः ।
यथा आचक्राय स्वाहा अङ्गुष्ठाभ्यां नमः ।
विचक्राय स्वाहा तर्जनीभ्यां स्वाहा ।
सुचक्राय स्वाहा मध्यमाभ्यां वषट् ।
त्रैलोक्यरक्षणचक्राय स्वाहा अनामिकाभ्यां हुम् ।
असुरान्तकचक्राय स्वाहा कनिष्ठाभ्यां फट् ॥ ९ ॥
ततो भूलमन्त्रपुटितान् सविन्दून्मातृकावर्णान् मातृकास्थानेषु
न्यसेत् ।
ततः प्रणवपुटितं मूलमन्त्रम् आकेशादापादम्
आपादादाकेश क्रमात्त्रिवार विन्यस्य संहारसृष्टिभेदेन
दशतत्त्वानि विन्यसेत् ।
तथा च क्रमदीपिकायाम्-
संहृतावनुगतो मनुवर्यः सृष्टिवर्त्मनि भवेत् प्रतियातः ।
उद्धृतिः खलु पुरोक्तवदेषां न्यासकर्म कथयाम्यधुनेति ॥
तद्यथा-
पादयोः गों नमः पराय पृथिवीत्त्वात्मने नमः ।
लिङ्गे पीं नमः पराय जलतत्त्वात्मने नमः ।
हृदि जं नमः पराय तेजस्तत्त्वात्मने नमः ।
मुखे नं नमः पराय वायुतत्त्वात्मने नमः ।
शिरसि वं नमः परायाकाशतत्त्वात्मने नमः ।
ल्लं नमः परायाहङ्कारतत्त्वात्मने नमः ।
भां नमः पराय महत्तत्त्वात्मने नमः ।
एतद्द्वयं हृदिन्यस्यमिति ।
यं नमः पराय प्रकृतितत्त्वात्मने नमः स्वां नमः पराय
पुरुषतत्त्वात्मने नमः ।
हां नमः पराय परतत्त्वात्मने नमः ।
एतत्त्रितयं सर्वगात्रे ।
इति संहारन्यासः ।
अथ सृष्टिन्यासः-
हां नमः परायपरतत्त्वात्मने नमः ।
स्वां नमः पराय पुरुषतत्त्वात्मने नमः ।
यं नम पराय प्रकृतितत्त्वात्मने नमः ।
एतत्त्रितयं सर्वगात्रे ।
हृदि भां नमः पराय महत्तत्वात्मने नमः ।
ल्लं नमः परायाहङ्कारतत्त्वात्मने नमः ।
शिरसि वं नमः परायाकाशतत्त्वात्मने नमः ।
मुखे नं नमः पराय वायुतत्त्वात्मने नमः ।
हृदि जं नमः पराय तेजस्तत्त्वात्मने नमः ।
लिङ्गे पीं नमः पराय जलतत्त्वात्मने नमः ।
पादयोः गों नमः पराय पृथिवीतत्त्वात्मने नमः ।
इति षृष्टिन्यासः ॥ १० ॥
सृष्ट्यादिन्यासे अङ्गुलिनियमो निबन्धे-
शिरसि विहिता मध्या सैवाक्ष्णि तर्जनिकान्विता ।
श्रवसि रहिताङ्गुष्ठा ज्येष्ठान्वितोपकनिष्ठिका ।
नसि वदने सर्वाः सज्यायसो हृदि तर्जनी ।
प्रथमयुता मध्यमा नाभौ श्रवणि विहिता लिङ्गे ।
ता एवाङ्गुलयो जान्वोः साङ्गुष्ठास्तु पदद्वये ।
स्थानार्णयोर्विनिमयोनाङ्गुलिस्थानयोर्भवेत् ।
तद्यथा-
शिरसि गों नमो मध्यमाङ्गुल्या ।
नेत्रयोः पीं नमस्तर्जनीमध्यमाभ्याम् ।
कर्णयोः जं नमः अङ्गुष्टरहिताभिरङ्गुलीभिः ।
घ्राणे नं नमोऽङ्गुष्ठानामिकाभ्याम् ।
मुखे वं नमः सर्वाङ्गुलीभिः ।
हृदि ल्लं नमोऽङ्गुष्ठतर्जनीभ्याम् ।
नाभौ भां नमः अङ्गुष्ठभध्यमाभ्याम् ।
लिङ्गे यं नमोऽगुंष्ठरहिताभिरङ्गुलीभिः ।
जानुनोः स्वां नमोऽङ्गुष्ठरहिताभिरङ्गुलीभिः ।
पादयोः हां नमः सर्वाङ्गुलीभिः ।
इति सृष्टिक्रमः ।
अथ स्थितिक्रमः-
हृदि गों नमोऽङ्गुष्ठतर्जनीभ्याम् ।
नाभौ पीं नमोअङ्गुष्ठमध्यमाभ्याम् ।
लिङ्गे जं नमोऽङ्गुष्ठरहिताभिरङ्गुलीभिः ।
जानुनोः नं नमोऽङ्गुष्ठरहिताभिरङ्गुलीभिः ।
पादयोः वं नमः सर्वाङ्गुलीभिः ।
शिरसि ल्ल नमो मध्यमया ।
नेत्रयोः भां नमो मध्यमातर्जनीभ्याम् ।
कर्णयोः यं नमोऽङ्गुष्ठरहिताभिरङ्गुलीभिः ।
घ्राणे स्वां नमोऽङ्गुष्ठानामिकाभ्याम् ।
मुखे हां नमः सर्वाङ्गुलीभिः ।
अथ संहारक्रमः-
पादयोः गों नमः सर्वाङ्गुलीभिः ।
जानुनोः पीं नमः अङ्गुष्ठरहिताभिरङ्गुलीभिः ।
लिङ्ग जं नमोऽङ्गुष्ठरहिताभिरङ्गुलीभिः ।
नाभौ नं नमोऽङ्गुष्ठमध्यमाभ्याम् ।
हृदि वं नमोऽङ्गुष्ठतर्जनीभ्याम् ।
मुखे ल्लं नमः सर्वाङ्गुलीभिः ।
घ्राणे भां नमोऽङ्गुष्ठानामिकाभ्याम् ।
कर्णयो यं नमोऽङ्गुष्ठरहिताभिरङ्गुलीभिः ।
नेत्रयोः स्वां नमो मध्यमातर्जनीभ्याम् ।
मूर्ध्नि हां नमो मध्यमाङ्गुल्या ।
इति संहारक्रमः ।
पुनः सृष्टिस्थिति विन्यसेत् ।
तथा च-
विद्यार्थी ब्रह्मचारी च पुनः सृष्टिं समाचरेत् ।
गृहस्थश्च पुनः सृष्टिस्थिती कुर्याद्विशेषतः ।
यतिर्वैराग्ययुक्तश्च संहारान्तं न्यसेत्ततः ।
एतेन विद्यार्थिब्रह्मचारिणां चतुर्द्धा गृहस्थानां पञ्चधा ।
यतिविरक्तादीनाञ्च त्रिधा न्यासः ॥ १०क ॥
तथा च निबन्धे-
न्यासः संहारान्तो मस्करिवैखानसेषु विहितोऽयम् ।
स्थित्यन्तो गृहमेधिषु सृष्ट्यन्तो वर्णिनामितिप्राहुः ।
वैराग्ययुजि गृहस्थं संहारान्तं केचिदाहुराचार्याः ।
सहजानौ वनवासिनि स्थितिञ्च विद्यार्थिनां तथा सृष्टिः ॥
केचित्तु न्यासत्रये विपर्यासमामनन्ति, तेन सर्वरेव त्रिधा न्यासः
कर्त्तव्यः ॥ ११ ॥
अथ विभूतिपञ्जरन्यासः ।
निबन्धे-
वच्म्यपरं न्यासवरं विभूत्यभिधं भूतिकरम् ।
मन्त्रदशावृत्तिमयं गुप्ततमं मन्त्रिवरैः ॥
तद्यथा-
आधारे गों नमः, लिङ्गे पीं नमः, नाभौ जं नमः, हृदि नं
नमः, गले वं नमः, मुखे ल्लं नमः, अंसयोः भां नमः
यं नमः, ऊर्वोः स्वां नमः, हां नमः, कन्धरायां गों
नमः, नाभौ पीं नमः, कुक्षौ जं नमः, हृदि नं नमः,
स्तनयोः वं नमः, ल्लं नमः, पार्श्वयोः भां नमः, यं
नमः, श्रोण्योः स्वां नमः, हां नमः ।
शिरसि गों, मुखे पीं, नेत्रयोः जं नं, कर्णयोः वं, ल्लं,
नासापुटयोः भां यं, कपोलयोः स्वां हाम् ।
एवं दक्षिणकरस्य मूलसन्ध्यग्रकेषु पञ्च, तदङ्गुलीषु पञ्च
।
वामकरमूलसन्ध्यग्रकेषु पञ्च, तदङ्गुलीषु पञ्च ।
एवं दक्षिणपादमूलसन्ध्यग्रकेषु पञ्च, तदङ्गुलीषु पञ्च ।
वामपादमूलसन्ध्यग्रकेषु पञ्च, तदङ्गुलीषु पञ्च ।
मूर्ध्नि गों, तत्पूर्वे पीं, तद्दक्षिणे जं, तत्पश्चिमे नं, तदुत्तरे
वं, मूर्ध्नि ल्लं, भुजयोः भां यं, ऊर्वोः स्वां हाम् ।
शिरसि गों, नेत्रयोः पीं, मुखे जं, कण्ठे नं, हृदि वं, जठरे
ल्लं, मूलाधारे भां, लिङ्गे यं, जानुयोः स्वां, पादयोः हाम्
।
श्रोत्रयोः गों, गण्डयोः पीं, अंसयोः जं, स्तनयोः नं,
पार्श्वयोः वं, लिङ्गे ल्लं, ऊर्वोः भां, जानुनोः यं, जङ्घयोः
स्वां, पादयोः हाम् ।
एतानि नमोऽन्तानि विन्यसेत् ॥ १२ ॥
तत्र क्रमो गौतमीये-
हस्तमूलादि सृष्टिः स्यान्मणिबन्धात् स्थितिः स्मृता ।
अङ्गुल्यग्रात्संहृतिश्च स्थित्यन्तं त्रितयं न्यसेत् ॥
ततः पूर्ववन्मूर्तिपञ्जरन्यासः ।
ततः पूर्ववन्मूर्तिपञ्जरस्यैव सृष्टिस्थिती ।
ततो दशाङ्गपञ्चाङ्गन्यासौ ।
तद्यथा-
हृद्रि गों, शिरसि पीं, शिखायां जं, सर्वाङ्गे नं, दिक्षु वं,
दक्षपार्श्वे ल्लं, वामपार्वे भां, कटिदेशे यं, पृष्ठे स्वां,
मूर्ध्नि हाम् ।
ततः पञ्चाङ्गन्यासः यथा-
आचक्राय स्वाहा हृदयाय नमः ।
विचक्राय स्वाहा शिरसे स्वाहा ।
सुचक्राय स्वाहा शिखायै वषट् ।
त्रैलोक्यरक्षणचक्राय स्वाह ।
कवचाय हुम् असुरान्तकचक्राय स्वाहा अस्त्राय फट् ।
ततो नारायणमन्त्रोक्त-किरीट-केयूरेत्यादिमन्त्रेण व्यापकं
विधाय वेणुबिल्वादिमुद्रां प्रदर्श्य ॐ सुदर्शनाय अस्त्राय
फडिति मन्त्रे दिग्बन्धनं कुर्यात् ।
किरीटादिन्यासस्तु सर्वत्र विष्णुमन्त्रे ॥ १३ ॥
ततो ध्यायेत्-
स्मेरद्वृन्दावने रम्ये मोहयन्तमनारतम् ।
गोविन्दं पुण्डरीकाक्षं गोपकन्याः सहस्रशः ।
आत्मनो वदनाम्भोजे प्रेरिताक्षिमधुव्रताः ।
पीडिताः कामवाणेन चिरमाश्लेषणोत्सुकाः ।
मुक्ताहारलसत्पीनतुङ्गस्तनभारनताः ।
स्रस्तधम्ल्लिवसना मदस्खलितभाषणाः ।
दन्तपङ्क्तिप्रभोद्भासि-स्पन्दमानाधराञ्चिताः ।
विलोभयन्तीर्विविधैर्विभ्रमैर्भावगर्वितैः ।
फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं,
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपोना नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं, गोविन्दं
कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्यात् ।
ततो वैष्णवोक्तपीठमन्वन्तां पीठपूजां विधाय
पुनर्ध्यात्वा आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं विधाय
देवशरीरे सृष्टि-स्थितिदशाङ्गपञ्चाङ्गन्यासक्रमेण पूजयेत् ।
ततो मुखे ॐ वेणवे नमः, हृदि ॐ वनमालायै नमः ॐ कौस्तुभाय
नमः ॐ श्रीवत्साय नमः ।
ततः अपरं पञ्चपुष्पाञ्जलिं दद्यात् ।
शुक्लचन्दनपङ्किलां श्वेततुलसीं रक्तचन्दनपङ्किलां
रक्ततुलसीं मूलेन दक्षिणवामपार्श्वयोर्दद्यात् ।
तथा तुलसीद्वयं करवीरद्वयं पद्मद्वयञ्च शिरसि दद्यात् ।
सर्वाणि पुष्पाणि सर्वतनौ दद्यात् ।
तथा च गौतमीये-
दक्षिणे वासुदेवाख्यं स्वच्छं चैतन्यमव्ययम् ।
वामे च रुक्मिणी रक्ता नित्या रजोगुणान्विता ।
तुलसीयुगलं पार्श्वद्वये गन्धद्वयान्वितम् ।
हयारियुगलं पार्श्वद्वये दक्षिणवामके ।
पञ्चपुष्पं मूर्ध्नि देशे मूलेन दक्षवामके ।
षड्भिः सर्वतनौ दद्यात्पुनः शिरसि सर्वतः ।
तत आवरणं पूजयेत् ।
पूर्वे ॐ दामाय नमः, दक्षिणे ॐ सुदामाय नमः, पश्चिमे ॐ
वासुदेवाय नमः, उत्तरे ॐ किङ्किण्यै नमः, केशरेषु अग्न्यादिकोणे
ॐ आचक्राय स्वाहा हृदयाय नमः, नैर्-ऋते ॐ विचक्राय स्वाहा
शिरसे स्वाहा, वायुकोणे ॐ सुचक्राय स्वाहा शिखायै वषट्, ईशाने
ॐ त्रैलोक्यरक्षणचक्राय स्वाहा कवचाय हुं, चतुर्दिक्षु ॐ
असुरान्तकचक्राय स्वाहा अस्त्राय फट् ।
ततः पत्रेषु पूर्वादि ॐ रुक्मिण्यै नमः, एवं सत्यभामायै
नाग्नजित्यै सुनन्दायै मित्रविन्दायै सुलक्षणायै जाम्बवत्यै
सुशीलायै ।
पत्राग्रेषु पूर्वादि ॐ वसुदेवाय नमः, एवं देवक्यै नन्दाय
यशोदायै बलभद्राय सुभद्रायै गोपेभ्यः गोपीभ्यः ।
तद्बाह्ये मध्ये च पूर्वादिक्रमेण ॐ मन्दाराय नमः, एवं
सन्तानकाय पारिजाताय कल्पवृक्षाय हरिचन्दनाय ।
तद्बाह्ये इन्द्रादीन्वज्रादींश्च पूजयेत् ।
ततः कृष्णाष्टकं पूजयेत् ।
ॐ श्रीकृष्णाय नमः, एवं वासुदेवाय देवकीनन्दनाय
नारायणाय यदुश्रेष्ठाय वार्ष्णेयाय धर्मसंस्थापनाय
असुराक्रान्तभारहारिणे ।
सर्वत्र प्रणवादिननोऽन्तेन पूजयेत् ।
अशक्तश्चेदङ्गे वज्रादींश्च पूजयेत् ॥
तथा च गौतमीये-
अथवाङ्गं दिक्पतिभिस्तदस्त्रैरपि चार्चयेत् ।
एवमर्भ्चयन्कृष्णं काममुक्त्योः स भाजनम् ।
एतद्यजनाशक्तश्चेतकृष्णाष्टकेन पूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ १५ ॥
अस्य पुरश्चरणं दशलक्षजपः ।
तथा च-
दशलक्षमक्षयफलप्रदं मनुं प्रतिजप्य
निर्मलमतिर्दशाक्षरम् ।
जुहुयात्सिताज्यमधुरप्लुतैंर्नवैररुणाम्बुजैर्हुताशने
दशायुतम् ॥ १६ ॥
अथ शुषिरयुगलवर्णं चेन्मनुं पञ्चलक्षं प्रजपेत्तु जुहुयाच्च
प्रोक्तकॢप्तार्द्धलक्षम् ।
अमलमतिरभावे पायसैरम्बुजानां
ससितघृतसुसिक्तैरारभेद्धोमकर्म ॥ १७ ॥
श्रीकृष्णस्य त्रयोदशाक्षर मन्त्राः
दशाक्षरादौ श्रीमायाकाः मायाश्रीकामः
काममायाश्रीस्त्रिविधस्त्रयोदशाक्षरो भवति ॥
तथा च-
श्रीशक्तिमारपूर्वश्च शक्तिश्रीमारपूर्वकः
कामशक्तिरमापूर्वो दशार्णो मनवस्त्रयः ॥
इति सनत्कुमारवचनात् ॥ १८ ॥
एतेषां पूजाप्रयोगः-
प्रातःकृत्यादि-वैष्णवोक्तपीठन्यासान्तं कर्म विधाय
ऋष्यादिन्यासं कुर्यात् ॥
तद्यथा-
शिरसि नारद-ऋषये नमः, मुखे विराड्गायत्रीच्छन्से नमः, हृदि
श्रीकृष्णाय देवतायै नमः ।
ततः कराङ्गन्यासौ-
आचक्राय स्वाहा अङ्गुष्ठाभ्यां नमः, आचक्राय स्वाहा
हृदयाय नमः, इत्यादि दशाक्षरवद्विन्यसेत् ।
ततः फलार्थी चेद्दशतत्त्वमूर्तिपञ्जरौ न्यसेत् ।
ततः किरीटमन्त्रेण व्यापकं विधाय यथाशक्ति मुद्रां
प्रदर्श्य ॐ नमः सुदर्शनाय अस्त्राय फडिति दिग्बन्धनं
विधाय ध्यायेत् ॥ १९ ॥
आद्ये मनौ दशाक्षरवद्ध्यानं द्वितीये रत्नाभिषेकवत् ।
तृतीये तु ध्यानम्-
शङ्खचक्रधनुर्बाणपाशाङ्कुशधरोऽरुणः ।
वेणुं धमनघृतो दोर्भ्यां ध्येयः कृष्णो दिवाकरे ॥ २० ॥
गौतमीयमते तु अत्रापि दशाक्षरवद्ध्यानम् ।
तथा च-
रमादिकामादिमन्त्रद्वयमधिकृत्य, अनयोर्मन्त्रयोर्मन्त्री
आचक्राद्यैः षडङ्गकम् ।
कुर्याद्दशार्णवत्सर्वं ध्यानपूजादिकं सुधीः ।
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्यात् ॥ २१ ॥
ततो वैष्णवोक्तपीठपूजां विधाय पुनर्ध्यत्वा
आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं पूर्वोक्त
वेण्वादिपूजनञ्च विधाय आवरणपूजामारभेत् ।
अस्यावरणानि अङ्गेन्द्रवज्रादीनि ।
ततः कृष्णाष्टकं सम्पूज्य धूपादिविसर्जनान्तं कर्म
समापयेत् ॥ २२ ॥
एतेषां पुरश्चरणं पञ्चलक्षजपः ।
तथा च-
पञ्चलक्षं जपेत्तावदयुतं पायसेन च ।
जुहुयात् संस्कृते वह्नौ मन्त्री सर्वार्थसिद्धये ॥ २३ ॥
मन्त्रान्तरम्
कृष्णायपदमाभाष्य गोविन्दाय ततः परम् ।
गोपीजनपदस्यान्ते वल्लभाय द्विठावधि ।
कामबीजादिराख्यातो मनुरष्टादशाक्षरः ॥ २४ ॥
अस्य पूजाप्रयोगः-
प्रातःकृत्यादि वैष्णवोक्तपीठमन्वन्तं विन्यस्य ऋष्यादिन्यासं
कुर्यात् ।
यथा-
शिरसि नारद-ऋषये नमः ।
मुखे गायत्रीच्छन्दसे नमः ।
हृदि कृष्णाय देवतायै नमः ।
गृह्ये क्लीं बीजाय नमः ।
पादयोः स्वाहा शक्तये नमः ।
ततः प्रणवपुटितं मन्त्रं त्रिशः करयोर्व्याप्य कराङ्गन्यासौ
कुर्यात् ।
क्लीम् अङ्गुष्ठाभ्यां नमः ।
गोविन्दाय तर्जनीभ्यां स्वाहा ।
गोपीजन मध्यमाभ्यां वषट् ।
वल्लभाय अनामिकाभ्यां हुम् ।
स्वाहा कनिष्ठाभ्यां फट् ।
एवं हृदयादिषु ।
ततो मूलेन मुर्द्धादिपादपर्यन्तं त्रिशो व्याप्य
आपादादिमूर्द्धपर्यन्तं प्रणवेन सकृद्व्याप्य मन्त्रन्यासं
कुर्यात् ।
मूर्ध्नि ललाटे भ्रूमध्ये कर्णयोश्चक्षुषोर्घ्राणयोर्वदने
ग्रोवायां हृदि नाभौ कट्यां लिङ्गे जानुनोः जङ्घयोः एषु
स्थानेषु प्रत्येकमन्त्रवर्णान् नमोऽन्तान्न्यसेत्, शिरसि प्रणवञ्च
न्यसेत् ॥ २५ ॥
ततो नयन-मुख-हृदय-गुह्याङ्घ्रिषु मन्त्रस्य पदपञ्चकं
नमोऽन्तं न्यसेत् ।
पदपञ्चकञ्च चतुश्चचतुस्तथा द्वयम् ।
ततोऽङ्गन्यासं कुर्यात् ।
क्लीं कृष्णाय हृदयाय नमः ।
गोविन्दाय शिरसे स्वाहा ।
गोपीजन शिखायै वषट् ।
वल्लभाय कवचाय हुम् ।
स्वाहा अस्त्राय फट् ।
तथा च-
चतुःकरणवेदाब्धिनेत्रसङ्ख्याक्षरैः क्रमात् ।
पश्चाङ्गानि मनोः कुर्यान्मन्त्रविज्जाति संयुतैः ।
नमः स्वाहा-वषट्-वौषट्-हुं-फडन्ताश्च जातयः ।
ततो दशतत्त्वमूर्तिपञ्जरन्यासौ विधाय किरीटमन्त्रेण व्यापकं
यथाशक्ति मुद्रां वद्धा ॐ नमः सुदर्शनाय अस्त्राय फडिति
दिग्बन्धनं कृत्वा दशाक्षरोक्तं धात्वा मानसैः सम्पूज्य
शङ्खस्थापनं कृत्वा वैष्णवोक्त पीठमन्वन्तां
पीठपूजां विधाय पुनर्ध्यात्वा आवाहनादि-
पञ्चपुष्पाञ्जलिदानपर्यन्तं विधाय
क्लीमित्याद्यक्षरैस्तत्तदङ्गेषु न्यासक्रमेण क्लीं कृष्णाय
हृदयाय नमः इत्यादिना अङ्गमन्त्रेण सम्पूज्य च पुनः
पञ्चपुष्पाञ्जलीन् दद्यात् ।
ततो वेण्वादिपूजनं कृत्वा दशाक्षरोक्तावरणपूजाञ्च कृत्वा
धूपादिविसर्जनान्तं कर्म समापयेत् ।
अस्य पुरश्चरणं दशाक्षरपटलोक्तम् ॥ २६ ॥
मन्त्रान्तरम्
शक्तिश्रीपूर्वकश्चाष्टादशार्णो विंशदक्षरः ॥ २७ ॥
अस्य पूजाप्रयोगः-
प्रातःकृत्यादि वैष्णवोक्त पीठमन्वन्तं पीठन्यासं विधाय
ऋष्यादिन्यासं कुर्यात् ।
शिरसि ब्रह्मणे ऋषये नमः, मुखे गायत्रीच्छन्दसे नमः, हृदि
श्रीकृष्णाय देवतायै नमः, गुह्ये क्लीं बीजाय नमः, पादयोः
स्वाहा शक्तये नमः ।
ततः कराङ्गन्यासौ-
ह्रीं श्रीं क्लीम् अङ्गुष्ठाभ्यां नमः ।
कृष्णाय तर्जनीभ्यां स्वाहा ।
गोविन्दाय मध्यमाभ्यां वषट् ।
गोपीजन अनामिकाभ्यां हुम् ।
वल्लभाय कनिष्ठाभ्यां वौषट्, स्वाहा करतलपृष्ठाभ्यां
फट् ।
एवं हृदयादिषु ॥ २८ ॥
ततो मूलेन व्यापकं कृत्वा मन्त्रपुटितान् मातृकावर्णान् ।
तत्तत्स्थानेषु (ललाटादिषु) न्यसेत् ।
ततो दशतत्त्वानि विन्यस्य पुनर्मूलेन व्यापक कुर्यात् ॥ २९ ॥
ततो मन्त्रन्यासः-
मूर्ध्नि ह्रीं नमः, ललाटे श्रीं नमः, भ्रूमध्ये क्लीं नमः,
नेत्रयोः कृं नमः, कर्णयोः ष्णां नमः, नसोः यं नमः,
वदने गों नमः, चिबुके विं नमः, कण्ठे न्दां नमः, दोर्मूले
यं नमः, हृदि गो नमः, उदरे पीं नमः, नाभौ जं नमः,
लिङ्गे नं नमः, आधारे वं नमः, कट्यां ल्लं नमः, जान्वोः
भां नमः, जङ्घयोः यं नमः, गुल्फयोः स्वां नमः,
पादयोः हां नमः ।
इति सृष्टिः ।
हृदि ह्रीं, उदरे श्रीं, नाभौ क्लीं, लिङ्गे कृं, आधारे ष्णां,
कट्यां यं, जान्वोः गों, जङ्घयोः विं, गुल्फयोः न्द्रां,
पादयोः यं, मूर्घ्नि गों, कपाले पीं, भ्रूमध्ये जं, नेत्रयोः
न, कर्णयोः वं, नसोः ल्लं, वदने भां, चिबुके यं, कण्ठे
स्वां, दोर्मूले हाम् ।
इति स्थितिः ।
पादयोः ह्रीं, गुल्फयोः श्रीं, जङ्घयोः क्लीं जान्वोः कृं,
कट्यां ष्णाम् आधारे यं, लिङ्गे गों, नाभौ विं, उदरे न्दां,
हृदि यं, दोर्मूले गों, कण्ठे पीं, चिबुके जं, वदने नं, नसोः
वं, कर्णयोः ल्लं, नेत्रयोः भां, भ्रूमध्ये यं, ललाटे स्वां,
मस्तके हाम् ।
सर्वत्र नमोऽन्तान् न्यसेत् ।
इति संहारन्यासः ।
पुनः सृष्टिस्थिती कृत्वा मूर्तिपञ्जरं विन्यस्य मूर्तिपञ्जरस्य
सृष्टिस्थिती विन्यस्य षडङ्गानि न्यसेत् ।
ह्रीं श्रीं क्लीं हृदयाय नमः ।
कृष्णाय शिरसे स्वाहा ।
गोविन्दाय शिखायै वषट् ।
गोपीजन कवचाय हुम् ।
वल्लभाय नेत्राभ्यां वौषट् ।
स्वाहा अस्त्राय फट् ।
तथा च-
सृष्टिस्थिती च विन्यस्य षडङ्गानि समाचरेत् ।
गुणाग्नि वेदकरणकरणाक्ष्यक्षरैर्मनोः ॥ ३७ ॥
ततः पूर्वन्मुद्रादिदर्शनं दिग्बन्धनञ्च कृत्वा किरीटमन्त्रेण
व्यापकं विधाय यथाशक्ति मुद्रां बध्वा ध्यायेत् ॥ ३१ ॥
(श्रीकृष्ण यन्त्रम् चित्र २३-१,२,३))
तद्यथा-
द्वारावत्यां सहस्रार्कभासुरैर्भवनोत्तमैः ।
अनल्पैः क्रल्पवृक्षैश्च परीते मणिमण्डपे ।
ज्वलद्रत्नमयस्तम्भद्वारतोरणकुड्यके ।
फूल्लस्रगुल्लसच्चित्रवितानालम्बिमौक्तिके ।
पद्मरागस्थलीराजद्रत्ननद्योश्च मध्यतः ।
अनारतगलद्रत्नधारस्य स्वस्तरोरधः ।
रत्नदीपावलीभिश्च प्रदीपितदिगन्तरे ।
उद्यदादित्यसङ्काशमणिसिंहासनाम्बुजे ।
समासीनोऽच्युतो ध्येयो द्रुतहाटकसन्निभः ।
समानोदित-चन्द्रार्क-तडित-कोटिसमद्युतिः ।
सर्वाङ्गसुन्दरः सौम्यः सर्वाभरणभूषितः ।
पीतवासाश्चक्रशङ्खगदापद्मोज्ज्वलद्भुजः ।
अनारतच्छलद्रत्नधारौघकलसं स्पृशन् ।
वामपादाम्बुजाग्रेण मुष्णता पल्लवच्छविम् ।
रुक्मिणीसत्यभामे द्वै मूर्ध्नि रत्नौघधारया ।
सिञ्चन्त्यौ दक्षवामस्थे स्वदोःस्थकलसोत्थया ।
नाग्नजिती सुनन्दा च दिशन्त्यौ कलसौ तयोः ।
ताभ्याञ्चदशवामस्थे मित्रविन्दासुलक्षणे ।
रत्ननद्योः समुद्धृत्य रत्नपूर्णौ घटौ तयोः ।
जाम्बवती सुशीला च दिशन्त्यौ दक्षवामके ।
बहिःषोडश साहस्त्र्यसङ्ख्याताः परितः प्रियाः ।
ध्येयाः कनकरत्नौघधाराम्बुकलसोज्वलाः ।
तद्बहिश्चाष्टनिधयः पूरयन्तो धनैर्धराम् ।
तद्बहिर्वृष्णयः सर्वे पुरोवच्चसुरादयः ।
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्यात् ॥ ३२ ॥
अस्य पूजायन्त्रम्-
षट्कोणमध्यमष्टदलपद्मं विलिख्य षट्कोणमध्ये तु
ससाध्यं कामबीजं विलिख्य अवशिष्टैः
सप्तदशभिरक्षरैर्वेष्टयेत् ।
ततः षट्कोणस्य प्राग्रक्षोऽनिलकोणेषु श्रीबीजम् अवशिष्टेषु
भुवनेश्वरीं लिखेत् ।
ततः षट्सन्धिषु क्लीं कृष्णाय नमः इति षड्वर्णान् लिखेत् ।
ततः केशरेषु कामदेवाय विद्महे पुष्पबाणाय धीमहि
तन्नोऽनङ्गः प्रचोदयात् ।
इति गायत्र्यास्त्रीणि त्रीण्यक्षराणि पूर्वादिक्रमेण विलिखेत् ।
ततः पत्रेषु पूर्वादिक्रमेण नमः कामदेवाय सर्वजनप्रियाय
सर्वजनसम्मोहनाय ज्वल ज्वल प्रज्वल सर्वजनस्य हृदयं मम
वशं कुरु कुरु स्वाहा इति माला मन्त्रस्य षट्षडक्षराणि दलेषु
विलिखेत् ।
मालामन्त्रमाह शारदायाम्-
नमोऽन्ते कामदेवाय वदेत् सर्वजनन्ततः ।
प्रियाय सर्ववर्णान्ते जनसम्मोहनाय च ।
ज्वलद्वयं प्रज्वलान्तं वदेत् सर्वजनस्य च ।
हृदयं ममशब्दान्ते वशं कुरुयुगं शिरः ।
मालामनुरयञ्चाष्टचत्वारिंशतिकाक्षरैः ॥
तद्बाह्ये मातृकया संवेष्टयेत् ।
ततो भूविम्बे दिक्षु च श्रीबीजं विदिक्षु मायाबीजं विलिखेत् ।
तद्बाह्ये अष्टवज्राणि लिखेत् ।
तथा च-
विलिप्य गन्धपङ्केन लिखेष्टदलाम्बुजम् ।
कर्णिकायान्तु षट्कोणं ससाध्यं तत्र मन्मथम् ॥
शिष्टैस्तं सप्तदशभिरक्षरैर्वेष्टयेत् स्मरम् ॥
प्राग्रक्षोऽनिलकोणेषु श्रियं शिष्टेषु संविदम् ॥
षडक्षरं षट्सन्धिषु केशरेषु त्रिशस्त्रिशः ॥
विलिखेत् स्मरगायत्रीं मालामन्त्रं दलाष्टके ॥
षट्शः संलिख्य तद्बाह्ये वेष्टयेन्मातृकाक्षरैः ।
भूविम्बञ्च लिखेद्बाह्ये श्रीमाये दिग्विदिक्ष्वपि ॥
भूगृहं चतुरस्रं स्यादष्टवज्रविभूषितम् ।
एतद्यन्त्रमष्टादशाक्षर-द्वाविंशत्यक्षर-द्वादशाक्षर-
दशाक्षर-चतुर्दशाक्षर-एकादशाक्षराणामिति ॥ ३३ ॥
यत्तुः-
पद्ममष्टपलाशन्तु चतुरस्रं सुलक्षणम् ।
चतुर्द्वारसमायुक्तं कामगर्भितकर्णिकम् ॥
सामान्ययन्त्रमुद्दिष्टमष्टादशाक्षरे शृणु ॥ ३४ ॥
चतुरस्रं चतुर्द्वारं पद्ममष्टदलान्वितम् ।
षट्कोण गर्भकामाख्यं सप्तदशार्ण-वेष्ठितम् ।
षडक्षरं मनुवरं षट्कोणे विलिखेत्ततः ।
इति गौतमीये अष्टादशाक्षरदशाक्षरयोर्यद्विशेषमुक्तं
तदशक्तविषयम् ।
अन्यथा तापिन्यादिविरोधः स्यात् ॥ ३५ ॥
ततः पूर्वोक्तपीठमन्वन्तां पीठपूजां विधाय पुनर्ध्यात्वा
आवाहानादि पञ्चपुष्पाञ्जलिदानपर्यन्तं विधाय सृष्टिं
स्थितिं षडङ्गञ्च सम्पूज्य ॐ किरीटाय नमः एवं
कुण्डलाभ्यां शङ्खाय चक्राय गदायै पद्माय वनमालायै
श्रीवत्साय कौस्तुभाय सर्वत्र प्रणवादि नमोऽन्तेन पूजयेत् ।
पुनः पञ्चपुष्पाञ्जलीन् दत्त्वा आवरणपूजामारभेत ।
यथा - षट्कोणेष्वग्न्यादि ह्रीं श्रीं क्लीं हृदयाय नमः ।
कृष्णाय शिरसे स्वाहा इत्यादिना षडङ्गानि पूजयेत् ।
ततो दिक्पत्रस्य मूले ॐ वासुदेवाय नमः एवं सङ्कर्षणाय
प्रद्युम्नाय अनिरुद्धाय प्रणवादि-नमोऽन्तेन पूजयेत् ।
एवं विदिक्पत्रमूलेषु-
ॐ शान्त्यै नमः एवं श्रियै सरस्वत्यै रत्यै ।
पत्रेषु पूर्वादि पूर्ववत् ।
रुक्मिण्याद्याः पूजयेत् ।
अत्र षोडशसहस्रमहिषोभ्यो नमः तद्बहिः पूर्वादि इन्द्रनिधिं
नीलनिधिं मुकुन्दनिधिं मकरनिधिम् आनन्दनिधिं
कच्छपनिधिं पद्मनिधिं शङ्खनिधिञ्च पूजयेत् ।
तद्बहिरिन्द्रादीन् वज्रादींश्च पूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ ३६ ॥
अस्य पुरश्चरणं चतुर्लक्षजपः ।
तथा च-
ध्यात्वैवं परमात्मानं विंशत्यर्णं मनुं जपेत् ।
चतुर्लक्षं हुनेदाज्यैश्चत्वारिंशत्सहस्रकम् ॥ ३७ ॥
मन्त्रान्तरम्-
वाग्भवं कामबीजञ्च कृष्णाय भुवनेश्वरी ।
गोविन्दाय रमा गोपीजनवल्लभङेशिरः ।
चतुर्दशस्वरोपेतो भृगुः सर्गी तदूर्ध्वतः ।
द्वाविंशत्यक्षरो मन्त्रो वागीशत्वप्रदायकः ॥ ३८ ॥
अस्य पूजाप्रयोगः-
प्रातःकृत्यादि वैष्णवोक्त पीठमन्वन्तं पीठन्यासं विधाय
अष्टादशाक्षरवदृष्यादिन्यासं कराङ्गन्यासौ विधाय मुद्रादि
दिग्बन्धनञ्च कृत्वा ध्यायेत् ।
यथा-
वामोर्ध्वहस्ते दधतं विद्यासर्वस्वपुस्तकम् ।
अक्षमालाञ्च दक्षोर्ध्वे स्फाटिकीं मातृकामयीम् ॥
शब्द ब्रह्ममयं वेणुमधःपाणिद्वयेरितम् ॥
गायन्तं पीत वसनं श्यामलं कोमलच्छविम् ॥
बर्हिवर्हकृतोत्तंसं सर्वज्ञं सर्ववेदिभिः ।
उपासितं मुनिगैणैरुपतिष्ठेद्धरिं सदा ॥
एवं ध्यात्वा विंशत्यर्णवत् पूजयेत् ॥
विशेषस्तु-
सृष्टिस्थिति तत्पूजनं नास्ति तद्वर्णाभावात् ॥ ३९ ॥
अस्य पुरश्चरणं चतुर्लक्षजपः ।
तथा च-
चतुर्लक्षं जपेन्मन्त्रमिमं मन्त्री सुसंयतः ।
पलाशपुष्पैः स्वादुक्तैश्चत्वारिंशत्सहस्रकम् ॥
जुहुयात्कर्मणानेन मन्त्रसिद्धिर्भवेद्ध्रुवम् ॥ ४० ॥
मन्त्रान्तरम् -
वाग्भवं कामबीजञ्च मायालक्ष्मीमनन्तरम् ।
दशार्णो मनुवर्यश्च भवेच्छक्राक्षरो मनुः ॥
ब्रह्मसंहितायाम्-
वाग्भवं भुवनेशानीं श्रीबीजं कामबीजकम् ।
दशार्णो मनुवर्यश्च भवेच्छक्राक्षरोऽपरः ॥ ४१ ॥
अस्य पूजाप्रयोगः-
प्रातःकृत्यादि वैष्णवोक्तपीठन्यासं कृत्वा ऋष्यादिन्यासं
कुर्यात् ।
शिरसि ब्रह्मणे ऋषये नमः, मुखे गायत्रीछन्दसे नमः हृदि
श्रीकृष्णाय देवतायै नमः ॥ ४२ ॥
अन्य न्यासपूजाजपहोमादि सर्वं दशाक्षरवत्कार्यम् ॥ ४३ ॥
ध्याने तु विशेषः-
ध्यायेद्वृन्दावने रम्ये काञ्चनीभूमिमध्यगे ।
नानापुष्पलताकीर्णेवृक्षषण्डैश्च मण्डिते ॥
कल्पाटवीतले सम्यक्श्रीमान्माणिक्यमण्डपे ।
नारदाद्यैर्मुनिश्रेष्ठैः स्तवद्भिः परिवारिते ॥
रत्नसिंहासने ध्यायेदुपविष्टं कजोपरि ।
सजलजलदश्यामं रक्तपद्मायतेक्षणम् ॥
रक्तपद्मस्फुरत्पादपाणिभ्यां परिमण्डितम् ।
ननारत्नसमारब्धभूषणैः परिभूषितम् ॥
श्रीयुक्तवक्षसि भ्राजत्कौस्तुभोद्भासिताम्बरम् ।
तारहारवलोरम्यं श्रीवत्साङ्कितवक्षसम् ॥
रोचनातिलकप्रान्तकुन्तलभ्रमरायितम् ।
कन्दर्पचापसदृशचिल्लिमालाविराजितम् ॥
अनेकरत्न संयुक्तं स्फुरन्मकरकुण्डलम् ।
वर्हिवर्हकृतोत्तंसं सर्वज्ञं सर्ववेदिभिः ।
उपासितं मुनिगणैरुपतिष्ठेद्धरिं सदा ।
इति ॥ ४४ ॥
मन्त्रान्तरम् (एकाक्षरी)
कामाक्षरं धरासंस्थं शान्तिविन्दुविभूषितम् ।
त्रैलोक्यमोहनो विष्णुः कथितस्तव यत्नतः ॥ ४५ ॥
अस्य पूजाप्रयोगः-
प्रातःकृत्यादि-वैष्णवोक्तपीठशक्तिपर्यन्तं विन्यस्य तदुपरि
पक्षिराजाय स्वाहेति पीठमनुं न्यसेत् ।
ततः ऋष्यादिन्यासः ।
तद्यथा-
शिरसि सम्मोहन-ऋषये नमः, मुखे गायत्रीच्छन्दसे नमः, हृदि
त्रैलोक्यसम्मोहनाय विष्णवे नमः ।
तदुक्तम्-
ऋषिः सम्मोहनच्छन्दो गायत्री परिकीर्तिता ।
त्रैलोक्यमोहनो विष्णुर्देवता समुदीरिता ॥ ४६ ॥
ततः कराङ्गन्यासौ-
क्लाम् अङ्गुष्ठाभ्यां नमः इत्यादि ।
क्लां हृदयाय नमः इत्यादि ।
तथा च निबन्धे-
दीर्घषट्कयुजानेन कामबीजेन कल्पयेत् ॥ ४७ ॥
ततो बाणन्यासः-
अङ्गुष्ठे द्रां शोषणबाणाय नमः ।
तर्जन्योः द्रीं मोहनबाणाय नमः ।
मध्यमयोः क्लीं सन्दीपनबाणाय नमः ।
अनामिकयोः ब्लूं तापनबाणाय नमः ।
कनिष्ठयोः सः मादनबाणाय नमः ।
तथा-
मस्तकमुखहृदयगुह्यपादेषु न्यसेत् ।
तथा च निबन्धे-
द्रामाद्यं शोषणं पूर्वं द्रीमाद्यं मोहनं ततः ।
सन्दीपनाख्यं क्लीमाद्यं ब्लूमाद्यं तापनं पुनः
सर्गान्तभृगुणा भूयो मादनं पञ्चमं न्यसेत् ॥ ४७क ॥
ततो ध्यायेत्-
भग्नविद्रुमसङ्काशं सर्वतेजोमयं वपुः ।
किरीटिनं कुण्डलिनं केयूरवलयान्वितम् ॥
मुक्तासद्रत्नसन्नद्धतुलाकोटिसमुज्ज्वलम् ।
नानालङ्कारसुभगं पीताम्बरयुगावृतम् ॥
गरुडोपरिसन्नद्धरक्तपङ्कजमध्यगम् ।
उत्तप्तहेमसङ्काशां लक्ष्मीं वामोरुसंस्थिताम् ॥
सर्वालङ्कारसुभगां शुक्लवासोयुगावृताम् ॥
सकामां लीलया देवं मोहयन्तं पुनः पुनः ॥
शङ्खचक्रगदापद्मपाशाङ्कुशधनुःशरान् ।
धारयन्तं जगन्नाथं रक्तपद्मारुणेक्षणम् ॥
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं विधाय
न्यासक्रमेण दशाक्षरवत्पीठपूजां कृत्वा
पुनर्ध्यानावाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं विधाय
षडङ्गानि सम्पूज्य न्यासक्रमेण देवशरीरे पञ्चबाणान्
सम्पूज्य ॐ किरीटाय नमः एवं कुण्डलाय शङ्खाय चक्राय
गदायै पद्माय पाशाय अङ्कुशाय धनुषे शराय इति हस्तेषु
पूजयेत् ।
स्तनोर्द्धैश्रीवत्साय कौस्तुभाय, गले वनमालायै, नितम्बे
पीतवसनाय, वामाङ्गे श्री लक्ष्म्यै नमः ।
सर्वत्र प्रणवादि नमोऽन्तेन पूजयेत् ।
ततः केशरेषु अग्न्यादिकोणेषु मध्ये दिक्षु च क्लीं हृदयाय
नमः, क्लीं शिरसे स्वाहा इत्यादि षडङ्गानि पूजयेत् ।
ततः पूर्वादिदिक्षु चतुरो बाणान् सम्पूज्य कोणेषु पञ्चमं
बांअं पूजयेत् ।
पत्रेषु ॐ लक्ष्म्यै नमः ।
एवं सरस्वत्यै रत्यै प्रीत्यै कीर्त्त्यै कान्त्यै तुष्ट्यै पुष्ट्यै
तद्बहिर्लोकपालान्पूजयेत् ।
अत्र वज्रादिपूज्य नास्ति अनुक्तत्वात् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ ४८ ॥
अस्य पुरश्चरणं द्वादशलक्षजपः ।
तथा च-
रविलक्षंअ जपेन्मन्त्रं जुहुयात्तद्दशांशतः ।
अमृतत्रयसिक्तेन पायसेन निधानवित् अथवा रविसाहस्त्र्यं
हुनेत्तावच्च तर्पयेत् ॥ ४९ ॥
मन्त्रान्तरम्
कामबीजं हृषीकेशाय हृन्मन्त्रोऽष्ठाक्षरः परः ।
तथा च-
हृषीकेशपदं ङेऽन्तं नमोऽन्तः कामपूर्वकः ।
अस्य न्यासपूजादिकं सर्व पूर्ववत् ॥ ५० ॥
लक्ष्मीर्माया कामबीजं ङेऽन्तं कृष्णपदं तथा ।
स्वाहेति मन्त्रराजोऽयं भजतां सुरपादपः ॥ ५१ ॥
अस्य पूजाप्रयोगः-
प्रातःकृत्यादि वैष्णवोक्त पीठमन्वन्तं विन्यस्य ऋष्यादिन्यासं
कुर्यात् ॥
यथा-
शिरसि नारद-ऋषये नमः ।
मुखे अनुष्टुफन्दसे नमः ।
हृदि श्रीकृष्णाय देवतायै नमः ॥ ५२ ॥
ततः कराङ्गन्यासौ-
क्लाम् अङ्गुष्ठाभ्यां नमः इत्यादि एवं क्लां हृदाय नमः
इत्यादि ॥ ५३ ॥
ततो ध्यानम्-
कलायकुसुमश्यामं वृन्दावनगतं हरिम् ।
गोपगोपीगवावीतं पीतवस्त्रयुगावृतम् ॥
नानालङ्कारसुभगं कौस्तुभोद्भासिवक्षसम् ।
सनकादिमुनिश्रेष्ठैः संस्तुतः परया मुदा ।
शङ्खचक्रलसद्बाहुं वेणुहस्तद्वयेरितम् ।
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्यात् ॥ ५४ ॥
ततो वैष्णवोक्त पीठमन्वन्तं पीठं सम्पूज्य पुनर्ध्यात्वा
आवाहनादि-पञ्चपुष्पाञ्जलिदानपर्यन्तं विधाय
आवरणपूजामारभेत ॥
यथा-
केशरेषु अग्न्यादिकोणेषु मध्ये दिक्षु च क्लां हृदयाय नमः
इत्यादिना पूजयेत् ।
तद्वहिरिन्द्रादीन् वज्रादींश्च सम्पूज्य धूपादिविसर्जनान्तं
कर्म समापयेत् ॥ ५५ ॥
अस्य पुरश्चरणं चतुर्लक्षं मनुं जपेत् ।
दशांशं जुहुयान्मन्त्री कुसुमैर्ब्रह्मवृक्षजैः ॥ ५६ ॥
मन्त्रान्तरम्
श्रीशक्तिस्मरकृष्णाय गोविन्दाय शिरो मनुः ॥ ५७ ॥
अस्य पूजाप्रयोगः-
प्रातःकृत्यादि-पूर्वोक्त पीठमन्वन्तं पीठन्यासं विधाय
रत्नाभिषेकवदृष्यादिन्यासं कुर्यात् ॥ ५८ ॥
ततः कराङ्गन्यासौ यथा-
श्रीम् अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां स्वाहा ।
क्लीं मध्यमाभ्यां वषट् ।
कृष्णाय अनामिकाभ्यां हुम् ।
गोविन्दाय कनिष्ठाभ्यां वौषट् ।
स्वाहा करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु श्रीं हृदयाय नमः इत्यादि ॥ ५९ ॥
ततो मूर्तिपञ्जरन्यासं विधाय मुद्रादिदिग्बन्धनं कृत्वा
विंशत्यर्णोक्तं ध्यात्वा तद्विधानेन पूजयेत् ।
विशेषस्तु सृष्टिस्थितिक्रमेण न पूजयेत् ।
तत्तद्वर्णाभावात् अस्य पुरश्चरणं जपहोमश्च तथा ॥ ६० ॥
मन्त्रान्तरम्
तारं हृद्भगवते रुक्मिणीवल्लभाय स्वाहा ।
तथा च-
तारो हृद्भगवान् ङेऽन्तो रुक्मिणी वल्लभस्तथा ।
शिरोऽन्तः षोडशार्णोऽयं रुक्मिणी वल्लभाह्वयः ॥ ६१ ॥
अस्य पूजा-
प्रातःकृत्यादि वैष्णवोक्त पीठमन्वन्तं पीठन्यासं विधाय
ऋष्यादिन्यासं कुर्यात् ।
शिरसि नारद ऋषये नमः ।
मुखे अनुष्टुप्छन्दसे नमः ।
हृदि रुक्मिणीवल्लभाय देवतायै नमः ॥ ६२ ॥
ततः कराङ्गन्यासौ-
ॐ अङ्गुष्ठाभ्यां नमः ।
नमस्तर्जनीभ्यां स्वाहा ।
भगवते मध्यमाभ्यां वषट् ।
रुक्मिणीवल्लभाय वनामिकाभ्यां हुम् ।
स्वाहा कनिष्ठाभ्यां फट् ।
एवं हृदयादिषु ॥ ६३ ॥
ततो ध्यानम्-
तापिञ्जच्छविरङ्कगां प्रियतमां स्वर्णप्रभामम्बुज
प्रोद्यद्वामभुजां स्ववामभुजयाश्लिष्यन् सचित्तस्मयाम् ।
श्लिष्यन्तीं स्वयमन्यहस्तविलसत्सौवर्णवेत्रश्चिरं पायान्नं
शणसूनपीतवसनो नानाविभूषो हरिः ॥ ६४ ॥
एवं ध्यात्वा मानसैः सम्पूज्य सङ्खस्थापनं वैष्णवोक्त
पीठमन्वन्तां पीठपूजां विधाय पुनर्ध्यात्वा
आवाहनादिपञ्चपुष्पाञ्जलिदान पर्यन्तं
विधायावरणपूजामारभेत् ।
यथा-
केशरेषु अग्निनिर्-ऋतिवायव्यीशानकोणेषु मध्ये दिक्षु च ॐ हृदयाय
नमः ।
नमः शिरसे स्वाहा ।
भगवते शिखायै वषट् ।
रुक्मिणी वल्लभाय कवचाय हुम् ।
स्वाहा अस्त्राय फट् ।
ततोऽष्टदलेषु पूर्वादि ॐ नारदाय नमः एवं पर्वतं विष्णुं
निशठम् उद्धवं दारुकं विश्वक्सेनं शौनेयञ्च पूजयेत् ।
तभिरिन्द्रादीन् वज्रादीश्च सम्पूज्य धूपादिवसर्जनान्तं कर्म
समापयेत् ।
अस्य पुरश्चरणं लक्षजपः ।
तथा च-
ध्यात्वैवं रुक्मिणीकान्तं जपेल्लक्षममुं मनुन् ।
अयुतं जुहुयात् पद्मैररुणैर्मधुराप्लुतैः ॥ ६५ ॥
मन्त्रान्तराणि
श्रीशक्तिकामपूर्वोऽङ्गजन्मशक्तिरमान्तिकः ।
दशाक्षरः एवासौ स्यात् शक्तिरमान्वितः ॥
मन्तो विकृतिरव्यर्णावाचक्राद्याङ्कनाविमो ॥ ६६ ॥
अनयोर्-ऋष्यादिपञ्चाङ्गानि दशाक्षरवन्न्यस्त्वा
विंशत्यर्णोक्तपूजां कुर्यात् ॥ ६७ ॥
ध्यानस्तु-
वरदाभयहस्ताभ्यां श्लिष्यन्तं स्वाङ्कगे प्रिये ।
पद्मोत्पलकरे ताभ्यां श्लिष्टं चक्रगरोज्ज्वलम् ॥ ६८ ॥
अनयोः पुरश्चरणं दशलक्षजपः ।
आज्यैस्तावत्सहस्रहोमः ।
तथा च-
दशलक्षं जपेदाज्यैर्हुनेत्तावत्सहस्रकम् ॥ ६९ ॥
प्रणवं नमसा युक्तं कृष्णगोविन्दकौ तथा ।
श्रीपूर्वौ ङेऽन्तावुच्चार्य हुं फट् स्वाहेति कीर्त्यते ॥ ७० ॥
अस्य नारद-ऋषिरनुष्टुप्छन्दः परमात्मा हरिर्देवता ।
आचक्राद्यैरङ्गकल्पना ।
दशाक्षरवदस्य पूजाजपहोमादयः ।
बीजशक्ती च तत्समे ॥ ७१ ॥
अथ वालगोपालमन्त्राः
चक्री वसुस्वरान्वितः सर्गी ।
कृः ।
कृष्णेति द्व्यक्षरः कामकृष्ण ।
कामकृष्णाय ।
कृष्णाय नमः ।
कामः कृष्णाय नमोऽन्तकः ।
कामकृष्णाय कामः ।
गोपालाय ठद्वयम् ।
कामः कृष्णाय स्वाहा ।
कृष्णगोविन्दौ ङेऽन्तौ ।
कामः कृष्णाय गोविन्दाय ।
कामः कृष्णगोविन्दौ ङेऽन्तौ कामः ।
दधिमभक्षणाय ठद्वयम् ।
सुप्रसन्नात्मने हृत् ।
कामः ग्लौं कामः श्यामलाङ्गाय हृत् ।
बालवपुषे कृष्णाय वह्निजाया ।
रमा माया कामः कृष्णाय कामः ।
बालवपुषे क्लीं कृष्णाय वह्निजाया ।
तथा च निबन्धे-
चक्रो वसुस्वरयुतं सर्ग्येकार्णो मनुर्मतः ।
कृष्णेति द्व्यक्षरः कामपूर्वस्त्र्यर्णः स एव च ।
स एव चतुर्वर्णः स्यात् ङेऽन्तोऽन्यश्चतुरक्षरः ।
वक्ष्यते पञ्चवर्णः स्यात् कृष्णाय नमः इत्यपि ।
स एव कामपूर्वश्चेत् षडक्षरमनुर्मतः ।
कृष्णायेति स्मरद्वन्द्वमध्ये पञ्चाक्षरोऽपरः ।
गोपालायाग्निजायान्तः षडक्षरमनुर्मतः ।
कृष्णाय कामबीजाद्यो वह्निजायान्तिकोऽपरः ।
कृष्णगोविन्दको ङेऽन्तौ सप्तार्णो मनुरुत्तमः ।
कृष्णगोविन्दकौ ङेऽन्तौ कामाद्यश्चाष्टवर्णकः ।
आद्यन्तकामबीजश्चेत् नवाक्षर उदाहृतः ।
दधिभक्षणाय वह्निवल्लभान्तोऽष्टवर्णकः ।
सुप्रसन्नात्मने प्रोक्तो नमः इतापरोऽष्टकः ।
कामबीजं धराबीजं पुनः कामं समुद्धरेत् ।
श्यामलाङ्गपदं ङेऽन्तं नमोऽन्तोयं दशाक्षरः ।
शिरोऽन्तो बालवपुषे कृष्णायान्यो मनुर्मतः ।
श्रीशक्तिकामकृष्णाय मारः सप्ताक्षरो मनुः ।
शिरोऽन्तो बालवपुषे क्लीं कृष्णाय स्मृतो वुधैः ॥ १ ॥
एतेषां पूजायन्त्रम्-
वृत्तमष्टदलं पद्मं भूगृहं चतुर्द्वारं वृत्तमध्यस्थं
कामबीजम् (चित्र २४) ।
तथा च गौतमीये-
पद्ममष्टपलाशन्तु चतुरस्रं सुलक्षणम् ।
चतुर्द्वारसमायुक्तं कामगर्भितकर्णिकम् ॥
एतेषां पूजाप्रयोगः-
प्रातःकृत्यादि-वैष्णवोक्तपिठन्यासं विधाय ऋष्यादिन्यासं
कुर्यात् ।
यथा-
शिरसि नारद ऋषये नमः ।
मुखे गायत्रीच्छन्दसे नमः ।
हृदि श्रीकृष्णाय देवतायै नमः ॥ २ ॥
ततः कराङ्गन्यासौ-
क्लाम् अङ्गुष्ठाभ्यां नमः ।
क्लीं तर्जनीभ्यां स्वाहा ।
क्लूं मध्यमाभ्यां वषट् ।
क्लैम् अनामिकाभ्यां हुम् ।
क्लौं कनिष्ठाभ्यां वौषट् ।
क्लः करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु क्लां हृदयाय नमः इत्यादि ।
ततः पूर्ववन्मुद्रादिकं प्रदर्श्य ध्यायेत् ॥ ३ ॥
ध्यानम्-
अव्याद्व्याकोषनीलाम्बुजरुचिररुणाम्भोजनेत्रोऽम्बुजस्थो, बालो
जङ्घाकटीरस्थलकलितरणत्किङ्किणीको मुकुन्दः ।
दोर्भ्यां हैयङ्ग वीनं दधदति-विमलं पायसं
विश्ववन्द्यो, गोगोपी-गोपवीतोरुरुनखविलसत्कण्ठभूषश्चिरं
वः ॥
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्यात् ॥ ४ ॥
ततो वैष्णवोक्तपीठमन्वन्तां पीपूठजां विधाय
पुनर्ध्यात्वा आवाहनादि-पञ्चपुष्पाञ्जलिदानपर्यन्तं
विधायावरणपूजामारभेत् ।
यथा-
केशरेषु अग्न्यादिकोणेषु मध्ये दिक्षु च क्लां हृदयाय नमः
इत्यादिना षडङ्ग सम्पूज्य पत्रेषु नारदादीन् तद्बहिरिन्द्रादिन्
वज्रादींश्च पूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ ५ ॥
एतेषां पुरश्चरणं लक्षजपः ।
तथा च-
ध्यात्वैवमेकमेतेषां लक्षं जप्यान्मनुं ततः ।
सर्पिःसितोपलोपेतैः पायसैरयुतं हुनेत् ॥
तथा-
तर्पयेत्तावदेतेषां मनूनां हुतसङ्ख्यया ॥ ६ ॥
मन्त्रान्तरम्
ऊर्ध्वदन्तयुतः शार्ङ्गी चक्री दक्षिणकर्णयुक् ।
मांसं नाथाय नत्यन्तो मूलमन्त्रोऽष्टवर्णकः ॥
ऋषिर्ब्रह्मास्य गायत्रीच्छन्दः कृष्णस्तु देवता ।
वर्णयुग्मैः समस्तेन प्रोक्तं स्यादङ्गपञ्चकम् ॥ ७ ॥
ध्यात्वैवं प्रजपेदष्टलक्षं तावत्सहस्रकम् ।
जुहुयाद्ब्रह्मवृक्षोत्थसमिद्भिपायसेन वा ॥ ९ ॥
प्रासादे स्थापितं कृष्णमनुना नित्यमर्चयेत् ।
द्वारपूजादिपीष्ठान्तं कुर्यात् पूर्वोक्तमार्गतः ॥
मध्येऽर्चयेद्धरिं दिक्षु विदिक्ष्वङ्गानि वै क्रमात् ।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।
रुक्मिणी सत्यभामा च लक्षणा जाम्बवत्यपि ।
दिग्विदिक्ष्वर्चयेदेतान् इन्द्रवज्रादिकान् वहिः ॥ १० ॥
योऽमूं मनुं जपेन्नित्यं विधिनाभ्यर्चयन् हरिम् ।
स सर्वसम्पत्सम्पूर्णो नित्यं शुद्धव्रजेत्पदम् ॥ ११ ॥
मन्त्रान्तरम्
कामयोरन्तःकृष्णपदं मन्त्रः सद्यःफलप्रदः ।
तथा च-
सद्यः फप्रदं मन्त्रं वक्ष्येऽन्यं चतुरक्षरम् ।
सम्प्रोक्तो मारयुग्मान्तः संस्थकृष्णपदेन तु ॥ १२ ॥
अस्य पूजाप्रयोगः-
प्रातःकृत्यादि-वैष्णवोक्तपीठमन्वन्तं पीठन्यासं विधाय
पूर्वदृष्यादिन्यासकराङ्गन्यासौ च कृत्वा ध्यायेत् ॥ १३ ॥
श्रीमत्कल्पद्रुमूलोद्गतकमललसत्कर्णिकासंस्थितो
यस्तच्छाखालम्बिपद्मोदरविसरदसङ्ख्यातरत्नाभिषिक्तः ।
हेमाभः स्वप्रभाभिस्त्रिभुवनमखिलं भासयन् वासुदेवः
पायाद्वः पायसादोऽनवरतनवनोतामृताशीरसीमः ॥
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं विधाय
वैष्णवोक्तपीठमन्वन्तं पीठं सम्पूज्य पुनर्ध्यात्वा
आवाहनादि पञ्चपुष्पाञ्जलिदानपर्यन्तं
विधायावरणपूजामारभेत ।
पूर्वदग्न्यादिकोणे मध्ये दिक्षु च क्लां हृदयाय नमः इत्यादिना
षडङ्गानि सम्पूज्य पत्रेषु पूर्वादि अष्टनिधीन् तद्बहिरिन्द्रादीन्
व्रज्रादींश्च सम्पूज्य धूपादिविसर्जनान्तं कर्म समापयेत् ॥ १४
॥
अस्य पुरश्चरणं चतुर्लक्षजपः ।
तथा च-
धात्वैवं प्रजपेल्लक्षचतुष्कं जुहुयात्ततः ।
त्रिमध्वक्तैर्विल्वफलैश्चत्वारिंशत्सहस्रकम् ॥ १५ ॥
अस्यमन्त्रस्य कामबीजयोर्लकारयोरन्ते रेफश्चेत्तदा
मन्त्रचूडामणिः ।
तथा च निबन्धे-
मारयोरस्य मांसाधो रक्तश्चेदपरो मनुः ।
कामबीजस्य मांसाधो लकारस्याधोभागे रक्तो रेफश्चेत्तदा
अयं मनुरित्यर्थः ॥ १६ ॥
अस्य पूजा-
पूर्ववद्दृष्यादिन्यासं कृत्वा कराङ्गन्यासौ कुर्यात् ।
यथा-
क्लीम् अङ्गुष्ठाभ्यां नमः इत्यादि ।
क्लीं हृदयाय नमः इत्यादि ।
अस्य पूजादिकं सर्वं पूर्ववत् ।
ध्याने तु विशेषः-
आरक्तोद्यानकल्पद्रुमतलविलसत्स्वर्णदोलाधिरूढं, गोपीभ्यां
प्रेक्ष्यमाणं विकसितनवबन्धूकसिन्दूरभासम् ।
बालं लोलालकान्तं कटितटविलसत्क्षुद्रघण्टाघटाढ्यं, वन्दे
शार्दूल-कामाङ्कुशललितगणाकप्लदीप्तं मुकुन्दम् ॥ १८ ॥
ध्यात्वैवं पूर्वत्यैनं जप्त्वा रक्तोत्पलैर्नवैः ।
मधुत्रययुतैर्हुत्वा चार्चयेत् पूर्ववद्धरिम् ॥ १९ ॥
अथ वासुदेवमन्त्रः
प्रणवो हृद्भगवते वासुदेवाय कीर्तितः ।
प्रधानं वैष्णवे तन्त्रे मन्त्रोऽयं सुरपादपः ॥ १ ॥
अस्य पूजा-
प्रातःकृत्यादिपूर्वोक्त पीठमन्वन्तं विन्यस्य ऋष्यादि न्यासं
कुर्यात् ।
यथा-
शिरसि प्रजापतये ऋषये नमः, मुखे गायत्रीच्छन्दसे नमः, हृदि
वासुदेवाय देवतायै नमः ॥ २ ॥
ततः कराङ्गन्यासौ-
ॐ अङ्गुष्ठाभ्यां नमः; नमस्तर्जनीभ्यां स्वाहा ।
भगवते मध्यमाभ्यां वषट् ।
वासुदेवाय अनामिकाभ्यां हुम् ।
ॐ नमो भगवते वासुदेवाय कनिष्ठाभ्यां फट् ।
एवं हृदयादिषु ।
तथा च निबन्धे-
तारेण हृदयं प्रोक्तं नमसा शिर ईरितम् ।
चतुर्वर्णैः शिखा प्रोक्ता पञ्चार्णैः कवचं मतम् ।
समस्तेन भवेदस्त्रमङ्गकल्पनमीरितम् ॥ ३ ॥
ततो मन्त्रन्यासः-
मूर्ध्नि भाले दृशोरास्ये गले दोर्हृदयाम्बुजे ।
कुक्षौ नाभौ ध्वजे जानुद्वये पादद्वये तथा ।
द्वादशाक्षराणि विन्यसेत् ।
ततो मूर्तिपञ्जरं विन्यस्य किरीटमन्त्रेण व्यापकं विधाय
ध्यायेत् ॥ ४ ॥
विष्णुं शारदचन्द्रकोटिसदृशं शङ्खं रर्थाङ्गं
गदामम्भोजं दधतं सिताजनिलयं कान्त्या जगन्मोहनम् ।
आबद्धाङ्गदहारकुण्डलमहामौलिं स्फुरत्कङ्कणं,
श्रीवत्साङ्कमुदारकौस्तुभधरं वन्दे मुनीन्द्रैः स्तुतम् ॥
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्यात् ॥ ५ ॥
ततो वैष्णवोक्तपीठपूजां विधाय पुनर्ध्यत्वा
आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं विधाय
आवरणपूजामारभेत ।
अग्निनिर्-ऋतिवायव्यीशानकोणेषु मध्ये दिक्षु च ॐ हृदयाय नमः
इत्यादिना पञ्चाङ्गानि पूजयेत् ।
ततः पूर्वादिदलेषु शान्त्यादिशक्तिसहितान् वासुदेवादीन्
केशवादीनिद्रादीन् वज्रादींश्च सम्पूज्य धूपादिविसर्जनान्तं
कर्म समापयेत् ॥ ६ ॥
अस्य पुरश्चरणं द्वादशलक्षजपः ।
तथा च-
वर्णलक्षं जपेन्मन्त्रं दीक्षितो विजितेन्द्रियः ।
तत्सहस्रं प्रजुहुयात्तिलैराज्यपरिप्लुतैः ॥ ७ ॥
अथ लक्ष्मीनारायणमन्त्राः
मायाद्वयं रमाद्वयं लक्ष्मीवासुदेवाय नमः ।
प्रणवादिरयं मन्त्रः ।
तथा च निबन्धे-
हृल्लेखाबीजयुगलं रमाबीजयुगं पुनः ।
लक्ष्म्यन्ते वासुदेवाय हृदन्तः प्रणवादिकः ।
चतुर्दशाक्षरः प्रोक्तो मन्त्रोऽयं सुरपादपः ॥ ८ ॥
अस्य पूजादिकं वासुदेवमन्त्रवत् ।
ऋष्यादिन्यासे तु लक्ष्मीवासुदेवो देवता ।
कराङ्गन्यासमन्त्रस्तु-
ॐ ह्रीं ह्रीम् अङ्गुष्ठाभ्यां नमः ।
ॐ श्रीं श्रीं तर्जनीभ्यां स्वाहा ।
ॐ लक्ष्मी मध्यमाभ्यां वषट् ।
ॐ वासुदेवाय अनामिकाभ्यां हुम् ।
ॐ नमः कनिष्ठाभ्यां फट् ।
एवं हृदयादिषु ।
तथा च-
हृदयं शक्तिबीजाभ्यां रमाभ्यां शिर ईरितम् ।
लक्ष्म्या प्रोक्ता शिखा वर्म वासुदेवाय कीर्त्तितम् ।
नमसास्त्रं समुद्दिष्टं सर्वं तारादि विन्यसेत् ।
ततो ध्यानम्-
विद्युच्चन्द्रनिभं वपुः कमलजावैकुण्ठयोरेकतां, प्राप्तं
स्नेहरसेन रत्नविलद्भषाभरालङ्कृतम् ।
विद्यापङ्कजदर्पणान्मणिमयं कुम्भं सरोजं गदां
शङ्खं चक्रममूनि विभ्रदमिता दिश्याच्छ्रियं वः सदा ॥ ८क ॥
अस्य पूजादिकं सर्वं पूर्ववत् ।
अस्य पुरश्चरणं चतुर्दशलक्षजपः ।
तथा च-
वर्णलक्षं जपेन्मन्त्रं तत्सहस्रं सरोरुहैः ।
होमं कुर्याद्विकसितैर्मधुरत्रयसंयुतैः ।
वर्णलक्षं मन्त्रवर्णसमसङ्ख्यलक्षम् ॥ ९ ॥
अथ दधिवामनमन्त्रः
ॐ नमो विष्णवे सुरपतये महाबलाय ठद्वयम् ।
तथा च निबन्धे-
तारो हृद्विष्णवे पश्चात् ङेऽन्तः सुरपतिर्भवेत् ।
महाबलाय ठद्वन्द्वं मनुरष्टादशाक्षरः ॥ १० ॥
अस्य पूजा-
प्रातः कृत्यादि उं सोममण्डलाय षोडशकलात्मने नमः
इत्यन्तं विन्यस्य ऋष्यादिन्यासं कुर्यात् ।
शिरसि इन्दवे ऋषये नमः, मुखे विराट्छन्दसे नमः, हृदि
दधिवामनाय देवातायै नमः ।
तथा च निबन्धे-
चन्द्रान्तकल्पिते पीठे प्रागुक्तेन समर्चयेत् ॥ ११ ॥
ततः कराङ्गन्यासौ-
ॐ अङ्गुष्ठाभ्यां नमः ।
नमस्तर्जनीभ्यां स्वाहा ।
विष्णवे मध्यमाभ्यां वषट् ।
सुरपतये अनामिकाभ्यां हुम् ।
महाबलाय कनिष्ठाभ्यां वौषट् ।
स्वाहा करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु ।
तथा च-
हृदेकेन शिरो द्वाभ्यां शिखा त्रिभिरुदाहृता ।
कवचं पञ्चभिः प्रोक्तं नेत्रं तावद्भिरक्षरैः ।
द्वाभ्यामस्त्रमिति प्रोक्तं प्रकारोऽङ्गस्य सूरिभिः ॥ १२ ॥
ततो मन्त्रन्यासः-
शिरसि भाले चक्षुषोः कर्णयोरोष्ठे तालुके कण्ठे बाहुद्वये उदरे
नाभौ गुह्ये ऊरुद्वये जानुद्वये जङ्घाद्वये पादद्वये
मन्त्रवर्णान्नमोऽन्तान्न्यसेत् ।
जङ्घाद्वयादौ द्वयं द्वयं वर्णं ततो मूर्तिपञ्जरादिकं
विधाय ध्यायेत् ॥ १३ ॥
मुक्तागौरं नवमणिलसद्भूषणं चन्द्रसंस्थं,
भृङ्गाकारैरलकनिवहैः शोभिवक्त्रारविन्दम् ।
हस्ताब्जाभ्यां कनककलसं शुद्धतोयाभिपूर्णं,
दध्यन्नाढ्यं, कनकचषक धारयन्तं भजामः ।
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्यात् ॥ १४ ॥
ततश्चन्द्रमण्डलान्तं पीठं सम्पूज्य पुनर्ध्यात्वा
आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं विधायावरणपूजां
कुर्यात् ।
तथा च-
चन्द्रान्तं कल्पिते पीठे प्रान्तरे तं समर्चयेत् ।
यथा-
अग्न्यादिकोणे मध्ये दिक्षु च ॐ हृदयाय नमः इत्यादिना पूजयेत् ।
ततो दिग्दलेषु वासुदेवादीन् शक्तिसहितान्ध्वजादीन् तदग्रे
केशवादीन्सम्पूज्य इन्द्रवज्रादीन् ऐरावतादीन् दिग्गजांश्च
पूजयेत् ।
ॐ ऐरावताय दिग्गजाय नमः इत्यादिक्रमेण पूजयेत् ।
एवं पुण्डरीकादीन् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ १५ ॥
अस्य पुरश्चरणं लक्षत्रयजपः ।
तथा च-
गुणलक्षं जपेन्मन्त्रं तद्दशांशं घृतप्लुतम् ।
पायसान्नं प्रजुहुयाद्दध्यन्नम्बा यथाविधि ॥ १६ ॥
अथ हयग्रीवमन्त्राः
ॐ उद्गिरत्प्रणवोद्गीथ सर्ववागीश्वरेश्वर ।
सर्ववेदमयाचिन्त्य सर्व बोधय बोधय ।
तथा च निबन्धे-
उद्गिरत्पदमाभाष्य प्रणवोद्गीथ शब्दतः ।
सर्ववागीश्वरेत्यन्ते प्रवदेदीश्वरेत्यथ ॥
सर्ववेदमयाचिन्त्य शब्दान्ते सर्वमुच्चरेत् ।
बोधयद्वितयान्तोऽयं मन्त्रस्तारादिरीरितः ॥ १७ ॥
अस्य पूजा-
प्रातःकृत्यादि-वैष्णवोक्त पीठमन्वन्तं विधाय ऋष्यादि
न्यासं कुर्यात् ।
यथा-
शिरसि ब्रह्मणे ऋषये नमः ।
मुखेऽनुष्टुप्छन्दसे नमः ।
हृदि श्रीहयग्रीवाय देवतायै नमः ॥ १८ ॥
ततः कराङ्गन्यासौ-
ॐ अङ्गुष्ठाभ्यां नमः ।
उद्गित्प्रणवोद्गीय तर्जनीभ्यां स्वाहा ।
सर्ववागीश्वरेश्वर मध्यमाभ्यां वषट् ।
सर्ववेदमया चिन्त्य अनामिकाभ्यां हुम् ।
सर्वं बोधय बोधय कनिष्ठाभ्यां फट् ।
एवं हृदयादिषु ॥ १९ ॥
ततो ध्यानम्-
शरच्छ-साङ्कप्रभमश्ववक्त्रं मुक्तामयैराभरणैः
प्रदीप्तम् ।
रथाङ्गशण्खार्चितबाहुयुग्मं जानुद्वयन्यस्तकरं भजामः ।
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कृत्वा
वैष्णवोक्तपीठपूजा विधाय पुनर्ध्यात्वा हसूमित्यनेन
मूर्तिं सङ्कल्पप्येत् ॥
तथा च-
बीजेन मूर्तिं सङ्कल्प्य बीजमुद्धरेत्, यथा ।
वियद्भृगुस्थमर्घीशबिन्दुमद्वीजमीरितम् ।
ततः पुनर्ध्यात्वा आवाहनादि-पञ्चपुष्पाञ्जलिदानपर्यन्तं
विधायावरणपूजामारभेत ॥
यथा-
केशरेषु चतुर्दिक्षु चतुर्वेदान ऋग्यजुःसामाथर्वान, विदिक्षु
अङ्गस्मृतिन्यायसर्वशास्त्राणि पूजयेत् ।
अर्चयेत्पत्रमध्येषु विधानेनाङ्गदेवताः ।
तद्वहिरिन्द्रादीन्वज्रादींश्च पूजयेत् ।
ततो धूपादिविसरजनान्तं कर्म समापयेत् ॥ २० ॥
अस्य पुरश्चरणं त्रयस्त्रिंशल्लक्षजपः ।
तथा च-
वर्णलक्षं जपेन्मन्त्रं कुन्दपुष्पैर्मधुप्लुतैः ।
दशांशं वैष्णवे वह्नौ जुहुयान्मन्त्रवित्तमः ॥ २१ ॥
अथ हयग्रीवैकाक्षरमन्त्रः
स च हकार सकारषष्ठस्वरविन्द्वात्मकः ।
तथा च कल्पे-
वियद्भृगुस्थमर्घीशविन्दुमद्वीजमीरितम् ।
एकाक्षरो मनुः प्रोक्तश्चतुर्वर्गफलप्रदः ॥ २२ ॥
अस्य ब्रह्मा ऋषिरनुष्टुप्छन्दः हयग्रीवरूपी विष्णुर्देवता हकारो
बीजम् ऊकारः कीलकं सकारः शक्तिः ।
ह्सां ह्सीं ह्सूं ह्सैं ह्सौं ह्सः इति षडङ्गकल्पना ॥ २३ ॥
ध्यानम्-
धवलनलिननिष्ठं क्षीरगौरं कराब्जैर्जपवलयसरोजे
पुस्तकाभीष्टदाने ।
दधतममलवस्त्राकल्पजालाभिरामं, तुरगवदनजिष्णुं नौमि
विद्याग्रविष्णुम् ।
अन्यच्च-
शरच्छशाङ्कप्रभमश्ववक्त्रं, मुक्तामयैराभरणैरुपेतम् ।
रथाङ्गशङ्खोर्ध्वकरञ्च विद्याव्याख्यान-मुद्राढ्यकरं
नमामि ॥
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कृत्वा
पीठपूजां विधाय पुनर्ध्यात्वा
आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं
विधायावरणपूजामारभेत ।
तत्राङ्गैः प्रथममावरणम् ।
प्रज्ञाहय-मेधाहय-स्मृतिहय-विद्याहय-लक्ष्मीहय-
वागीशीहय-विद्याविलासहय-
नादविमर्दनहयैरष्टाभिर्द्वितीयम् ।
लक्ष्मी-सरस्वती-रति-प्रीति-कीर्ति-कान्ति-तुष्टि-पुष्टिस्तृतीयम् ।
कुमुदादिभिर्गजैश्चतुर्थम् ।
इन्द्रादिभिः पञ्चम ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ २४ ॥
अस्य पुरश्चरणं चतुर्लक्षजपः ।
तथा च-
वेदलक्षं जपेन्मन्त्रं दशांशं जुहुयात्ततः ।
आज्येन दशांश होमः ॥ २५ ॥
मन्त्रान्तरम्
हयग्रीवैकाक्षरादिचतुर्थ्यन्तहयशिरः शब्दो नमोऽन्तः ।
तथा च कल्पे-हयशिरःपदं ङेन्तञ्च समुद्धरेत् ।
स्वबीजादिरयं मन्त्रश्चतुर्वर्गफलप्रदः ॥ २६ ॥
अस्य ब्रह्मा ऋषिरनुष्टुप्छन्दो हयग्रीवरूपी विष्णुर्देवता
अन्यत्सर्वमेकाक्षरवत् ॥ २७ ॥
मन्त्रान्तरम् -
उद्गिरत्परवोद्गीय सर्ववागीश्वरेश्वर ।
सर्ववेदमयाचिन्त्य सर्वं बोधय बोधय ॥
स्वाहान्तो मनुराख्यातो बीजः प्रणवसम्पुटः ॥ २८ ॥
मन्त्रान्तरम्-
विश्वोत्तीर्ण स्वरूपाय चिन्मायानन्दरूपिणे ।
तुभ्यं नमो हयग्रीव विद्याराजाय विष्णवे ॥
स्वाहान्तो मनुराख्यातो हंसेन सम्पुटोकृतः ॥ २९ ॥
एतयोर्मन्त्रयोः पूर्वोक्तहयग्रीवमन्त्रवत्सर्वं ज्ञातव्यम् ॥ ३० ॥
अथ नृसिंहमन्त्रः
निबन्धे-
उग्रं वीरं वदेत्पूर्वं महाविष्णुमनन्तरम् ।
ज्वलन्तं पदमाभाष्य सर्वतोमुखमीरयेत् ।
नृषिंहं भीषणं भद्रं मृत्युमृत्युं वदेत्ततः ।
नमाम्यहमिति प्रोक्तो मन्त्रराजः सुरद्रुमः ॥ अयं मन्त्रो
मायापुटितो भवति तदा सर्वकामफलप्रदः ।
तथा च कल्पे-
हृल्लेखापुटितश्चेत् स्यात्सर्वकामफलप्रदः ॥ ३१ ॥
अस्य पूजा-
प्रातःकृत्यादिवैष्णवोक्तपीठमन्वन्तं विधाय ऋष्यादि न्यासं
कुर्यात् ।
शिरसि ब्रह्मणे ऋषये नमः, मुखे अनुष्टुप्छन्दसे नमः, हृदि
नृसिंहाय देवतायै नमः ॥ ३२ ॥
ततः कराङ्गन्यासौ-
चतुर्भिर्हृदयं वर्णैः शिरस्तावद्भिरक्षरैः ।
शिखाष्टाभिः समुद्दिष्टा षड्भिः कवचमीरितम् ।
तावद्भिर्नयनं प्रोक्तमन्त्रं स्यात्करणाक्षरैः ॥ ३३ ॥
ततो मन्त्रन्यासः-
शिरोललाटनेत्रेषु मुखवाह्वङ्घ्रिसन्धिषु ।
साग्रेषु कुक्षौ हृदये गले पार्श्वद्वये पुनः ।
अपराङ्गे च ककुदि न्यसेद्वर्णान्यथाक्रमम् ॥ ३४ ॥
ततो ध्यानम्-
माणिक्याद्रिसमप्रभं निजरुचा सन्त्रस्तरक्षोगणं,
जानुन्यस्तकराम्बुजं त्रिनयनं रत्नोल्लसद्भूषणम् ।
बाहुभ्यां धृतशङ्खचक्रमनिशं
दंष्ट्रोग्रवक्त्रोल्लसज्ज्वालाजिह्वमुदग्रकेशनिचयं वन्दे
नृसिंहं विभुम् ॥
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं विधाय
वैष्णवोक्तपीठपूजां कृत्वा पुनर्ध्यात्वा
आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं
विधायावरणपूजामारभेत ।
तद्यथा-
केशरेष्वग्न्यादिकोणे मध्ये दिक्षु च ङ्गानि पूजयेत् ।
यथा-
उग्रं वीर हृदयाय नमः ।
महाविष्णुं शिरसे स्वाहा ।
ज्वलन्तं सर्वतोमुखं शिखायै वषट् ।
नृसिंहं भीषणं कवचाय हुम् ।
भरं मृत्युमृत्युं नेत्रत्रयाय वौषट् ।
नमाम्यहम् अस्त्राय फट् ।
ततः पूर्वादिदले गरुडं शङ्करं शेषं ब्रह्माणञ्च
पूजयेत्, विदिग्दलेषु श्रियं ह्रियं धृतिं पुष्टिञ्च
प्रणवादिनमोऽन्तेन पूजयेत् ॥ ३५ ॥
तद्वहिरिन्द्रादीन्वज्रादींश्च पूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्मसमापयेत् ॥ ३५ ॥
अस्य पुरश्चरणं द्वात्रिंशल्लक्षजपः ।
तथा च-
वर्णलक्षं जपेन्मन्त्रं तत्सहस्रं घृतप्लुतैः ।
पायसान्नः प्रजुहुयाद्विधिवत्पूजितेऽनले ॥ ३६ ॥
मन्त्रान्तरम् -
निबन्धे-
पाशः शक्तिर्नरहरिरङ्कुशो वर्म फट् मनुः ।
षडक्षरो नरहरेः कथितः सर्वकामदः ॥ ३७ ॥
अस्य पूजा-
प्रातःकृत्यदि वैष्णवोक्तपीठमन्वन्तं विन्यस्य ऋष्यादि न्यासं
कुर्यात् ।
शिरसि ब्रह्मणे ऋषये नमः, मुखे पङ्क्तिच्छन्दसे नमह्, हृदि
नृसिंहाय देवतायै नमः ॥ ३८ ॥
ततः कराङ्गन्यासौ-
आम् अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां स्वाहा ।
क्ष्रौं मध्यमाभ्यां वषट् ।
क्रौम् अनामिकाभ्यां हुम् ।
हुं कनिष्ठाभ्यां वौषट् ।
फट् करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु ॥ ३९ ॥
ततो ध्यानम्-
कोपादालोलजिह्वं विवृतनिजमुखं सोमसूर्याग्निनेत्रं,
पादादानाभिरक्तप्रभमुपरिसितं भिन्नदैत्येन्द्रगात्रम् ।
शङ्खं चक्रं च पाशाङ्कुशकुलिशगदादारुणान्युद्वहन्तं,
भीमं तीक्ष्णोग्रदंष्ट्रं मणिमय विविधाकल्पमीडे नृसिंहम्
॥
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कृत्वा
वैष्णवोक्तपीठपूजां विधाय पुनर्ध्यात्वा
आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं
विधायावरणपूजामारभेत ।
तद्यथा-
केशरेष्वग्न्यादिकोणे मध्ये दिक्षु च आं हृदयाय नमः
इत्यादिनाषडङ्गानि पूजयेत् ।
ततः पत्रेषु पूर्वादि शङ्खं चक्रं पाशम् अङ्कुशं वज्रं
गदां खड्गं खेटकञ्च प्रणवादि-नमोऽन्तेन पूजयेत् ।
तथा च निबन्धे-
अङ्गावृतेर्वहिश्चक्रं शङ्खं पाशाङ्कुशौ पुनः ।
वज्रं कौमोदकीं खड्गं खेट पत्रेषु पूजयेत् ।
ततः इन्द्रादीन्वज्रादीश्च पूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ ४० ॥
अस्य पुरश्चरणं षड्लक्षजपः ।
तथा-
ऋतुलक्षं जपेन्मन्त्रं घृतेन जुहुयत्ततः ।
तत्सहस्रं समिद्धेऽग्नौ तोषयेद्वसुना गुरुम् ॥ ४१ ॥
मन्त्रान्तरम्
क्षकारो वह्निमारूढो मनुविन्दु समन्वितः ।
एकाक्षरो मनुः प्रोक्तः सर्वकामफलप्रदः ॥ ४२ ॥
अस्य पूजादिकं सर्वं मन्त्रराजवत् ।
विशेषस्तु अत्रिर्-ऋषिर्गायत्रीच्छन्दोः नृसिंहो देवता क्षकारो बीजम्
औकारः शक्तिः षड्दीर्घयुक्तबीजेनाङ्गकल्पना ॥ ४३ ॥
अस्य पुरश्चरणमष्टलक्षजपः ।
तथा च-
वसुलक्षं जपेन्मन्त्रम् इत्यादिवचनात् ॥ ४४ ॥
मन्त्रान्तरम्
तथा च कल्पे-
जयद्वयं समुच्चार्य श्रीपूर्वोनृसिंहेत्यपि ।
ऽष्टाक्षरो मनुः प्रोक्तो भजतां कामदोमणिः ॥ ४५ ॥
अस्य ब्रह्मा ऋषिर्गायत्रीच्छन्दो नृसिंहो देवता
षड्दीर्घयुक्तबीजेनाङ्गकल्पना ।
ध्यानार्चनादिकं मन्त्रराजवत् ॥ ४६ ॥
अस्य पुरश्चरणमष्टलक्षजपः ।
वसुलक्षं जपेन्मन्त्रम् इत्यादिवचनात् ॥ ४७ ॥
अथ हरिहरमन्त्रः
मन्त्रदेवप्रकाशिन्याम्-
तारो माया प्रासादं शङ्करनारायणाय नमः प्रासादं
माया तारः ॥ ४८ ॥
अस्य पूजाप्रयोगः-
प्रातःकृत्यादि-वैष्णवोक्तं शैवोक्तं वा पीठन्यासं विधाय
ऋष्यादिन्यासं कुर्यात् ।
शिरसि नारद-ऋषये नमः मुखे अनुष्टुप्च्छन्दसे नमः हृदि
हरिहराय देवतायै नमः गुह्ये हौं बीजाय नमः पादयोः ह्रीं
शक्तये नमः ॥ ४९ ॥
ततः कराङ्गन्यासौ-
ह्राम् अङ्गुष्ठाभ्यां नमः इत्यादि षड्दीर्घयुक्तबीजेन ।
एवं हृदयादिषु ॥ ५० ॥
ततो ध्यानम्-
शूलं चक्रं पाञ्चजन्यमभीतिं दधतं करैः ।
स्वस्वभूषाच्छलीलार्द्धदेहं हरहरिं भजे ॥
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्यात् ॥ ५१ ॥
ततो वैष्णवोक्तां शैवोक्तां वा पीठपूजां विद्याय
पुनर्ध्यात्वा आवाहनादि पञ्चपुष्पाञ्जलिदानपर्यन्तं
विधायावरणपूजामारभेत ।
केशरेष्वग्न्यादिकोणे मध्ये दिक्षु च ह्रां हृदयाय नमः
इत्यादिना पूजयेत् ।
ततः पत्रेषु ॐ लक्ष्म्यै नमः एवं सरस्वत्यै नारायण्यै धरायै
भूधरायै अम्बिकायै त्र्यम्बकायै गङ्गायै गङ्गाधरायै ।
तद्बहिरिन्द्रादीन् पूजयेत् ।
अत्र वज्रादिपूजा नास्ति अनुक्तत्वात् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ ५२ ॥
अस्य पुरश्चरणं लक्षजपः ।
घृतपायसेनायुतहोमः ।
तथा च-
लक्षमेकं जपेन्मन्त्रं तद्दशांशं घृतप्लुतैः ।
पायसैर्हवनं कार्यं संस्कृते हव्यवाहने ॥ ५३ ॥
अथ वराहमन्त्राः-
तरो नमो भगवते वराहरूपाय भूर्भुवःस्वःपतये
भूपतित्वं मे देहि ददापय ठद्वयम् ।
अयं मन्त्रस्त्रयस्त्रिंशदक्षरः ।
तथा च निबन्धे-
तारो नमो भगवते वराहपदमीरयेत् ।
रूपाय भूर्भुवः स्व स्यात् पतये तदन्तरम् ।
भूपतित्वं मे पदान्ते देह्येन्ते च ददापय ।
वह्निजायावधिर्मन्त्रः स्यात्त्रयस्त्रिंशदक्षरः ॥ ५४ ॥
अस्य पूजा-
प्रातःकृत्यादिवैष्णवोक्तपीठमन्वन्तं विन्यस्य ऋष्यादि न्यासः
कुर्यात् ॥
शिरसि भार्गव-ऋषये नमः ।
मुखे अनुष्टुप्छन्दसे नमः हृदि आदिवराहाय देवतायै नमः ॥
५५ ॥
ततः कराङ्गन्यासौ-
एकदंष्ट्राय अङ्गुष्ठाभ्यां नमः ।
व्योमोल्काय तर्जनीभ्यां स्वाहा ।
तेजोऽधिपतये मध्यमाभ्यां वषट् ।
विश्वरूपाय अनामिकाभ्यां हुम् ।
महादंष्ट्राय कनिष्ठाभ्यां फट् ।
एवं हृदयादिषु ।
तथा च-
भार्गवो मुनिराख्यातश्छन्दोऽनुष्टुबुदाहृतम् ।
देवतादिवराहश्च मन्त्रस्य कथितो बुधैः ।
एकदंष्ट्राय हृदयं व्योमोल्काय शिरः स्मृतम् ।
शिखा तेजोऽधिपतये विश्वरूपाय वर्म च ।
महादंष्ट्राय अस्त्रं स्यात् पञ्चाङ्गामिति कल्पयेत् ॥ ५६ ॥
अस्य यन्त्रं प्रपञ्चसारे-
अष्टपत्रमथ पद्ममुल्लसत्कर्णिकं विधिवदारचय्य मण्डलम् ।
रविसहस्रसन्निभं शूकरं यजत तत्र सिद्धये ॥ ५७ ॥ (चित्र २५)
ततो ध्यानम्-
आपादं जानुदेशाद्वरकनकनिभं
नाभिदेशादधस्तानिमुक्ताभं कण्ठदेशात्तरुणरविनिभं
मस्तकान्नीलभासम् ।
ईडे हस्तैर्दधानं रथचर्णदरौ खड्गखेटौ गदाख्यं
शक्तिं दानाभये च क्षितिधरणलसद्दंष्ट्रमाद्यं वराहम् ॥
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनादि-वैष्णवोक्त
पीठपूजादि कर्म कृत्वा
पुनर्ध्यात्वावाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं
विधायावरणपूजामारभेत ।
केशरेषु अग्न्यादिकोणेषु दिक्षु (पूर्वाचतुर्दिक्षु) च एकदंष्ट्राय
हृदयाय नमः ।
व्योमोल्काय शिरसे स्वाहा ।
तेजोऽधिपतये शिखायै वषट् ।
विश्वरूपाय कवचाय हुम् ।
चतुर्दिक्षु (अग्निनिर्-ऋतिवायव्यीशानकोणेषु) महादंष्ट्राय अस्त्राय
फट् ।
तद्बहिः पत्रेषु ॐ चक्राय नमः एवं शङ्खाय खड्गाय
खेटकाय गदायै शक्तये वराय अभयाय ।
तद्भिरिन्द्रादीन् वज्रादींश्च पूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ ५८ ॥
अस्य पुरश्चरणं लक्षजपः ।
तथा च-
लक्षमेकं जपेन्मन्त्रं मधुराक्तैः सरोरुहैः ।
जुहुयात्तद्दशांशेन पीठे विष्णुं प्रपूजयेत् ॥ ५९ ॥ विष्णुमन्त्रं
रात्रौ न जपेत् ।
तथा च-
न जपेद्वैष्णवं रात्रौ शैवे शाक्ते न दुष्यति ।
इति वैशम्पायनसंहितावचनात् ।
इति विष्णुमन्त्रपरिच्छेदः ॥ ६० ॥
अथ शिवमन्त्राः
उद्दिश्य यं कृतवती गिरिजा तपस्यां यत्पादपङ्कजरजो विबुधा
नमन्ति ।
आशाद्वरं भुजगराजविभूषिताङ्गं, तं चन्द्रमौलिममल
मनसा स्मरामि ॥ १ ॥
अथ वक्ष्ये महेशस्य मन्त्रान् सर्वसमृद्धिदान् ।
यः पूर्वमृषयः प्राप्ताः शिवसायुज्यमञ्जसा ॥ २ ॥
सान्तमौकारसंयुक्तं विन्दुभूषितमस्तकम् ।
प्रासादाख्यो मनुः प्रोक्तो भजतां कामदो मणिः ॥ ३ ॥
अस्य पूजा-
प्रातःकृत्यादिप्राणायामान्तं विधाय श्रीकण्ठादिन्यासं
मातृकास्थानेषु कुर्यात् ।
तद्यथा-
अं श्रीकण्ठपूर्णोदरीभ्यां नमः ।
नमः सर्वत्र ।
आम् अनन्तविरजाभ्यां, इं सूक्ष्मशाल्मलीभ्यां, ईं
त्रिमूर्तिलोलाक्षीभ्यां, उम् अमरेश्वरवर्त्तुलाक्षीभ्याम् ऊम्
अर्घीशदीर्घघोणाभ्यां, ऋं भारभूतिसुदीर्घमुखीभ्यां,
ॠम् अतिथीशगोमुखीभ्यां, ऌं स्थाणुकदीर्घजिह्वभ्यां, ऌं
हरकुण्डोदरोभ्यां, ए झिण्टीशोर्ध्वमुखीभ्यां, ऐं
भौतिकेशविकृतमुखीभ्यां, ॐ सद्योजातज्वालामुखीभ्यां,
औम् अनुग्रहेश्वरोल्कामुखीभ्यां, अम् अक्रूरसुश्रीमुखीभ्यां,
अः महासेनविद्यामुखीभ्यां, कं
क्रोधीशसर्वसिद्धिमहाकालीभ्यां, खं
चण्डेशसर्वसिद्धिसरस्वतीभ्यां, गं पञ्चान्तकगौरीभ्यां,
घं शिवोत्तमत्रैलोक्यविद्याभ्यां, ङम्
एकरुद्रमन्त्रशक्तिभ्यां, चं कूर्मात्मशक्तिभ्यां, छम्
एकनेत्रभूतमातृकाभ्यां, जं चतुराननलम्बोरीभ्यां, झम्
अब्जेशद्राविणीभ्यां, ञं सर्वनागरीभ्यां, टं
सोमेशखेचरीभ्यां, ठं लाङ्गलिमञ्जरीभ्यां, डं
दारुकरूपिणीभ्यां, ढम् अर्द्धनारीश्वरवीरिणीभ्यां, णम्
उमाकान्त काकोदरीभ्यां, तम् आषाढिपूतनाभ्यां, थं
दण्डिभद्रकालीभ्यां, दम् अद्रियोगिनीभ्यां, धं
मीनशङ्खिनीभ्यां, नं मेषगर्जिनीभ्यां, पं
लोहितकालरात्रिभ्यां, फं शिखिकुब्जिकाभ्यां, बं
छगलण्डकपर्दिनीभ्यां, भं द्विरण्डेशवज्राभ्यां, मं
महाकालजयाभ्यां, यं त्वगात्मबालिसुमुखेश्वरीभ्यां, रम्
असृगात्मभुजङ्गेशरेवतीभ्यां, लं
मांसात्मपिनाकीशमाधवीभ्यां, वं मेद-
आत्मखड्गीशवारुणीभ्यां, शम्
अस्थ्यात्मबकेशवायवीभ्यां, यं
मज्जात्मश्वेतरक्षोविदारिणीभ्यां, सं
शुक्रात्मभृग्वीशसहजाभ्यां, हं
प्राणात्मनकुलीशलक्षीभ्यां, लं बीजात्मशिवव्यापिनीभ्यां,
क्षं क्रोधात्मसंवर्त्तकमायाभ्याम् ।
सर्वत्रनमोऽन्तेन न्यासः ।
साहित्ये द्विवचनबहुवचने द्वन्द्वसमासो वेति न्यायादविरोधेन
एवं वाक्यम् ।
तथा च निबन्धे-
श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः ।
अर्घीशो भारतभूतिश्चातिथीशः स्थाणुको हरः ।
झिण्टीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः ।
अक्रूरश्च महासेनः षोडशस्वरमूर्तयः ।
ततः क्रोधीशचण्डेशपञ्चान्तकशिवोत्तमाः ।
तथैकरुद्रकूर्मैकनेत्राः सचतुराननाः ।
अब्जेशः शर्वः सोमेशस्तथा लाङ्गलिदारुकौ ।
अर्द्धनारीश्वरश्चोमाकान्तश्चाषाढिदण्डिनौ ।
स्युरद्रिमीनमेषाश्च लोहितश्च शिखी तथा ।
छगलण्डद्विरण्डेशौ समहाकलवालिनौ ।
भुजङ्गेशः पिनाकीशः खड्गीश्च बकस्तथा ।
श्वेतभृग्वीशनकुलिः शिवःसवर्तस्तथा ।
एते रुद्राः समाख्याता धृतशूलकपालकः ॥ ४ ॥
पूर्णोदरी स्याद्विरजा शाल्मली तदन्तरम् ।
लोलाक्षी वर्त्तुलाक्षी च दीर्घघोणा समीरिता ।
सुदीर्घमुखी, गोमुख्यौ दीर्घजिह्वा तथैव च ।
कुण्डोदर्यूर्ध्वमुखौ च तथा विकृतमुख्यपि ।
ज्वालामुखी ततो ज्ञेया पश्चादुल्कामुखी स्मृता ।
सुश्रीमुखी च विद्यामुख्येताः स्युः स्वरशक्तयः ।
महाकलीसरस्वत्यै सर्वसिद्धिसमन्विते ।
गौरी त्रैलोक्यविद्या स्यान्मन्त्रशक्तिस्ततः परम् ।
आत्मशक्तिर्भूतमाता तथा लम्बोदरी मता द्राविणी नागरी
भूयः खेचरी चापिमञ्जरी ।
रूपिणी वीरिणी पश्चात् ककोदर्यपि पूतना ।
स्याद्भद्रकालीयोगिन्यौ शङ्खिनी गर्जिनी तथा कालरात्रिश्च
कुब्जिन्या कपर्दिन्यपि वज्रया ।
जया च सुमुखेश्वर्या रेवती माधवी ततः ।
वारुणी वायवी प्रोक्ता पश्चाद्रक्षोविदारिणी ।
ततश्च सहजा लक्ष्मीर्व्यापिनी माययान्विता ।
एता रुद्राङ्कपीठस्थाः सिन्दूरारुणविग्रहाः ।
रक्तोत्पलकपालाभ्यामलङ्कृतकराम्बुजाः ॥ ५ ॥
ततः सामान्यपूजापद्धत्युक्तपीठन्यासं कृत्वा
पीठशक्तिर्न्यसेत् ।
यथा-
ॐ वामायै नमः एवं ज्येष्ठायै रौद्र्यं काल्यै कलविकरिण्यै
वलविकरिण्यै बलप्रथमन्यै सर्वभूतदमन्यै ।
एता हृत्पद्मस्य पूर्वादिकेशरेषु विन्यस्य मध्ये ॐ मनोन्मन्यै
नमः, तदुपरि ॐ नमो भगवते सकलगुणात्म
शक्तियुक्तायानन्ताय योगपीठात्मने नमः ।
तथा च शारदायाम्-
वामा ज्येष्ठा तथा रौद्री काली कलपदादिका विकरिण्याह्वया
प्रोक्ता बलादिविकरिण्यथ ।
बलप्रमथनी पश्चात् सर्वभूतदमन्यपि ।
मनोन्मनीति सम्प्रोक्ता शिवस्य पीठशक्तयः ।
नमो भगवते पश्चात्सकलादि वदेत्ततः ।
गुणादिशक्तियुक्ताय ततोऽनन्ताय तत्परम् ।
योगपीठात्मने भूयो नमोन्तरादिको मनुः ।
अमुना मनुना पश्चादासनं गिरिजापतेः ।
मूर्तिं मूलेन सङ्कल्प्य तत्रावाह्य यजेच्छिवम् ।
तत ऋष्यादिन्यासः-
शिरसि वामदेवाय ऋषये नमः, मुखे पङ्क्तिच्छन्दसे नमः, हृदि
सदाशिवाय देवतायै नमः ।
शारदायाम्-
वामदेवो मुनिश्छन्दः पङ्क्तिर्देवः सदाशिवः ॥ ६ ॥
ततः कराङ्गन्यासौ-
हाम् अङ्गुष्ठाभ्यां नमः इत्यादि एवं हां हृदयाय नमः
इत्यादि ।
षड्दीर्घयुक्तहकारेण न्यसेत् ।
तदुक्तम्-
षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः ।
तत ईशानाद्याः पञ्चमूर्तीन्यसेत् करयोरङ्गुष्ठाद्यङ्गुलीषु ॥
यथा-
अङ्गुष्ठयोः होम् ईशानाय नमः तर्जन्योः हें तत्पुरुषाय
नमः मध्यमयोः हुम् अघोराय नमः अनामिकयोः हिं
वामदेवाय नमः कनिष्ठयोः हं सद्योजाताय नमः ।
तथा च-
ईशानादीर्न्यसेन्मूर्त्तीरङ्गुष्ठादिषु देशिकः ।
ईशानाख्यं तत्पुरुषमघोरं तदन्तरम् ।
वामदेवाह्व्यं पश्चात् सद्योजातं क्रमाद्बहिः ।
ओकाराद्यैः पञ्चह्रस्वैर्विलोमात् संयुतं वियत् ।
तत्तदङ्गुलीभिर्भूयस्तत्तद्वीजादिकान्न्यसेत् ।
ततस्तत्तदङ्गुलीभिः होम् ईशानाय नमः इत्यादि
शिरोवदनहृद्गुह्यपादेषु पञ्चमूर्तीर्न्यसेत् ।
ततः ऊर्ध्वप्राग्दक्षिणपश्चिमोत्तरेषु मुखेषु
तत्तदङ्गुलीभिस्तत्तद्वीजैस्तत्तन्मूर्तीन्यसेत् ।
शूद्रस्त्वेत्पर्यन्तं न्यासं कृत्वा ध्यायेत् अन्यत्रानधिकारात् ।
तत ऊर्ध्वप्राग्दक्षिणपश्चिमोत्तरेषु मुखेषु ईशानस्य
पञ्चकलाः ब्रह्म-ऋचः पदादिकाः प्राणवादिनमोऽन्ता न्यसेत् ।
तद्यथा-
ॐ ईशानः सर्वविद्यानाम् ॐ शशिन्यै कलायै नमः ।
ईश्वरः सर्वभूतानाम् ॐ अङ्गदायै कलायै नमः ।
ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिः ॐ ब्रह्मेष्टदायै कलायै नमः ।
शिवो मेऽस्तु ॐ मरीच्यै कलायै नमः ।
सदाशिवोम् ॐ अंशुमालिन्यै कलायै नमः ।
चतः पूर्वपश्चिमदक्षिणोत्तर वक्त्रेषु तत्पुरुषस्य चतस्रः कला
विन्यसेत् ।
यथा-
ॐ तत्पुरुषाय विद्महे ॐ शान्त्यै कलायै नमः ।
महादेवाय धीमहि ॐ विद्यायै कलायै नमः ।
तन्नो रुद्रः ॐ प्रतिष्ठायै कलायै नमः ।
प्रचोदयात् ॐ निवृत्त्यै कलायै नमः ।
ततो हृदये ग्रीवयाम् अंसद्वये नाभौ कुक्षौ पृष्ठे वक्षसि
अघोरस्याष्टौ कला न्यसेत् ।
यथा-
ॐ अघोरेभ्यः ॐ उमायै कलायै नमः ।
अथ घोरेभ्यः मोहायै कलायै नमः ।
घोर ॐ क्षमायै कलायै नमः ।
घोरतरेभ्यः ॐ निद्रायै कलायै नमः ।
सर्वतः सर्व ॐ व्याधये कलायै नमः ।
सर्वेभ्यः ॐ मृत्यवे कलायै नमः ।
नमस्तेऽस्तु ॐ क्षुधायै कलायै नमः ।
रुद्ररूपेभ्यः ॐ तृष्णायै कलायै नमः ।
ततो गुह्ये अण्डकोषे ऊरुद्वये जानुद्वये जङ्घाद्वये स्फिक्द्वये
कट्यां पार्श्वद्वये वामदेवस्य त्रयोदशकला न्यसेत् ॥ ७ ॥
यथा-
ॐ वामदेवाय नमः ॐ ऊर्जायै कलायै नमः ।
ज्येष्ठाय नमः ॐ रक्षायै कलायै नमः ॥
रुद्राय नमः ॐ रत्यै कलायै नमः ।
कलाय नमः ॐ कपालिन्यै कलायै नमः ।
कल ॐ कामायै कलायै नमः ।
विकरणाय नमः ॐ संयमिन्यै कलायै नमः ।
बल ॐ क्रोधायै (क्रियायै) कलायै नमः ।
विकरणाय नमः ॐ वृद्ध्यै कलायै नमः ।
बल ॐ स्थिरायै कलायै नमः ।
प्रमथनाय ॐ रात्र्यै कलायै नमः ।
सर्वभूतदमनाय नमः ॐ भ्रामण्यै कलायै नमः ।
मन ॐ मोहिन्यै कलायै नमः ।
उन्मनाय नमः ॐ जरायै कलायै नमः ।
मन ॐ मोहिन्यै कलायै नमः ।
उन्मनाय नमः ॐ जरायै कलायै नमः ।
ततः पार्श्वयोः स्तनयोर्नासिकायां मूर्ध्नि बाहुयुग्मे
सद्योजातस्याष्टौ कला न्यसेत् ।
ॐ सद्योजातं प्रपद्यामि ॐ सिद्ध्यै कलायै नमः ।
सद्योजाताय वै नमः ॐ वृद्ध्यै कलायै नमः ।
भवै ॐ मत्यै कलायै नमः ।
अभवे ॐ लक्ष्मै कलायै नमः ।
अनादिभवे ॐ मेधायै कलायै नमः ।
भजस्व मां ॐ प्रज्ञायै कलायै नमः ।
भव ॐ प्रभायै कलायै नमः ।
उद्भवाय नमः ।
ॐ सुधायै कलायै नमः ॥ ८ ॥
ततः पञ्चाङ्गुलीषु ईशानाद्याः पञ्च ऋचो न्यसेत् ।
ॐ इशानः सर्वविद्यानामीश्वरः सर्वभूतानां
ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मेऽस्तु सदाशिवोम् ।
ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि ।
तन्नो रुद्रः प्रचोदयात् ।
ॐ अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः सर्वतः सर्वसर्वेभ्यो
नमस्तेऽस्तु रुद्ररूपेभ्यः ।
ॐ वामदेवाय नमो ज्येष्ठाय नमो रुद्राय नमः कलाय नमः
बलविकरणाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय
नमः मनोन्मनाय नमः ।
ॐ सद्योजातं प्रपद्यामि सद्योजाताय वै नमः ।
भवेऽभवेऽनादिभवे भजस्व मां भवोद्भवाय नमः ।
एवं मूर्ध्नास्यहृदयगुह्यपादेषु एता ऋचो न्यसेत् ।
ततोऽङ्गन्यासान्तरं कुर्यात् ।
तद्यथा-
ऐं क्लीं ब्लूं स्त्रीं सः सर्वज्ञाय हृदयाय नमः ।
अमृते तेजोज्वालामालिने तृप्तये शिखिब्रह्मणे शिरसे स्वाहा ।
ज्वलितशिखिशिखाय अनादिबोधाय शिखायै वषट् ।
वज्रिणे वज्रहस्ताय स्वतन्त्राय कवचाय हुम् ।
शौं चौं हौं परतोऽलुप्तशक्तये नेत्रत्रयाय वौषट् ।
श्लीं पशु हुं फट् अनन्तशक्तये अस्त्राय फट् ।
तथा च यामले-
सर्वज्ञतातृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः ।
अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य एवं
विन्यस्य ध्यायेत् ॥ ९ ॥
यथा-
मुक्तापीतपयोदमौक्तिकजवावर्णैर्मुखैः
पञ्चभिस्त्र्यक्षैरञ्चितमीशमिन्दुमुकुटं पूर्णेन्दुकोटिप्रभम् ।
शूलं टङ्ककृपाणवज्रदहनान्नागेन्द्रघण्टाङ्कुशान्
पाशं भीतिहरं दधानममिताकल्पोज्ज्वलाङ्गं भजे ।
एवं ध्यात्वा मानसैः सम्पूज्यार्घ्यस्थापनं कुर्यात् ।
अत्र शङ्खनिषेधः ।
सर्वत्रैव प्रशस्तोऽब्जः शिवसूर्यार्चनं विना इति ॥ १० ॥
ततः शैवोक्तपीठपूजां विधाय पुनर्ध्यात्वा मूलेन मूर्तिं
सङ्कल्प्य आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं
विधायावरणपूजामारभेत् ।
यथा-
ऐशान्यां ॐ ईशानाय नमः पूर्वे ॐ तत्पुरुषाय नमः दक्षिणे
ॐ अघोराय नमः उत्तरे ॐ वामदेवाय नमः पश्चिमे ॐ
सद्योजाताय नमः ।
ईशानादिकोणेषु ॐ निवृत्त्यै नमः एवं प्रतिष्ठायै विद्यायै
शान्त्यै ।
ततोऽष्टपत्रेषु पूर्वादिक्रमेण ॐ अनन्ताय नमः एवं सूक्ष्माय
शिवोत्तमाय एकनेत्राय एकरुद्राय त्रिमूर्तये श्रीकण्ठाय
शिखण्डिने तद्बाह्ये उत्तरादिक्रमेण ॐ उमायै नमः एवं
चण्डेश्वराय नन्दिने महाबलाय गणेशाय वृषाय
भृङ्गरीटाय स्कन्दाय ।
तद्बाह्ये पूर्वादिक्रमेण इन्द्रादीन् वज्रादींश्च पूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ ११ ॥
अस्य पुरश्चरणं लक्षजपः ।
तथा च-
एवं ध्यात्वा जपेन्मन्त्रं पञ्चलक्षं मधुप्लुतैः ।
प्रसूनैः करवीरोत्थैर्जुहुयात्तद्दशांशतः ॥ १२ ॥
मन्त्रान्तरम्
भुवनेशो प्रणवं नमः शिवाय भुवनेशी पुनरष्टाक्षरो
मनुः ॥ १३ ॥
तथा च निबन्धे-
षडक्षरः शक्तिरुद्धः कथितोऽष्टाक्षरो मनुः ।
अस्य पूजा-
प्रातःकृत्यादि-शौवोक्तपीठमन्वन्तं पीठन्यासं विधाय
ऋष्यादिन्यासं कुर्यात् ।
शिरसि वामदेवाय ऋषये नमः, मुखे पङ्क्तिच्छन्दसे नमः, हृदि
उमापतये देवतायै नमः ॥ १४ ॥
ततः कराङ्गन्यासौ-
ॐ अङ्गुष्ठाभ्यां नमः ।
नं तर्जनीभ्यां स्वाहा ।
मं मध्यमाभ्यां वषट् ।
शिम् अनामिकाभ्यां हुम् ।
वां कनिष्ठाभ्यां वौषट् ।
यं करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु ॥ १५ ॥
ततो ध्यानम्-
वन्धूकाभं त्रिनेत्रं शशिशकलधरं स्मेरवक्त्रं वहन्तं,
हस्तैः शूलं कपालं वरदमभयदं चारुहासं नमामि ।
वामोरुस्तम्भगायाः करतलविलसच्चारुरक्तोत्पलाय,
हन्तेनाश्लिष्टदेहं मणिमय- विलसद्भूषणायाः प्रियायाः ॥
एवं ध्यात्वा मानसैः सम्पूज्यार्घ्यस्थापनं कृत्वा
शैवोक्तपीठपूजां विधाय पुनर्ध्यात्वा
आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं
विधायावरणपूजामारभेत् ।
यथा-
केशरेष्वग्निनिर्-ऋतिवायव्यीशानकोणेषु मध्ये दिक्षु च ॐ हृदयाय
नमः, नं शिरसे स्वाहा, मं शिखायै वषट्, शिं कवचाय हुं,
वां नेत्रत्रयाय वौषट्, यम् अस्त्राय फट् ।
ततो पूर्वादिदिक्षु च ॐ हृल्लेखायै नमः, एवं गगनायै रक्तायै
करालिकायै महोच्छुष्मायै ।
ततः पत्रेषु पूर्वादि वृषभादीन्पूजयेत् ।
ॐ वृषभाय नमः एवं क्षेत्रपालाय चण्डेश्वराय दुर्गायै
कार्तिकेयाय नन्दिने विघ्ननाशकाय सेनापतये ।
ततः पूर्ववत्पत्रेषु उमादीन्पूजयेत् ।
तद्बाह्ये ब्रह्म्याद्या मातरः पूज्याः ।
ब्राह्मी माहेश्वरी कौमारी वैष्णवी वाराही इन्द्राणी चामुण्डा
महालक्ष्मीः ।
तद्बहिरिन्द्रादीन्वज्रादींश्च पूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ १६ ॥
अस्य पुरश्चरणं चतुर्दशलक्षजपः ।
तथा च-
मनुलक्षं जपेन्मन्त्रं तद्दशांशं यथाविधि ।
जुहुयान्मधुरासिक्तैरारग्वधसमिद्वरैः ।
आरग्वधः शोणालुः ॥ १७ ॥
मन्त्रान्तरम्
तारो माया प्रासादं नमः शिवायाष्टाक्षरोः मनुः ।
तथा च निबन्धे-
तारो माया वियद्विन्दुमनुस्वारसमन्वितम् ।
पञ्चाक्षरसमायुक्तो वसुवर्णो मनुर्मतः ॥ १८ ॥
अस्य पूजा-
प्रातःकृत्यादिशैवोक्तपिठन्यासान्तं विधाय पूर्वोक्त
ऋष्यादिन्यास-कराङ्गन्यासान्कुर्यात् ॥ १९ ॥
ततो ध्यानम्-
वन्दे सिन्दूरवर्णं मणिमुकुटलसच्चारुचन्द्रावतंसं,
भालोद्यन्नेत्रमीशं स्मितमुखकमलं दिव्यभूषाङ्गरागम् ।
वामोरुन्यस्तपाणेररुणकुवलयं सन्दधत्याः प्रियाया,
वृत्तोत्तुङ्गस्तनाग्रेनिहितकरतलं वेदटङ्केष्टहस्तम् ॥ २० ॥
एवं ध्यात्वा मानसैः सम्पूज्य,
अर्घ्यस्थापनादिपीठपूजान्तं विधाय,
आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं विधायावरणपूजां
कुर्यात् ।
पूर्ववदङ्गादि सम्पूज्य पत्रेष्वनन्तादीन्पत्राग्रेषु
उमादीन्पूजयेत् ।
तद्बहिरिन्द्रादीन्वज्रादींश्च पूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ।
अस्य पुरश्चरणमष्टलक्षजपः ॥
तथा च-
अष्टलक्षं जपेदेनं मनुं मन्त्रविदां वरः ।
तत्सहस्रं प्रजुहयात्पायसान्नेर्घृतप्लुतैः ॥ २१ ॥
मृत्युञ्जयमन्त्र -
तारं स्थिरा सकर्णेन्दुर्भृगुः सर्गसमन्वितः ।
त्र्यक्षरात्मा निगदितो मन्त्रो मृत्युञ्जयात्मकः ।
स्थिरा जकारः कर्ण ऊकारः भृगुः सकारः ॥ २२ ॥
अस्य पूजा-
प्रातःकृत्यादि-शैवोक्तं पीठन्यासान्तं विधाय ऋष्यादि
न्यासं कुर्यात् ।
शिरसि कहोल-ऋषये नमः ।
मुखे देवीगायत्रीच्छन्दसे नमः ।
हृदि मृत्युञ्जयाय महादेवाय देवतायै नमः ।
तथा च-
ऋषिः कहोलो-देव्यादि-गायत्रीच्छन्द ईरितम् ।
मृत्युञ्जयो महादेवो देवतास्य प्रकीर्तिता ॥ २३ ॥
ततः कराङ्गन्यासौ-
साम् अङ्गुष्ठाभ्यां नमः ।
सीं तर्जनीभ्यां स्वाहा सूं मध्यमाभ्यां वषट् ।
सैम् अनामिकाभ्यां हुम् ।
सौं कनिष्ठाभ्यां वौषट् ।
सः करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु षड्दीर्घभाजा सकारेण कुर्यात् ।
तथा च निबन्धे-
भृगुणा दीर्घयुक्तेन कुर्यादङ्गक्रियां मनोः ॥ २४ ॥
ततो ध्यानम्-
चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तःस्थितं,
मुद्रापाशमृगाक्षसूत्रविलसत्पाणिं हिमांशुप्रभम् ।
कोटीरेन्दुगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलं कान्त्या
विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावयेत् ॥
एवं ध्यात्वा मानसैः सम्पूज्य अर्घ्यस्थापनादि-पीठपूजां
विधाय पुनर्ध्यात्वा अर्घ्यस्थापनादि-पीठपूजां विधाय
पुनर्ध्यात्वा आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं
विधायावरणपूजां कुर्यात् ।
तद्यथा-
केशरेषु अग्न्यादिकोणेषु मध्ये दिक्षु च सां हृदयाय नमः
इत्यादिना षडङ्गानि सम्पूज्य, तद्बहिरिन्द्रादीन्वज्रादींश्च
पूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ २५ ॥
अस्य पुरश्चरणं लक्षत्रयजपः ॥
तथा च-
गुणलक्षं जपेन्मन्त्रं तद्दशांशं विशालधीः ।
जुहुयादमृताखण्डैः शुद्धदुग्धाज्यलोडितैः ॥ २५क ॥
अथापरमृत्युञ्जयमन्त्रः
मृत्युञ्जय समुद्धृत्य पालयद्वितयं वदेत् ।
मृत्युञ्जयं समुच्चार्य पुनरेवं विलोमतः ।
द्वादशार्णोऽयं मन्त्रं स्यान्मृत्युञ्जयाभिधोऽपरः ।
ध्यानपूजादिकं सर्वं पूर्ववच्च समाचरेत् ॥ २६ ॥
मन्त्रान्तरम् -
प्रणवो हृदयं पश्चात्ततो भगवते पदम् ।
ङेऽन्ताञ्च दक्षिणामूर्तिं मह्यं मेधामुदीरयेत् ।
प्रयच्छ ठद्वयान्तोऽयं द्वाविंशत्यक्षरो मनुः ॥ २७ ॥
अस्य पूजा-
प्रातःकृत्यादिशैवोक्तपीठमन्वन्तं विन्यस्य ऋष्यादिन्यासं
कुर्यात् ।
शिरसि चतुर्मुखाय ऋषये नमः ।
मुखे देवीगायत्रीच्छन्दसे नमः ।
हृदि दक्षिणामूर्त्तये देवतायै नमः ॥ २८ ॥
ततः कराङ्गन्यासौ-
ॐ आं ॐ अङ्गुष्ठाभ्यां नमः ।
ॐ ईं ॐ तर्जनीभ्यां स्वाहा ।
ॐ ऊं ॐ मध्यमाभ्यां वषट् ।
ॐ ऐं ॐ अनामिकाभ्यां हुम् ।
ॐ औं ॐ कनिष्ठाभ्यां वौषट् ।
ॐ अः ॐ करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु ।
तथा च निबन्धे-
ताररुद्धैः स्वरैर्दीर्घैः षडभिरङ्गानि कल्पयेत् ।
अथवा मन्त्रसम्भूतैः पदैर्वा कल्पयेत् क्रमात् ।
तथा च मानसोल्लासे-
त्रिभिश्चतुर्भिः षडभिश्च चतुर्भिस्त्रिभि रक्षिभिः ।
मन्त्रवर्णैर्विभक्तर्वा कुर्यादङ्गक्रियां मनोरति ॥ २९ ॥
ततो ध्यानम्-
वट वृक्षं महोच्छ्रांयै पद्मरागफलोज्ज्वलम् ।
गारुत्मतमयैः पत्रैर्विचित्रंरुपशोभितम् ।
नवरत्नमहाकल्पैर्लम्बमानरलङ्कृतम् ।
विचिन्त्य वटमूलस्थं चिन्तयेल्लोकनायकम् ।
स्फटिकरजतवर्णं
मौक्तिकिमक्षमालाममृतकलसविद्याज्ञानमुद्राः कराब्जैः
दधतमुरगकक्षं चन्द्रचूडं त्रिनेत्रं, विधृतविविधभूषं
दक्षिणामूर्तिमोडे ॥ ३० ॥
एवं ध्यात्वा मानसैः सम्पूज्य
अर्घ्यस्थापनादिशैवोक्तपीठपूजान्तं विधाय पुनर्ध्यात्वा,
आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं विधाय,
आवारणपूजां कुर्यात् ।
केशरेषु अग्न्यादिकोणेषु मध्ये दिक्षु च ॐ आं ॐ हृदयाय नमः
इत्यादिना षडङ्गानि पूजयेत् ।
पत्रेषु पूर्वादि ॐ सरस्वत्यै नमः, एवं ब्रह्मणे सनकाय
सनन्दाय सनातनाय सनत्कुमाराय शुकाय व्यासाय ।
तद्वहिः पूर्वादि सिद्धाय गन्धर्वाय योगीन्द्राय विद्याधराय
तद्बहिरिन्द्रादीन् वज्रादींश्च पूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ।
अस्य पुरश्चरणं लक्षजपः ।
तथा च-
लक्षमेकं जपेन्मन्त्रं ब्रह्मचारी व्रते स्थितः ।
जुहुयात् सघृतैः पद्मैर्दशांशं संस्कृतेऽनले ॥ ३१ ॥
मन्त्रान्तरम्
अग्निसंवर्तकादित्यरानिलौषष्ठविन्दुमत् ।
चिन्तामणिरिति ख्यातं बीजं सर्वसमृद्धिदम् ॥
अस्यार्थः-
अग्नी रेफः, संवर्तकः क्षकारः, आदित्यो मकारः, रः रेफः,
अनिलो यकारः, औ स्वरूपं, षष्ठ ऊकारः ॥ ३२ ॥
अस्य पूजा-
प्रातः कृत्यादि-शैवोक्तं पीठमन्वन्तं विन्यस्य ऋष्यादिन्यासं
कुर्यात् ।
शिरसि कश्यप-ऋषये नमः ।
मुखे अनुष्टुप्छन्दसे नमः ।
हृदि अर्द्धनारीश्वराय देवतायै नमः ॥ ३३ ॥
ततः कराङ्गन्यासौ-
रम् अङ्गुष्ठाभ्यां नमः ।
कं तर्जनीभ्यां स्वाहा ।
यं मध्यमाभ्यां वषट् ।
मम् अनामिकाभ्यां हुम् ।
रं कनिष्ठाभ्यां वौषट् ।
यं करतलऋष्ठाभ्यां फट् ।
एवं हृदयादिषु ।
तथा च निबन्धे-
रेफादि-व्यञ्जनैः षड्भिः कुर्यादङ्गानि फट् क्रमात् ॥ ३४ ॥
ततो ध्यानम्-
नीलप्रवालरुचिरं विलसत्त्रिनेत्रं,
पाशारुणोत्पलकपालकशूलहस्तम् ।
अर्द्धाम्बिकेशमणिशं प्रविभक्तभूषं,
बालेन्दुवद्धमुकुटं प्रणमामि रूपम् ॥
एवं ध्यात्वा मानसैः सम्पूज्य अर्घ्यस्थापनं कुर्यात् ।
ततः शैवोक्तपीठपूजां विधाय, पुनर्ध्यात्वा,
आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं विधाय,
आवरणपूजामारभेत ।
तद्यथा-
केशरेषु अग्न्याकोणेषु मध्ये दिक्षु च रं हृदयाय नमः
इत्यादिना पूजयेत् ।
ततः पत्रेषु पूर्ववद्वृषभादीन्, पत्राग्रेषु ब्राह्मीं
माहेश्वरीं कौमारीं वैष्णवीं वाराहीम् इन्द्रणीं
चामुण्डां महालक्ष्मीञ्च पूजयेत् ।
तद्वहिरिन्द्रादीन् वज्रादींश्च सम्पूज्य धूपादि-विसर्जनान्तं
कर्म समापयेत् ॥ ३५ ॥
अस्य पुरश्चरणं लक्षजपः ।
तथा च-
लक्षमेकं जपेन्मन्त्रमित्थं मन्त्री विचिन्तयन् ।
अयुतं मधुरासिक्तैर्जुहुयात्तिलतण्डुलैः ॥ ३६ ॥
मन्त्रान्तरम्
पार्श्वो वह्निसमारूढस्तारवानाद्यबीजकम् ।
धान्तो वह्निसमारूढस्तूर्यस्वरसमन्वितः ।
विन्दुमांस्तु द्वितीयः स्यात् टान्तः सर्गी तृतीयकः ।
शारदायाम्-
लोहितोऽग्न्यासनः सत्यामिन्दुमान् प्रथमं पुनः ।
द्वितीया वह्निबीजस्था दीर्घा शान्तीन्दुभूषिता ।
तृतीयो लाङ्गली सर्गी मन्त्रो बीजत्रयान्वितः ।
नीलकण्ठात्मको मन्त्रो विषद्वयहरः परः ॥ ३७ ॥
अस्य पूजा-
प्रातःकृत्यादिशैवोक्तपीठन्यासान्तं विधाय ऋष्यादिन्यासं
कुर्यात् ।
शिरसि अरुण-ऋषये नमः ।
मुखे अनुष्टुप्छन्दसे नमः ।
हृदि नीलकण्ठाय देवतायै नमः ॥ ३८ ॥
ततः कराङ्गन्यासौ-
यथा-
हर हर स्वाहा अङ्गुष्ठाभ्यां नमः ।
कपर्द्दिने स्वाहा तर्जनीभ्यां स्वाहा ।
नीलकण्ठाय स्वाहा मध्यमाभ्यां वषट् ।
कालकूटविषभक्षणाय हुं फट् अनामिकाभ्यां हुम् ।
नीलकण्ठिने स्वाहा कनिष्ठाभ्यां फट् ।
एवं हृदादिषु ।
तथा च निबन्धे-
हरद्वयं वह्निजाया हृदयं परिकीर्तितम् ।
कपर्द्दिने ठद्वयञ्च शिरोमन्त्रः उदाहृतः ।
नीलकण्ठाय ठद्वन्द्वं शिखामन्त्रः समीरितः ।
कालकूटपदस्यान्ते ङेयुतं विषभक्षणम् ।
हुं फट् कवचमाख्यातं विद्वद्भिर्नीलकण्ठिने ।
स्वाहान्तमन्त्रमेतानि पञ्चाङ्गानि मनोर्विदुः ॥
ततो मन्त्रन्यासः-
मस्तके प्रों नमः, कण्ठे न्रीं नमः, हृदि ठं नमः ।
तथा च-
मूर्ध्नि कण्ठे हृदम्भोजे क्रमाद्बीजत्रयं न्यसेत् ।
ततः समाहितो भूत्वा नीलकण्ठं विचिन्तयेदिति ॥ ३९ ॥
ततो ध्यानम्-
बालार्कायुततेजसं धृतजटाजूटेन्दुखण्डोज्ज्वलं, नागेन्द्रैः
कृतशेखरं जपवटी शूलं कपालं करैः ।
खट्वाङ्गं दधतं त्रिनेत्रविलसत्पञ्चाननं सुन्दरं,
व्याघ्रत्वक्परिधानमब्जनिलयं श्रीनीलकण्ठं भजे ॥
एवं ध्यात्वा मानसैः सम्पूज्य, अर्घ्यस्थापनं कृत्वा,
शैवोक्तपीठपूजां विद्याय, पुनर्ध्यात्वा, आवाहनादि-
पञ्चपुष्पाञ्जलिदानपर्यन्तं विधाय, आवरणपूजामारभेत ।
केशरेष्वग्न्यादिकोणे मध्ये दिक्षु च हर हर स्वाहा हृदयाय
नमः इत्यादिना पूजयेत् ।
ततः इन्द्रादीन् वज्रादींश्च पूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ ४० ॥
अस्य पुरश्चरणं त्रिलक्षजपः ।
तथा च-
लक्षत्रयं जपेन्मन्त्रं दद्दशांशं ससर्पिषा ।
हविषा जुहुयात्सम्यक्संस्कृते हव्यवाहने ॥ ४१ ॥
मन्त्रान्तरम्
प्रणवो हृन्नीलकण्ठायाष्टाक्षरोऽपरः ॥ १ ॥
कल्पे-
तारो हृन्नीलकण्ठाय मन्त्रश्चाष्टाक्षरः परः ॥ २ ॥
अस्य पूजादिकं सर्वं पूर्ववत्, विशेषस्तु ब्रह्मा
ऋषिर्गायत्रीच्छन्दः नीलकण्ठो देवता ॥ ३ ॥
अथापरमन्त्रः
हृदयं वपरं साक्षि लान्तोऽनन्तान्वितो मरुत् ।
पञ्चाक्षरो मनुः प्रोक्तस्ताराद्योऽयं षडक्षरः ॥ ४ ॥
अस्य पूजा-
प्रातःकृत्यादि-शैवोक्तपीठमन्वन्तं समाप्य ऋष्यादिन्यासं
कुर्यात् ।
शिरसि वामदेवाय ऋषये नमः ।
मुखे पङ्क्तिच्छन्दसे नमः, हृदि ईशानाय देवतायै नमः ॥ ५ ॥
ततो मूर्त्तिन्यासः-
तर्जन्योः नं तत्पुरुषाय नमः ।
मध्यमयोः मम् अघोराय नमः ।
कनिष्ठयोः शिं सद्योजाताय नमः ।
अनामिकयोः वां वामदेवाय नमः ।
अङ्गुष्ठयोः यम् ईशानाय नमः ।
तथा च निबन्धे-
ताः स्युस्तत्पुरुषाघोरसद्योवामेशसञ्ज्ञकाः ।
मन्त्रवर्णादिका न्यसेत्पञ्चमूर्तीर्यथाक्रमम् ॥
तर्जनीमध्यमयोरन्त्यानामिकाङ्गुष्ठके पुनः ।
एवं वक्त्रे हृदये पादद्वये गुह्ये मूर्ध्नि ता न्यसेत् ।
एवं प्राग्याम्यवारुणोदीच्यमध्यवक्त्रेषु ता न्यसेत् ॥
ततः कराङ्गन्यासौ-
ॐ अङ्गुष्ठाभ्या नमः ।
नं तर्जनीभ्यां स्वाहा इत्यादि ।
एवं हृदयादिषु ।
तथा च निबन्धे-
षड्भिर्वर्णैः षडङ्गानि कुर्यान्मन्त्रस्य देशिकः ।
ततो गोलकन्यासः-
हृदि ॐ नमः, वक्त्रे नं नमः, अंसयोः मं नमः शिं नमः,
ऊर्वो वां नमः यं नमः ।
एवं कण्ठे नाभौ पार्श्वद्वये पृष्ठे हृदि मूर्ध्नि वदने
नेत्रयोः नसोः ।
एवं करपत्सन्धिषु साग्रेषु ।
एवं शिरोवदनहृत्कुक्षि ऊरुपादद्वयेषु च ।
एवं हृदि वक्त्रे टङ्कमृगाभयवरेषु ।
एवं वक्त्रांसहृत्पादोरुजठरेषु ।
ततः पुनरपि मूर्ध्निं भालोदरहृद्गुह्येषु च ताः
पञ्चमूर्तीर्न्यसेत् ॥ ६ ॥
ततो व्यापकन्यासं कुर्यात् ।
ॐ नमोऽस्तु भूताय ज्योतिर्लिङ्गामृतात्मने ।
चतुर्मूर्तिवपुश्छायाभासिताङ्गाय सम्भवे ।
इत्यनेन व्यापकन्यासं कुर्यात् ॥ ७ ॥
ततो ध्यानम्-
ध्यायेन्नित्यं महेशं रजतगिरिनिभः चारुचन्द्रावतंसं,
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं,
विश्वाद्यं विश्वबीजं निखिल भयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥
एवं ध्यात्वा मानसैः सम्पूज्य, अर्घ्यस्थापनं कुर्यात् ॥ ८ ॥
ततः शैवोक्तपीठपूजां विधाय पुनर्ध्यात्वा
आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं
विधायावरणपूजामारभेत् ।
यथा-
कर्णिकायां पूर्ववदीशानादि पञ्चमूर्त्तीः सम्पूज्य केशरेषु
निवृत्यादिकलां पूर्ववत्पूजयेत् ।
ततोऽग्न्यादिकोणेषु मध्ये दिक्षु च ॐ हृदयाय नमः, नं शिरसे
स्वाहा, मं शिखायै वषट्, शिं कवचाय हुं, वां नेत्रत्रयाय
वौषट्, यम् अस्त्राय फट् ।
इति पूजयेत् ।
ततः पूर्ववदनन्तादीन्पूजयेत् ।
तत उत्तरादिक्रमेण वामावर्त्तेन उमादीन्पूजयेत् ।
ततो इन्द्रादीन्वज्रादींश्च पूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ ९ ॥
अस्य पुरश्चरणं षट्त्रिंशल्लक्षजपः ।
पायसैराज्यसम्मिश्रैः षट्त्रिंशत्सहस्रहोमः ।
तथा च-
तत्त्वलक्षं जपेन्मन्त्रं दीक्षितः शैववर्त्मना ।
तावत्सङ्ख्यसहस्राणि जुहुयात्पायसैः शुभैः ॥
अत्र तत्त्वशब्देन षट्त्रिंशत्तत्त्वमुच्यते अन्तरङ्गत्वात् ॥ १० ॥
मन्त्रान्तरम्
अर्घीशो वह्निशिखरो लान्तस्थो दान्द ईरितः ।
फडन्तश्चण्डमन्त्रोऽयं त्रिवर्णात्मा समीरितः ॥ ११ ॥
अस्य पूजा-
प्रातःकृत्यादिशैवोक्तपीठन्यासान्तं विधाय ऋष्यादिन्यासं
कुर्यात् ।
यथा-
शिरसि त्रित-ऋषये नमः, मुखे अनुष्टुप्छन्दसे नमः हृदि
चण्डेश्वराय देवतायै नमः ।
तथा च निबन्धे-
अस्य त्रितो मुनिः प्रोक्तश्छन्दोऽनुष्टुबुदाहृतम् ।
चण्डेश्वरो देवता इत्यादि ॥ १२ ॥
ततः कराङ्गन्यासौ-
दीप्त फट् अङ्गुष्ठाभ्यां नमः ।
ज्वल फट् तर्जनीभ्यां स्वाहा ।
ज्वालिनी फट् मध्यमाभ्यां वषट् ।
ज्ञेय फट् अनामिकाभ्यां हुम् ।
हन फट् कनिष्ठाभ्यां वौषट् ।
सर्वज्वालिनि फट् करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु ॥
तथा च प्रपञ्चसारे-
दीप्तज्वलज्वालिनीति ज्ञेयेन तु हनेन च ।
सर्वज्वालिनिसंयुक्तैः फडन्तैरङ्गमाचरेत् ॥ १३ ॥
ततो ध्यानम्-
चण्डेश्वरं रक्ततनुं त्रिनेत्रं, रक्तांशुकाढ्यं हृदि
भावयामि ।
टङ्कं त्रिशूलं स्फटिकाक्षमालां, कमण्डलुं
विभ्रतमिन्दुचूडम् ॥
एवं ध्यात्वा मानसैः सम्पूज्यार्घ्यस्थापनं कुर्यात् ॥ १४ ॥
ततः शैवोक्तपीठपूजां विधाय ठमिति बीजेन मूर्तिं सङ्कल्प्य,
पुनर्ध्यात्वा आवाहनादि पञ्चपुष्पाञ्जलिदानपर्यन्तम्
आवरणपूजामारभेत् ।
तद्यथा-
अङ्गैः प्रथममावरणं मातृभिर्द्वितीयम् इन्द्रादिभिस्तृतीयं
वज्रादिभिश्चतुर्थम् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ १५ ॥
अस्य पुरश्चरणं त्रिलक्षजपः ।
तथा च-
वर्णलक्षं जपेन्मन्त्रं होमः कुर्याद्दशांशतः ।
मधुरत्रयसंयुक्तैः शुद्धैश्च तिलतण्डुलैः इति शिवमन्त्राः ॥ १६
॥
अथ क्षेत्रपालमन्त्रः
मन्त्रदेवप्रकाशिकायाम्-
क्षौमिति बीजादिक्षेत्रपालाय इत्युपेतनमोऽन्तः ।
अयं प्रणवादिर्वा मन्त्रः ॥
तथा च-
वर्णान्त्यमौविन्दुयुतं क्षेत्रपालाय हृन्मनुः ।
ताराद्यो वसुवर्णोऽयम् ।
क्षेत्रपालस्य ईरितः ॥ १७ ॥
अस्य पूजा-
प्रातःकृत्यादि प्राणायामान्तं विधाय धर्मादिकल्पितं
पीठं विन्यस्य ऋषादिन्यासं कुर्यात् ।
यथा-
अस्य ब्रह्म ऋषिरनुष्टुप्छन्दः क्षेत्रपालो देवता क्षौं बीजम्
आत्मेति शक्तिः षड्दीर्घयुक्तेन बीजेनैवाङ्गन्यासम् ॥ १८ ॥
ततो ध्यानम्-
भ्राजच्चण्डजटाधरं त्रिनयनं नीलाञ्जनादिप्रभं,
दोर्दण्डात्तगदाकपालमरुणस्रग्गवस्त्रोज्ज्वलम् ।
घण्टामेखलघर्घरध्वनिमिलज्झङ्कारभीमं विभुं,
वन्देऽहं सितसर्पकुण्डलधरं श्रीक्षेत्रपालं सदा ।
एवं ध्यात्वा, मानसैः सम्पूज्य, अर्घ्यस्थापनं कृत्वा,
धर्मादिकल्पितपीठपूजां विधाय, पुनर्ध्यात्वा, आवाहनादि-
पञ्चपुष्पाञ्जलिदानपर्यन्तं विधाय आवरण पूजामारभेत ।
तद्यथा-
अङ्गैः प्रथममावरणम्, अनलाक्ष-अग्निकेश-कराल-
घण्टारवमहाक्रोध-पिशिताशन-पिङ्गलाक्ष-
ऊर्ध्वकेशैरष्टाभिर्द्वितीयम्, ईन्द्रादिभिस्तृतीयं,
वज्रादिभिश्चतुर्थम् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ १९ ॥
अस्य पुरश्चरणं लक्षजपः ।
साज्येन चरुणा दशांशहोमः ।
तथा च निबन्धे-
लक्षमेकं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ।
चरुणा घृतसिक्तेन ततः क्षेत्रेशमर्चयेत् ॥ २० ॥
मन्त्रदेवप्रकाशिकायान्तु-
प्रणवरहितोऽयं मन्त्रः ।
तस्य पुरश्चरणमयुतसङ्ख्यको जपः ॥ २१ ॥
अथास्य बलिविधानम
रात्रौ गृहाङ्गने स्थण्डिलं कृत्वा, तत्र देवं सपरिवारं
सम्पूज्य, देवस्य करस्थितकपाले बलिमन्त्रेण त्रिवारं वलिं दत्त्वा,
परिवारेभ्यः स्वस्वनामभिर्बलिं दद्यात् ॥ २२ ॥
वलिमन्त्रस्तु-
एह्येहि विदुषि सरु सुरु भञ्जय भञ्जय तर्जय तर्जय विघ्न विघ्न
महाभैरव क्षेत्रपाल वलिं गृह्ण गृह्ण स्वाहा ।
तथा च-
पूर्वमेहिद्वयं पश्चाद्विदुषि स्यात् सुरुद्वयम् ।
भञ्जयद्वितयं भूयस्तर्जयद्वितयं पुनः ।
ततो विघ्नपदद्वन्द्वं महाभैरव तत्परम् ।
क्षेत्रपाल वलिं गृह्णद्वयं पावकसुन्दरी ॥
यद्वा-
एह्येहि तुरु तुरु सुरु सुरु जम्भ जम्भ हन हन विघ्नं नाशय
नाशय महाबलिं क्षेत्रपाल गृह्ण गृह्ण स्वाह इति ।
एष बलिविधिः सर्वग्रहनिवारको विजयश्रीकरश्च भवति ॥ २३ ॥
बलिमपि सोपदंशवृहत्पिण्डेन दद्यात् ।
फलन्तु-
बलिदानेन सन्तुष्टः क्षेत्रपालः प्रयच्छति ।
कान्तिमेधाबलारोग्यतेजःपुष्टियशः श्रियः ॥ २४ ॥
अथ वटुकभैरवमन्त्रः
चतुर्थ्यन्तवटुकायेति आपदुद्धारणचतुर्थ्यन्तशब्दोपेत-
कुरुद्वयुक्त चतुर्थ्यन्तवटुक-
शब्दोपेतहृल्लेखासम्पुटितमेकविंशत्यक्षरम् ।
तथा च निबन्धे-
उद्धरेद्वटुकं ङेऽन्तमापदुद्धरणं तथा ।
कुरुद्वयं पुनर्ङेऽन्तं वटुकान्तं समुद्धरेत् ।
एकविंशत्यक्षरात्मा शक्तिरुद्धो महामनुः ॥ २५ ॥
अस्य पूजा-
प्रातःकृत्यादि प्राणायामान्तं विधाय पीठन्यासं कुर्यात् ।
तद्यथा-
धर्माद्यनैश्वर्यान्तं देहे विन्यस्य ऋष्यादिन्यासं कुर्यात् ।
शिरसि बृहदारण्यक-ऋषये नमः, मुखे गायत्रीच्छन्दसे नमः,
हृदि वटुकभैरवाय देवतायै नमः ॥ २६ ॥
ततो मूर्तिन्यासः-
ह्रों वोम् ईशानान्य नमः अङ्गुष्ठयोः ।
ह्रें वें तत्पुरुषाय नमः तर्जन्योः ।
ह्रुं वुम् अघोराय नमः मध्यमयोः ह्रिं विं वामदेवाय
नमः अनामिकयोः ।
ह्रः वः सद्योजाताय नमः कनिष्ठयोः ।
पुनस्तत्तदङ्गुलीभिः शिरोवदनहृद्रगुह्यपादेषु
तत्तद्वीजादिकास्तन्मूर्त्तीर्न्यसेत् ।
तथा ऊर्ध्वप्राग्दक्षिणोदीच्यपश्चिमेषु च ता न्यसेत् ।
तथा च निबन्धे-
अङ्गुलीदेहक्त्रेषु मूर्त्तीर्न्यस्येद्यथा पुरा ।
सत्यादिपञ्चह्रस्वाढ्यशक्तिबीजपुरःसरम् ॥ वकारं
पञ्चह्रस्वाढ्यमीशानादिषु योजयेदिति ॥ २७ ॥
ततः कराङ्गन्यासौ-
ॐ ह्रां वाम् अङ्गुष्ठाभ्यां नमः इत्यादि ।
ॐ ह्रां वां हृदयाय नमः इत्यादि ।
षड्दीर्घभाजा बीजद्वयेन कुर्यात् ।
तथा च निबन्धे-
षड्दीर्घयुक्तया शक्त्या वकारेण तत्तथा ।
अङ्गानि जातियुक्तानि प्रणवाद्यानि कल्पयेत् ॥ २८ ॥
ततो ध्यानम्-
अस्य ध्यानं त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः ।
तत्र सात्त्विकै यथा-
वन्दे बालं स्फटिकसदृशं कुण्डलीद्भासिवक्त्रं,
दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः ।
दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं, हस्तब्जाभ्यां
वटुकमनिशं शूलदण्डौ दधानम् ॥ २९ ॥
राजसं यथा-
उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं, स्मेरास्यं
वरदं कपालमभयं शूलं दधानं करैः ।
नीलग्रीवमुदारभूषणशतं शीताशुचूडोज्ज्वलं
बन्धूकारुणवाससं भयहरं देवं सदा भावये ॥ ३० ॥
तामसं यथा-
ध्यायेन्नीलाद्रिकान्तिं शशिशकलधरं मुण्डमालं महेशं,
दिग्वस्त्रं पिङ्गलाक्षं डमरुमथ सृणिं खड्गशूलाभयानि ।
नागं घण्टां कपालं करसरसिरुहैर्विभ्रतं
भीमदंष्ट्रं, सर्पाकल्पं त्रिनेत्रं मणिमयविलसत्
किङ्किणीनूपुराढ्यम् ॥ ३१ ॥
सात्त्विकं ध्यानमाख्यातमपमृत्युविनाशनम् ।
आयुरारोग्यजननमपवर्गफलप्रदम् ॥ ३२ ॥
राजसं ध्यानमख्यातं धर्मकामार्थसिद्धिदम् ।
तामसं शत्रुशमनं कृत्याभूतगदापहम् ॥ ३३ ॥
एवं ध्यात्वा मानसैः सम्पूज्यार्घ्यस्थापनं कुर्यात् ॥ ३४ ॥
अस्य पूजायन्त्रम्-
धर्माधर्मादिभिः कॢप्तपीठे पङ्कजशोभिते ।
षट्कोणान्तस्त्रिकोणस्थे व्योमपङ्कजशोभिते ॥ ३५ ॥ (चित्र २६)
ततो मूलेन मूर्तिं सङ्कल्प्य पूर्ववद्ध्यात्वा आवाहनादिकं
कुर्यात् ॥
तत्र क्रमः-
मूलादिसद्योजातमन्त्रेणावाहनम् ।
मूलादिवामदेवेन स्थापनम् ।
मूलेन सान्निध्यम् ।
अघोरेण सन्निरोधनम् ।
तत्पुरुषेण योनिमुद्राप्रदर्शनम् ।
ईशानेन वन्दनमिति विशेषः ।
कर्णिकायां दिक्षु कोणेषु ईशानादीन्यजेत् ।
एतत्प्रथमावरणम् ।
ततो व्योमपङ्कजदलेषु असिताङ्गादीन्भैरवान्यजेत् ॥ ३६ ॥
तद्यथा-
असिताङ्गो रुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः ।
कपाली भीषणश्चैव सहारश्चाष्टभैरवाः ।
एतैरष्टाभिर्द्वितीयावरणम् ॥ ३७ ॥
ततः षट्कोणेषु पूर्वादि ॐ ह्रां वां हृदयाय नमः इत्यादिना
षडङ्गानि पूजयेत् ॥ ३८ ॥
ततः पूर्वादितो डाकिनी-राकिनी-लाकिनी-काकिनी-शाकिनी-
हाकिनी-मालिनी-देवी-पुत्रान्पूजयेत्, एतत्तृतीयावरणम् ।
अष्टदिक्षु उमापुत्रान् रुद्रपुत्रान्मातृपुत्रान्दक्षिणतो यजेत् ।
ऊर्द्ध्वे-ऊर्ध्वमुखीपुत्रान् अधोऽधोमुखीपुत्रान्पूजयेत्,
एतच्चतुर्थावरणम् ।
तथा च शारदायाम्-
पूर्वादीशानपर्यन्तं तद्बहिः पूजयेदिमान् ।
डाकिनीपुत्रकान्पूर्वं राकिणी-पुत्रकांस्ततः ।
लाकिनीपुत्रकान्पश्चात्काकिनीपुत्रकांस्तथा ।
शाकिनी-प्त्रकान्भूयो हाकिनीपुत्रकान्पुनः ।
मालिनी पुत्रकान्पश्चाद्देवोपुत्रांस्ततः परम् ।
तथोमारुद्रमातॄणां पुत्रान् दक्षिणतो न्यसेत् ।
ऊर्ध्वमुख्या सुतानूर्ध्वमधोमुखाः सुतानधः ।
इति सम्पूजयेन्मन्त्री पुत्रवर्गांस्त्रयोदश इति ॥ ३९ ॥
तद्बहिरष्टदलेषु दिक्पालान्वटुकरूपान्पूजयेत् ।
तद्बहिः पूर्वे ॐ ब्रह्माणीपुत्राय नमः, एवम् ईशाने
माहेश्वरीपुत्राय, उत्तरे वैष्णवीपुत्राय, अनिले कौमारीपुत्राय,
पश्चिमे इन्द्राणीपुत्राय, नैर्-ऋते महालक्ष्मीपुत्राय, याम्ये
वाराही पुत्राय, अग्निकोणे चामुण्डापुत्राय, एतत्पञ्चमावरणम् ।
तथा च निबन्धे-
ब्रह्माणीपुत्रकं पूर्वे माहेशीपुत्रमैश्वरे ।
वैष्णवीपुत्रकं सौम्ये कौमारीपुत्रमानिले ।
इन्द्राणीपुत्रकं भूयः पश्चिमे पूजयेत्ततः ।
महालक्ष्मीसुतं पश्चाद्रक्षोदिशि समर्चयेत् ।
वाराहीपुत्रकं याम्ये चामुण्डापुत्रमानल ।
तद्बहिर्दशदिक्षु हेतुकं त्रिपुरान्तकं वेतालं वह्निजिह्वं
कालान्तकं करालम् एकपादं भीमरूपम् अचलं
हाटकेश्वरञ्च पूजयेत् ।
एतत्षष्ठावरणम् ।
तत ईशानादिनिर्-ऋतिषु सकलेश्वरभूम्यन्तरीक्ष-
स्वर्लोकनिष्ठान्योगीशान् योगिनीसहितान्पूजयेत् ।
यथा-
योगिनीसहितदिव्ययोगीशाय नमः ।
एवं योगिनीसहितान्तरीक्ष-योगीशाय नमः ।
योगिनीसहितभूमिष्ठयोगीशाय नमः ।
एतत्सप्तमावरणम् ॥ ४० ॥
अस्य पुरश्चरणमेकविंशतिलक्षजपः ।
त्रिमधुराप्लुतैर्दशांशहोमः ।
तथा च-
वर्णलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ।
तद्दशांशं प्रजुहुयत्तिलैस्त्रिमधुराप्लुतैः ॥ ४१ ॥
बलिदानम्
अथ बलिदानम् -
पूर्वं विघ्नं दुर्गां समाराध्य वलिं दद्यात् ।
शाल्यन्नं पललं सर्पिर्लाजचूर्णानि शर्करा ।
गुडमिक्षुरसापूपैर्मध्वक्तैः परिमिश्रितैः ।
कृत्वा कवलमाराध्य देवं प्रागुक्तवर्त्मना ।
रक्तचन्दनपुष्पाद्यैर्निशि तस्मै वलिं हरेत् ॥ ४२ ॥
यद्वा-
अन्यूनाङ्गमजं हत्वा राजसं प्रागुदीरितम् ।
बलिप्रदानसमये रिपूणां सर्वसैन्यकम् ।
निवेदयेद्वलित्वेन वटुकाय विशिष्टधीः ॥ ४३ ॥
विदर्भयेच्छक्रनाम्ना बलिमन्त्रमुदारधीः ।
शत्रुपक्षस्य रुधिरं पिशितञ्च दिने दिने ।
भक्षय स्वगणैः सार्द्धं सारमेय-समन्वितः ।
बलिमन्त्रोऽयमाख्यातः सर्वेषां विजयप्रदः ॥ ४४ ॥
अनेन बलिना तुष्टो वटुकः परसैन्यकम् ।
सर्वं गणेभ्यो विभजेत्सामिषं क्रुद्धमानसः ।
एवं कृते परसैन्यं क्षीयते नात्र संशयः ॥ ४५ ॥
अथ भैरवो -
यत्पादपङ्कजरजोऽमरवृन्दवन्द्यं, यद्योगतः परशिवः
परमेश्वरोऽभूत् ।
या सृष्टिपालनलयं तनुते त्रिमूर्त्त्या, सा शाम्भवी विजयते
जगदेकमाता ॥ ४६ ॥
शारदायाम्-
अज्ञानतिमिर- ध्वंसि संसारार्णवतारकम् ।
आनन्दबीजमवतादतर्क्यं त्रैपुरं महः ॥ ४७ ॥
अथ वक्ष्ये महाविद्यां त्रिपुरामतिगोपिताम् ।
यां ज्ञात्वा सिद्धिसङ्घानामधिपो जायते नरः ॥ ४८ ॥
अथ त्रिपुरभैरवीमन्त्राः
अथ त्रिपुरायास्त्रैविध्यं बालाभैरवीसुन्दरीभेदेन ।
तथा च ज्ञानार्णवे-
त्रिपुरा त्रिविधा देवी त्रिशक्तिः परिगीयते ।
अथ व्युत्पत्तिमाह प्रपञ्चसारे-
त्रिमूर्तिसर्गाच्च पराभवत्वात्त्रयोमयीत्वाच्च परैव देव्याः ।
लये त्रैलोक्यामपि पूरणत्वात्प्रायोऽम्बिकायास्त्रिपुरेति नाम ।
तथा च वाराहीतन्त्रे-
ब्रह्मविष्णु-महेशाद्यै-स्त्रिदशैरर्चिता पुरा ।
त्रिपुरेति सदा नाम कथितं देवतैस्तव ॥ ४९ ॥
शारदायाम्-
वियद्भृगुहुताशस्थो भौतिको विन्दुशेखरः ।
वियत्तदादि-केन्द्राग्निस्थितं वामाक्षिविन्दुमत् ।
आकाशभृगुवह्निस्थो मनुः सर्गेन्दुखण्डवान् ।
पञ्चकूटात्मिका विद्या वेद्या त्रिपुरभैरवी ।
प्रथमं वाग्भवं कूटं द्वितीयं कामराजकम् ।
तृतीयं शक्तिकूटञ्च त्रिभिर्बीजैरुदाहृतम् ॥
अस्यार्थः-
शिवचन्द्रवह्निवाग्भवम् ।
शिवचन्द्रकामपृथ्वीवह्निश्चतुर्थस्वरविन्दुमान् ।
शिवचन्द्ररेफयुक्तचतुर्दशस्वरविन्दुविसर्गः ॥ ४९क ॥
अस्या पूजा-
प्रातःकृत्यादि-प्राणायामान्तं विधाय पीठन्यासं कुर्यात् ।
तत्र विशेषः ।
पूर्वोक्तक्रमेण आधारशक्त्यादि ह्रीं ज्ञानात्मने नमः
इत्यन्तं विन्यस्य हृत्पद्मस्य पूर्वादि-केशरेषु ॐ इच्छायै नमः
एवं ज्ञानायै क्रियायै कामिन्यै कामदायिन्यै रत्यै रतिप्रियायै
नन्दायै, मध्ये मनोन्मन्यै, तदुपरि ऐं परायै अपरायै
परापरायै ह्स्रौः सदाशिवमहाप्रेतपद्मासनाय नमः ।
इति पीठशक्तीः पीठमनुञ्च विन्यस्य ऋष्यादिन्यासं कुर्यात् ॥
यथा-
शिरसि दक्षिणामूर्त्तये ऋषये नमः, मुखे पङ्क्तिच्छन्दसे नमः
हृदि त्रिपुरभैरव्यै देवतायै नमः, गुह्ये वाग्भवाय बीजाय
नमः, पादयोः तार्तीयशक्तये नमः, सर्वाङ्गै कामबीजाय
कीलकाय नमः ।
दक्षिणामूर्तिसंहितायाम्-
ऋषिस्तु दक्षिणामूर्तिरहं शिरसि विन्यसेत् ।
छन्दः पङ्क्तिस्तुविज्ञेयं मुखे विन्यस्य देवताम् ।
हृदये त्रिपुरेशानीं वाग्भवं बीजमुच्यते ।
शक्तिबीजं शक्तिरेव कामबीजञ्च कीलकम् ।
ततो नाभ्यादिचरणपर्यन्तं ह्स्रैं नमः,
हृदयान्नाभिपर्यन्तं ह्सक्ल्रीं नमः, शिरसो हृदयान्तं ह्स्रौं
नमः एवम् आद्यबीजं दक्षिणकरे, द्वितीयं वामकरे,
तृतीयमुभयकरे ।
ततो मूर्ध्नि मूलाधारे हृदि यथासङ्ख्यं त्रीणि बीजानि न्यसेत् ।
तथा च निबन्धे-
नाभेराचरणं न्यस्येद्वाग्भवं मन्त्रवित्तमः ।
हृदयान्नाभिपर्यन्तं कामबीजं प्रविन्यसेत् ।
शिरसो हृत्प्रदेशान्तं तार्तीयं विन्यसेत्ततः ।
आद्यं द्वितीयं करोयोस्तार्तीयमुभयोर्न्यसेत् ।
मूर्ध्नाधारे हृदि न्यसेत् भूयो बीजत्रयं क्रमात् ॥ ५० ॥
ततो नवयोनिन्यासः-
अद्यबीजं दक्षकर्णे, द्वितीयबीजं वामकर्णं, तृतीय बीजं
चुवुके ।
एवं गण्डयोर्वदने नेत्रयोर्नसि अंसयोर्जठरे कूर्परयोः कुक्षौ
जानुनोर्लिङ्गाग्रे पादयोर्गुह्ये पार्श्वयोः हृदयाम्बुजे स्तनयो;
कण्ठे ॥
तथा च निबन्धे-
नवयोन्यात्मकं न्यासं कुर्यात् वीजैस्त्रिभिः क्रमात् ।
कर्णयोश्चिबुके भूयो गण्डयोर्वदने पुनः ।
नेत्रयोर्नसि विन्यस्य अंसयोर्जठरे पुनः ।
ततः कूर्परयो कुक्षौ जानुनोर्ध्वजमूर्द्धनि ।
पादयोर्गुह्यदेशे च पार्श्वयोर्हृदयाम्बुजे ।
स्तनद्वये कण्ठदेशे त्रीणि बीजानि विन्यसेत् ॥ ५१ ॥
ततो रत्यादिन्यासः-
मूलधारे ऐं रत्यै नमः, हृदि क्लीं प्रीत्यै नमः, भ्रूमध्ये
सौः मनोभवायै नमः, पुनर्भ्रूमध्ये सौः अमृतेश्यै नमः,
हृदि क्लीं योगेश्यै नमः, मूलाधारे ऐं विश्वयोन्यै नमः ।
तथा च निबन्धे-
मूले रतिं हृदि प्रोतिं भ्रूवोर्मध्ये मनोभवाम् ।
बालाबीजैस्त्रिभिर्न्यसेत् स्थानेष्वेतेषुविलोमतः ।
अमृतेशीञ्च योगेशीं विश्वयोनिं क्रमादिमाः ।
विलोमबीजैर्विन्यस्य मूर्तिन्यासमथाचरेत् ॥ ५२ ॥
अथ मूर्तिन्यासः-
मूर्ध्नि स्ह्रोम् ईशानमनोभवाय नमः, वक्त्रे स्ह्रें
तत्पुरुषमकरध्वजाय नमः, हृदि स्ह्रुम् अघोरकुमारकन्दर्पाय
नमः, गुह्ये स्ह्रिं वामदेवमन्मथाय नमः, पादयोः स्ह्रं
सद्योजात कामदेवाय नमः ।
एकमूर्ध्वप्राग्याम्योत्तरपश्चिमेषु मुखेषु ईशानमनोभवादि
पञ्चमूर्तीस्तत्तद्वीजपूर्विका न्यसेत् ।
तथा च निबन्धे-
स्वस्वबीजादिकं सर्वं मूर्ध्नीशान नमोभवम् ।
न्यसेद्वक्त्रेतत्पुरुषमकरध्वजमात्मवित् ।
हृद्यघोरकुमाराख्यं कन्दर्पं तदन्तरम् ।
गुह्यदेशे प्रविन्यस्येद्वामदेवादि-मन्मथम् ।
सद्योजात कामदेवं पादयोर्विन्यसेत्ततः ।
ऊर्ध्वप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु तान् ।
प्रविन्यस्येद्यथापूर्वं भृगुव्योमाग्निसंस्थिम् ।
सत्यादि-पञ्चह्रस्वाढ्यं लीजमेषां प्रकीर्तितम् ॥ ५३ ॥
ततो बाणन्यासः-
द्रां द्राविण्यै नमः अङ्गुष्ठयोः ।
द्रीं क्षोभिण्यै नमः तर्जन्योः ।
क्लीं वशीकरण्यै नमः मध्यमयोः ।
ब्लूम् आकर्षिण्यै नमः अनामिकयोः ।
सः सम्मोहिन्यै नमः कनिष्ठयोः ।
तथा च ज्ञानार्णवे-
पञ्चबाणान् क्रमेणैव कराङ्गुलीषु विन्यसेत् ।
अङ्गुष्ठादिकनिष्ठान्तं क्रमेण परमेश्वरि ॥ ५४ ॥
ततस्तेषु स्थानेषु यथाक्रमं कामन्यासं कुर्यात् ।
यथा-
ह्रीं कामाय नमः, क्लीं मन्मथाय नमः, ऐं कन्दर्पाय
नमः, ब्लूं मकरध्वजाय नमः, स्त्रीं मीनकेतनाय नमः ।
ततो मूर्ध्नि पादे वक्त्रे गुह्ये हृदि पूर्वोक्तबाणान् कामांश्च
न्यसेत् ।
तथा ज्ञानार्णवे-
थान्तद्वयं समुद्धृत्य वह्निसंस्थं क्रमेण हि ।
मुखवृत्तेन नेत्रेण वामेन परिमण्डितम् ।
वाणद्वयमिदं प्रोक्तं मादनं भूमिसंस्थितम् ।
चतुर्थस्वरविन्द्वाढ्यं नादरूपं वरानने ।
फान्तं शक्रसमारूढं वामकर्णविभूषितम् ।
विन्दुनादसमायुक्तं सर्गवांश्चन्द्रमाः प्रिये ।
पञ्चवाणान् महेशानि नामानि शृणु पार्वति ।
द्रावणक्षोभणौ वश्यस्तथाकर्षणसञ्ज्ञकः ।
तथोन्मादः क्रमेणैव नामानि परमेश्वरि ।
न्यासे तु सर्वत्र स्त्रिलिङ्गेन प्रयोगः ।
तथा च निबन्धे-
द्रामाद्यान्द्राविणीं मूर्ध्नि द्रीमाद्यां क्षोभणीं पदे ।
क्लीं वशीकरणीं वक्त्रे गुह्ये ब्लूं बीजपूर्विकाम् ।
आकर्षणीं हृदि पुनः सर्गान्तर्भृगुसंयुताम् ।
सम्मोहनीं क्रमादेवं बाण न्यासोऽयमीरितः ।
तत्रोन्मादसम्मोहनयोरेकपर्यायत्वम् ।
कामास्तत्रैव विज्ञेयास्तेषां बीजानि संशृणु ।
पराबीजं मध्यबाणं वाग्भवं परमेश्वरि ।
तूर्यबाणं ततश्चैव स्त्रीबीजञ्च क्रमात् प्रिये ।
पञ्चकामा इमे देवि नामानि शृणु वल्लभे ।
काममन्मथकन्दर्पमकरध्वजसञ्ज्ञकाः ।
मीनकेतुर्महेशानि पञ्चमः परिकीर्तितः ।
पञ्चकामांस्ततो देवि बाणस्थानेषु विन्यसेत् ॥ ५५ ॥
ततः कराङ्गन्यासौ-
ह्स्राम् अङ्गुष्ठाभ्यां नमः ।
ह्स्रीं तर्जनीभ्यां स्वाहा ।
हस्रं मध्यमाभ्यां वषट् ।
ह्स्रैम् अनामिकाभ्यां हुम् ।
ह्स्रौं कनिष्ठाभ्यां वौषट् ।
ह्स्रः करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु ।
षड्दीर्घयुक्तेनाद्येन बीजेनाङ्गक्रिया मनोः ॥ ५६ ॥
ततः सुभगादिन्यासः-
भाले ऐं क्लीं ब्लूं स्त्रीं सः सुभगायै नमः ।
भ्रूमध्ये ऐं क्लीं ब्लूं स्त्रीं सः भगायै नमः ।
वदने ऐं क्लीं ब्लूं स्त्रीं सः भगसर्पिण्यै नमः ।
कण्ठिकायाम् ऐं क्लीं ब्लूं स्त्रीं सः भगमालिन्यै नमः ।
कण्ठे ऐं क्लीं ब्लूं स्त्रीं सः अनङ्गायै नमः ।
हृदि ऐं क्लीं ब्लूं स्त्रीं सः अनङ्गकुसुमायै नमः ।
नाभौ ऐं क्लीं ब्लूं स्त्रीं सः अनङ्गमेखलायै नमः ।
लिङ्गमूले ऐं क्लीं ब्लूं स्त्रीं सः अनङ्गमदनायै नमः ।
तथा च निबन्धे-
भाल-भ्रूमध्ये-वदन-कण्ठिकाकण्ठहृत्सु च ।
नाभ्यधिष्ठानयोः पञ्चताराद्याः सुभगादिकाः ।
न्यस्तव्या विधिना देव्यो मन्त्रिणा सुभगा भगा ।
भगसर्पिण्यथ परा भगमालिन्यतः परम् ।
अनङ्गानङ्गकुषुमा भूयश्चानङ्गमेखला ।
अनङ्गमदना सर्वा मदविभ्रमविह्वलाः ।
वाक्कामबीजं ब्लूं स्त्रीं सस्ताराः पञ्चोदितास्त्वमी ॥
ततो भूषणन्यासः ।
तद्यथा-
शिरसि अं नमः ।
भाले आं नमः ।
भ्रुवोः इम् ईम् ।
कर्णयोः उम् ऊम् ।
नेत्रयोः ऋ ॠम् ।
नसि ऌम् ।
गण्डयोः ॡम् एम् ।
ओष्ठयोः ऐं ॐ ।
अधोदन्ते औम् ।
ऊर्ध्वदन्ते अम् ।
मुखे अः ।
चिबुके कम् ।
गले खम् ।
कण्ठे गम् ।
पार्श्वयोः घं ङम् ।
स्तनद्वद्वे चं छम् ।
दोर्मूलयोः जं झम् ।
कूर्परयोः ञं टम् ।
पाण्योः ठं डम् ।
करपृष्ठयोः ढं णम् ।
नाभौ तम् ।
गुह्ये थम् ।
ऊर्वोः दं घम् ।
जानुनोः नं पं जङ्घयोः फं बम् ।
स्फिचोः भं मम् ।
पत्तलयोः यम् ।
चरणाङ्गुष्ठयोः रम् ।
काञ्च्यां वम् ।
ग्रीवायां लम् ।
कटके लम् ।
हृदि शम् ।
गुह्ये क्षम् ।
कर्णयोः षम् ।
गण्डयोः सम् ।
मौलौ हम् ।
सर्वत्र नमोऽन्तेन न्यसेत् ।
तथा च तन्त्रान्तरे-
न्यसेच्छिरसिभालभ्रूकर्णाक्षियुगले नसि ।
गण्डयोरोष्ठयोर्दन्तपङ्क्त्योरास्ये न्यसेत्स्वरान् ।
चिबुके च गले कण्ठे पार्श्वयोः स्तनयुग्मके ।
दोर्मूलयोः कर्पूरयोः पाण्योस्तत्पृष्ठदेशतः ।
नाभौ गुह्ये पुनश्चोर्वोर्जानुनोर्जङ्घयोस्ततः ।
स्फिचोः पत्तलयोः पश्चाच्चरणाङ्गुष्ठयोर्द्वयोः ।
कादिवान्तान्न्यसेद्वर्णान् स्थानेष्वेषु समाहितः ।
काञ्च्यां ग्रैवेयके पश्चात्कटके हृदि गुह्यके ।
कर्णयोर्गण्डयोर्मौलौ बललान् शक्षषान्सहौ ।
अष्टाविमान्प्रविन्न्यसेदेवं देशिकसत्तमः ॥ ५८ ॥ ततस्त्रिखण्डां
मुद्रां बद्ध्वा ध्यायेत् ।
यथा-
उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां,
रक्तालिप्तपयोधारां जपवटीं विद्यामभीतिं वरम् ।
हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्रक्तारविन्दश्रियं देवीं
वद्धहिमांशुरत्नमुकुटां वन्दे समन्दस्मिताम् ।
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्यात् ॥ ५९ ॥
तत आधारशक्त्यादि ह्रीं ज्ञानात्मने नमः इत्यन्तं सम्पूज्य
पूर्वादि केशरेषु मध्ये च-इच्छा ज्ञाना क्रिया पश्चात् कामिनी
कामदायिनी ।
रती रतिप्रिया नन्दा नन्दिनी स्यान्मनोन्मनी ।
एताः प्रणवादि नमोऽन्ताः पूजयेत् ।
तत ऐं परायै अपरायै परापरायै ह्सौः सदाशिव-महाप्रेत
पद्मासनाय नमः ।
इति सम्पूज्य प्राग्योनिमध्ययोन्यन्तराले श्रीविद्योक्तगुरुपङ्क्तीः
पूजयेत् ।
निबन्धे वाग्भवं लोहितो रायै श्रीकण्ठो लोहितोऽनलः ।
दीर्घवान ये परा पश्चादपरायै ह्सौः पुनः ।
सदाशिवमहाप्रेतं ङेऽन्तं पद्मासनं नमः ।
अनेन मनुना दद्यादासनं श्रीगुरुक्रमः ।
प्राङ्मध्ययोन्यन्तराले पूजयेत् कल्पयेत्ततः ।
पञ्चभिः प्रणवैर्मूर्ति तस्यामावाह्य देवताम् ।
पूजयेदागमोक्तेन विधानेन समाहितः ।
तारा वाक्शक्ति कमला ह्स्ख्फ्रें ह्सौः स्मृताः ।
तदशक्तौ तु ॐ गुरुभ्यौ नमः, ॐ गुरुपादुकाभ्यो नमः, ॐ
परमगुरुभ्यो नमः, ॐ परमगुरु पादुकाभ्यो नमः, ॐ
परापरगुरुभ्यो नमः, ॐ परापरगुरुपादुकाभ्यो नमः, ॐ
परमेष्ठिगुरुभ्यो नमः, ॐ परमेष्टिगुरुपादुकाभ्यो नमः, ॐ
आचार्येभ्यो नमः, ॐ आचार्यपादुकाभ्यो नमः ॥ ६० ॥
अस्य पूजायन्त्रस्तु शारदायाम्-
पद्ममष्टदलोपेतं नवयोन्याढ्यकर्णिकम् ।
चतुर्द्वारसमायुक्तं भूगृहं विलिखेत्ततः ॥ ६१ ॥ (चित्र २७)
ततः ऐं ह्रीं ह्स्ख्फ्रें ह्सौः इति मन्त्रेण विन्दुचक्रे देव्या मूर्ति
सङ्कल्प्य त्रिखण्डमुद्रया पूर्ववद्देवीं ध्यात्वा आवाहयेत् ।
ॐ देवेशि भक्तिसुलभे परिवारसमन्विते ।
यावतत्त्वां पूजयिष्यामि तावत्त्वं सुस्थिरा भव ।
पञ्चभिः प्रणवैर्मूर्तिं तस्यामावाह्य देवताम् ।
तारा वाक्शक्तिकमला ह्स्ख्फ्रें ह्सौः स्मृताः ।
इत्यावाह्यावाहनादि पञ्चपुष्पाञ्जलिदानपर्यन्तं
विधायावरणपूजामारभेत् ॥
तद्यथा-
देव्या वामकोणे ऐं रत्यै नमः ।
दक्षिणकोणे क्लीं प्रीत्यै नमः ।
अग्निकोणे सौः मनोभवायै नमः ।
ततः केशरेषु अग्न्यादिकोणेषु मध्ये दिक्षु च
पूर्वोक्ताङ्गमन्त्रेण पूजयेत् ।
तथा च ज्ञानार्णवे-
अग्नीशासुरवायव्यमध्ये दिक्ष्वङ्गपूजनम् ।
ततः उत्तरे द्रां द्राविण्यै नमः, द्रीं क्षोभिण्यै नमः, दक्षिणे
क्लीं वशीकरण्यै नमः, ब्लूम् आकर्षण्यै नमः ।
अग्रे सः सम्मोहिन्यै नमः ।
ततः पञ्चकामान पूजयेत् ।
यथा-
उत्तरे ह्रीं कामाय नमः, क्लीं मन्मथाय ।
दक्षिणे ऐं कन्दर्पाय, ब्लूं मकरध्वजाय ।
अग्रे स्त्रीं मीनकेतवे ।
नमः सर्वत्र ।
तथा च ज्ञानार्णवे-
उत्तरस्यां द्वयं देवि दक्षिणस्यां द्वयं दिशि ।
अग्रे चैकं क्रमेणैव पञ्चबाणान् ततो यजेत् ।
पञ्चकामांस्तथा देवि बाणवत् परिपूजयेत् ।
तथा च तत्रैव-
पञ्चकामाः पराबीजं मध्यबाणं वाग्भवं परमेश्वरि ।
तूर्यबाणं ततश्चैव स्त्रीबीजञ्च क्रमात् प्रिये ।
पञ्चकामा इमे देवि नामानि शृणु वल्लभे ।
काममन्मथकन्दर्पमकरध्वजसञ्ज्ञकाः ।
मीनकेतुर्महेशानि पञ्चमः परिकीर्तितः ।
ततोऽष्टयोनिषु पूर्वादिक्रमेण ऐं क्लीं ब्लूं स्त्रीं सः
सुभगायै नमः ।
एवम् ऐं क्लीं ब्लूं स्त्रीं सः भगायै ।
ऐं क्लीं ब्लूं स्त्रीं सः भगसर्पिण्यै ।
ऐं क्लीं ब्लूं स्त्रीं सः भगमालिन्यै ।
ऐं क्लीं ब्लूं स्त्रीं सः अनङ्गायै ।
ऐं क्लीं ब्लूं स्त्रीं सः अनङ्गकुसुमायै ।
ऐं क्लीं ब्लूं स्त्रीं सः अनङ्गमेखलायै ।
ऐं क्लीं ब्लूं स्त्रीं सः अनङ्गमदनायै ।
नमः सर्वत्र ।
ततोऽष्टपत्रेषु पूर्वादिक्रमेण ॐ असिताङ्गब्राह्मीभ्यां नमः
एवं ॐ रुद्रमाहेश्वरीभ्याम्, ॐ चण्डकौमारीभ्यां, ॐ
क्रोधवैष्णवीभ्यां, ॐ उन्मत्तवाराहीभ्यां, ॐ
कपालीन्द्राणीभ्यां, ॐ भीषणचामुण्डाभ्यां, ॐ
संहारमहालक्ष्मीभ्याम् ।
तथा च निबन्धे-
अष्टयोनिष्वष्टशक्तीः पूजयेत् सुभगादिकाः ।
मातरो भैरवाङ्कस्था मदविभ्रमविह्वलाः ।
अष्टपत्रेषु सम्पूज्या यथावत् कुसुमादिभिः ।
ततस्तद्वहिरिन्द्रादीन् वज्रादींश्च सम्पूज्य धूपादिविसर्जनान्तं
कर्म समापयेत् ।
किन्तु नैवेद्यानन्तरं श्रीविद्योक्तवलि चतुष्टयमत्र देयमिति ॥ ६२ ॥
अस्य पुरश्चरणं दशलक्षजपः ।
होमस्तु पलाशकुसुमेन द्वादशसहस्रम् ।
तथा च निबन्धे-
दीक्षां प्राप्य जपेन्मन्त्रं तत्त्वलक्षं जितेन्द्रियः ।
पुष्पैर्भानुसहस्राणि जुहुयाद्ब्रह्मवृक्षजैः ॥ ६३ ॥
अथ सम्पत्प्रदा-भैरवी
ज्ञानार्णवे-
यथेयं त्रिपुरा बाला तथा त्रिपुरभैरवी ।
सम्पत्प्रदा नाम तस्याः शृणु निर्मलमानसे ।
शिवचन्द्रौ वह्निसंस्थो वाग्भवं तदनन्तरम् ।
कामबीजं तथा देवि शिवचन्द्रान्वितं ततः
पृथ्वीबीजान्तवह्याढ्यं तार्तीयं शृणु वल्लभे ।
शक्ति बीजे महेशानि शिववह्नी नियोजयेत् ।
कुमार्याः परमेशानि हित्वा सर्गन्तु वैन्दवम् ।
त्रिपुराभैरवी देवी महासम्पत्प्रदा मता ॥
अस्यार्थः-
त्रिपुराभैरवी विसर्गरहिता चेत् सम्पत्प्रदा भवति ॥ ६४ ॥
तन्त्रान्तरे-
सम्पत्प्रदा-भैरवी या तत्र तार्तीय बीजके ।
सर्गं हित्वा ततो विन्दुं निक्षिपेत् सुरसुन्दरि ॥ ६५ ॥
अस्या ध्याम्-
आताम्रार्कसहस्राभां स्फुरच्चन्द्रकलाजटाम् ।
किरीटरत्नविलसच्चित्रचित्रितमौक्तिकाम् ।
स्रवद्रुधिरपङ्काढ्य मुण्डमालाविराजिताम् ।
नयनत्रयशोभाढ्यां पुर्णेन्दुवदनान्विताम् ।
मुक्ताहारलताराजत्पीनोन्नतघटस्तनीम् ।
रक्ताम्बर-परीधानां यौवनोन्मत्तरूपिणीम् ।
पुस्तकञ्चाभयं वामे दक्षिणे चाक्षमालिकाम् ।
वरदानप्रदां नित्यां महासम्पत्प्रदां स्मरेत् ।
न्यासपूजादिकञ्च पूर्ववत् ॥ ६६ ॥
अङ्गमन्त्रे तु विशेषः ।
द्विरुक्तैस्तु त्रिभिर्बीजैः कराङ्गन्यासकल्पना ॥ ६७ ॥
अस्य पुरश्चरणं त्रिलक्षजपः ।
ज्ञानार्णवे-
बालावदस्याः पूजादि कुर्यात्साधकसत्तमः ।
गुणलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ॥ ६८ ॥
तन्त्रान्तरे-
न्यासपूजादिकं सर्वं कुमार्या इव सुव्रते ।
एकलक्षं जपेन्मन्त्रं सिद्धये साधकोत्तमः ।
इति वचनादेकलक्षजपपुरश्चरणमिति केचित् ।
सिद्धविद्यात्वात् ॥ ६९ ॥
अथ कौलेशभैरवी
ज्ञानार्णवे-
सम्पत्प्रदाभैरवीवद्विद्धि कौलेशभैरवीम् ।
हसाद्या सैव देवेशि त्रिषु वीजेषु पार्वति ।
इत्यन्तु सहराद्या स्याद्ध्यानपूजादिकं तथा ।
अस्यार्थः-
त्रिकूटे सकारादिश्चेत्तदा कौलेशभैरवी भवति ॥ ७० ॥
अस्याः पूजाध्यानादिकं सम्पत्प्रदाभैरवीवद्वोध्यम् ॥ ७१ ॥
अथ सकलसिद्धिदा-भैरवी
ज्ञानार्णवे-
एतस्या एव विद्याया आद्यन्ते रेफवर्जिते ।
तदेयं परमेशानि नाम्ना सकलसिद्धिदा ।
सम्पत्प्रदाभैरवीवद्ध्यानपूजादिकम् ।
अस्यार्थः-
कौलेश-भैरवी आद्यन्ते रेफवर्जिता चेत्तदा सकलसिद्धिदा-
भैरवी भवति ध्यानपूजादिकन्तु सम्पत्प्रदावत् ॥ ७२ ॥
अथ भयविध्वंसिनी-भैरवी
सम्पत्प्रदा-भैरवी आद्यन्ते रेफरहिता चेत्, तदा भयविध्वंसिनी
भैरवी भवति ।
दक्षिणामूर्तौ तथा दर्शनात्पूजादिकन्तु सम्पत्प्रदावत् ॥ ७३ ॥
अथ चैतन्यभैरवी -
ज्ञानार्णवे-
वाग्भवं बीजमुच्चार्य जीवप्राणसमन्वितम् ।
सकला भुवनेशानी द्वितीयं बीजमुद्धरेत् ।
जीवं प्राणं वह्निसंस्थं शक्रस्वरविभूषितम् ।
विसर्गाढ्यं महेशानि विद्या त्रैलोच्यमातृका ॥ ७४ ॥
अस्यार्थः-
चन्द्रशिवद्वादशस्वरसंयुक्तं विन्दुनादाढ्यम् इति प्रथमं,
चन्द्रकामपृथ्वीमहामाया इति द्वितीयम्, चन्द्र-शिववह्निबीजं
चतुर्दशस्वरयुक्तं विसर्गाढ्यञ्च इति तृतीयम् ॥ ७५ ॥
अस्याः पूजायन्त्रं ज्ञानार्णवे-
त्रिकोणञ्चैव षट्कोणं वसुपत्रं वरानने ।
चतुसस्रं चतुर्द्वारमेवं मण्डलमालिखेत् ॥ ७६ ॥ (चित्र २८)
अस्याः पूजा-
प्रातःकृत्यादिकं विधाय आधारशक्त्यादि ह्रीं ज्ञानात्मने
नमः इत्यन्तं कर्म समाप्य हृत्पद्मस्य पूर्वादिक्रमेण
केशरेषु ॐ वामायै नमः एवं ज्येष्ठायै रद्र्यम् अम्बिकायै
इच्छाये ज्ञानायै क्रियायै कुब्जिकायै चित्रायै विषघ्निकायै
भूचर्यै आनन्दायै मध्ये ह्सौः सदाशिवमहाप्रेतपद्मासनाय
नमः ।
सम्पत्प्रदाबालाकौलेशीसकलसिद्धिदाविद्यानाम् एता वा
पीठशक्तयः ज्ञानार्णवोक्तत्वात् ॥ ७७ ॥
ततः ऋष्यादिन्यासः-
शिरसि दक्षिणामूर्तये ऋषये नमः ।
मुखे पङ्क्तिच्छन्दसे नमः ।
हृदि चैतन्य-भैरव्यै देवतायै नमः ॥ ७८ ॥
ततः कराङ्गन्यासौ-
पूर्वबीजमुच्चार्यम् अङ्गुष्ठाभ्यां नमः ।
द्वितीयबीजमुच्चार्य तर्जनीभ्यां स्वाहा ।
तृतीयबीजमुच्चार्य मध्यमाभ्यां वषट् ।
पुनः प्रथमबीजमुच्चार्य अनामिकाभ्यां हुम् ।
द्वितीयबीजमुच्चार्य कनिष्ठाभ्यां वौषट् ।
तृतीयबीजमुच्चार्य करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु ।
तथा च तत्रैव-
द्विरावृत्त्या षडङ्गानि न्यासं सर्वाङ्गरक्षणम् ।
ततो ध्यानम्-
उद्यद्भानुसहस्राभां नानालङ्कारभूषिताम् ।
मुकाटाग्रलसच्चन्द्ररेखां रक्ताम्बरान्विताम् ।
पाशाङ्कुशधरां नित्यां वामहस्ते कपालिनीम् ।
वरदाभयशोभाढ्यां पीनोन्नत घनस्तनीम् ॥
एवं ध्यात्वा, मानसैः सम्पूज्य, शङ्खस्थापनं कृत्वा,
आधारशक्त्यादिपीठपूजां विधाय
वामाज्येष्ठादिपीठशक्तीः पीठमनुञ्च पूजयेत् ।
ततो भैरव्युक्त गुरुपङ्क्तीः सम्पूज्य, पुनर्ध्यात्वा
आवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं विधाय
आवरणपूजामारभेत् ॥ ८० ॥
तद्यथा-
अग्निकोणे प्रथमं बीजमुच्चार्य हृदयाय नमः ।
ईशाने द्वितीयं बीजमुच्चार्य शिरसे स्वाहा ।
नैर्-ऋते तृतीयं बीजमुच्चार्य शिखायै वषट् ।
वायुकोणे पुनः प्रथमं बीजमुच्चार्य कवचाय हुम् ।
मध्ये द्वितीयं बीजमुच्चार्य नेत्रत्रयाय वौषट् चतुर्दिक
तृतीयबीमुच्चार्य अस्त्राय फट् ।
ततः पूर्ववद्रत्यादिकं सम्पूज्य, अग्रे ॐ वसन्ताय नमः, वामे
ॐ कामदेवाय नमः, दक्षिणे ॐ चापाय नमः ।
ततः पूर्ववद्वाणान् पूजयेत् ।
ततः षट्कोणे पूर्वादि ॐ डाकिन्यै नमः ।
एवं राकिण्यै लाकिन्यै काकिन्यै शाकिन्यै हाकिन्यै इति
प्रणवादिनमोऽन्तेन पूजयेत् ।
ततोऽष्टदलेषु पूर्वादि पूर्वोक्तानङ्गकुसुमादीन् पूजयेत् ।
पत्राग्रेषु पूर्वादि ॐ परभृताय नमः, एभं सारसाय शुकाय
मेघाह्वयाय मेघाय इति वा अपाङ्गाय भ्रूविलासाय हावाय
भावाय ।
ततः इन्द्रादीन् वज्रादींश्च पूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ।
अस्य पुरश्चरणं लक्षजपः ।
तथा च ज्ञानार्णवे-
लक्ष्यसङ्ख्याकं जपेन्मन्त्रमित्यादि ॥ ८१ ॥
अथ कामेश्वरीभैरवी
ज्ञानार्णवे-
कामेश्वरी च रुद्रार्णा पूर्वसिंहासने स्थिता ।
एतस्या एव विद्याया बीजद्वयमुदाहृतम् ।
तदन्ते परमेशानि नित्यक्लिन्ने मदद्रवे ।
एतस्या एव तर्तीयं रुद्रार्णा परमेश्वरी ।
पूजाध्यानादिकं सर्वं चैतन्या इव पूर्ववत् ।
त्रिकोणेषु शिशेषोऽस्ति कथयामि वरानने ।
अग्रकोण क्रमेणैव नित्यां किलन्नां मदद्रवाम् ।
षडङ्गावरणं पश्चात् पूजयेत् सर्वसिद्धये ॥ ८२ ॥
अथ षट्कूटाभैरवी
ज्ञानार्णवे-
डाकिनी राकिणी जीजे लाकिनी काकिनी युगम् ।
शाकिनी हाकिनी बीजे आहृत्य सुरसुन्दरि ।
आद्यमैकारसंयुक्तमन्यदीकारमण्डितम् ।
शत्रुस्वरान्वितं देवि तार्तीयं बीजमालिखेत् ।
विन्दुनादकलाक्रान्तं तृतीयं शैलसम्भवे ।
तृतीयं बीजं सविसर्गमिति केचित् ॥ ८३ ॥
तन्त्रान्तरे-
उरौ क्ष्मामादनं बीजं शिवमत्र त्रिधालिखेत् ।
अर्केण मायाशक्राभ्यां क्रम तन्मण्डितं कुरु ।
विन्दुनादान्वितञ्चाद्ययुग्ममन्त्यं विसर्गवत् ॥ ८४ ॥
ध्यानमस्याः प्रवक्ष्यामि सर्वभूतनिकृन्तनम् ।
बालसूर्यप्रभां देवीं जवाकुसुमसन्निभाम् ।
मुण्डमालावलीरभ्यां बालसूर्यसमांशुकाम् ।
सुवर्णकलसाकारपीनोन्नतपयोधराम् ।
पाशाङ्कुशौ पुस्तकञ्च तथा च जपमालिकाम् ।
दधतीमिति शेषः ॥ ८५ ॥
द्विरावृत्त्या षडङ्गानि विधाय परमेश्वरि ।
यन्त्रमस्याः प्रवक्ष्यामि त्रिकोणं तत्पुटं लिखेत् ।
बहिरष्टदलं पद्मं रविपत्रं ततो लिखेत् ।
चतुरस्रं चतुर्द्वारमेवं मण्डलमालिखेत् ॥ ८६ ॥ (चित्र २९)
षडङ्गावरणं देवि पूर्ववत् पूजयेत् शिवे ।
रत्यादित्रितयं देवि त्रिकोणं परिपूजयेत् ।
डाकिन्याद्यस्तु षट्कोणे वसुपत्रे ततः परम् ।
ब्राह्म्यादियुगलं पश्चात् रविपत्रे ततः परम् ।
बालायाः पीठशक्तिस्तु वामाद्यः पूजयेत् क्रमात् ।
चतुरस्रे लोकपालान् सायुधान् परमेश्वरि ।
अनेनैव विधानेन नित्याख्यां भैरवीं यजेत् ॥ ८७ ॥
अथ नित्याभैरवी
ज्ञानार्णवे-
एतस्या एव विद्यायः षड्वर्णान् क्रमशः स्थितान् ।
विपरीतान् प्रौढे विद्येयं भोगमोक्षदा ।
न्यासपूजादिकं सर्वमस्याः पूर्ववदाचरेत् ॥ ८८ ॥
अथ रुद्रभैरवी
ज्ञानार्णवे-
शिवचन्द्रौ मदनान्तं पान्तं वह्निसमन्वितम् ।
शक्तिभिन्नं विन्दुनादकलाढ्यं वाग्भवं प्रिये ।
सम्पत्प्रदायै भैरव्याः कामराजं तदेव हि ।
सदाशिवस्य बीजन्तु महासिंहासनस्य च ।
एषा विद्या महेशानि वर्णितुं नैव शक्यते ।
अस्यार्थः-
शिवचन्द्रकान्तपान्तवह्नियुक्तम् एकादशस्वरविशिष्टं
विन्दुनादकलान्वितं वाग्भवं बीजम् ।
शिवचन्द्रकामपृथ्वीवह्निचतुर्थस्वरविशिष्टं
नादविन्दुकलान्वितं कामराजबीजं प्रेतबीजं शक्तिकूटं
तृतीयम् ॥ ८९ ॥
अस्याः पूजायन्त्रम्-
त्रिकोणञ्चैव वृत्तञ्च वृत्ताष्टदलपङ्कजम् ।
वृत्तभूमण्डलञ्चेत्यादि ॥ ९० ॥ (चित्र ३०)
अस्याः पूजा-
प्रातःकृत्यादिप्राणायामान्तं विधाय चैतन्यभैरवीवत्
पीठन्यासं कुर्यात् ।
यथा-
आधारशक्त्यादि ह्रीं ज्ञानात्मने नमः इत्यन्तं विन्यस्य,
पूर्वादिक्रमेण ॐ वामायै नमः, एवं ज्येष्ठायै रौद्र्यै काल्यै
कलविकरिण्यै बलप्रमथिन्यै सर्वभूतदमन्यै, मध्ये ॐ
मनोन्मन्यै इति पीठशक्तीर्विन्यस्य पीठमनुं न्यसेत् ।
अत्र पीठमन्त्रस्तु-
अघोरे ऐं घोरे ह्रीं सर्वतः सर्वसर्वेभ्यो घोरघोरतरे श्रीं
नमोऽस्तु रुद्ररूपेभ्यः ऐं ह्रीं श्रीम् ।
तथा च ज्ञानार्णवे-
अघोरे वाग्भवं पश्चाद्घोरे तु भुवनेश्वरी ।
सर्वतः सर्वसर्वेभ्यो घोर-घोरतरे रमाम् ।
नमोऽस्तु रुद्ररूपेभ्यो देव्या बीजत्रयं लिखेत् ।
त्रिंशद्भिश्च त्रिभिर्वर्णैर्विद्येयं कथिता प्रिये ॥ ९१ ॥
ततः ऋष्यादिन्यासः-
शिरसि दक्षिणामूर्तये ऋषये नमः ।
मुखे पङ्क्तिच्छन्दसे नमः ।
हृदि रुद्रभैरव्यै देवातायै नमः ॥ ९२ ॥
ततः कराङ्गन्यासौ-
प्रथमं बीजमुच्चार्य अङ्गुष्ठाभ्यां नमः ।
द्वितीयं बीजमुच्चार्य तर्जनीभ्यां स्वाहा ।
तृतीयं बीजमुच्चार्य मध्यमाभ्यां वषट् ।
पुनः प्रथमं बीजमुच्चार्य अनामिकाभ्यां हुम् ।
द्वितीयं बीजमुच्चार्य कनिष्ठाभ्यां वौषट् ।
तृतीयं बीजमुच्चार्य करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु ॥ ९३ ॥
ततो ध्यानम्-
उद्यद्भानुसहस्राभां चन्द्रचूडां त्रिलोचनाम् ।
नानालङ्कारसुभगां सर्ववैरिनिकृन्तनीम्
वमद्रुधिरमुण्डालीकलितां रक्तवाससीम् ।
त्रिशूलं डमरुं खड्गं तथा खेटकमेव च ।
पिनाकञ्च शरान् देवीं पाशाङ्कुशयुगं क्रमात् ।
पुस्तकञ्चाक्षमालाञ्च शिवसिंहासनसिथिताम् ॥
एवं ध्यात्वा मानसैः सम्पूज्य पूर्ववत् शङ्खस्थापनं
कुर्यात् ॥ ९४ ॥
ततश्चैतन्यभैरव्युक्तपीठपूजां विधाय,
एतन्मन्त्रोक्तपीठमन्त्रेण पीठं सम्पूज्य, पुनर्ध्यात्वा
आवाहनादि-पञ्चपुष्पाञ्जलिदानपर्यन्तं विधाय,
आवरणपूजामारभेत ।
यथा-
अग्निकोणे प्रथमं बीजमुच्चार्य हृदयाय नमः ।
ईशाने द्वितीयं बीजमुच्चार्य शिरसे स्वाहा ।
नैर्-ऋते तृतीयं बीजमुच्चार्यं शिखायै वषट् ।
वायौ पुनः प्रथमं बीजमुच्चार्य कवचाय हुम् ।
मध्ये पुनर्द्वितीयबीजमुच्चार्य नेत्रत्रयाय वौषट् ।
चतुर्दिक्षु पुनस्तृतीयं बीजमुच्चार्य अस्त्राय फट् ।
ततस्त्रिकोणे रत्नयादिकमभ्यर्च्य पत्रमूले अनङ्गकुसुमादिकः ।
पूजयेत् ।
पत्रेषु पूर्वादि असिताङ्गब्राह्म्यादीन् सम्पूज्य भुगृहे
इन्द्रादिलोकपालान् वज्रान्दींश्च पूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ ९५ ॥
अस्य पुरश्चरणं लक्षजपः ।
तथा च-
लक्षं सम्पूज्य मन्त्रज्ञो मन्त्रं मन्त्रविदां वरः ।
इति वचनात् ॥ ९६ ॥
अथ भुवनेश्वरीभैरवी
ज्ञानार्ववे-
हसाद्यं वाग्भवञ्चाद्यं हसकान्ते सुरेश्वरि ।
भूबीजं भुवनेशानी द्वितीयं बीजमुद्धृतम ॥
शिवचन्द्रौ महेशानि भुवनेशो च भैरवी ।
तथा च त्रिपुरार्णवे-
हंसास्त्रयो दन्त्यसकाररूढा वस्वब्धिपङ्क्तिस्वरसंविभिन्नाः
।
आदौ सविन्दु परतो विसर्गी मध्यो विरञ्चीन्द्रहराग्नियुक्तः ।
अस्यार्थः-
शिवचन्द्रवाग्भवमिति प्रथमं बीजम् ।
शिवचन्द्रकामपृथिवीमहामाया इति द्वितीयं बीजम् ।
शिवचन्द्रचतुर्दशस्वरः सविसर्ग इति तृतीयं बीजम् ।
अस्याः पूजायन्त्रं चैतन्य-भैरवीवद्बोध्यम् ॥ ९७ ॥
पूजनन्तु-
प्रातःकृत्यादिप्राणायामान्तं विधाय
चैतन्यभैरव्युक्तपीठन्यासं कृत्वा, ऋष्यादिन्यासं कुर्यात् ।
यथा-
शिरसि दक्षिणामूर्तये ऋषये नमः ।
मुखे पङ्क्तिच्छन्दसे नमः ।
हृदि भुवनेश्वरीभैरव्यै देवतायै नमः ॥ ९८ ॥
ततः कराङ्गन्यासौ ।
तथा च ज्ञानार्णवे-
षड्दीर्घभाजा मध्येन कुर्यादङ्गक्रियां मनोः ।
तेन षड्दीर्घयुक्तेन मध्यबीजेन कराङ्गन्यासः ।
यथा-
ह्स्क्ल्ह्राम् अङ्गुष्ठाभ्यां नमः ।
एवं ह्स्क्ल्ह्रीं तर्जनीभ्यां स्वाहा इत्यादिना न्यसेत् ।
एवं हृदयादिषु ॥ ९९ ॥
ततो ध्यानम्-
जवाकुसुमसङ्काशां दाडिमीकुसुमोपमाम् ।
चन्द्ररेखां जटाजूटां त्रिनेत्रां रक्तवाससीम् ।
नानलङ्कारसुभगां पीनोन्नतघनस्तनीम् ।
पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां श्रये ॥
अन्यत् सर्व चैतन्यभैरवीवत् करणीयम् ॥ १०० ॥
भुवनेश्या भेदान्तरम्
भुवनेश्याश्च भैरव्या भेदान्तरमथोयते ।
सहाद्या सैव देवेशि तदा सा सकलेश्वरी ॥
ध्यानपूजादिकं सर्वमेतस्या एव पूर्ववत् ।
इयं सहाद्या चेत् सकलेश्वरी ।
ध्यानपूजादिकन्तु पूर्ववत् ॥ १ ॥
अथ त्रिपुराबाला-मन्त्रः
शारदायाम्-
अधरो विन्दुमानाद्यं ब्रह्मेन्द्रस्थः शशीयुतः ।
द्वितीयं भृगुसर्गाढ्यो मनुस्तार्तीय ईरितः ।
एषा बालेति विख्याता त्रैलोक्यवशकारिणी ।
अस्यार्थः-
वाग्भवं कामबीजं चन्द्रबीजञ्च सविसर्गं
चतुर्दशस्वरयुक्तम् ॥ २ ॥
अस्याः पूजादिकन्तु त्रिपुराभैरवीवत् ।
शारदायामुक्तत्वात् ।
ज्ञानार्णवे तु विशेष उक्तः ।
न्यासादिकन्तु एतद्वीजेनैव कर्त्तव्यम् ।
यथा-
षडङ्गमाचरेद्देवि द्विरावृत्त्या क्रमेण तु ॥ ३ ॥
अस्य पुरश्चरणं त्रिलक्षजपः ।
तथा च ज्ञानार्णवे-
वर्णलक्षं जपेन्मन्त्रं दशांशं हवनं भवेत् ।
तर्पणन्तु तथा कुर्यात्सर्वसौभाग्यभाग्भवेत् ।
इतरेषां लक्षजपः श्रीविद्योक्तत्वात् ॥ ४ ॥
मन्त्रान्तरम् -
ज्ञानार्णवे-
सूर्यस्वरं समुच्चार्य विन्दुनादकलात्मकम् ।
स्वरान्तं पृथिवीसंस्थं तुर्यस्वरसमन्वितम् ।
विन्दुनादकलाक्रान्तं सर्गवान्भृगुरव्ययः ।
शक्रस्वरसमायुक्ता विद्येयं त्र्यक्षरी मता ॥
अव्ययो विन्दुः ।
दक्षिणामूर्तिसंहितायामप्येवम् ।
एषा विसर्गविन्द्वन्ता शप्ता ॥ ५ ॥
एतां विद्यामधिकृत्य सारसमुच्चयादौ शापबोधनात् ।
तद्यथा-
विद्यामूलोत्पत्तिरेषा मयोक्ता ज्ञातव्येयं सर्वदा सिद्धिकामैः ।
देव्या शप्ता येन विद्येयमाद्या पूर्वं तेन प्राणहीना भवेत् सा
। इति ६ ॥
मुण्डमालातन्त्रेऽपि-
कुमारी या च विद्येयं त्वया शप्ता पतिव्रते ।
तथाद्येन तु लुप्ताऽसौ मध्यनेन तु कीलिता ।
अन्तिमेन तु सम्भिन्ना तेन विद्या न सिध्यति ।
न चैवं शारदोक्तविद्यापि शप्ता स्यादिति वाच्यम् ।
तस्या ज्ञानार्णवोक्तविन्दुघटितस्य शप्तव्यत्वात् ॥ ७ ॥
शापोद्धारमाह मुण्डमालातन्रे-
केवलं शिवरूपेण शक्तिरूपेण केवलम् ।
मया प्रतिष्ठिता विद्या इति ।
तेन हकारसकारौ वाग्भवे कामराजे च तृतीयबीजे च हकारः ।
वक्ष्यमाणसारसमुच्चये तथा दर्शनात् ॥ ८ ॥
त्रिपुरासारेऽपि-
शिवशक्तिबीजमत एव शम्भुना निहितं तयोरुपरि पूर्वबीजयोः ।
स्वकुलं परोपरि च मध्यमाधरे दहनं ततः प्रभृति
सोऽर्जिताभवत् ।
मध्यमाधरे मध्यबीजस्य पश्चात् ॥ ९ ॥
रुद्रयामलेऽपि-
वाग्भवं प्रथमं देवि कामबीजं द्वितीयकम् ।
तृतीयं शक्तिबीजन्तु शिवयुक्तं सदा भवेत् ॥ १० ॥
एषा बाला समाख्याता सर्वदोषविवर्जिता ।
(आदिबीजं भवेन्मध्ये मध्यञ्चादौ नियोजयेत् ।
एवं यो जपते मन्त्रं त्रैलोक्यैस्वर्यभाग्भवेत् ।
साध्यमध्येऽन्तिमं मध्ये मध्यञ्चादौ नियोजयेत् ।
एवं कृत्वा जपेन्मन्त्रं सर्वसिद्धिमवाप्नुयात् ।) ॥ ११ ॥
मन्त्रान्तरम् -
श्रीक्रमे-
वाग्भवं क्लेदिनीबीजमीकारान्तं पठेत् ।
शक्तिमौकारसंयुक्तं विसर्गं तदधः पठेत् ।
विन्दुनादशिखाक्रान्तं बीजं परमदुर्लभम् ॥ १२ ॥
एतद्बीजत्रयं देवि सौः क्लीञ्च तदनन्तरम् ।
इयं पञ्चाक्षरी विद्या कथिता भुवि दुर्लभा ॥ १३ ॥
मन्त्रान्तरं तत्रैव-
बालाबीजत्रयं देवि हंसाद्यं वा जपेत्सुधीः ।
हंसान्तं वा महाभागे सुप्तादिदोषशुद्धये ॥ १४ ॥
अत्रैव-
पाशबीजं महेशानि शक्तिशैवं सवह्निकम् ।
द्वादशस्वरसंयुक्तं नादविन्दुविभूषितम् ।
कामराजं प्रवक्ष्यामि ह्रीङ्कारं शक्तिशैवकम् ।
मादनञ्चेन्द्रबीजञ्च वह्निवामाक्षिविन्दुमत् ॥
शक्तिकूटं महादेवि क्रोङ्कारं शक्तिशैवकम् ।
वह्निबीजं मनोर्युक्तं नादविन्दुससर्गकम् ।
चतुर्दशाक्षरी विद्या षोडशीं शृणु चाम्बिके ।
हंसबीजं ततः पश्चात्षोडशी कथिता मया ॥ १५ ॥
अथ नवकूटाबाला -
तत्रैव-
बालाबीजत्रयं देवि कूटत्रयं नवाक्षरी ॥
वियत्कूटत्रयं देवि भैरव्या नवकूटकम् ॥ १६ ॥
मन्त्रान्तरम् श्रीक्रमे-
शिवः शक्तिश्च वाग्बीजं नादविन्दुकलान्वितम् ।
वाग्भवं कथितं देवि कामराजं शृणु प्रिये ।
शिवशक्तिमादनेन्द्र वह्निमायासमन्वितम् ।
नादविन्दुकलाक्रान्तं कूटं परमदुर्लभम् ।
शिवश्चन्द्रश्च सत्यान्तः सर्गविन्दुकलान्वितम् ।
एषा नवाक्षरी बाला सर्वदोष विवर्जिता ।
अस्यार्थ-
शिवश्चन्द्रवाग्भवं प्रथमम्,
शिवचन्द्रकामभूवह्नितुर्यस्वरविन्दुयुक्तं द्वितीयम् ।
शिवचन्द्रचतुर्दशस्वरविन्दुसर्गयुक्तं तृतीयम् ॥ १७ ॥
अपरा चन्द्रादिः ।
तथा च त्रिपुरासारे-
भैरवीयमुदिताऽकुलपूर्वा देशिकैर्यदि भवेत् कुलपूर्वा ।
सैव शीघ्रफल्दा भुवि विद्येत्युच्यते पशुजनेष्वतिगोप्या ।
मन्त्रान्तरम् -
त्रिपुरासारे-
शिवाष्टमं केवलमादिबीजं भगस्य पूर्वाष्टमबीजमन्यत् ।
परं शिवोऽन्तं गणिता त्रिवर्णा सङ्केतविद्या गुरुवक्त्रगम्या ॥ १९
॥
अस्यार्थः-
बाला तु त्रिविधा विन्द्वन्ता विन्दुविसर्गान्ता विसर्गान्ता च ।
अत्र विन्द्वन्तमुद्धरति-
शिवाष्टमम् ऐकारः, सम्मोहनाख्यं शिवाष्टममिति ।
शिव ऊकारः तस्याष्टमम् ऐकारः केवलं विन्दुः के मस्तके वलते
इति व्युत्पत्त्या अनुस्वारस्तदुयुक्तम् अर्श आदित्वात् ।
प्रथमबीजम् एतेन वाग्भवं बीजम् ।
भग एकारः तस्य पूर्वाष्टमं बीजम् इकारं द्वितीयम् ।
एवं शिरसि न्यासयोन्यम् ओकारस्तस्यान्ते यत् औकारं तृतीयं बीजं
केवलम् एतेन बीजत्रयम् विन्दुनादविशिष्टम् ।
मन्त्रान्तरं तत्रैव-
शक्तिः शिवो वह्निबीजं द्वादशस्वरविन्दुकम् ।
शक्तिर्महेशः कामश्च इन्द्रो वह्नीन्दु मायया ॥
शक्तिः शिवश्च वह्निश्च मनुस्वरविसर्गकः ।
नादविन्दुकलायुक्तं बीजमेतत्प्रकीर्तिम् ॥ २० ॥
एतासां यन्त्रध्यानपूजादिकं भैरवीवत् ।
पुरश्चरणन्तु लक्षजपः ।
श्रीक्रमादौ तथा दर्शनात् ॥ २१ ॥
एतासां दीपनीविद्या श्रीक्रमे-
वदयुग्मं महेशानि वाग्वादिनि ततः परम् ।
एषा त्वष्टाक्षरी विद्या वाग्भवाद्ये नियोजयेत् ॥ २२ ॥
क्लिन्ने क्लेदिनि देवेशि महामोक्षं ततः कुरु ।
कामराजं समुच्चार्यं प्रणवं तदनन्तरम् ॥
महामोक्षं कुरु पश्चात्शक्तिकूटं तथोच्चरेत् ।
जपेदादौ जपेत्पश्चात्सप्तवारमनुक्रमात् ॥ २३ ॥
अथान्नपूर्णा-भैरवी -
तारश्च भुवनेशानी श्रीबीजं कामबीजकम् ।
हृदन्ते भगवत्यन्ते माहेश्वरिपदं ततः ।
अन्नपूर्णे ठयुगलं विद्येयं विंशदक्षरी ॥ २४ ॥
तथा च कल्पे-
कामबीजं विना देवि श्रीबीजपूर्विका यदा ।
ऊनविंशाक्षरी देवि धनधान्यसमृद्धिदा ॥ २५ ॥
अस्याः पूजाः-
प्रातःकृत्यादि-सामान्पूजापद्धत्युक्तपीठन्यासान्तं विधाय,
केशरेषु पूर्वादि ॐ वामायै नमः, एवं ज्येष्ठायै रौद्र्यं
काल्यै कलविकरण्यै बलविकरण्यै बलप्रमथन्यै
सर्वभूतदमन्यै, मध्ये मनोन्मन्यै ।
तत्समीपे ॐ जयायै विजयायै अजितायै अपराजितायै नित्यायै विलासिन्यै
दोग्ध्र्यै अघोरायै, मध्ये मङ्गलायै, सर्वत्र ओङ्कारादिनमोऽन्तेन
पूजयेत् ।
तदुपरि ह्सौः सदाशिवमहाप्रेतपद्मासनाय नमः ॥ २६ ॥
ततः ऋष्यादिन्यासः-
शिरसि ब्रह्मणे ऋषये नमः, मुखे पङ्क्तिच्छन्दसे नमः, हृदि
अन्नपूर्णेश्वर्यै भैरव्यै देवतायै नमः, गुह्ये ह्रीं बीजाय
नमः, पादयोः श्रीं शक्तये नमः, सर्वाङ्गे क्लीं कीलकाय
नमः ।
तथा च ज्ञानार्णवे-
बीजञ्च भुवनेशानी श्रीबीजं शक्तिरुच्यते ।
कीलकं कामबीजं स्यादित्यादि ॥ २७ ॥
ततः कराङ्गन्यासौ-
ह्राम् अङ्गुष्ठाभ्यां नमः, इत्यादिना एवं हृदयादिषु ह्रां
हृदयाय नमः इत्यादिना च ।
तथा च ज्ञानार्णवे-
भुवनेश्या महेशानि षड्दीर्घस्वरसंयुक्तया ।
सडङ्गानित्यादि ॥ २८ ॥
ततः पदन्यासः-
मूर्ध्नि ॐ नमः ।
चक्षुषोः ह्रीं नमः श्रीं नमः ।
कर्णयोः क्लीं नमः नमो नमः ।
नसोर्भगवति नमः माहेश्वरि नमः ।
मुखे अन्नपूर्णे नमः ।
गुह्ये स्वाहा नमः ।
पुनर्गुह्यादि मूर्द्धान्तं न्यस्त् ।
ज्ञार्णवे-
एकम् एकं पुनश्चैकं पुनरेकं द्वयं ततः ।
चतुश्चतुस्तथा द्वाभ्यां पदान्येतानि पार्वति ।
पदान्येतानि देवेशि नवद्वारेषु विन्यसेत् ।
गुह्यादि ब्रह्मरन्ध्रान्तं पदानां नवकं न्यसेत् ॥ २९ ॥
ततो ब्रह्मरन्ध्रमुखहृदयमूलाधारेषु चतुर्बीजानि विन्यस्य,
शेषं भ्रूमध्यनासिकाकण्ठनाभिलिङ्गेषु पञ्चसु सर्वत्र
नमोऽन्तानि न्यसेत् ॥
तदुक्तं तत्रैव-
ब्रह्मरन्ध्रास्यहृदयमूलाधारेष्वनुक्रमात् ।
चतुर्बीजानि विन्यस्य परेष्वन्यांश्च विन्यसेत् ।
भ्रूमध्यनासिकाकण्ठनाभिलिङ्गेषु पञ्चसु ।
पूर्ववत्क्रमतो देवि नमः प्रभृतिकं न्यसेत् ।
ततो मूलेन व्यापकं विन्यस्य ध्यानं कुर्यात् ॥ ३० ॥
तद्यथा-
तप्तकाञ्चनवर्णाभां बालेन्दुकृतशेखराम् ।
नवरत्नप्रभादीप्तमुकुटां कुङ्कुमारुणाम् ।
चित्रवस्त्रपरीधानां सफराक्षीं त्रिलोचनाम् ।
सुवर्णकलसाकारपीनोन्नतपयोधराम् ।
गोक्षीरधामधवलं पञ्चवक्त्रं त्रिलोचनम् ।
प्रसन्नवदनं शम्भुं नीलकण्ठविराजितम् ।
कपर्दिनं स्फुरत्सर्पभूषणं कुन्दसन्निभम् ।
नृत्यन्तमनिशं हृष्टं दृष्ट्वानन्दमयीं पराम् ।
सानन्दमुखलोलाक्षीं मेखलाढ्यनितम्बिनीम् ।
अन्नदानरतां नित्यां भूमिश्रीभ्यामलङ्कृताम् ।
एवं ध्यात्वा मानसैः सम्पूज्य, शङ्खस्थापनं कुर्यात् ॥ ३१ ॥
अस्याः पूजायन्त्रम्-
त्रिकोणञ्च चतुःपत्रं वसुपत्रं ततः परम् ।
कला पत्रञ्च भुविम्बं चतुर्द्वारं समालिखेत् ॥ ३२ ॥ (चित्र ३१)
ततः पीठपूजां विधाय, पुनर्ध्यात्वा, आवाहनादि
पञ्चपुष्पाञ्जलिदानपर्यन्तं विधाय, आवरणपूजामारभेत् ।
कर्णिकायामग्नीशासुरवायुमध्येषु दिक्षु च ह्रां हृदयाय
नमः इत्यादिना पूजयेत् ।
ततस्त्रिकोणाग्रे ॐ हौं नमः शिवाय नम इति शिवं पूजयेत् ।
वायुकोणे ॐ नमो भगवते वराहरूपाय भुर्भूवःस्वःपतये
भूपतित्वं मे देहि ददापय स्वाहा ।
इति मन्त्रेण वराहं पूजयेत् ।
ज्ञानार्णवे-
ॐ नमः पदमाभाष्य ततो भगवते पदम् ।
ततो वराह रूपाय भूर्भूवःस्वःपतिन्तथा ।
ङेऽन्तञ्च भूपतित्वञ्च मे देहीति ददापय ।
वह्निजायान्वितो मन्त्रो वराहस्य वरानने ।
दक्षिण-कोणे ॐ नमो नारायणायेति नारायणं पूजयेत् ।
ततो दक्षिणे वामे च ॐ ग्लौं श्रीम् अन्नं मे देह्यन्नाधिपतये
ममान्नं प्रदापय स्वाहा श्रीं ग्लौम् इत्यनेन भूमिश्रियौ
पूजयेत् ।
ततश्चतुर्दलेषु पुरत आरभ्य ॐ परविद्यायै नमः ह्रीं
भुवनेश्वर्यै नमः श्रीं कमलायै नमः क्लीं सुभगायै
नमः ।
तथा च ज्ञानार्णवे-
तारेण परविद्याञ्च भुवनेशीं तदात्मना ।
कमलां रमया भद्रे कामेन सुभगां यजेत् ।
अष्टपत्रेषु पश्चिमादितः ब्राह्मयाद्या मातॄः पूजपेत् ।
षोडशदलेषु पूर्वादि नम् अमृतायै अन्नपूर्णायै नमः मों
मदनायै अन्नपूर्णायै नमः एवं भं तुष्ट्यं गं पुष्ट्यै
वं प्रीत्यै तिं रत्यै मां ह्रियै (क्रियायै) हें श्रियै श्वं
सुधायै रिं रात्र्यै अं ज्योत्स्नायै न्नं हैमवत्यै पूं
छायायैर्णे पुर्णिमायै स्वां नित्यायै हाम् अमावस्यायै ।
एता अन्नपूर्णाशब्दान्ता नमोऽन्ताश्च पूजयेत् ॥
तथा च ज्ञानार्णवे-
शेषैर्वर्णैः प्रपूज्याश्च अन्नपूर्णान्तशब्दिताः ।
ततश्चतुरस्रे लोकपालान्पूजयेत् ।
तत्रैव-
चतुरस्रे लोकपालान्क्रमेण परिपूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ॥ ३३क ॥
अस्याः पुरश्चरणं लक्षजपः ।
तथा च-
एवं ध्यात्वा जपेन्मन्त्रं लक्षसङ्ख्यमनन्यधीः ।
साज्येनान्नेन जुहुयात्तद्दशांशमनन्तरम् ॥ ३४ ॥
इति भैरवीमन्त्राः ।
अथ श्रीविद्यामन्त्राः
तत्र मेरुः ।
ज्ञानार्णवेः भूमिश्चन्द्रः शिवो माया
शक्तिःकृष्णाध्वमादनौ ।
अर्द्धचन्द्रश्च विन्दुश्च नवार्णो मेरुरुच्यते ।
महात्रिपुरसुन्दर्या मन्त्रा मेरुसमुद्भवा ॥ ३५ ॥
सकला भुवनेशानी कामेशीबीजमुद्धृतम् ।
अनेन सकलां विद्याः कथयामि वरानने ।
शक्त्यन्तस्तुर्यवर्णोऽयं कलमध्ये सुलोचने ।
वाग्भवं पञ्चवर्णाढ्यं कामराजमथोच्यते ॥
मादनं शिवचन्द्राढ्यं मीनलोचने ।
कामराजमिदं भद्रे षड्वर्णं सर्वमोहनम् ॥
शक्तिबीजं वरारोहे चन्द्राद्यं सर्वमोहनम् ।
चतुरक्षररूपन्तु त्र्यक्षरा त्रिपुरा भवेत् ॥
एतामुपास्य देवेशि कामः सर्वाङ्गसुन्दरः ।
कामराजो भवेद्देवि विद्येयं ब्रह्मरूपिणी ॥
अस्यार्थः-
शक्तिरेकारः, तूर्य ईकारः तेन ककार-एकार-ईकार-लकार-
महामाया इति वाग्भवकूटम् ॥ ३६ ॥
शिवो हकारः चन्द्रः सकारः तेन हकार सकार-ककार-हकार-
लकार-महामाया इति कामराज कूटम् ।
चन्द्र सकारः तेन सकार-ककार-लकार-महामाया इति
शक्तिकूटम् ।
तेन त्रिभिः कूटैः कामराजविद्येयम् ॥ ३६क ॥
ज्ञानार्णवे-
शृणु देवि प्रवक्ष्यामि लोपामुद्राभिधां पराम् ।
कामराजाख्यविद्यायाः शक्तिं तूर्याञ्च सुन्दरि ।
हित्वा मुखे शिवेन्द्वाढ्या लोपामुद्रा प्रकाशिता ॥
अस्यार्थः-
कामराजाख्यविद्याया वाग्भवे एकारम् ईकारञ्च हित्वा आदौ
हकारं सकारञ्च दद्यात् ।
अन्यत्समानम् इयमगस्त्योपासिता ।
अनयोर्भेदमग्रे वक्ष्यामः ॥ ३७ ॥
मन्त्रान्तरम् -
कामराजाख्यविद्याया वाग्भवेन वरानने ।
विद्योद्धारं प्रवक्ष्यामि शक्तिमादनमध्यगम् ।
शिवं कुर्याद्वाग्भवे तु शिवाद्यं कामराजकम् ।
चन्द्राद्यन्तु तृतीयं स्यात्विद्येयं मनुपूजिता ।
अस्यार्थः-
कामस्ततः शिवस्तत एकारस्तत ईकारादित्रयं वाग्भवे कूटे ।
मध्यकूटं शिवाद्यं तृतीयकूटं चन्द्राद्यम् ।
तथा च चन्द्रपीठे-
कशिवौ भगतूर्ये च क्षमामायेति वाग्भवम् ।
शिवकामौ भगं तूर्यं लपरा शक्तिकूटकम् ।
मानवीयं समुदिता सर्वाम्नायैर्नमस्कृता ॥ ३८ ॥
सहाद्यं वाग्भवं देवि चन्द्राद्यं शिवमध्यगम् ।
मादनं कामराजे तु शक्तिबीजं सहाननम् ।
चन्द्राराधितविद्येयं भोगमोक्षफलप्रदा ।
अस्यार्थः-
सकारहकारादिकामराजविद्याया वाग्भवं कूटम् अस्या
वाग्भवम् ।
आदौ सकारस्ततो हकारस्ततो मादनं ततः शिवस्तत एकारस्तत
ईकारस्तत लकारस्ततो महामाया इति कामराजकूटम् ।
अस्या वाग्भवकूटमेव शक्तिकूतं विद्येयं चन्द्राराधिता ॥ ३९ ॥
हसाननं वाग्भवन्तु शिवाद्यं सहमध्यगम् ।
मादनं कामराजे तु तार्तीयं शृणु पार्वति ।
हसाद्यं शक्तिबीजन्तु कुवेरेण प्रपूजिता ।
आस्यार्थः-
कामराजाख्यविद्याया वाग्भवं हसाद्यं चेत्तदा अस्य
वाग्भवम् ।
शिवचन्द्रौ ततः कामस्ततः शिवस्तत एकारस्तत ईकारस्ततो
लकारस्ततो माहामया इति कामराजकूटम् ।
अस्य वाग्भवकूटमेव शक्तिकूटम् इयं कुबेरपूजिता ॥ ४० ॥
कामराजाख्यविद्यायास्तार्तीयं सुरवन्दिते ।
सहाद्यं शक्तिबीजं स्याद्विद्यागस्त्यप्रपूजिता ।
अस्यार्थः-
कामराजाख्यविद्याया यदेव वाग्भवं कूटं
कामराजकूटञ्चात्रापि तदेव ।
शक्तिकूटन्तु सहाद्यमिति शेषः ।
इयन्तु द्वितीया लोपामुद्रा ॥ ४१ ॥
कामराजाख्यविद्याया वाग्भवे मादनं त्यज ।
चन्द्रं तत्रैव संयोज्य कामराजे ततः परम् ।
हित्वा चन्द्रं मुखे कुर्यात् विद्येयं नन्दिपूजिता ।
अस्यार्थः-
कामराजाख्यविद्यायां वाग्भवे कामं त्यक्त्वा चन्द्रं
दद्यात्, कामराजे पुनः शिवान्ते चन्द्रं त्यक्त्वा चन्द्राद्यं
कुर्यात् ।
अन्यत् समानम् ॥ ४२ ॥
कामराजाख्यविद्याया हित्वा भूमिं तृतीयके ।
शक्तिबीजे स्थितां देवि चन्द्राधः कुरु तत्र च ।
तेन शक्तिकूटं चन्देन्द्रकाममहामायात्मकम् ।
विद्येयमिन्द्रोपासिता ।
अन्यत् समानम् ॥ ४३ ॥
लोपामुद्राख्यविद्याया द्वितीयाया महेश्वरि ।
कामराजे भृगुं हित्वा मुखे कुर्यात्तमेव हि ।
शिवं विना चतुर्थन्तु तार्तीये सकलः शिवः ॥ ४४ ॥
दक्षिणामूर्तिसंहितायाञ्च-
सहाद्यमन्त्यसहयोर्मध्ये कः सूर्यपूजितः ।
अस्यार्थः-
द्वितीयलोपामुद्रायाः कामराजकूटे हकारादधः सकारं
त्यक्तवा तमादौ कृत्वा द्वितीयहकारं त्यजेत् ।
तृतीयकूटे अन्त्यसकारोपरि ककारं दद्यात् ।
विद्येयं सूर्यपूजिता ॥ ४५ ॥
लोपामुद्रां द्वितीयान्तु विलिख्य सुरसुन्दरि ।
पुनर्विलिख्य तामेव चतुर्थपञ्चमे स्थिताम् ।
हित्वा तु भुवनेशानीमेकोच्चारेण चोच्चरेत् ।
चतुःकूटा महाविद्या शङ्करेण प्रपूजिता ।
अस्यार्थः-
द्वितीयां लोपामुद्रां विलिख्य, पुनरपि तामेव विलिख्य,
चतुर्थकूटे पञ्चमकूटे च स्थितां भुवनेशीं त्यक्त्वा
एकोच्चारणे चोच्चरेत् ।
उच्चारणन्तु पूर्वं त्रिकूटमुच्चार्य कामैकारतूर्येन्द्र शम्भु
� शशाङ्क-कन्दर्प शिवेन्द्र चन्द्र-शिवचन्द्र-कन्द्रर्पेन्द्र-
महामाया चोच्चरेत् ॥ ४६ ॥
लोपामुद्रां पुनर्देवि विलिखेत्तदनन्तरम् ।
नन्दिकेश्वरविद्याञ्च षट्कूटा वैष्णवी भवेत् ।
अस्यार्थः-
पुनः शब्दस्वरसाद्द्वितीयालोपामुद्रामित्यर्थः ।
प्रक्रमादिति तन्त्रकौमुदीकारः ।
वस्तुतस्तु अगस्त्यस्य द्विधाविद्यां विलिख्य नन्दिपूजितामिति
दक्षिणामूर्तिवचनात् ।
कामराजाख्यविद्यायास्त्रिकूटेषु वरानने ।
या स्थिता भुवनेशानि द्विधा कुरु महेश्वरि ।
विन्दुहीना नादहीना दुर्वासःपूजिता भवेत् ॥ ४७ ॥
दक्षिणामूर्तौ च-
मायास्थाने हरी वर्णयुगलं च क्रमाल्लिखेत् ।
अस्यार्थः-
त्रिकूटस्थभुवनेश्वरीं द्विधा कृत्वा नादविन्दुहीनां
कृत्वोच्चरेत् ।
इति द्वादशभेदाः ।
बीजानां पञ्चदशीमाह नवरत्नेश्वरेमाया (ह्रीं) श्री (श्रीं)
मदनै (क्लीं) र्द्देवि श्रीमायामदनैरपि ।
मदनो मायया श्रीश्च श्रीश्च मदनमायया ।
मायया मदनः श्रीस्तु कथिता परमेश्वरि ।
त्रिपुरा बीजसंरूपा गदिता मृत्युनाशिनी ।
इति पञ्चदशी ॥ ४८ ॥
अथ पारिभषिकीं षोडषी
ज्ञानार्णवे-
चन्द्रान्तं दरुणान्तञ्च शक्रादिसहितं पृथक् ।
वामाक्षिविन्दुनादाढ्यं विश्वमातृकलात्मकम् ।
विद्यादौ योजयेद्देवि साक्षाद्ब्रह्मस्वरूपिणी ॥
त्रिकूटाः सकला भेदाः पञ्चकूटा भवन्ति हि ।
वैष्णवी वसुकूटा स्यात् षट्कूटा शाङ्करी भवेत् ।
अस्यार्थः-
चन्द्रान्तं हकारः, वरुणान्तं शकारः, शक्रादी रेफः,
वामाक्षि ईकारः ।
विद्यादौ पूर्वोक्त द्वादशविद्यादौ ॥ ४९ ॥
वेदादिमण्डिता देवि शिवशक्तिमयी यदा ।
तस्या भेदास्तु सकलाः षट्कूटा परमेश्वरि ।
वैष्णवी नवकूटा स्यात् सप्तकूटा तु शाङ्करी ।
अस्यार्थः-
शिवशक्तिमयी पूर्वोक्तबीजद्वयवती ।
वेदादिः प्रणवः, मण्डिता आदौ भूषिता ॥ ५० ॥
अथ महाषोडशी
भेदत्रयस्तु कथितं महाविद्यां शृणु प्रिये ।
आद्यबीजद्वयं भद्रे विपरीतक्रमेण हि ।
विखिख्य परमेशानि ततोऽन्यानि समुद्धरेत् ।
अन्तर्मुखी वरारोहे कुमारी त्रिपुरेश्वरी ।
एभिस्तु पञ्चसङ्ख्याकैर्बीजैः सम्पुटितां यजेत् ।
षट्कूटां परमेशानि विद्येयं षोडशाक्षरी ।
त्रिकूटाः सकला भद्रे षोडशार्णा भवन्ति हि ।
वैष्णव्येकोनविंशार्णा शैवी सप्तदशाक्षरी ।
अस्यार्थः-
आद्यबीजद्वयं माया-रमात्मकं तस्य विपरीतक्रमः आदौ
रमा पश्चान्माया अन्तर्मध्ये स्थितं कामबीजं मुखे आदौ
यस्याः कुमार्याः ।
एतैः पञ्चसङ्ख्यकैर्बीजैः षट्कूटां सप्तकूटां
नवकूटां वा सम्पुटितां सम्पुटवत् कृतां
तेनानुलोमविलोमतः पुटितामित्यर्थः ।
केचित्तु अनुलोमतः सम्पुटितामाहुः तन्न, सर्वतन्त्रविरोधात् ॥ ५१ ॥
तथा च योगिनीतन्त्रे-
श्रीबीजमायास्मरयोनिशक्तिस्तारञ्च माया कमलाथ विद्या ।
शक्त्यादिबीजैश्च विलोमतः सा श्रीषोडशीयञ्च शिवप्रदिष्टा ॥ ५२ ॥
तथा च रुद्रयामले-
श्रीर्माया मदनो वाणीपरा तारं शिवप्रिया ।
हरिप्रिया त्रिकूटा सा परा वाणी मनोभवः ।
माया लक्ष्मीर्महाविद्या श्रीविद्या षोडशी परा ।
दक्षिणामूर्तौ च-
द्वितीयस्यादियुग्मन्तु विपरीतं लिखेत् सुधीः ।
बालाञ्चान्तर्मुखीं कृत्वा विलिखेत्तदनन्तरम् ।
तारं मायां ततो लक्ष्मीं तथा कूटत्रयं लिखेत् ।
कलया सम्पुटां कुर्याद्रमाख्यां परमेश्वरि ।
कलया पूर्वोक्तशक्त्यादिपञ्चकलया ।
रमाख्यां पूर्वोक्तप्रणवादिषट्कूटाम् ।
उमाख्यामिति पाठेऽप्ययमेवार्थः ॥ ५४ ॥
केचित्तु कलयास्थाने बालयेति पाठं कुर्वन्तस्तत्र परमेश्वरीमिति
च बालया अन्तर्मुख्या सम्पुटां वदन्ति ।
रमाख्यां श्रीं परमेश्वरीं ह्रीमिति च ।
तेनोत्तरदले क्लीम् ऐं सौः श्रीं ह्रीमिति वदन्ति, तन्न,
सम्पुटशब्दार्थापरिज्ञानात् ॥ ५५ ॥
नवरत्नेश्वरे-
मन्त्रमादौ वदेत् सर्वं साध्यसञ्ज्ञमनन्तरम् ।
विपरीतं पुनश्चान्ते मन्त्रं तत् सम्पुटं स्मृतम् ।
इति सम्पुटलक्षणात् अनन्वयापत्तेः सर्वतन्त्रविरोधाच्च ॥ ५६ ॥
तथा च श्रीक्रमसंहितायाम् ।
श्रीर्माया मदनो वाणी परैतानि मुखे कुरु ।
वेदादिर्भुवनेशानीं श्रीबीजञ्च त्रिकूटकम् ।
षट्कूटां सम्पुटीकुर्यादाद्यैः पञ्चभिरक्षरैः ।
मायातन्त्रे च-
लक्ष्मीः परा मदनयोनियुता च शक्तिस्तारं परा च कमलाप्यथ
मूलविद्या ।
शक्त्यादिभिश्च विपरीततया प्रदिष्टं श्रीमन्त्रराजमुदितं
परदेवतायाः ।
एतेनानुलोमतः पञ्चबीजैः सम्पुटितामिति मतं हेयम् ॥ ५७ ॥
श्रुतौ तु-
रमा माया तारः परा लक्ष्मी-
कुमारिका विद्या व्यस्ता बाला श्रीपरा तथा ।
व्यस्ता विपरीता तथेति व्यस्तेत्यर्थः ।
कुमारी चान्तर्मुखी वोध्या अत्र कुमारिकानन्तरं तारादित्रिबीज-
सम्बन्धः तन्त्रैकवाक्यताबलात्, त्रैपुरीश्रुतिबलाच्च ।
तथा च-
श्रीमाये मध्यादिबालिका ।
तारो माया श्रीविद्या परादिपञ्चबीजान्यन्ते चेति ॥ ५८ ॥
श्रीपरा चेति पाठे न केवलं बाला व्यस्ता श्रीपरा चेति ।
विद्यायाः षोडशबीजानां स्वरूपकथनं वा ।
क्रमोक्तत्वाभावात् ।
एतेन श्रीर्माया तारं माया श्रीबाला त्रिकूटं व्यस्ता बाला
रमा मायेति मतञ्च हेयम् ॥ ५९ ॥
कुलामृते-
श्रीबीजं शक्तिबीजञ्च कामवीजञ्च वाग्भवम् ।
बालान्तसंस्थितं बीजं प्रणवञ्च ततः परम् ।
शक्तिबीजं रमाञ्चैव विद्याञ्च परमेश्वरि ।
लोपाम्बा कामराजं वा त्रिकूटामथवा पराम् ।
विन्यस्य पुनरद्यानि पञ्च बीजानि सुन्दरि ।
विपरीतक्रमेणैव विन्यस्य षोडशी परा ॥ ६० ॥
यामले च-
लक्ष्मी परा मदनवाग्भवशक्तिबीजं, तारञ्च
भूतिकमलेऽप्यथ मूलविद्या ।
कूटत्रयञ्च विपरीततया नियुक्तं,
श्रीषोडशाक्षरमिहागमसुप्रसिधम् ।
कूटत्रयं कमादिबालायः ।
चकारात् रमां मायाञ्च ॥ ६१ ॥
निबन्धे-
सान्तान्तं शिवपूर्वसप्तमयुतं सूक्ष्मान्तमस्तान्वितं, देवीं
दक्षिणबाहुशक्रनयनं कामं कलालाञ्छितम् ।
दन्तास्तोर्ध्वमुखं सशेषदशनं जीवं मुखेनान्वितं, बीजं
पञ्चकमित्थमेवमुदितं सर्वार्थसिद्धिप्रदम् ॥ वेद्याद्यं
त्रिगुणां रमामथ वदेत्कामेन संसेवितां, लोपाम्बा पुनरेव
पञ्चकमथो पूर्वं विलोमक्रमैः ।
एषा श्रीः परात्परतरा सर्वार्थसिद्धिप्रदा, सारात्सारतमा
समस्तजगतामुत्पत्तिभूतापरा ।
सेयं ब्रह्मस्वरूपा सकलगुणमयी निर्गुणा निष्प्रपञ्चा,
साक्षात्कामदुघा सुरासुरगणैर्वविन्दतानन्दरूपा ॥
अस्यार्थः-
स एव अन्तो यस्य तेन सान्तः षकारः स एवान्तो यस्य तेन सान्तान्तः
शकारः शिवो हकारः तस्य पूर्वसप्तमो रेफः
सूक्ष्मान्तमीकारः मस्तमनुस्वारः, तेन रमाबीजम् ।
देवीं मायाम् ।
दक्षिणबाहुः ककारः, शक्रो लकारः, नयनं मेलनम् ।
कामः विन्दुः, कला कामकला ईकारः, तेन कामबीजम् ।
दन्तान्त ऐकारः ऊर्ध्वमुखं मुखस्योर्ध्वं विन्दुः, तेन
वाग्बीजम् ।
जीवः सकारः शेषदशनमौकारः, मुखं विसर्गः, तेन
पराबीजम् ।
वेदाद्यं प्रणवः ।
त्रिगुणा माया ॥ ६२ ॥
भेदान्तरमाह कुब्जिकातन्त्रे-
परा च कमला कामो वाग्भवं शक्तिरेव च ।
तारशक्ती च कमला त्रिकूटां योजयेत्ततः ।
शक्त्याद्यं व्युत्क्रमान्न्यसेत् स्यान्महाषोडशी परा ।
इमां विद्यां महादेवि योगी भूपोऽथवा जपेत् ।
भुक्तिमुक्तिप्रदा विद्या अन्ते कैवल्यदायिनी ॥ ६३ ॥
पराद्या भुवनेशानि ज्ञेया भुवनसुन्दरी ।
कमलाद्या महाविद्या ज्ञया कमलासुन्दरी ।
कामाद्या च महाविद्या विज्ञेया कामसुन्दरी ।
वाग्भवाद्या महाविद्या परा वाक्सुन्दरीमता ॥
शक्त्याद्या च महाविद्या विज्ञेया शक्तिसुन्दरी ।
ताराद्या च महाविद्या विज्ञेया तारसुन्दरी ॥ ६४ ॥
आनन्दसुन्दरी विद्या प्रथमा गुप्तरूपिणी ।
कामराजेन देवेशि लोपया च विशेषतः ।
स्यान्महाषोडशीमन्त्रश्चतुराद्यविपर्ययात् ।
योगिनीतन्त्रे-
श्रीबीजं शक्तिबीजञ्च कामबीजञ्च वाग्भवम् ।
बालान्तसंस्थितम्बीजं प्रणवञ्च ततः परम् ।
शक्तिबीजं रमाञ्चैव विन्यसेत्परमेश्वरि ।
लोपाम्बा कामराजम्बा भैरवीमथवा पराम् ।
विन्यस्य पुनराद्यानि बीजानि पञ्च सुन्दरि ।
व्युत्क्रमेण समेतानि षोडशी भुवि दुर्लभा ॥
तुरीयाया मनुं लक्षं जप्त्वा सिद्धीश्वरो भवेत् ।
व्युत्क्रमेणेति पञ्चबीजानि विन्यस्य इत्यन्वयः ॥ ६५ ॥
ज्ञानार्णवे-
वक्त्रकोटि सहस्रैस्तु जिह्वाकोटिशतैरपि ।
वर्णितुं नैव शक्येयं श्रीविद्या षोडशाक्षरी ॥
वैखरी वाच्यभावत्वादशक्ता गुणवर्णने ।
यतो निरक्षरं वस्तु परा तत्रैव कारणम् ।
मूकीभूता हि पश्यन्ति मध्यमा मध्यमाभवत् ।
ब्रह्मविद्यास्वरूपा हि भुक्तिमुक्तिफलप्रदा ।
एकोच्चारेण देवेशि बाजपेयस्य कोटयः ।
अश्वमेधसहस्राणि प्रादक्षिण्यं भुवस्तथा ।
काश्यादितीर्थयात्राः स्युः सार्द्धकोटित्रयान्विताः ।
तुलां नार्हन्ति देवेशि नात्र कार्या विचारणा ॥
एकोच्चारेण गिरिजे किं पुनर्ब्रह्म केवलम् ।
षोडशार्णा महाविद्या न प्रकाश्या कदाचन ॥
गोपनीया त्वया भद्रे स्वयोनिरिव पार्वति ॥ ६६ ॥
बीजावलीषोडशी -
रुद्रयामले-
श्रीबीजमाये संलिख्य तथैव च कुमारिकाम् ।
श्रीबीजमाये कामञ्च वाङ्माया कमलान्तथा ।
परां कामञ्च वाग्बीजं मायां श्रीबीजमेव च ।
बीजावली षोडशीयं सर्वतन्त्रेषु गोपिता ।
राज्यं देयं शिरो देयं न देया बीजषोडशी ॥ ६७ ॥
ब्रह्मयामले-
आदौ लक्ष्मीं पराञ्चैव तथैव च कुमारिकाम् ।
श्रीबीजञ्च पराबीजं कामं वाग्भवमेव च ।
पराश्रीबालिकाश्चैव लिखेद्व्युत्क्रमयोगतः ।
अन्ते दद्यात्परां श्रीञ्च सम्पूर्णा कथिता त्वयि ।
बालाप्रधाना विद्या च सर्वशास्त्रे च गोपिता ॥ ६८ ॥
तन्त्रान्तरे मन्त्रान्तरमाह-
आद्या कुण्डलिनी शक्तिः शक्तिराद्या ततः पराः ।
निवेशयेत्तयोर्मध्ये देवि गोविन्दवल्लभाम् ।
ततस्तु मन्मथं बीजं बालाद्यं तदनन्तरम् ।
हृल्लेखारमयोर्वक्त्रे वेदक्त्रं विनिक्षिपेत् ।
ततो लोपां न्यसेद्देवि त्रिकूटामथवा पराम् ।
आद्यानि पञ्चबीजानि पश्चाद्विन्यस्य सुन्दरि ।
षोडशीयं सुगोप्या हि स्नेहाद्देवि प्रकाशिता ॥ ६९ ॥
अस्या माहात्म्यमतुलं जिह्वाकोटिशतैरपि ।
वक्तुं न शक्यते देवि किं पुनः पञ्चभिर्मुखैः ॥ ७० ॥
अपि प्रियतमं देयं सुतदारधनादिकम् ।
राज्यं देयं शिरो देयं न देया षोडशाक्षरी ॥ ७१ ॥
प्रकारान्तरेण षोडशीमाह सिद्धयामले-
कामो माया रमा बाला त्रिकूटा स्त्री भगाङ्कुशौ ।
काली कामकला कूर्चं सर्वादौ प्रणवः प्रिये ।
श्रीमहाषोडशीयञ्च या ख्याता भुवनत्रये ।
ज्ञानेन मृत्युहा विद्या सर्वाम्नायैर्नमस्कृता ।
सप्तलक्षमहाविद्यान्तन्त्रादौ कथिताः प्रिये ।
सारात्सारतराभूता या या विद्याः सुगोपिताः ।
बहुना किमिहोक्तेन तासां सारा तु षोडशी ।
प्रकाशिता महादेवि या पृष्टा ते पुनः पुनः ॥ ७२ ॥
रुद्रयामले-
लोपामुद्रावाग्भवं तु पृथ्वान्ते शिवयोजनात् ।
सकारं कामराजादौ लोपा तु षोडशाक्षरी ।
अनया सदृशी विद्या न विद्यार्णवगोचरे ॥ ७३ ॥
तत्रैव-
विद्याराज्ञी वाग्भवे तु कान्तेऽनन्तनियोजनात् ।
षोडशार्णा महाविद्या चिद्ब्रह्मैक्यमयी शुभा ॥
लोपावाग्भवशक्रान्ते शिवबीजं नियोजयेत् ।
तथैव शक्तिबीजे तु लोपा सप्तदशाक्षरी ॥ ७४ ॥
लोपायाः शक्तिकूटान्ते हंसबीजयुता यदि ।
तदा सप्तदशी विद्या साक्षाज्ज्ञानस्वरूपिणी ॥
अस्याः स्मरणमात्रेण शिवो भवति नान्यथा
अणिमाद्यष्टसिद्धीशः साक्षाद्भूमिपुरन्दरः ॥ ७५ ॥
तत्रैवाष्टादशाक्षरी यथा लोपामुद्रामधिकृत्य-
अधरं विन्दुना युक्तं वाग्भवाद्ये नियोजयेत् ।
मादनं कामराजाद्ये तार्तीयाद्ये महेश्वरि ।
भृगुः सर्गान्वितो देवि मनुना च समन्वितः ।
अष्टादशाक्षरी ह्येषा श्रीविद्या भुवि दुर्लभा ।
श्रीगुरोः कृपया देवि नित्यसिद्धिप्रदायिनि ॥ ७६ ॥
नवलक्षं जपित्वा तु लोपामुद्रां महेश्वरीम् ।
अष्टादशाक्षरी विद्या पश्चाद्राध्या वरानने ।
अन्यथा शापमाप्नोति कुलं तस्य विनश्यति ॥ ७७ ॥
सर्वकल्याणदा विद्या सर्वविघ्नविनाशिनी ।
सर्वसौभाग्यदा ।
देवि सर्वमङ्गलकारिणी ॥
अनया सदृशी विद्या त्रैलोक्य चातिदुर्लभा ॥ ७८ ॥
तत्रैव-
कामराजाख्यविद्याया वाग्भवादौ तु वाग्भवम्-
भुवनेशीं कामराजे श्रीबीजं शक्तिपूर्वतः ॥ एषाप्यष्टादशी
प्रोक्ता सर्वसिद्धि प्रदायिका ।
भोगमोक्षप्रदा साक्षात् पुरुषार्थप्रदायिका ॥ ७९ ॥
अनया सदृशी विद्या त्रैलोक्य चातिदुर्लभा ।
नास्ति नास्ति पुनर्नास्ति सत्यं सत्यं वदामि ते ॥ ८० ॥
मन्त्रान्तरम्-
प्रणवं पूर्वमुद्धृत्य ततो वै कुलसुन्दरीम् ।
कामाक्षरं शक्तिवर्णं पुरन्दरहरौ ततः ।
भुअनेशीं समुद्धृत्य विलोमां बालिकां ततः ।
प्रणवं सविसर्गन्तु ततो वै कुलसुन्दरीम् ॥ लोपावाग्भवमुद्धृत्य
विलोमं बालिकां ततः ।
प्रणवं सविसर्गन्तु ततो वै कुलसुन्दरीम् ।
शक्तिकूटमध्यभागे हकारं योजयेच्छिवे ।
विलोमां बालिकां तत्र ब्रह्मार्णः सविसर्गकः ॥
इति श्रीपरमा विद्या केवला मोक्षदायिनी ।
अस्या लक्षजपेनैव किं न सिध्यति भूतले ।
अस्याः स्मरणमात्रेण शिवो भवति नान्यथा ।
कुलसुन्दरी बाला ।
ब्रह्मार्णः प्रणवः ॥ ८१ ॥
योगिनीजालन्धरे कामराजविद्यामधिकृत्य-
वाङ्मारशक्तिबीजाद्यत्रिकूटाक्रमयोगतः ।
त्रिपुरामालिनी नाम्ना भवेदष्टादशाक्षरी ।
वर्णसङ्ख्यार्द्धलक्षेण पुरश्चरणमिष्यते ॥ ८२ ॥
श्रीक्रमे-
तां विद्यां शृणु देवेशि काममिन्द्रसमन्वितम् ।
नादविन्दुकलाभेदत्तुरीयस्वरसंयुतम् ॥
महाश्रीसुन्दरी विद्या महात्रिपुरसुन्दरी ॥ ८३ ॥
ककारे सर्वमुत्पन्नं कामकैवल्यदायकम् ।
लकारे सकलैश्वर्यमीकारे सर्वसिद्धिदम् ॥
एवं बीजत्रयं भद्रे विद्यानां सारसङ्ग्रहम् ॥ ८४ ॥ वाग्भवं
कामराजञ्च शक्तित्वे न नियोजयेत् ।
एकाक्षरेण कथिता ब्रह्मविद्यैव केवला ॥ ८५ ॥
कामराजलोपामुद्रयोर्विशेषमाह कुलोड्डीशे-
श्रीपरावाग्भवाख्यैश्च ईश्वरीतारमन्मथैः ।
आद्यभूतैर्भिद्यमाना सुन्दरी षड्विधा भवेत् ॥ ८६ ॥
तथा अनयोराद्ये कामो माया श्रीबीजं, मायाश्रीकामबीजं
तथा त्रिविधा चाष्टादशाक्षरी ।
तथा च कुलोड्डीशे-
काममायारमापूर्वो माया लक्ष्मीः स्मरस्तथा ।
रमा माया तथा कामो वसुचन्द्राक्षरी त्रिधा ॥
स्मरं योनिं लक्ष्मीं त्रितयमिदमाद्ये तव मनो रिति
भगवदाचार्येण प्रतिपादितम् ॥ ८७ ॥
शक्तिकामराजन्तु श्रीक्रमे-
मायाबीजं ततो झिण्टी कामं शक्रं वियत् क्रमात् ।
जातवेदो नृगाङ्केन लाञ्छितं परमेश्वरी ।
एतद्वाग्भवकूटञ्च पूर्वकं कामराजकम् ॥
तत्रैव शक्तिबीजञ्च सुन्दर्येषा प्रकीर्तिता ।
अत्रापि पूर्ववद्बीजसंयोगः ।
माया ईकारः ।
झिण्टी एकारः ॥ ८८ ॥
पुनः शक्तिमाह-
एतद्भगं ततो माया ब्रह्मा शक्रो हरोऽग्निना ।
वामनेत्रेण संयुक्तो नादविन्दुविभूषितः ।
एतद्वाग्भवमुद्दिष्टं पूर्ववत् कामशक्तिकम् ।
भग एकारः ।
अत्रापि पूर्ववद्बीजसंयोगः ॥ ८९ ॥
अत्र विशेषः-
ब्रह्मबीजं यदा दद्यात्रिकूटेषु वरानने ।
प्रथमा सुन्दरी देवि द्वितीया ब्रह्मसुन्दरी ॥
शक्तिकूटे महेशानि अनन्तसुन्दरी मता ।
एषा तु षोडशी विद्या मतभेदेन दर्शिता ॥ ९० ॥
मन्त्रान्तरम्-
त्रिकूटान्ते हंसबीजं विन्दुसर्गाविभूषितम् ।
एषा श्रीप्राणसंयुक्ता दारिद्र्यदुःखमोचनी ॥ ९१ ॥
शक्तिलोपामुद्रा तु-
शक्तिर्महेशः कामश्च-इन्द्रबीजं ततः परम् ।
महामाया ततः पश्चात्तव स्नेहाद्वदाम्यहम् ॥
पूर्ववत् कामशक्ताख्यो वर्णौ निष्कीलितात्मकौ ।
इति शाक्ता महाविद्या पश्चिमाम्नाययोजिता ॥
शक्तिः सकारः, पूर्ववत् कामराजविद्यावत् ।
अत्रापि पूर्ववद्बीज संयोगः ॥ ९२ ॥
मन्त्रान्तरम्-
शिवबीजं शक्तिसोमं मादनञ्च पुरन्दरम् ।
व्योम वह्निसमायुक्तं तुरीयस्वरविन्दुकम् ॥
पूर्ववत् कामराजन्तु शक्तिबीजं समुद्धरेत् ।
एषा विद्या महेशानि वर्णितु नैव शक्यते ॥
शक्ति सकारः, सोमः सकारः ।
पूर्ववत् कामराजविद्यावत् ।
अत्रापि पूर्ववद्बीजसंयोगः ॥ ९३ ॥
शिवशक्तिर्भुवनेशी वाग्भवं बीजमुत्तमम् ।
कामं व्योम च देवेशि महामाया ततः परम् ।
सोमं व्योम महामाया नवार्णा परकीर्तिता ।
रुद्रशक्तिरियं देवि पूर्वाम्नाये हि नायिका ॥ ९४ ॥
मन्त्रान्तरम्-
मादनं गोत्रभित् सास्तो रेफवामाक्षिचन्द्रवान् ।
नादविन्दुसमायुक्तः कथितः परमेश्वरि ॥ ९५ ॥
ब्रह्मा च गगनं शक्रो नकुलीशोऽनलस्तथा ।
मायाविन्दुसनादेन कामराजं समुद्धरेत् ॥
शक्तिर्मादनशक्रश्च हरो वह्निश्च मायया ।
नादविन्दुसमाक्रान्तः कथितः कामदो मनुः ॥
एषा विद्या महेशानि कथितैकादशाक्षरी ॥ ९६ ॥
मन्त्रान्तरम्-
मादनं पञ्चवक्त्रञ्च लोहिता रुद्रयोगिनी ।
पुरन्दरो महामाया वाग्भवं बीजमुत्तमम् ॥
पूर्ववत् कामशक्त्याख्यमुद्धरेद्देवि सुन्दरीम् ।
लोहिता क्षकारः, रुद्रयोगिनी मकारः ॥
पूर्ववत् कामराज विद्यावत् ॥ ९७ ॥
भृग्वीशं गगनं हान्तं कालमिन्द्रं महेश्वरम् ।
वामाक्षिवह्निविन्द्वाढ्यं वाग्भवं परमेश्वरि ॥ कामराजं
शक्तिकूटं पूर्ववत्तु समुद्धरेत् ।
भृग्वीशः सकारः, हान्तः क्षकारः, कालो मकारः ॥
पूर्ववत् कामराजविद्मावत् ।
सर्वत्र एवं क्रमः ॥ ९८ ॥
मन्त्रान्तरम्-
विष्णुरीशस्ततो हान्तः कालेशः पृथिवी ततः ।
भुवनेशी ततः पश्चाद्वाग्भवं कथितं त्वयि ॥
कामराजं शक्तिकूटं पूर्ववत् कथितं प्रिये ।
विष्णुरीशः अकारयुक्तहकारः कालेशो मकारः ॥ ९९ ॥
सुभगोदयां विद्यामाह श्रीक्रमे-
शक्तिः स्वयम्भूः शम्भुश्च शक्रश्च भुवनेश्वरी ।
शिवो मादनरुद्रेन्द्रमहामायास्ततः परम् ।
कामः शिवस्ततो ब्रह्मा इन्द्रश्च भुवनेश्वरी ॥
एषा तु परमेशानि सुन्दरी सुभगोदया ।
त्रिकूटान्ते हंसबीजं तदा सप्तदशी भवेत् ॥ १०० ॥
वाग्बीजं विजया माया ब्रह्मा शक्रश्च पार्वती ।
मान्मथं शैवशक्ति च मादनं हर इन्द्रकः ॥
माहामाया ततः पश्चात्शक्तिर्मनुः ससर्गकः ।
चन्द्रः प्रजापतिः शक्रो महामाया ततः परा ॥
अष्टादशाक्षरी विद्या महात्रिपुरसुन्दरी ।
सर्वान्ते हंससंयुक्ता विशाक्षरी भवेत्तदा ॥ १ ॥
श्रीदेव्युवाच-
भाषा सृष्टिः स्थितिहृती निराख्या पञ्चसुन्दरीः ।
कथयस्व प्रभो देव यदि ते रोचते मतिः ॥ २ ॥
ईश्वर उवाच-
शिवो मादन इन्द्रश्च शक्तिश्च भुवनेश्वरी ।
ब्रह्मा शिवेन्द्रौ शक्तिश्च महामाया ततः परा ॥
मादनेन्दौ शक्तिशिवो महामाया तदन्तके ।
शक्तिः सकारः ।
एषा भाषा ॥ ३ ॥
शिवश्चन्द्रस्तथा कामः शक्रश्च भुवनेश्वरी ।
शिवेन्द्रौ कामरुद्रौ च चन्द्रश्च परमेश्वरी ॥
शक्तिः कामश्च शक्रश्च महामाया ततः परा ।
इयं सृष्टिः ॥ ४ ॥
शिवेन्द्रौ कामशक्ती च महामाया ततः परम् ।
कामश्चन्द्रौ महेशश्च इन्द्रः शक्तिश्च पार्वती ॥
ब्रह्मा महेश्वरः शक्तिः शक्रश्च भुवनेश्वरी ।
स्थितिरेषा ॥ ५ ॥
शिवेन्द्रौ कामशक्ती च तत्परा परमेश्वरी ।
शिवशक्ती मादनेन्द्रौ शिवो वह्नीन्दुमायया ॥
शिवः शक्तिश्च क-ल-हा वह्निमायेन्दुभूषिताः ।
एषा संहृतिः ॥ ६ ॥
शक्रो ब्रह्मा चन्द्रबीजं महामाया ततः परम् ।
वाग्भवं कथितञ्चैव कामराजं ततः शृणु ॥
शक्तिः शिवो मादनेन्द्रौ तत्परा परमेश्वरी ।
शिवः शक्तिश्च सोमश्च शून्यो ब्रह्मा महेश्वरी ॥
एषा निराख्या ।
शून्यो हकारः ॥ ७ ॥
देव्युवाच-
स्वप्नावतीं मधुमतीं कथयस्व मयि प्रभो ।
इदानीं श्रोतुमिच्छामि यदि तेऽस्ति कृपा मयि ॥ ८ ॥
ईश्वर उवाच-
शिवो मादनशक्रौ च शक्तिस्तु भुवनेश्वरी ।
महेशो ब्रह्मा हंसश्च इन्द्रोऽपि भुवनेश्वरी ॥
महेशः शक्तिः कामश्च पुरन्दरो वियत्तथा ।
अग्निमायाकलायुक्तं नादविन्दुविभूषितम् ॥
हंसो हकारः ।
मायाकला ईकारः ।
एषा स्वप्नावती ख्याता कला पञ्चदशो च या ।
एषा स्वप्नावती ॥ ९ ॥
ब्रह्मा महेश इन्द्रश्च शक्तिश्च भुवनेश्वरी ।
ब्रह्मा वियन्मरुच्छक्रस्तत्परा परमेश्वरी ॥
मादनं सोमचन्द्रौ च शक्रश्च परमेश्वरी ।
मरुत् यकारः ।
एषा मधुमती ख्याता सर्वतन्त्रेषु गोपिता ।
एषा मधुमती ॥ १० ॥
श्रीक्रमे-
कामकेश्वरीविद्यैव त्रिकूटक्रमपाठिता ।
सौभाग्यायास्त्रिकूटेन पञ्चम्याः पञ्चकूटम् ॥
त्रिपुरा या महाविद्या कूटैकादशनिर्मिता ।
सारात्सारतरा विद्या कथितैकादशाक्षरी ॥ ११ ॥
अथ पञ्चमी -
कामं विष्णुयुतं देवि शक्तिर्मायेन्द्र एव च ।
महामाया ततः पश्चाद्वाग्भवं बीजमुद्धरेत् ॥
विष्णुयुतमकारयुतमित्यर्थः ।
शक्तिरेकारः, माया ईकारः ॥ १२ ॥
वियच्चन्द्रस्तथा पश्चात्कलौ नकुलि-वह्नि च ।
मायास्वरेण संयुक्तं नादविन्दुकलान्वितम् ॥ प्रथमं
कामराजस्य कूटं परमदुर्लभम् ॥ १३ ॥
वियद्विष्णुयुतं कामो हंसः-
सक्रस्ततः परम् ।
महामाया ततः पश्चात् स्वप्नावतीति कथ्यते ।
एतद्द्वितीयकामराजकूटम् ।
हंसो हकारः ॥ १४ ॥
मादनं शिवबीजञ्च वायुबीजं ततः परम् ।
इन्द्रबीजं ततः पश्चान्महामायां समुद्धरेत् ॥
इति तृतीयकूटम् ।
इयं मधुमती ॥ १५ ॥
शिवबीजं ततः कामम् इन्द्रं देवीं नियोजयेत् ।
महामायां ततः पश्चात्शक्तिकूटं समुद्धरेत् ॥
देवी सकारः ॥ १६ ॥
कुलोड्डीशे-
वाग्भवं प्रथमं कूटं शक्तिकूटञ्च पञ्चमम् ।
मध्यकूटत्रयं देवि कामराजं मनोहरम् ॥
कथिता पञ्चमी विद्या त्रैलोक्यसुभगोदया ॥ १७ ॥
ईश्वर उवाच-
शृणु देवि महाभागे शक्तिकूटं सुदुर्लभम् ।
वाग्भवं प्रथमं कूटं कामराजं त्रिकूटकम् ॥
शक्तिकूटं प्रवक्ष्यामि तव स्नेहाद्विशेषतः ।
जीवप्राणौ महेशानि मादनं तदनन्तरम् ॥
इन्द्रबीजं ततः पश्चाद्भुवनेशी तु पञ्चमम् ।
इति वा शक्तिकूटम् ।
जीवः सकारः, प्राणो हकारः ॥ १८ ॥
अथवा देवदेवेशि सौभाग्यायाश्च वाग्भवम् ।
कूटत्रयं कामराजं शक्तिबीजञ्च पूर्ववत् ॥
वामनेत्रादिकूटं वा भगादिकूटमेव वा ।
अरिहा सिद्धिदा विद्या सर्वदोषविवर्जिता ॥
भग एकारः ।
एतेनाष्टधा पञ्चमी वाग्भवशक्तिकूटभेदेन ॥ १९ ॥
यामले-
द्विविधा पञ्चमी विद्या पञ्चपञ्चाक्षरी परा ।
मध्ये षडक्षरी चैव शक्तिश्च चतुरक्षरी ॥
षडिति कामराजविद्यामध्यकूटमित्यर्थः ।
शक्तिकूटमिति कामराजस्य शक्तिकूटमित्यर्थः ॥
एषा चतुर्द्धा वाग्भवकुटभेदात् ॥ २० ॥
एतयोरष्टधा-चतुर्द्धा-व्यवस्थितयोः ।
कामराजस्य तृतीयकूटन्तु तत्रैव ॥
कामराजं महेशानि शिवबीजं ततः परम् ।
तदधो हंसबीजन्तु इन्द्रबीजं विचिन्तयेत् ॥
महामाया ततः पश्चात्कूटं परमदुर्लभम् ।
एषापि पूर्ववदष्टधा अन्या चतुर्द्धा ॥ २१ ॥
तथा च तत्त्वबोधे-
कामाकाशपराशक्रःअसंस्थानकृतरूपिणी ।
परा सकारः ।
संस्थानकृतरूपिणी महामाया ॥ २२ ॥
तथा च तन्त्रे-
कामबीजं महेशानि शम्भुबीजं ततः परम् ।
तदधश्चन्द्रबीजन्तु पृथ्वीबीजं ततो लिखेत् ।
तदन्ते च महामाया कूटं परमदुर्लभम् ।
एषा पूर्ववदष्टधा, अन्या चतुर्द्धा, तेन षट्त्रिंशद्रूपिणी
पञ्चमी ॥ २३ ॥
श्री क्रमे-
एतासाञ्चैव विद्यानां प्राणं शृणु वरानने ।
रमां मायां हंसबीजं वाग्भवाद्ये नियोजयेत् ॥
शक्त्यन्ते महादेवि हंसं मायां रमान्तथा एभिर्युक्तेन देवेशि
विद्याजपनमाचरेत् ॥
जपश्च सप्तवारमेव दीपन्यां तथा दर्शनात् ।
एतासामिति पूर्वोक्तश्रीक्रमोक्तविद्यानाम् ॥ २४ ॥
पञ्चम्यान्तु विशेषो यथा-
रमां मायां हंसबीजं वाग्भवाद्ये नियोजयेत् ।
शक्त्यन्ते तु महेशानि हंसं मायां रमान्तथा ॥
कामराजत्रये देवि ककारं शक्रसंयुतम् ।
मायाविन्द्वीश्वरयुतं सूर्यकोटिसमप्रभम् ॥ २५ ॥
प्रथमं कामकूटस्य चाद्ये नियोजयेदिदम् ।
वान्तं वह्निसमायुक्तं वामनेत्रविभूषितम् ॥
नादविन्दु-समायुक्तं श्रियो बीजमुदाहृतम् ।
द्वितीयं कामराजन्तु जपेदुक्त्वा च सुन्दरि ॥
गगनं वह्निसंयुक्तं वामनेत्रविभूषितम् ।
नादविन्दुसमायुक्तं मायाबीजं प्रकीर्तितम् ।
मधुमतीं जपेच्चापि सर्वकाम-फलप्रदाम् ॥ २५क ॥
अथ दीपनी-
तारं लक्ष्मीञ्च वाग्बीजं मन्मथं भुवनेश्वरीम् ।
एतज्जप्त्वा ततः पश्चाद्वाग्भवाख्यं समुच्चरेत् ॥ २६ ॥
प्रणवं भुवनेशानीं रमां कामञ्च वाग्भवम् ।
कामराजं ततो जप्त्वात्रैलोक्यक्षोभकारकः ॥ २७ ॥
ओङ्कारञ्चैव वाग्बीजं रमां मन्मथमायया ।
स्वप्नावतीं महादेवि जपेत्तत्र समाहितः ॥ २८ ॥
प्रणवं चाधरं कामं रमाञ्च भुवनेश्वरीम् ।
मधुमतीं ततो जप्त्वा मायां श्रीं कूर्चबीजकम् ॥ २९ ॥
प्रणवाद्यञ्च देवेशि हंसबीजपुटीकृतम् ।
एतद्बीजं समुच्चार्य शक्तिकूटं ततो जपेत् ॥
एषा तु दीपनी विद्या अजपा प्राणरूपिणी ॥ ३० ॥
जपनियमस्तु-
जपेदादौ जपेत् पश्चात् सप्तवारमनुक्रमात् ।
कामराजादिविद्यानां दीपनीञ्चैव कारयेत् ।
वाग्भवे कामराजे तु शक्तिकूटे सुरेश्वरि ।
अत्र पञ्चमीवद्भोध्या वाग्भवशक्तिकूटयोर्दीपनी ॥ ३१ ॥
कामकूटे पुनः-
प्रणवं भुवनेशानीं रमां कामञ्च वाग्भवम् ।
दीपनीमिति ।
सर्वत्र कूटे स्वरसम्बन्धः ॥ ३२ ॥
तथा च सौभाग्यादिविद्यामधिकृत्य योगिनीहृदये-
स्वरव्यञ्जनभेदेन सप्तत्रिंशत्प्रभेदिनी ।
सप्तत्रिंशत्प्रभेदेन षट्त्रिंशत्तत्त्वरूपिणी ।
तत्त्वातीतस्वभावा च विद्येषा भाव्यते सदा ।
श्रीकण्ठदशकं तद्वदव्यक्तस्य हि वाचकम् ।
प्राणभूतस्थितो देवि तत्तदेकादशः परः ॥ ३३ ॥
श्रीयन्त्रम्
अथ श्रीयन्त्रम्-
यथा-विन्दुमत्रास्रमष्टकोणम् एतत्त्रितयं संहारचक्रम् ॥ द्वि-
दशारं चतुर्दशारम् ।
स्थितिचक्रमेतत्त्रयम् ॥
अष्टपद्मं षोडशदलं वृत्तत्रयं भूषदनत्रयम्
चतुर्द्वारसयुक्तमेतत्सृष्टात्मकम् ॥ ३४ ॥ (चित्र ३२)
तदुक्तं यामले-
विन्दुत्रिकोण-वसुकोण-दशारयुग्म-मन्वस्र नागदल-
सङ्गतषोडशारम् ।
वृत्तत्रयञ्च धरणीसदनत्रयञ्च श्रीचक्रराजमुदितं
परदेवतायाः ।
चक्रराजं सिन्दूरकुङ्कुमादिना लिखितम् ।
सुवर्णरजतपञ्चरत्नस्फटिकताम्राद्युत्कीर्णं वा कुर्यात् ॥ ३४ ॥
श्रीक्रमे-
अकृत्वा सुसमां रेखां नालिख्यसुसमं मुखम् ।
योऽत्र यन्त्रे प्रवर्तेत तस्य सर्वं हराम्यहम् ॥ ३५ ॥
यस्या यत्र स्थितिर्द्देवि तत्र तां नार्चयेद्यदि ।
तन्मांसरुधिरेणैव पारणा तस्य जायते ॥ ३६ ॥
पशोरालोकनं न स्यात्तथा कुरुत यत्नतः ।
यदि दैवात् पशोरग्रे लिखितं विद्यतेक्वचित् ।
ममाङ्गक्षतिरेवात्र क्रियते पापबुद्धिना ॥ ३७ ॥
तथा भूतभैरवे-
योऽस्मिन्यन्त्रे महेशानि केशराणि प्रकल्पयेत् ।
योगिनीसहितास्तेषां हिंसां कुर्वन्ति भैरवाः ।
इति वचनान्नात्र केशराणि ॥ ३८ ॥
न रात्रावङ्कयेद्यन्त्रं साधकश्च कदाचन ।
प्रमादादङ्किते यन्त्रे शापो भवति तत्क्षणात् ॥ ३९ ॥
तत्रापराजितापुष्पे करवीरे जवासु च ।
तत्र देवि वसेन्नित्यं तद्यन्त्रे पूजनं मम ॥ ४० ॥
तथा स्वच्छन्दभैरवे-
कुर्याच्च स्थण्डिले यन्त्रं हस्तमात्रं सुसुन्दरम् ।
रत्नादिषु विनिर्मायमानमिच्छावशाद्भवेत् ॥
एकतोलं द्वितोलं वा त्रितोलं वेदतोलकम् ।
इतोऽधिकं नरः कृत्वा प्रायश्चित्ती भवेद्ध्रुवम् ॥ ४१ ॥
रक्तेन रजसापूर्य श्रीचक्रं भुवि पूजयेत् ।
नश्यन्ति सर्वविघ्नानि प्राप्यते च यथेप्सितम् ॥ ४२ ॥
दशभागं सुवर्णस्य ताम्रस्य द्वादशन्तथा ।
षड्दशं रजतस्यार्थ चैतल्लोहत्रयं भवेत् ॥
चक्रेऽस्मिन् पूजयेद्यो हि स सौभाग्यमवाप्नुयात् ।
अणिमाद्यष्टसिद्धीनामधिपो जायतेऽचिरात् ॥ ४३ ॥
विद्रुमै रचिते यज्ञे पद्मरागेऽथवा प्रिये ।
इन्द्रनीलेऽथ वैदूर्ये स्फाटिके मरकतेऽपि वा ॥
धनं पुत्रं तथा दारान् यशांसिलभते ध्रुवम् ।
ताम्रन्तु कान्तिदं प्रोक्तं सुवर्णं शत्रुनाशनम् ॥
राजतं क्षेमदञ्चैव स्फाटिकं सर्वसिद्धिदम् ।
एतद्यन्त्रमात्रे ज्ञेयम् ॥ ४४ ॥
श्रीचक्रनाशे प्रायश्चित्तम्
अथ श्रीचक्रनाशे प्रायश्चित्तम्-
दग्धञ्च स्फुटितं यन्त्रं हृतं चौरेण वा प्रिये ।
उपवासं प्रकूर्वीत दिनमेकमतन्द्रितः ।
लक्षमात्रं जपेद्विद्यां होमतर्पणपूर्वकम् ।
सद्भक्त्या च गुरुं तोष्य ब्राह्मणानपि भोजयेत् ।
लक्षं जपत्वा दशांशतो होमं तद्दशांशं तर्पणञ्च
कुर्यात् ।
लक्षमयुतमित्येके ॥ ४५ ॥
कदाचिल्लप्तचिह्नं वा स्फुटितादिविदूषणम् ।
भग्नं करोति यो मर्त्त्यो मृत्युस्तस्य ध्रुवं भवेत् ॥
तस्माच्च तीर्थराजे वा गङ्गादिसरितां वरे ।
समुद्रे वा क्षिपेद्देवि चान्यथा दुःखमाप्नुयात् ॥
इदन्तु यन्त्रमात्र विषयम् ॥ ४६ ॥
श्रीचक्रपादोदकमाहात्म्यम्
अथ श्रीचक्रपादोदकमाहात्म्यम्-
गङ्गापुष्करनर्मदाषु यमुना-गोदावरी गोमती-गङ्गाद्वार
� गया-प्रयागबदरी-वाराणसी-सिन्धुषु ।
रेवा-सेतु-सरस्वती प्रभृतिषु ब्रह्माण्डभाण्डोदरे तीर्थस्नान
� सहस्रकोटिफलदं श्रीचक्रपादोदकम् ॥ ४७ ॥
श्रीक्रदर्शनफलम्
अथ श्रीक्रदर्शनफलम्-
सम्यक् शतक्रतून् कृत्वा यत्फलं समवाप्नुयात् ।
तत्फलं लभते भक्त्वा कृत्वा श्रीचक्रदर्शनम् ॥ ४८ ॥ षोडशम्बा
महादानं कृत्वा यल्लभते फलम् ।
तफलं समवाप्नोति कृत्वा श्रीचक्रदर्शनम् ॥ ४९ ॥
सार्द्धत्रिकोटितीर्थषु स्नात्वा यल्लभते फलम् ।
तत्फलं लभते भक्त्या कृत्वा श्रीचक्रदर्शनम् ॥ ५० ॥
अथ सङ्क्षेपश्रीविद्यापद्धतिः-
प्रातःकृत्यादि प्राणायामान्तं कर्म विधाय ऋष्यादिन्यासं
कुर्यात् ।
यथा-
अस्य त्रिपुरसुन्दरीमन्त्रस्य दक्षिणामूर्तिर्-ऋषिः पङ्क्तिच्छन्दः
त्रिपुरसुन्दरी देवता वाग्भवं बीजं कामराजं कीलकं
तार्तीयं शक्तिः पुरुषार्थचतुष्टयसिद्ध्यर्थे विनियोगः ।
तथा च ज्ञानार्णवे-
बीजञ्च वाग्भवं शक्तिस्तार्तीयं कीलकं ततः ।
कामराजं मेशानि वीजन्यासस्ततः परम् ॥
तद्यथा-
शिरसि दक्षिणामूर्तये ऋषये नमः ।
मुखे पङ्क्तिच्छन्दसे नमः ।
हृदि त्रिपुरसुन्दर्यै देवतायै नमः ।
गुह्ये वाग्भवाय बीजाय नमः ।
पादयोस्तार्तीयाय शक्तये नमः ।
सर्वाङ्गे कामराजाय कीलकाय नमः ।
तथा समयाङ्के-
त्रिपुरसुन्दरीमन्त्रस्य दक्षिणामूर्तये तथा ।
ऋषये नमः शिरसि पङ्क्तये छन्दसे नमः ॥
मुखे त्रिपुरसुन्दर्यै देवायै नमो हृदि ॥ ५१ ॥
वाग्भवादिस्वरूपं दक्षिणमूर्तौ-
निःसरन्ति महामन्त्रा महाग्नेश्च स्फुलिङ्गवत् ।
तथैव मातृकावर्णा निःसृता वाग्भवात्प्रिये ।
अत एव तदेवास्या वाग्भवं बीजमुच्यते ॥ ५२ ॥
योषिं पुरुषरूपेण स्फुरन्ती विश्वमातृका ।
महामोहेन देवेशि कीलयन्ति जगत्त्रयम् ।
अतस्तत्कीलकं देवि तेन सौभाग्यगर्विता पालयन्ती जगत्सर्वं
तेनेयं शक्तिरुच्यते ॥ ५३ ॥
अथ वशिन्यादिन्यासः यथा-
अम् आम् इम् ईम् उम् ऊम् ऋं ॠम् ऌं ॡम् एम् ऐं ॐ औम् अम् अः
रवलुं वशिनी-वाग्देवतायै नमः ब्रह्मरन्ध्रे ।
कं खं गं घं ङं कलह्रीं कामेश्वरीवाग्देवतायै नमो
ललाटे ।
चं छं जं झं ञं नवलीं मोदिनी वाग्देवतायै नमो
भ्रूमध्ये ।
टं ठं डं ढं णं यलूं विमलावाग्देवतायै नमः
कण्ठे ।
तं थं दं धं नं जमलीम् अरुणावाग्देवतायै नमो हृदि ।
पं फं बं भं मं ह स ल व यूं जयिनी वाग्देवतायै नमो
नाभौ ।
यं रं लं वं झं मरयूं सर्वेश्वरीवाग्देवतायै नमो
मूलाधारे ।
शं षं सं हं लं क्षं क्षमरीं कौलिनीवाग्देवतायै नमः
सर्वाङ्गे ।
तथा च ज्ञानार्णवे-
अवर्गान्ते लिखेद्बीजं वह्निफान्तक्षमान्वितम् ।
वामकर्ण-विभूषाढ्यं विन्दुनादान्तिकं प्रिये ।
वशिनीं पूजयेद्वाचां देवतां देविसुव्रते ।
कवर्गान्ते महेशानि कलह्रीं बीजमुत्तमम् ।
कामेश्वरीं समुच्चार्य वाग्देवीं पूजयेत्ततः ।
चवर्गान्ते धान्तफान्तक्षमातूर्यस्वरान्वितम् ।
मोदिनीं पूजयेद्वाचां नादविन्दुविभूषिताम् ॥ ५४ ॥
टवर्गान्ते वायुबीजं भूमिपूर्वं महेश्वरि ।
वामकर्णेन्दुविन्द्वाढ्यं विमलां वागधीश्वरीम् ॥ तवर्गान्ते
जमक्ष्मान्तं वामनेत्रविभूषितम् ।
विन्दुनादान्वितं बीजं वाग्देवीमरुणां यजेत् ॥
पवर्गान्ते व्योमचन्द्रक्ष्मातोयानिलसंयुतम् ।
ऊकारस्वरसंयुक्तं विन्दुनादकलान्वितम् ॥
जयिनीं पूजयेद्वाचां देवतां वीरवन्दिते ।
यवर्गान्ते जान्तकालरेफवायुसमन्वितम् ॥
वामकर्णेन्दुशोभाढ्यं सर्वेशीं परिपूजयेत् ।
क्षमवह्निगतं तूर्यस्वरेण परिवेष्टितम् ॥
नादविन्दुकलाक्रान्तं कौलिनीं वाचमर्चयेत् ।
शवर्गान्ते महेशानि न्यसेत्सर्वार्थसिद्धये ॥
शिरोललाटभ्रूमध्यकण्ठहृन्नाभिदेशके ।
आधारे व्यूहके न्यासान्वर्गैरष्टभिराचरेत् ॥ ५४क ॥
ततः कराङ्गन्यासौ-
अं मध्यमाभ्यां नमः ।
आम् अनामिकाभ्यां नमः ।
सौः कनिष्ठाभ्यां नमः ।
अः अङ्गुष्ठाभ्यां नमः ।
आं तर्जनीभ्यां नमः ।
सौः करतलपृष्ठाभ्यां नमः ।
एवम् ऐं हृदयाय नमः ।
क्लीं शिरसे स्वाहा ।
सौः शिखायै वषट् ।
ऐं कवचाय हुम् ।
क्लीं नेत्रत्रयाय वौषट् ।
सौः अस्त्राय फट् ।
ततो मूलेन व्यापकं कृत्वा ध्यायेत् ॥ ५५ ॥
बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुशशरांश्चापं धारयन्तीं शिवां श्रये ।
एवं ध्यात्वा मानसैः सम्पूज्य आनन्दोऽहमिति विभाव्य
शङ्खस्थापनं कुर्यात् ॥ ५६ ॥
यथा-
श्रीचक्रपुरतः स्ववामे षट्कोणमध्ये त्रिकोणं विलिख्य, तत्र
त्रिपदिकां संस्थाप्य मूलेन षट्कोणं पूजयेत् ।
ततः फडिति शङ्खं प्राक्षाल्य, तत्र गन्धपुष्पादिकं निक्षिप्य,
मूलेन जलेनापूर्य, मण्डलादिकं पूजयेत् ।
मं वह्निमण्डलाय दशकलात्मने नमः, इति त्रिपदिकायाम्, अं
सूर्यमण्डलाय द्वादशकलात्मने नमः इति शङ्खे, उं
सोममण्डलाय षोडशकलात्मने नमः इति जले ।
तथा च निबन्धे-
प्रणवस्य त्रिभिर्भागैर्वह्निसूर्येन्दुमण्डलान् ।
ततो गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु ।
इति सूर्यमण्डलात्तीर्थमावाह्य हुमित्यवगुण्ठ्य षडङ्गेन
पूजयेत् ।
ततो धेनुमुद्रां प्रदर्श्य मूलमष्टधा जप्त्वा तज्जलं
किञ्चित्प्रोक्षणीतोये निक्षिप्य, तेनोदकेनात्मनं
पूजोपकरणञ्चाभ्युक्षयेत् ।
तद्दक्षिणे पाद्यादिपात्रं संस्थाप्यासनपूजामारभेत् ॥ ५७ ॥
यथा-
उपर्युपरि यन्त्रस्य ॐ आधारशक्तये नमः, एवं प्रकृतये,
कूर्माय, अनन्ताय, पृथिव्यै, रसाम्बुधये, रत्नद्वीपाय,
नन्दनोद्यानाय, रत्नमण्डपाय, कल्पवृक्षाय, मणिवेदिकायै,
रत्नसिंहासनाय ।
सर्वत्र ओङ्कारादि-नमोऽन्तेन पूजयेत् ।
पीठोपरि वैन्दवे चक्रे ह्सोः सदाशिवमहाप्रेतपद्मासनाय नमः
।
ततो वैन्दवे ह स् रैं, ह स क् ल् रीं, ह्सौम् इति मन्त्रेण मूर्ति
सङ्कल्प्य, त्रिखण्डा मुद्रां बद्धा पुनर्ध्यात्वा,
प्रवहन्नासापुटेन तेजोमयं पुष्पाञ्जलावानीय, ॐ
महापद्मवनान्तःस्थे कारणानन्द विग्रहे ।
सर्वभूतहिते मातरेह्येहि परमेश्वरि ।
इति मूर्तौ संस्थाप्य, आवाहनादि यथाशक्त्युपचारेण पूजां
विधाय षडङ्गानि पूजयेत् ॥ ५८ ॥
अग्नीशासुरवायव्यमध्ये दिक्षु च वाग्भवकूटमुच्चार्य
हृदयाय नमः, कारराजमुच्चार्य शिरसे स्वाहा,
शक्तिकूटमुच्चार्य शिखायै वषट्, पुनर्वाग्भवमुच्चार्य
कवचाय हुं, कामराजमुच्चार्य नेत्रत्रया वौषट्,
शक्तिकूटमुच्चार्य अस्त्राय फट् ।
तथा च ज्ञानार्णवे-
अथाङ्गावरणं कुर्यात् श्रीविद्यामन्त्रसम्भवम् ।
ततो मध्यप्राक्त्र्यस्रमध्ये गुरुपङ्क्तिपूजयेत् ।
यथा-
ऐं ह्रीं श्रीं गुरुभ्यो नमः, एवम् ऐं ह्रीं श्रीं
गुरुपादुकाभ्यो नमः, ऐं ह्रीं श्रीं परमगुरुभ्यो नमः, ऐं
ह्रीं श्रीं परमगुरुपादुकाभ्यो नमः, ऐं ह्रीं श्रीं
परापरगुरुभ्यो नमः, ऐं ह्रीं श्रीं परमेष्ठिगुरुभ्यो नमः,
ऐं ह्रीं श्रीं परमेष्ठिगुरुपादुकाभ्यो नमः, ऐं ह्रीं श्रीम्
आचार्येभ्यो नमः, ऐं ह्रीं श्रीम् आचार्यपादुकाभ्यो नमः ।
सर्वत्र ऐं ह्रीं श्रीमिति बीजत्रयपूर्वकं पूजयेत् ।
ततश्चतुरस्रस्य प्रथमरेखायाम् ऐं ह्रीं श्रीम्
अणिमाद्यष्टसिद्धिश्रीपादुकां पूजयामि नमः ।
एवं मध्यरेखायाम् ऐं ह्रीं श्रीं
ब्रह्माण्याद्यष्टदेवीश्रीपादुकां पूजयामि नमः ।
अन्तरेखायाम् ऐं ह्रीं श्रीं
सर्वसङ्क्षोभिण्यादिमुद्राश्रीपादुकां पूजयामि नमः ।
सर्वत्रावरणपूजायां श्रीपादुकापदप्रयोगः ।
तथा च ज्ञानार्णवे-
श्रीपदं पूर्वमुच्चार्य पादुकापदमुद्धरेत् ।
पूजयामि नमः पश्चात्पूजयेदङ्गदेवताः ॥
चक्राग्रे ऐं ह्रीं श्रीं त्रिपुराचक्रनायिकाश्रीपादुकां
पूजयामि नमः ।
अत्र त्रैलोक्यमोहनचतुरस्रचक्रे त्रिपुराचक्रनायिकाधिष्ठिते एता
अणिमाद्याः प्रकटयोगिन्यः समुद्राः सायुधाः सपरिवाराः
सवाहनाः पूजितास्तर्पिताः सन्तु, इत्यर्घ्यजलेन मूलदेव्यै
समर्पयेत् ॥ ५९ ॥
त्रिपुरापदव्युत्पत्तिस्तु वाराहीये-
ब्रह्मविष्णुमहेशाद्यैस्त्रिदशैरर्चिता पुरा ।
त्रिपुरेति तदा नाम कथितं दैवतैरपि ॥ ६० ॥
तर्पणन्तु वामहस्तकृततत्त्वमुद्रया ।
तथा च स्वतन्त्रे-
अङ्गुष्ठानामिकायोगाद्वामहस्तेन पार्वति ।
तर्पयेत्सुन्दरीं देवीं समुद्राञ्च सवाहनाम् ॥ ६१ ॥
ततः षोडशपत्रेषु ऐं ह्रीं श्रीम् अम् आम् इम् ईम् उम् ऊम् ऋं
ॠम् ऌं ॡम् एम् ऐं ॐ औम् अम् अः
कामाकर्षिण्यादिषोडशनित्याकलाश्रीपादुकां पूजयामि नमः ।
चक्राग्रे ऐं ह्रीं श्रीं त्रिपुरेशीश्रीचक्रनायिकाश्रीपादुकां
पूजयामि नमः ।
अथ सर्वाशापरिपूरके षोडशदलचक्रे
त्रिपुरेशीचक्रनायिकाधिष्ठिते एताः कामकर्षिण्याद्या
गुप्तयोगिन्यः समुद्रा इत्यादि पुनर्मूलदेव्यै समर्पयेत् ।
ततोऽष्टदले ऐं ह्रीं श्रीम् अनङ्गकुसुमाद्यष्टदेवीं
श्रीपादुकां पूजयामि नमः ।
चक्राग्रे ऐं ह्रीं श्रीं त्रिपुरसुन्दरीचक्रनायिकाश्रीपादुकां
पूजयामि नमः ।
अत्र सर्वसङ्क्षोभकरे अष्टदलचक्रे
त्रिपुरसुन्दरीचक्रनायिकाधिष्ठिते एत अनङ्गकुसुमाद्या
गुप्ततरयोगिन्यः समुद्रा इत्यादि मूलदेव्यै समर्पयेत् ।
ततश्चतुर्दशारचक्रे ऐं ह्रीं श्रीं
सर्वसङ्क्षोभिण्यादिचतुर्दशदेवी श्रीपादुकां पूजयामि नमः ।
चक्राग्रे ऐं ह्रीं श्रीं त्रिपुरवासिनीचक्रनायिकाश्रीपादुकां
पूजयामि नमः ।
अत्र सर्वसौभाग्यदायके चतुर्दशारचक्रे
त्रिपुरवासिनीचक्रनायिकाधिष्ठिते एताः
सर्वसङ्क्षोभिण्यादिशक्तयः सम्प्रदाययोगिन्यः समुद्रा इत्यादि
मूलदेव्यै समर्पयेत् ।
बहिर्दशारचक्रे ऐं ह्रीं श्रीं सर्वसिद्धिप्रदादेवीश्रीपादुकां
पूजयामि नमः ।
चक्राग्रे ऐं ह्रीं श्रीं त्रिपुरा श्रीचक्रनायिकाश्रीपादुकां
पूजयामि नमः ।
अत्र सर्वार्थसाधके बहिर्दशारचक्रे त्रिपुराचक्रनायिकाधिष्ठिते
एताः सर्वसिद्धिप्रदादिदेव्यःकुलकौलिनीयोगिन्या समुद्रा इत्यादि
मूलदेव्यै समर्पयेत् ।
अर्न्तदशारचक्रे ऐं ह्रीं श्रीं सर्वज्ञादिदेवीश्रीपादुकं
पूजयामि नमः ।
चक्राग्रे ऐं ह्रीं श्रीं त्रिपुरमालिनीचक्रनायिकाश्रीपादुकां
पूजयामि नमः ।
अत्र सर्वरक्षाकरान्तर्दशारचक्रे
त्रिपुरमालिनीचक्रनायिकाधिष्ठिते एताः सर्वज्ञाद्या देव्यो
निगर्वयोगिन्यः समुद्रा इत्यादि मूलदेव्यै समर्पयेत् ।
अष्टारचक्रे ऐं ह्रीं श्रीं
वशिन्याद्यष्टवाग्देवताश्रीपादुकां पूजयामि नमः ।
चक्राग्रे ऐं ह्रीं श्रीं त्रिपुरसिद्धाचक्रनायिकाश्रीपादुकां
पूजयामि नमः ।
अत्र सर्वरोगहरागहराष्टारचक्रे
त्रिपुरसिद्धाचक्रनायिकाधिष्ठिते एता वशिन्याद्या रहस्ययोगिन्यः
समुद्रा इत्यादि मूलदेव्यै समर्पयेत् ।
तत्रान्तरालत्र्यस्रे मूलषडङ्गानि पूजयेत् ।
ततोऽग्रकोणे ऐं ह्रीं श्रीं कामेश्वरीनित्याश्रीपादुकां
पूजयामि नमः ।
दक्षिणकोणे ऐं ह्रीं श्रीं वज्रेश्वरीनित्याश्रीपादुकां
पूजयामि नमः ।
वामकोणे ऐं ह्रीं श्रीं भगमालिनीनित्याश्रीपादुकां
पूजयामि नमः ।
चक्राग्रे ऐं ह्रीं श्रीं त्रिपुराम्बिका श्रीपादुकां पूजयामि
नमः ॥ ६२ ॥
अत्र सर्वसिद्धिप्रदेत्र्यस्रचक्रे
वाणचापपाशाङ्कुशविभूषितान्तराले
त्रिपुराम्बिकाचक्रनायिकाधिष्ठिते एताः कामेश्वर्याद्याः
रहस्यातिरहस्ययोगिन्यः समुद्रा इत्यादि मूलदेव्यै समर्पयेत् ।
ततो विन्दुमध्ये ऐं ह्रीं श्रीं
श्रीमहात्रिपुरसुन्दरीनित्याश्रीपादुकां पूजयामि नमः ।
इति त्रिवारं पूजयेत् ।
वामे ऐं ह्रीं श्रीं योनिमुद्राश्रीपादुकां पूजयामि नमः ।
चक्राग्रे ऐं ह्रीं श्रीं त्रिपुरभैरवीचक्रनायिकाश्रीपादुकां
पूजयामि नमः ।
अत्र सर्वानन्दमये परम्ब्रह्मस्वरूपिणी वैन्दवे चक्रे
त्रिपुरभैरवीचक्रनायिकाधिष्ठिते एताः सर्वचक्रेश्वरीयोगिन्यः
समुद्राः सायुधाः सवाहनाः सपरिवाराः पूजितास्तर्पिताः सन्तु
इति मूलदेव्यै समर्पयेत् ॥ ६२क ॥
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ।
अस्य पुरश्चरणं लक्षजपः ।
तथा च वामकेश्वरतन्त्रे-
तत्र स्थित्वा जपेल्लक्षं सक्षाद्देवीस्वरूपधृक् ।
किंशुकैर्वहवं कुर्याद्दशाशञ्च वरानने ।
कुसुम्भकुसुमैर्वापि मधुरत्रयमिश्रितैः ॥ ६३ ॥
अथ श्रीविद्याविशेषपद्धतिः
यथा-
ब्राह्म्ये मुहूर्ते उत्थाय मुक्तस्वापो रात्रिवासः परित्यज्य, गुरुं
यथोक्तरूपं ध्यात्वा, ऐं ह्रीं श्रीं हसखफ्रें हसक्षमल
वरयूं सहक्षलवरयीं ह्सौः श्री
अमुकानन्दनाथश्रीपादुकां पूजयामि, स्त्री चेद्गुरुः
अमुशक्त्यम्बाश्रीपादुकां पूजयामीति स्मृत्वा,
मानसैर्गन्धादिभिं पूजयेत् ।
यथा-
ऐं ह्रीं श्रीं लं पृथिव्यात्मकं गन्धं समर्पयामि नमः ।
इति कनिष्ठाभ्याम् ।
एवम् ऐं ह्रीं श्रीं हम् आकाशात्मकं पुष्पं समर्पयामि
नमः ।
इति अङ्गुष्ठाभ्याम् ।
ऐं ह्रीं श्रीं यं याव्यात्मकं धूपं समर्पयामि नमः ।
इति तर्जनीभ्याम् ।
ऐं ह्रीं श्रीं रं वह्नयात्मकं दीपं समर्पयामि नमः ।
इति मध्यमाभ्याम् ।
ऐं ह्रीं श्रीं वम् अमृतात्मकं नैवेद्यं समर्पयामि नमः ।
इति अनामिकाभ्याम् ।
ऐं ह्रीं श्रीम् ऐं ताम्बूलं समर्पयामि नमः ।
इत्यञ्जलिना ताम्बूलम् ।
यथा विशुद्धेश्वरे-
एवं ध्यात्वा पुनश्चैवं पञ्चभूतात्मकैर्यजेत् ।
गन्धतत्त्वं पार्थिवञ्च कनिष्ठाङ्गुलियोगतः ॥
शब्दमयं महापुष्पं प्रथमाङ्गुलियोगतः ।
वायव्यात्मकं मधाधूपं तर्जनीभ्यां नियोजयेत् ॥ तेजोरूपं
महादीपं मध्यमाद्वययोगतः ।
नमस्कारेणाञ्जलिना ताम्बूले वाग्भवं स्मृतम् ॥
सर्वत्र स्वस्वबीजान्ते नमस्कारेण योजयेत् ।
प्रथमाङ्गुलिर्वृद्धा ।
स्वस्वबीजान्ते तत्तद्भूतबीजान्ते ॥ ६४ ॥
ततो योन्यञ्जलिमुद्रे प्रदर्श्य, नमस्कृत्य, स्तुतिं कुर्यात् ।
अखण्डमण्डलाकारमित्यादि ।
शेष सामान्यपूजापद्धत्युक्तक्रमेण कुर्यात् ॥ ६५ ॥
श्रीविद्यायां विशेषस्नानम्
अथ श्रीविद्यायां विशेषस्नानम्-
वैदिकस्नानं विधाय, आचमनं कृत्वा, षडङ्गानि विधाय,
क्रोमित्यङ्कुशमुद्रया सवितृमण्डलात्तीर्थमावाह्य,
मूलविद्याशक्तिबीजमुचार्य, योनिमुद्रां तज्जले निक्षिप्य,
धेनुयोनिमुद्रे प्रदर्श्य, मूलवाग्भवबीजेन
दशवारमभिमन्त्र्य, आनन्दामृतवारिमध्यस्थां देवीं
विचिन्त्य, मूलविद्यया सप्तवारमभिमन्त्र्य,
तन्मुखारविन्दनिर्गतामृतधाराबुद्ध्या मूलेन
सप्तवारमात्मानभिषिच्य, पुनरेकविंशतिवारं
मूलविद्यामुच्चरन् तज्जले देवीपादारविन्दाधोगलदमृतधारया
त्रिवारं निमज्य, उत्थाय पुनर्योनिमुद्रया सप्तवारं त्रिवारं वा
शिरस्यभिषेकं विधाय, तथैवाचम्य तीरमागत्य अनुपहते
वाससी परिधाय, मूलमन्त्राभिमन्त्रितशुद्धयज्ञीयभस्मना
त्रिपुण्ड्रं त्रिरेखात्मकमर्द्धचन्द्ररूपं विधाय, पूर्ववत्
श्रीगुरुं स्मृत्वा, तान्त्रिकाघमर्षणान्तं कर्म कृत्वा, तर्पणं
कुर्यात् ॥ ६६ ॥
तध्यथा-
षडङ्गान्यपि विन्यस्य तीर्थमङ्कुशमुद्रया ।
क्रों-मन्त्रेण समाकृष्य ततः सवितृमण्डलात् ॥
शक्तिबीजं समुच्चार्य निक्षिपेद्योनिमुद्रया ।
धेनुमुद्रां योनिमुद्रां ततस्तत्र प्रदर्शयेत् ॥ ६७ ॥
मूलवाग्भवबीजेन मन्त्रयित्वाथ देवताम् ।
आनन्दामृतवारीणां मध्यस्थां परिचिन्तयेत् ।
मूलेन विद्यया देवि सप्तवाराभिमन्त्रणम् ।
देवीमुखारविन्दाच्च निर्गतामृतधारया ।
सप्तकृत्वो जपेद्विद्याम् अभिषिञ्चेत् स्वकां तनूम् ॥ ६८ ॥
एकविंशतिवाराणि जपेद्विद्यामनन्तरम् ।
देवीपादारविन्दाधो निमज्योत्तीय साधकः ।
योनिना च तथा देवि मूर्ध्निसेकं समाचरेत् ।
त्रिःसप्त वा तथा वारान्सेचयेत्साधकाग्रणीः ॥ ६९ ॥
ततस्तीरं समासाद्य कर्म कुर्याद्यथेप्सितम् ।
उचिते वाससी पश्चात्परिदध्यादनन्तरम् ॥ ७० ॥
आचम्य प्राङ्मुखो भूत्वा मूलमन्त्राभिमन्त्रितम् ।
धृत्वा भालतले भस्म पूर्ववत् श्रीगुरुं स्मरेत् ॥ ७१ ॥
सूर्यमण्डलवासिन्यै देवतायै नमः परम् ।
अर्घ्यमञ्जलिमादाय गायत्र्या च त्रिरुत्क्षिपेत् ॥
यथाशक्ति जपेद्देवीं गायत्रीं तदनन्तरम् ॥ ७२ ॥
तर्पणार्थ समाचम्य प्राणानायम्य साधकः ।
वसून् रुद्रांस्तथादित्यांस्तथैवाङ्गिरसं ततः ।
देवान् गाश्च ततो ब्रह्मविष्णुरुद्रान् ग्रहानपि ।
लोपामुद्रामहल्याञ्चानसूयामृषितीर्थकैः ।
नक्षत्रराशियोगांश्च करणानि यथाक्रमम् ।
चतुर्थीवह्निजायान्तं देवतीर्थेन तर्पयेत् ॥ ७३ ॥
मरीचिमत्रिं पुलहं पुलस्त्यं क्रतुमेव च ।
वसिष्ठञ्च भरद्वाजं गौतमागस्त्यनामकौ ।
अग्निष्वात्ता वर्हिषदः स्वपितॄंश्च पितृक्रमात् ॥
त्रिधा ङेऽन्तान् हृदन्तांश्च पितृतीर्थेन तर्पयेत् ॥ ७४ ॥
भैरवान्क्षेत्रपालांश्च कुमारीयोगिनीगणम् ।
भूतानि सर्वसत्वानि तृप्यन्त्वतानि तर्पयेत् ।
ततो देवीं तर्पयेत् ॥ ७५ ॥
दक्षिणामूर्तिसंहितायाम्-
तर्पणन्तु शुचिः कुर्याद्देवर्षिपितृपूर्वकम् ॥ ७६ ॥
तस्मिन् जले त्रिकोणवृत्तं चतुरस्रं विभाव्य गणेशवटुकौ
चक्रवामदक्षिणतः सन्तर्प्य, त्रिकोण वृत्तचतुरस्रान्तराले
ईशानादिवायव्यान्तां वक्ष्यमाण गुरुपङ्क्तिं तर्पयेत् ।
ततस्त्रिकोणमध्ये साध्यसिद्धासनमन्त्रैर्वक्ष्यमाणैः सन्तर्प्य,
जले भगवतीमावाह्य, परमामृतधारया त्रिवारं
पूर्वोक्तक्रमेण सन्तर्प्य त्रिकोणेषु कामेश्वर्यादिदेवीत्रयं
वक्ष्यमाणसमयविद्यया सन्तर्प्य ॥
चतुरस्रकोणेष्वङ्गदेवतास्तर्पयेत् ।
तत आवरणदेवतानां तर्पणम् ।
ततः सूर्यायार्घ्यं दत्त्वा हंसः सोऽहमित्युपस्थानं कृत्वा,
सवितृमण्डले तीर्थं विसृज्य नियतवचनो यागस्थानमागच्छेदिति ॥
७७ ॥
यागस्थानन्तु कालीकुलसद्भावे-
अरण्यं स्वल्पकामानां स्रिद्ध्यर्थ पूजने हितम् ।
निष्कामानां मुमुक्षुणां गृहे शस्तं सदार्चनम् ।
ऋषीणां मुनिमुख्यानां दीक्षितानां द्विजन्मनाम् ।
गृहेऽपि यजनं शस्तं रसैर्वार्क्षेक्षु सम्भवैः ॥ ७८ ॥
कुलार्णवे-
एकान्ते निर्जने रम्ये देशे वाधाविवर्जिते ।
सुखासन समासीनः प्राङ्मुखो वाप्युदङ्मुखः ॥ ७९ ॥ तत्रादौ
सूर्यपूजा- तदुक्तं रुद्रयामले- आदित्यं पूजयेदादौ
प्रत्यक्षं लोकसाक्षिणम् ।
अन्यथा नैव सिद्धिः स्यात् कल्पकोटिशतैरपि ॥ ८० ॥
बृहत्स्तवराजेऽपि-
स्नानन्तु विधिवत् सन्ध्यां तर्पणं सूर्यपूजनम् ।
कृत्वा पूजलाये चात्र पञ्चमीं पूजयाम्यहमिति ॥ ८१ ॥
ततो गृहद्वारि गत्वा ॐ आत्मतत्त्वाय स्वाहा ।
ॐ विद्यातत्त्वाय स्वाहा ।
ॐ शिवतत्त्वाय स्वाहा ।
इत्याचम्य सामान्यार्घ्यं विधाय द्वारपूजां कुर्यात् ।
तद्यथा-
बालया द्वारमभ्युक्ष्य, दक्षिणवामपार्श्वेयोरुपर्यधः ऐं
ह्रीं श्रीं गां गणपतये नमः ।
ऐं ह्रीं श्रीं दुं दुर्गायै नमः ।
एवम् ऐं ह्रीं श्रीं वां वटुकाय नमः ।
ऐं ह्रीं श्रीं क्षां क्षेत्रपालाय नमः ।
ऐं ह्रीं श्रीं द्वारश्रियै नमः ।
ऐं ह्रीं श्रीं देहल्यै नमः ।
ततो वामपदपुरःसरं गृहं प्रविश्याग्न्यादिकोणेषु ऐं ह्रीं
श्रीं गां गणपतये नमः ।
एवम् ऐं ह्रीं श्रीं दुं दुर्गायै नमः ।
ऐं ह्रीं श्रीं वां वटुकाय नमः ऐं ह्रीं श्रीं क्षां
क्षेत्रपालाय नमः ।
मध्ये ऐं ह्रीं श्रीं रत्नमण्डपाय नमः ।
दिक्षु ऐं ह्रीं श्रीं कामदेवाय रत्यै नमः ।
ऐं ह्रीं श्रीं वसन्ताय प्रीत्यै नमः ।
ऐं ह्रीं श्रीं सां सरस्वत्यै नमः ।
ऐं ह्रीं श्रीं श्रियै नमः ।
सोमभुजगावल्याम्-
सरस्वतीं श्रियं मायां दुर्गाञ्च तदनन्तरम् ।
भद्रकालीं ततः स्वस्तिं स्वाहाञ्चैव शुभङ्करीम् ।
गौरीञ्च लोकधात्रीञ्च तथा वागीश्वरीमपि ।
एताः पूजयेत् ॥ ८२ ॥
ततः ऐं ह्रीं श्रीं रक्तद्वादशशक्तियुक्ताय दीपनाथाय नमः
इति पुष्पाञ्जलित्रयं मुञ्चेत् ।
विश्वसारे-
समुद्रमेखले देवि पर्वतस्तनमण्डले ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ।
इति प्रसाद्य, पृथ्वित्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वञ्च धारय मां नित्यं पवित्रं कुरु चासनाम् ।
इति आसनं संस्थाप्य ततोऽस्त्रेण, वामपार्ष्णिघातत्रयेण
भौमान्विघ्नानुत्सार्यास्त्रेण जलेनान्तरीक्षगान्
श्रीबालान्यस्ततीक्ष्ण दृष्ट्या अवलोकनेन दिव्यान् विघ्नानुत्सार्य
सिद्धार्थाक्षतकुसुमान्यादाय ऐं ह्रीं श्रीम् अपसर्पन्तु ते
भूता इत्यादिनाक्षिप्त्वाविघ्नानुसारयेत् ।
ततो नैर्-ऋत्याम् ऐं ह्रीं श्रीं ब्रह्मणे नमः, ऐं ह्रीं श्रीं
वास्त्वधिपतये नमः ।
ऐं ह्रीं श्रीम् आधारशक्तिकमलासनाय नमः इत्यासनं
सम्पूज्य, तत्रोपविष्य, भूतशुद्धिं कुर्यात् ।
यद्यपि कल्पसूत्रे वायव्यग्निसलिलात्मकप्राणायामैः,
शोषणदहनप्लावनञ्च भूतशुद्धिं विधाय त्रिः
प्राणानायम्ये इति तथापि मातृकान्यासानन्तरं प्राणायामो
वोद्धव्यः ।
तथा च तन्त्रान्तरे-
भूतशुद्धि विधायेत्थं मातृकान्यासमाचरेत् ।
प्राणायामत्रयं कृत्वा न्यासानन्यान् समाचरेत् ।
ततो मातृकान्यासं प्राणायामान्तं विधाय ऋष्यादिन्यास
कुर्यात् ॥ ८३ ॥
तद्यथा-
शिरसि दक्षिणामूर्तये ऋषये नमः ।
मुखे पङ्क्तिच्छन्दसे नमः ।
हृदि श्रीत्रिपुरसुन्दर्यै देवतायै नमः ।
गुह्ये वाग्बीजाय नमः ।
पादयोः शक्तिकूटाय शक्तये नमः ।
सर्वाङ्गे कामराजाय कीलकाय नमः ।
तन्त्रान्तरे-
ऋषिं न्यसेन्मूर्ध्निदेशे छन्दस्तु मुखपङ्कजे ।
देवता हृदये चैव बीजन्तु गुह्यदेशके ।
शक्तिञ्च पादयोश्चैव सर्वाङ्गे कीलकं न्यसेत् ॥ ८४ ॥
ततः कराङ्गन्यासौ ।
यथा-
अं मध्यमाभ्यां नमः ।
आम् अनामिकाभ्यां नमः ।
सौः कनिष्ठाभ्यां नमः ।
अम् अङ्गुष्ठाभ्यां नमः ।
आं तर्जनीभ्यां नमः ।
सौः करतलपृष्ठाभ्यां नमः ।
तथा च-
एतद्बीजं द्विरुच्चार्य मध्यमाद्यङ्गुलिषु च ।
शुद्धिं करस्य कुर्वीत तलयोः पृष्ठयोरपि ।
चतुर्थीमतिसंयुक्ताममन्त्रैः पृथक् पृथक् ॥ ८५ ॥
ततो निवृत्त्यादिन्यासः-
गुह्ये क्रां निवृत्त्यै नमः ।
हृदये क्रीं प्रतिष्ठायै नमः ।
कण्ठे ऐं विद्यायै नमः ।
भ्रूमध्ये हौं शान्त्यै नमः ।
ब्रह्मरन्ध्रे ह्रौम् अमृतायै नमः ।
तथा च कुलामृते भूतशुद्धिमभिधाय-
ततो दिव्यशरीरोऽसौ साधकः शीघ्रसिद्धिभाक् ।
जायते नात्र सन्देहो न्यासांस्तान् प्रवदाम्यहम् ।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथामृता ।
गुह्यहृत्कण्ठभ्रूमध्यब्रह्मरन्ध्रेषु विन्यसेत् ।
कामाग्निसंयुतौ द्वौ द्वौ आस्यवामदृगन्वितौ ।
वाणी मनुविसर्गाभ्यां युतं व्योमद्वयं पुनः ।
द्वितीयाधो भवेदग्निरेवं पञ्च महेश्वरि ।
अर्द्धचन्द्रेन्दुसर्गानि सर्वाण्येव क्रमेण हि ।
बीजन्यासं नियोज्यानि पूर्वतः परमेश्वरि ।
ततो बालां समुच्चार्य महात्रिपुरसुन्दरि ।
आत्मानं रक्ष रक्ष इति हृदये अञ्जलिं दद्यात् ।
पुनः ऐं क्लौं सौः अस्त्राय फडिति दिग्बन्धनं कुर्यात् ।
तथा च-
बालाबीजत्रयं पूर्वं महात्रिपुरसुन्दरी ।
आत्मानं रक्ष रक्षेति कुर्याद्रक्षां हृदि स्पृशन् ।
तथैवास्त्रेण मुद्रया कुर्याद्दिग्बन्धनं ततः ।
ततो बालान्ते अमृतार्णवासनाय नमः इति पादयोः ।
बालान्ते त्रिपुरेश्वरीपोताम्बुजासनाय नमः ।
इति जानुद्वये ।
तथा च यामले-
अमृतार्णवशब्दपूर्व आसनाय महामनुः ।
पादयोर्विन्यसेत् पश्चाद्बालान्ते त्रिपुरेश्वरि ।
पोताम्बुजासनायान्ते नमो जानुनिविन्यसेत् ।
ह्रीं क्लीं सौः त्रिपुरसुन्दरीदेव्यासनाय नमः, इत्यूरुद्वये ।
तथा च-
ह्रीं क्लीं सौः त्रिपुरेत्युक्त्वा सुन्दरीति पदन्ततः ।
ङेऽन्तं देव्यासनञ्चान्ते नम ऊरुद्वये न्यसेत् ।
ततो हैं ह्क्लीं ह्सौः त्रिपुरवासिनीचक्रासनाय नमः इति स्फिक्द्वये ।
ह्सैं ह स क्लीं ह्सौः ।
त्रिपुराश्रीसर्वमन्त्रासनाय नमः इति गुह्ये ।
ह्रीं श्रीं क्लीं ब्लें त्रिपुरमालिनीसाध्यसिद्धासनाय नमः ।
इति नाभिदेशे ।
ह्स्रैं ह्सक्लीं ह्स्रौः त्रिपुराम्बापर्यङ्कशक्तिपीठासनाय नमः
इति स्ववक्षसि ।
त्रिकूटविद्यानां बीजान्ते
श्रीमहात्रिपुरभैरवीसदाशिवमहाप्रेतपद्मासनाय नमः
ब्रह्मरन्ध्रे ।
तथा च यामले-
हैं ह्क्लीं ह्सौरन्ते त्रिपुरवासिनीति च ।
चक्रासनाय नमः इत्यमुना स्फिक्द्वये न्यसेत् ।
ह्सैं ह्सक्लीं ह्सौश्चेति त्रिपुराश्रीपदन्ततः ।
सर्वमन्त्रासनायान्ते नमो गुह्ये प्रविन्यसेत् ।
ह्रीं श्रीं क्लीं ब्लें ततो दद्यात्रिपुरमलिनीति च ।
साध्यसिद्धासनं ङेऽन्तं नाभिदेशे प्रविन्यसेत् ।
ह्सैं ह स क्लीं ह्स्रौरन्ते त्रिपुराम्बापदन्ततः ।
पर्यङ्कशक्तिपीठासनाय नमो वक्षसि विन्यसेत् ।
त्रीकूटविद्याबीजान्ते महात्रिपुरभैरवी ।
सदाशिवमहाप्रेतपदात्पद्मासनाय च ।
नम इत्यमुना ब्रह्मरन्ध्र स्थाने प्रविन्यसेत् ॥ ८६ ॥
अथ षडङ्गन्यासः-
ऐं सर्वज्ञाशक्तिश्रीमहात्रिपुरसुन्दरी हृदयाय नमः ।
क्लीं नित्यसुतृप्तिशक्तिश्रीमहात्रिपुरसुन्दरी शिरसे स्वाहा ।
सौः अनादिबोधशक्तिश्रीमहात्रिपुरसुन्दरी शिखायै वषट् ।
ऐं स्वतन्त्रशक्तिश्रीमहात्रिपुरसुन्दरी कवचाय हुम् ।
क्लीम् अलुप्तशक्ति-श्रीमहात्रिपुरसुन्दरी नेत्रत्रयाय वौषट् ।
सौः अनन्तशक्तिश्रीमहात्रिपुरसुन्दरी अस्त्राय फट् ।
तथा नवरत्नेश्वरे-
सर्वज्ञता नित्यसुतृप्तता च अनादिबोधश्च स्वतन्त्रता च ।
अलुप्तशक्तित्वमनन्तता च षडाहुरङ्गानि शिवयोः शिवाद्याः ।
बीजान्ते नाम संयोज्य जातियुक्तं षडङ्गकम् ॥ ८७ ॥
ततो वशिन्यादिन्यासः ।
स च सङ्क्षेपप्रयोग उक्तः ।
ततो नवयोन्यात्मकन्यासः ।
तथा च-
बालायास्त्रिपुरेशान्या नवयोन्यात्मकं न्यसेत् ।
प्रयोगस्तु भैरवीप्रकरणे उक्तः ।
पुनर्बालां समुच्चार्य गोलकत्वेन चिन्तयेत् ।
पुनर्बालां समुच्चार्य चतुरस्रं विचिन्तयेत् ॥ ८८ ॥
अथ पीठतत्त्वन्यासौ -
यथा-
मूलवाग्भवमुच्चार्य अग्निचक्रे कामगिर्यालये मित्रीशनाथात्मके
रुद्रात्मशक्तिश्रीकामेश्वरीदेवी श्रीपादुकायै नमः इति आधारे ।
द्वितीयकूटमुच्चार्य सूर्यचक्रे जालन्धरपीठे
षष्ठीशनाथात्मके
विष्ण्वात्मशक्तिश्रीवज्रेश्वरीदेवीश्रीपादुकायै नमो हृदये ।
तृतीयकूटमुच्चार्य सोमचक्रे पूर्णगिरिपीठे उड्डीशनाथात्मके
ब्रह्मात्मशक्तिश्रीभगमालिनीदेवीश्रीपादुकायै नमो ललाटे ।
त्रिकूटमुच्चार्य परम्ब्रह्मचक्रे उड्डीयानपीठे
श्रीचर्यानाथात्मके ब्रह्मात्मशक्ति-
श्रीमहात्रिपुरसुन्दरीदेवीश्रीपादुकायै नमो ब्रह्मरन्ध्रे ।
कलामृते-
पीठान् सिद्धिप्रदान्मूलप्रथमं बीजमुच्चरन् ।
अग्निचक्रे योजयेच्च कामगिर्यालये पुनः ।
मित्रीशेति ततो नाथात्मकं कामेश्वरी पुनः ।
देवी रुद्रात्मशक्तिश्रीपादुकां पूजयामि च ।
नमः पदं द्वितीयञ्च बीजमूच्चार्य पार्वति ।
सूर्यचक्रे योजयेच्च जालन्धरपदं ततः ।
पीठे च षष्ठीशनाथात्मके वज्रेश्वरीपदम् ।
देवी व्ष्ण्वात्मशक्ति श्रीपादुकां पूजयामि च ।
नमः-पदं तृतीयञ्च बीजमुच्चार्य पार्वति ।
सोमचक्रे योजयेच्च पूर्णागिरपर्द ततः ।
पीठे उड्डीशनाथात्मके भगमालिनीपदम् ।
देवी ब्रह्मात्मशक्तिश्रीपादुकां पूजयामि च ।
नमः-पदं समस्तञ्च मन्त्रमुच्चार्य पार्वति ।
परं ब्रह्मपदं चक्र उड्डीयानपदम् ततः ।
पीठे पदं योजयित्वा चर्यानाथात्मके पदम् ।
महात्रिपुरशब्दान्ते सुन्दरीति पदन्ततः ।
देवीब्रह्मपदात्मान्ते शक्तिश्रीपादुकां ततः ।
पूजयामि नमश्चान्ते पर्यायः प्रथमं शिवे ।
स्थानानि च-
मूलाधारे च हृदये ललाटे ब्रह्मरन्ध्रके ॥ ८९ ॥
ततस्तत्त्वन्यासः ।
यथा-
वाग्भवकूटमुच्चार्य आत्मतत्त्वव्यापिकायै
श्रीमहात्रिपुरसुन्दर्यै नमः आधारे ।
द्वितीयकूटमुच्चार्य विद्यातत्त्वव्यापिकायै श्रीमहात्रिपुरसुन्दर्यै
नमः हृदये ।
तृतीयकूटमुचार्य शिवतत्त्वव्यापिकायै श्रीमहात्रिपुरसुन्दर्यै
नमः भ्रूमध्ये ।
त्रिकूटमुच्चार्य सर्वतत्त्वव्यापिकायै श्रीमहात्रिपुरसुन्दर्यै नमो
ब्रह्मरन्ध्रे ॥ ८९क ॥
ततः पञ्चदशीन्यासः ।
तद्यथा-
मूलाधारे हृदि चक्षुषोः कर्णयोर्नसोः
मुखभुजयुगपृष्ठजानुयुगलनाभिषु प्रत्येकं नमोऽन्तं
मूलमन्त्रवर्णं न्यसेत् ॥ ९० ॥
ततः षोडशीन्यासः -
निबन्धे-
ब्रह्मरन्ध्रे पूर्णविद्यां रक्तवर्णां विचिन्तयेत् ।
सौभाग्यदण्डिनीं मुद्रां वामांसे भ्रामयेत्सुधीः ।
रिपुजिह्वाग्रहां मुद्रां वामपादतले न्यसेत् ।
व्यापकान्ते योनिमुद्रां मुखे क्षिप्त्वाभिवन्द्य च ।
पुनर्ब्रह्मरन्ध्रे मणिबन्धे ललाटे मालिकां तां
षोडशवर्णान्न्यसेत् ।
अथ संहारन्यासः -
ततः पादयोर्जङ्घयोर्जान्वोः कट्यामङ्गुलिपृष्ठके ।
नाभौ पार्श्वद्वये चापि स्तनयोरंसयोस्तथा ।
करयोर्ब्रह्मरन्ध्रे च वदने भ्रुवि पार्वति ।
ततः कर्णप्रदेशे च करवेष्टनयोः क्रमात् ॥
इति संहारन्यासः ॥ ९१ ॥
अथ स्थितिक्रमः-
करयोरङ्गुलीषु पञ्च ब्रह्मरन्ध्रे मुखे हृदि त्रयम् ।
नाभ्यादिपादपर्यन्तमेकम् ।
कण्ठान्नाभिपर्यन्तमेकम् ।
ब्रह्मरन्ध्रात्कण्ठपर्यन्तमेकम् ।
पादयोरङ्गुलीषु पञ्च ।
इति स्थितिन्यासः ॥ ९२ ॥
अथ सृष्टिन्यासः-
ब्रह्मरन्ध्रे ललाटे नेत्रे श्रवणे घ्राणे मस्तके ओष्ठे दन्ताध
ऊर्ध्वे जिह्वायां चिबुके पृष्ठे सर्वाङ्गे हृदि स्तनयोः कुक्षौ
लिङ्गे च षोडशवर्णान् प्रविन्यसेत् ॥ ९३ ॥
अथ नादन्यासः-
शिरसि अविकृन्नादाय नमः, ललाटे शून्यनादाय नमः,
भ्रूमध्ये स्पर्शनादाय नमः, नासायां नादनादाय नमः,
वदने ध्वनिनादाय नमः, कण्ठे विन्दुनादाय नमः, हृदये
शक्तिनादाय नमः, नाभौ जीवनादाय नमः, मूलाधारे
अक्षरात्मकनादाय नमः ।
तथा च कुलामृते-
प्रथमञ्चाविकृन्नादं शून्यनादमतः परम् ।
स्पर्शनादं नादनादं ध्वनिनादमतः परम् ।
विन्दुनादं शक्तिनादं जीवनादं ततः शिवे ।
अक्षरात्मकनादञ्च नमोऽन्तञ्च क्रमेण हि ।
शिरोललाटभ्रूमध्य-नासावदनकण्ठके ।
हृन्नाभिमूलदेशेषु नवनादं न्यसेत्सुधीः ॥ ९४ ॥
अथ षोढान्यासः -
ज्ञानार्णवे-
गणेशो प्रथमो न्यासो द्वितीयश्च ग्रहैर्मतः ।
नक्षत्रैस्तु तृतीयः स्याद्योगिनीभिश्चतुर्थकः ।
राशिभिः पञ्चमो न्यासः षष्ठः पीठैर्निगद्यते ॥ ९५ ॥
षोढान्यासस्त्वयं प्रोक्तः सर्वत्रैवापराजितः ।
एवं-
योगिन्यस्तस्य गात्रस्थाः स पूज्यः सर्वयोगिभिः ।
नास्त्यस्य पूज्यो लोकेषु पितृमातृमुखोज्ज्वलः ।
स एव पूज्यः सर्वेषां स स्वयं परमेश्वरः ॥ ९६ ॥
षोढान्यासविहीनो यः प्रणमेद्देवि पार्वतीम् ।
सोऽचिरान्मृत्युमाप्नोति नरकञ्च प्रपद्यते ॥ ९७ ॥
बृहदारण्यक-ऋषिरनुष्टुप्छन्दो गणेशो देवता न्यासकर्मणि जपे
विनियोगः ॥ ९८ ॥
एं ह्रीं श्रीम् अं विघ्नेश्वरश्रीभ्यां नमः इति शिरसि ।
३ (ऐं ह्यीं श्रीं) आं विघ्नराजह्रोब्यां नमः इति मुखे ।
३ इं विनायकतुष्टिभ्यां नमः इति दक्षचक्षुषि ।
३ ईं शिवोत्तमशान्तिभ्यां नमः इति वामनेत्रे ।
ए उं विघ्नहृत्पुष्टिभ्यां नमो दक्षकर्णे ।
३ ऊं विघ्नकर्त्तृसरस्वतीभ्यां नमो वामकर्णे ।
३ ऋं विघ्नराड्रतिभ्यां नमो दक्षनसि ।
३ ॠं गणनायकमेधाभ्यां नमो वामनसि ।
३ ऌम् एकदन्तकान्तिभ्यां नमो दक्षगण्डे ।
३ ॡं द्विदन्त-कामिनीभ्यां नमो वामगण्डे ।
३ एं गजवक्त्र-मोहिनीभ्यां नमः ओष्ठे ।
३ ऐं निरञ्जनजटाभ्यां नमोऽधरे ।
३ ॐ कन्दर्पभृत्तीव्राभ्यां नमः ऊर्ध्वदन्ते ।
३ औं दीर्घवक्त्रज्वालिनीभ्यां नमोऽधोदन्ते ।
३ अं सङ्कर्षणनन्दाभ्यां नमो ब्रह्मरन्ध्रे ।
३ अः वृषध्वजसुरसाभ्यां नमो मुखे ।
३ कं गणनाथकामरूपिणीभ्यां नमो दक्षस्कन्धे ।
३ खं गजेन्द्रशुभाभ्यां नमो दक्षकूर्परे ।
३ गं सूर्पकर्णजयिनीभ्यां नमो मणिबन्धे ।
३ घं त्रिनेत्रसत्याभ्यां नमोऽङ्गुलिमूले ।
ङं लम्बोदरविघ्नेशीभ्यां नमोऽङ्गुल्यग्रे ।
३ चं महामोदस्वरूपिणीभ्यां नमो वामस्कन्धे ।
३ छं चतुर्मूर्त्तिकामदाभ्यां नमो वामकूर्परे ।
३ जं सदाशिवमदविह्वलाभ्यां नमो मणिबन्धे ।
३ झम् आमोदविकटाभ्यां नमोऽङ्गुलिमूले ।
३ ञं दुर्मुखघूर्णाभ्यऽम् नमोऽङ्गुल्यग्रे ।
३ टं सुमुखभूतिनीभ्यां नमो दक्षकटाधः ।
३ठं प्रमोदभूमिभ्यां नमो दक्षजानुनि ।
३ डम् एकपादमतिभ्यां नमो गुल्फे ।
३ ढं द्विजिह्वरमाभ्यां नमोऽङ्गुल्यधः ।
३ णं शूरमानुषोभ्यां नमोऽङ्गुल्यग्रे ।
३ तं वीरमकरध्वजाभ्यां नमो वामकट्यधः ।
३ थं षण्मुखविकर्णाभ्यां नमो जानुनि ।
३ दं वरदभृकुटिभ्यां नमो गुह्ये ।३ धं
वामदेवलज्जाभ्यां नमोऽङ्गुल्यधः ।
३ नं वक्रतुण्डदीर्घघोणाभ्यां नमः इति अङ्गुल्यग्रे ।
३ पं द्विरण्डधनुर्धराभ्यां नमो दक्षपार्श्वे ।
३ फं सेनानीयामिनीभ्यां नमो वामपार्श्व ।
३ बं ग्रामणीरात्रिभ्यं नमः पृष्ठे ।
३ भं भत्तचन्द्रिकाभ्यां नमो नामौ ।
३ मं विमलशशिप्रभाभ्यां नमः उदरे ।
३ यं मत्तवाहनलोलाभ्यां नमो हृदि ।
३ रं जटिचपलाक्षिभ्यां नमो दक्षस्कन्धे ।
३ लं मुण्डि-ऋद्धिभ्यां नमः ककुदि ।
३ वं खड्गिदुर्भगाभ्यां नमो वामस्कन्धे ।
३ शं वरेण्यसुभगाभ्यां नमो हृदादिदक्षहस्ते ।
३ षं वृषकेतुशिवाभ्यां नमो हृदादिवामहस्ते ।
३ सं भक्ष्यप्रियदुर्गाभ्यां नमो हृदादिदक्षपादे ।
३ हं मेघानादकामिनीभ्यां नमो हृदादिवामपादे ।
३ लं गजेशकान्यकुब्जाभ्यां नमो हृदाद्युदरे ।
३ क्षं गणेशविघ्नहारिणीभ्यां नमो हृदादिमुखे ।
तथा च ज्ञानार्णवे-
विश्वेश्वरस्तथा श्रीश्च विघ्नराजस्तथा ह्रिया ।
विनायकस्तथा तुष्टिः शान्तियुक्तः शिवोत्तमः ।
विघ्नहृत्पुष्टियुक्तश्च विघ्नकर्त्तृ सरस्वती ।
विघ्नराड्रतियुक्तश्च मेधा च गणनायकः ।
एकदन्तश्च कान्तिश्च द्विदन्तः कामिनीयुतः ।
गजवक्त्रो मोहिनी च निरञ्जनजटैकतः ।
कन्दर्पभृत्तथा तीव्रा दीर्घ्रवक्त्रस्तथा प्रिये ।
ज्वालिनीसहितः पश्चात् नन्दासङ्कर्षणौ तथा ।
वृषध्वजश्च सुरसा गणनाथेन संयुता ।
कामरूपिणिका पश्चात्गजेन्द्रः शुभया (शुभ्रया) ततः ।
सूर्पकर्णस्तु जयिनी त्रिनेत्रः सत्यया युतः ।
लम्बोदरश्च विघ्नेशी महामोदः स्वरूपिणी ।
चतुर्मूर्तिः कामदा च सदाशिवयुता ततः ।
मदविह्वलनाम्नी च आमोदविकटे तथा ।
दुर्मुखश्च तथा घूर्णा सुमुखो भूतिनी ततः ।
प्रमोदश्च तथा भूमिरेकपादस्तथा मतिः द्विजिह्वश्च
रमायुक्तः शूरश्चैव तु मानुषी ।
वीरेणसहिता पश्चात्शैलजे मकरध्वजा ॥
यन्मुखश्च विकर्णा च वरदो भृकुटी ततः ।
वामदेवस्तथा लज्जा वक्रतुण्डस्ततः परम् ।
दीर्घघोणान्वितः पश्चाद्द्विरण्डकधनुर्धरे ।
सेनानीर्यामिनीयुक्ता ग्रामणी रात्रिसंयुतः ।
मतश्च चन्द्रिकायुक्तो विमलश्च शशिप्रभा ।
मत्तवाहनलोले च जटी च चपलाक्षिणी ।
मुण्डी ऋद्धियुतः पश्चात्खड्गी दुर्भगया युतः ।
वरेण्यश्चैव सुभगा वृषकेतुस्तथा शिवा ।
भक्ष्यप्रियश्च दुर्गा च मेघनादश्च कामिनी ।
गजेशः कान्यकुब्जा च गणेशो विघ्नहारिणी ।
इति गणेशन्यासः ॥ ९९ ॥
अथ ग्रहन्यासः-
३ (ऐं ह्रीं श्रीं) अम् आम् इम् ईम् उम् ऊम् ऋं ॠम् ऌं ॡम् एम्
ऐं ॐ औम् अम् आम् आदित्यरुचिभ्यां नमो हृदये ।
३ यं रं लं वं सों सोमामराभ्यां नमो भ्रूमध्ये ।
३ कं खं गं घं ङम् अम् अङ्गारकरक्ताभ्यां नमो नेत्रे ।
३ चं छं जं झं ञं बुं बुधज्ञानरूपाभ्यां नमो
हृदयोपरि ।
३ टं ठं डं ढं णं वृं वृहस्पतियशस्विनीभ्यां नमः
कण्ठे ।
३ तं थं दं धं नं शुं शुक्राह्लादिनीभ्यां नमो गले ।
३ पं फं बं भं मं शं शनैश्चरशक्तिभ्यां नमो
नाभौ ।
३ शं षं सं हं रां राहुकृष्णाभ्यां नमो वक्त्रे ।
३ लं क्षं कें केतुवायवीभ्यां नमो गुह्ये ।
तथा च ज्ञानार्णवे-
स्वरैरर्कं हृदि न्यसेद्यवर्गेण शशी ततः ।
भ्रूमध्ये च कवर्गण भौमं नेत्रत्रये न्यसेत् ।
चवर्गेण बुधो हृदि टवर्गण वृहस्पतिः ।
हृदयोपरि देवेशि तवर्गेण गले भृगुः ।
पवर्गेण शनिर्नाभौ राहुर्वक्त्रे शवर्गगः ।
लक्षाभ्यान्तु गुदे केतुं न्यसदेवं वरानने ॥ १०० ॥
अथ नक्षत्रन्यासः-
३ (ऐं ह्रीं श्रीं) अम् आम् अश्विन्यै नमो ललाटे ।
३ इम् ईं भरण्यै नमो दक्षनेत्रे ।
३ उम् ऊं कृत्तिकायै नमो वामनेत्रे ।
३ ऋं ॠम् ऌं ॡं रोहिण्यै नमो दक्षकर्णे ।
३ एं मृगशिरायै नमो वामकर्णे ।
३ ऐम् आर्द्रायै नमो दक्षनासायाम ।
३ ॐ औं पुनर्वसवे नमो वामनासायाम् ।
३ कं पुष्यायै नमः कण्ठे ।
३ खं गम् अश्लेषायै नमो दक्षस्कन्धे ।
३ घं ङं मघायै नमो वामस्कन्धे ।
३ चं पूर्वफल्गुन्यै नमो दक्षभुजमध्ये ।
३ छं जम् उत्तरफल्गुन्यै नमो वामभुजमध्ये ।
३ झं ञं हस्तायै नमो दक्षमणिबन्धे ।
३ टं ठं चित्रायै नमो वाममणिबन्धे ।
३ डं स्वात्यै नमो दक्षहस्ततले ।
३ ढं णं विशाखायै नमो वामहस्त्ततले ।
३ तं थं दम् अनुराधायै नमो नाभौ ।
३ धं ज्येष्ठायै नमो दक्षकटिदेशे ।
३ नं पं फं मूलायै नमो वामकटिदेशे ।
३ वं पूर्वाषाढायै नमो दक्षोरौ ।
३ भम् उत्तराषाढायै नमो वामोरौ ।
३ मं श्रवणायै नमो दक्ष जानुनि ।
३ यं रं धनिष्ठायै नमो वामजानुनि ।
३ लं शतभिषायै नमो दक्षजङ्घायाम् ।
३ वं शं पूर्वभाद्रपदायै नमो वामजङ्घायाम् ।
३ षं सं हम् उत्तनभाद्रपदायै नमो दक्षपादे ।
३ लं क्षम् अम् अः रेवत्यै नमो वामपादे ॥ १ ॥
अथा योगिनीन्यासः-
३ (ऐं ह्रीं श्रीं) अम् आम् इम् ईम् उम् ऊम् ऋम् ऋम् ऌं ॡम् एम्
ऐं ॐ औं डां डीं दुं डं म ल व र यूं डाकिन्यै मां
रक्ष रक्ष त्वगात्मने नमः कण्ठे ।
३ कं खं गं घं ङं चं छं जं झं ञं टं ठं
रां रीं र म ल व र यूं राकिण्यै मां रक्ष रक्षासृगात्मने
नमो हृदये ।
३ डं ढं णं तं थं दं धं नं पं फं नां नीं न
म ल व र यूं लाकिन्यै मां रक्ष रक्ष मांसात्मने नमो
नाभौ ।
३ वं भं मं यं रं लं कां कीं क म ल व र यूं
काकिन्यै मां रक्ष रक्ष मेद आत्मने नमः स्वाधिष्ठाने ।
३ वं शं षं सं सां सीं स म ल व र यूं शाकिन्यै मां
रक्ष रक्ष अस्थ्यात्मने नमो मूलाधारे ।
३ हं लं क्षं हां हीं ह म ल व र यूं हाकिन्यै मां रक्ष
रक्ष मज्जात्मने नमो भ्रूमध्ये ॥ २ ॥
अथ राशिन्यासः-
३ (ऐं ह्रीं श्रीं) अम् आम् इम् ईं मेषराशये नमो दक्षगुल्फे ।
३ उम् ऊम् ऋं वृषराशये नमो दक्षजानुनि ।
३ रॄम् ऌं ॡं मिथुनराशये नमो दक्षवृषणे ।
३ एम् ऐं कर्कटराशये नमो दक्षकुक्षौ ।
३ ॐ औं सिंहराशये नमो दक्षस्कन्धे ।
३ अम् अः शं षं सं हं लं क्षं कन्याराशये नमो
दक्षमस्तके ।
३ कं खं गं घं ङं तुलाराशये नमो वाममस्तके ।
३ चं छं जं झं ञं वृश्चिकराशये नमो वामबाहुमूले ।
३ टं ठं डं ढं णं धनुराशये नमो वामकुक्षौ ।
३ तं थं दं धं नं मकरराशये नमो वामवृषणे ।
३ पं फं बं भं मं कुम्भराशये नमो वामजानुनि ।
३ यं रं लं वं मीनराशये नमो वामगुल्फे ॥ ३ ॥
अथ पीठन्यासः-
सितासितारुण - श्याम-हिरित्-पीतान्यनुक्रमात् ।
पुनः पुनः क्रमाद्देवि पञ्चाशत् स्थानसञ्चथः ।
श्यामान् वराभयकरान् सर्वालङ्कारभूषितान् ।
एवं ध्यात्वा पीठे न्यसेत् ।
३ (ऐं ह्रीं श्रीं) अं कामरूपपीठाय नमः शिरसि ।
३ आं वाराणसी पीठाय नमो मुखवृत्ते ।
३ इं नेपालपीठाय नमो दक्षचक्षुषि ।
३ ईं पौण्ड्रवर्द्धनपीठाय नमो वामचक्षुषि ।
उं काश्मीरपीठाय नमो दक्षकर्णे ।
ऊं कान्यकुब्जपीठाय नमो वाकर्णे ।
३ ऋं पुरस्थितपीठाय नमो दक्षिणनसि ।
ऋं चरस्थितपीठाय नमो वामनसि ।
ए ऌं पूर्णशैलपीठाय नमो दक्षगण्डे ।
३ ऌम् अर्बुदपीठाय नमो वामगण्डे ।
३ एम् आम्रातकेश्वरपीठाय नमः ओष्ठे ।
३ ऐम् एकाम्रपीठाय नमोऽधरे ।
३ ॐ त्रिस्रोतःपीठा नमः ऊर्धदन्ते ।
३ औं कामकोट्टपीठाय नमोऽधोदन्ते ।
३ अं कैलासपीठाय नमो ब्रह्मरन्ध्रे ।
३ अः भृगुपीठाय नमो मुखे ।
३ कं केदारपीठाय नमो दक्षबाहुमूले ।
३ खं चन्द्रपुरपीठाय नमः दक्षकूर्परे ।
३ गं श्रीपीठाय नमो दक्षमणिबन्धे ।
३ घम् ओङ्कारपीठाय नमः दक्षिणाङ्गुलिमूले ।
३ ङं जालन्धरपीठाय नमः दक्षाङ्गुल्यग्रे ।
३ चं मानवपीठाय ।
३ छं कूपान्तकपीठाय ।
३ जं देवीकोट्टीपीठाय ।
३ झं गोकर्णपीठाय ।
३ ञं मारुतेश्वरपीठाय-वामबाहुमूलसन्ध्यग्रकेषु ।
३ टम् अट्टहासपीठये नमः दक्षपादमूले ।
३ ठं विजयपीठाय नमो दक्षजानुनि ।
३ डं राजगृहपीठाय नमोदक्षगुल्फे ।
३ ढं कोल्वगिरिपीठाय नमो दक्षपादाङ्गुलिमूले ।
३ णम् एलापुरपीठाय नमो दक्षपादां गुल्यग्रे ।
३ तं कामेश्वरपीठाय नमो वामपादमूले ।
३ थं जयन्तीपीठाय नमः वामजानुनी ।
३ दम् उज्जयिनीपीठाय नमो वामगुल्फे ।
३ धं क्षीरिकापीठाय नमो वामपादाङ्गुलिमूले ।
३ नं हस्तिनापुरपीठाय नमो वामपादाङ्गुल्यग्रे ।
३ पम् उड्डीशपीठाय नमो दक्षपार्श्वे ।
३ फं प्रयोगपीठाय नमो वामपार्श्वे ।
३ बं विन्ध्यपीठाय नमः पृष्ठे ।
३ भं मायापुरपीठाय नमो नाभौ ।
३ मं जलेश्वर पीठाय नमः उदरे ।
३ यं मलयपीठाय नमो हृदये ।
३ रं श्रीशैलपीठाय नमो दक्षिणस्कन्धे ।
३ लं मेरुपीठाय नमः ककुदि ।
३ गिरिपीठाय नमो वामस्कन्धे ।
३ शं महेन्द्रपीठाय नमो हृदादि दक्षिणकरे ।
३ यं वामनपीठाय नमो हृदादिवामकरे ।
३ सं हिरण्यपुरपीठाय नमो हृदादिदक्षिणपादे ।
३ हं महालक्ष्मीपुरपीठाय नमो हृदादिवामपादे ।
३ लम् उड्डीयानपीठाय नमो हृदादि-उदरे ।
३ क्षं छायाछत्रपुरपीठाय नमो हृदादिमुखे ।
सर्वत्र मातृकास्थानेषु नमोऽन्तेन न्यसेत् ।
अयं षोढान्यासो मातृकायन्यासकाले कर्त्तव्यः इति
सम्प्रदायविदः ॥ ४ ॥
अथ त्रिपुरान्यासः ।
तन्त्रे-
त्रिपुरन्यासं ततः कुर्यात् सर्वकामार्थसिद्धये ।
अस्यास्तु न्यासमात्रेण जीवन्मुक्तो भवेन्नरः ॥
यथा-
ऐं ह्रीं श्रीम् अं कामिनीत्रिपुरायै नमो ललाटे ।
सर्वत्र एवं क्रमेण त्रिपुरायै नमः इत्यन्तेन मातृकास्थानेषु
न्यसेत् ।
३ आं मालिनी ।
इं मदना ।
३ ईम् उन्मादिनी ।
३ उं द्राविणी ।
३ ऊं खेचरी ।
३ ऋं झटिका ।
३ ॠं कलावती ।
३ ऌं क्लेदिनी ।
३ ॡं शिवदूती ।
३ एं सुभगा ।
३ ऐं भगावहा ।
३ ॐ विद्येश्वरी ।
३ औं महालक्ष्मी ।
३ अं कौलिनी ।
३ अः कालेश्वरी ।
३ कं कुलमालिनी ।
३ खं व्यापिनी ।
गं भगा ।
३ घं वागीश्वरी ।
३ ङं कालिका ।
३ चं पिङ्गला ।
३ छं भगसर्पिगी ।
३ जं सुन्दरी ।
३ झं नीलपताका ।
३ ञं सिद्धेश्वरी ।
३ टं महासिद्धेश्वरी ।
३ ठम् अघोरा ।
३ डं रत्नमाला ।
३ ढं मङ्गला ।
३ णं भगमालिनी ।
३ तं रौद्री ।
थं योगेश्वरी ।
३ दम् अम्बिका ।
३ धम् अट्टहासा ।
३ नं व्योमरूपिणी ।
३ पं वज्रेश्वरी ।
३ फं क्षोभिणी ।
३ बं शाकम्भरी ।
३ भम् अनङ्गा ।
३ मं लोकेश्वरी ।
३ यं रक्ता ।
३ रं सुस्था ।
३ लं शुक्रा ।
३ वम् अपराजिता ।
३ शं सम्वर्ता ।
३ षं विमला ।
३ सम् अघोरा ।
३ हं भैरवी ।
३ लम् अघोरा ।
३ क्षं सर्वाकर्षिणी ।
इति पञ्चाशत्त्रिपुरा मातृकास्थानेषु नमोऽन्तेन न्यसेत् ॥ ५ ॥
अथ कामरतिन्याः ।
ऐं ह्रीं श्रीं क्लीम् अं कामरतिभ्यां नमः ।
सर्वत्र ऐं ह्रीं श्रीं क्लीम् ।
नमोऽन्तेन मातृकास्थानेषु न्यसेत् ।
४ आं कामप्रीतिभ्याम् ।
४ इं कान्तकामिनीभ्याम् ।
४ ईं भ्रान्तमोहिनीभ्याम् ।
४ उं कामधुक्कमलाभ्याम् ।
४ ऊं कामचारिविलासिनीभ्याम् ।
४ ऋं कन्दर्पकल्पलताभ्याम् ।
४ ॠं कोमलश्यामलाभ्याम् ।
४ ऌं कामवर्द्धकशुचिस्मिताभ्याम् ।
४ ॡं कामविजयाभ्याम् ।
४ एं रणविशालाक्षीभ्याम् ।
४ ऐं रमणलेलिहाभ्याम् ।
४ ॐ रतिनाथदिगम्बराभ्याम् ।
४ ऐं रतिप्रियरमाभ्याम् ।
४ अं रात्रिनाथकुब्जिकाभ्याम् ।
४ अः स्मरकान्ताभ्याम् ।
४ कं रमणसत्याभ्याम् ।
४ खं निशाचरकल्याणीभ्याम् ।
४ गं नन्दनभोगिनीभ्याम् ।
४ घं नन्दीशकामदाभ्याम् ।
४ ङं मदनसुलोचनाभ्याम् ।
४ चं नन्दयितृस्वलावण्याभ्याम् ।
४ छं निशाचरमर्दिनीभ्याम् ।
४ जं रतिहंसकलहंस- प्रियाभ्याम् ।
४ झं पुष्पगन्धन्वकाङ्क्षिणीभ्याम् ।
४ अ ञं माहधनुःसुखीभ्याम् ।
४ टं ग्रामणीनलिनीभ्याम् ।
४ ठं भीमजटिनीभ्याम् ।
४ डं भ्रामणज्वालिनीभ्याम् ।
४ ढं भ्रमणशिखिनीभ्याम् ।
४ णं श्याममुग्धाभ्याम् ।
४ तं भ्रामणरमाभ्याम् ।
४ थं भृगुभ्रमाभ्याम् ।
४ दं भ्रान्तकमलाभ्याम् ।
४ धं भ्रमावहसुचञ्चलाभ्याम् ।
४ नं मोहनदीर्घजिह्वाभ्याम् ।
४ पं मेषकमहामतिभ्याम् ।
४ फं मुग्धलोलाक्षीभ्याम् ।
४ बं मोहवर्द्धकभृङ्गिनीभ्याम् ।
४ भं मोहकचपेटाभ्याम् ।
४ मं मन्मथनाथाभ्याम् ।
४ यं मतङ्गमालिनीभ्याम् ।
४ रं भृङ्गीशकलहंसिनीभ्याम् ।
४ लं गायकविश्वतोमुखीभ्याम् ।
४ वं गीतिगजनन्दिकाभ्याम् ।
४ शं नर्तकरञ्जिनीभ्याम् ।
४ षं मेषकान्तिभ्याम् ।
४ सम् उन्मत्तकलकण्ठाभ्याम् ।
४ हं संवर्तकवृकोदरीभ्याम् ।
४ लं मेघश्यामाभ्याम् ।
४ क्षं विमलश्रीमतीभ्याम् ।
मातृकास्थानेष्वेतान्नमोऽन्तान्न्यसेत् ।
ज्ञानार्णवे-
न्यसेत्कामरती पश्चात्कामप्रीति महेश्वरि ।
कान्तश्च कामिनीयुक्तो भ्रान्ता वै मोहिनीयुतः ।
कामधुक्कमला तद्वत्कामचारो विलासिनी ।
कन्दर्पैः कल्पलतया कोमलश्यामले तथा ।
कामवर्द्धकसंयुक्ता विज्ञेया तु शुचिस्मिता ।
कामश्च विजयायुक्तो विशालाक्षीयुतो रणः ।
रमणो लेलिहायुक्तो रतिनाथदिगम्बरे ।
रतिप्रियरमे चैव रात्रिनाथश्च कुब्जिका ।
स्मरेण संयुता कान्ता रमणः सत्यया युतः ।
निशाचरश्च कल्याणी नन्दनो भोगिनी तथा ।
नन्दीशः कामदायुक्तो मदनश्च सुलोचना ।
स्वलावण्यायुतो देवि तथा नन्दयिता प्रिये ।
निशाचरश्च मर्दिन्या रतिहंसस्ततः परम् ।
कलहंसप्रियायुक्तः पुष्पधन्वा च काङ्क्षिणी ।
महाधनुश्च सुमुखी ग्रामणीर्नलिनीयुतः ।
भीमश्च जटिनीयुक्तो भ्रामणो ज्वालिनीयुतः ।
भ्रामण शिखिनीयुक्तो श्याममुग्धे ततः परम् ।
भ्रामणो रमया युक्तो भृगुर्भ्रमा ततः परम् ।
भ्रान्तः कामकलायुक्तो भ्रमावऽसुचञ्चला ।
मोहिनी दीर्घजिह्वा च मेषकश्च महामतिः ।
तथा मुग्धश्च लोलाक्षी मोहवर्द्धनभृङ्गिनी ।
मोहकश्च चपेटा च मन्मथो नाथया युतः ।
मतङ्गो मालिनीयुक्तो भृङ्गीशः कलहसिनी ।
गायकेन समायुक्तस्ततो वै विश्वतोमुखी ।
गजनन्दिकया युक्तो गीतिश्च तदनन्तरम् ।
नर्त्तकः सह रञ्जिन्या मेषः कान्तिसमन्वितः ।
उन्मत्तः कलकण्ठा च संवर्त्तकवृकोदरी ।
मेघः श्यामान्वितो देवि विमलः श्रीमती प्रिये ।
मातृकाणर्न्यसेद्देवि मातृकास्थान एव च ॥ ६ ॥
अथ षोडशनित्यान्यासः ।
ज्ञानार्णवे-
प्रथमो सुन्दरी नित्या महात्रिपुरसुन्दरी ।
कामेश्वरी समाख्याता तथैव भगमालिनी ।
नित्यक्लिन्नाः च भेरुण्डा तथैव वह्निवासिनी ।
वज्रेश्वरी च दूती च त्वरिता कुलसुन्दरी ।
नित्या नीलपताका च विजया सर्वमङ्गला ।
ज्वालामाला विचित्रान्ताः पञ्चदश प्रकीर्तिताः ।
एतासां मन्त्रा ज्ञानार्णवे-
शृणु देवि प्रवक्ष्यामि नित्यामन्त्रमनुत्तमम् ।
बालान्तारञ्च हृत्प्रान्ते कामेश्वरिपदं वदेत् ।
इच्छाकामफलप्रान्ते प्रदे सर्वपदं वदेत् ।
ततः सत्त्ववशं ब्रूयात्करि सर्वजगत्पदम् ।
क्षोभणान्ते करि ब्रूयात् हुङ्कारत्रयमालिखेत् ।
पञ्च बाणान् समालिख्य संहारेण कुमारिकाम् ।
एषा कामेश्वरी नित्या प्रसङ्गात्कथिता शिवे ।
वाग्भवं भगशब्दान्ते भगे भगिनि चालिखेत् ।
भगोदरि भगाङ्गे च भगमाले भगावहे ।
भगगुह्ये भगप्रान्ते योनिप्रान्ते भगान्तिके ।
निपातिनी च सर्वान्ते ततो भगवशङ्करि ।
भगरूपे ततो लेख्यं नीरजायतलोचने ।
नित्यक्लिन्ने भगप्रान्ते स्वरूपे सर्वमालिखेत् ।
भगानि मे ह्यानयान्ते वरदेऽथ समालिखेत् ।
रेते सुरेते च भगक्लिन्ने क्लिन्नद्रवे ततः ।
क्लेदय द्रावयाथो च सर्वसत्त्वान् भगेश्वरि ।
अमोघे भगविच्छे च क्षुभ क्षोभय सर्वं च ।
सत्त्वान् भगेश्वरि ब्रूयाद्वाग्भवं ब्लूं जमादिकम् ।
भें ब्लूं मों हें ब्लूं क्लिन्ने च ततः परम् ।
सर्वाणि च भगान्यन्ते मे वशञ्चानयेति च ।
स्त्री बीजञ्च हरप्रान्ते वेदमात्मकमक्षरम् ।
भुवनेशीं समालिख्य विद्येयं भगमालिनी ।
पराबीजं समुच्चार्य नित्यक्लिन्ने मदद्रवे ।
अग्निजायान्वितो मन्त्रो नित्यक्लिन्नेयमीरिता प्रणवं पूर्वमुच्चार्य
तथाङ्कुशयुगं वदेत् ।
तन्मध्ये विलिखेद्देवि भरोमात्मकमक्षरम् ।
चवर्गमन्त्यहीनन्तु विलिखेद्वह्निसंस्थितम् ।
चतुर्दशस्वरोपेतं विन्दुनादान्वितं पृथक् ।
वह्निजायान्विता विद्या भेरुण्डा देवता भवेत् ॥ ७ ॥
परां विलिख्य वह्न्यन्ते वासिन्यै नम इत्यपि ।
अष्टार्णोऽयं महेशानि देवता वह्निवासिनी ।
प्रणवं भुवनेशानीं फरेमात्मकमक्षरम् ।
सविसर्गः शशी पश्चान्नित्यक्लिन्ने मदद्रवे ।
वह्निजायान्विता विद्या सर्वैश्वर्यम्प्रदायिनी ।
चतुर्दशाक्षरी विद्या ज्ञेया वज्रेश्वरी तथा ।
पराबीजं समुच्चार्य शिवदूती च ङेयुता ।
हृदन्तोऽयं मनुर्देवि दूती सर्वसमृद्धिदा ।
ओङ्कारबीजमुच्चार्य परां कवचमालिखेत् ।
खेचछेक्षं समालिख्य श्रीबीजञ्च समालिखेत् ।
हुङ्कारं क्षे परा चास्त्रं विद्येयं त्वरिता भवेत् ।
सर्वसिंहासनमयी बालैव कुलसुन्दरी ।
बालया पुटितां कुर्यात्तथा वै नित्यभैरवीम् ।
पञ्चबाणांश्च देवेशि नित्या शक्राक्षरी भवेत् ।
अथवा-
पञ्चाक्षरी बाणबीजैर्नित्येयमपरा भवेत् ।
प्रणवं भुवनेशानीं फरेमात्मकमक्षरम् ।
ब्लूमात्मकं द्वितीयन्तु भुवनेश्यङ्कुशं ततः ।
नित्यशब्दं समुद्धृत्य सम्बोध्या च मदद्रवा ।
कवचं चाङ्कुशं माया नित्या नीलपताकिनी ।
वान्तं कालसमायुक्तं रेफं शक्रस्वरान्वितम् ।
विन्दुनादाङ्कितं देवि विद्येयं विजया भवेत् ।
यद्वा-
वान्तं कालाग्निवायुश्च शक्रस्वरविभूषितः ।
नादविन्दुकलायुक्तो विद्येयं विजया भवेत् ।
चन्द्रं वरुणसंयुक्तं तारस्थञ्च समालिखेत् ।
चतुर्थ्यन्तं ततो देवि विलिखेत्सर्वमङ्गलाम् ।
हृदन्तोऽयं मनुर्देवि नित्येयं सर्वमङ्गला ।
तारं हृद्भगवत्यन्ते ज्वालामालिनी देवि च ।
द्विरुच्चार्य च सर्वान्ते भूतसंहारिके ।
जातवेदसि संलिख्य ज्वलन्तिपदयुग्मकम् ।
ज्वलेति प्रज्वलद्वन्द्वं हुङ्कारत्रयमालिखेत् ।
वह्निबीजत्रयं कूर्चमन्त्रं स्वाहान्वितो मनुः ।
इयं नित्या महादेवि ज्वालामालिनिका परा ।
कवर्गान्तं स्वरान्तञ्च शक्रस्वरविभूषितम् ।
विन्दुनादकलाक्रान्तं विचित्रा परमेश्वरी ।
अकारादिषु सर्वेषु स्वरेषु क्रमतो यजेत् ।
अः स्वरे परमेशानि श्रीविद्यां विश्वमातृकाम् ।
स्वरवद्विन्यसेद्विद्यां नीरजायतलोचने ।
एताः षोडशस्वरन्यासस्थानेषु विन्यसेत् ॥ ७क ॥
मन्त्रो यथा-
ऐं ह्रीं श्रीम् अम् ऐं क्लीं सौः ॐ नमः कामेश्वरि
इच्छाकामफलप्रदे सर्वसत्त्ववशङ्करि सर्वजगत्क्षोभणकरि हुं
हुं हुं द्रां द्रीं क्लीं ब्लूं सः सौः क्लीम् ऐं
कामेश्वरीनित्याकलायै नमः (१) ।
ऐं ह्रीं श्रीम् आम् ऐं भगभगे भगिनि भगोदरि भगाङ्गे
भगमाले भगावहे भगगुह्ये भगयोनि भगनिपातिनि
सर्वभगवशङ्करि भगरूपे नित्यक्लिन्ने भगस्वरूपे सर्वभगानि
मे ह्यानय वरदे रेते सुरेते भगक्लिन्ने क्लिन्नद्रवे क्लेदय द्रावय
सर्वसत्त्वान् भगेश्वरि अमोघे भगविच्छे क्षुभ क्षोभय
सर्वसत्त्वान् भगेश्वरि ऐं ब्लूं जं भें ब्लूं मों ब्लूं हें
ब्लूं क्लिन्ने सर्वाणि भगानि मे वशमानय स्त्रीं हर ब्लौं ह्रीं
भगमालिनीनित्याकलायै नमः (२) ।
ऐं ह्रीं श्रीं हं ह्रीं नित्यक्लिन्ने मदद्रवे स्वाहा
नित्यक्लिन्नानित्याकलायै नमः (३) ।
ऐं ह्रीं श्रीम् ईं ॐ क्रों क्रों द्रौं च्रौं छ्रौं ज्रौं
झ्रौं स्वाहा भेरुण्डानित्याकलायै नमः (४) ।
ऐं ह्रीं श्रीम् उं ह्रीं वह्निवासिन्यै नमः वह्निवासिनी-
नित्याकलायै नमः (५) ।
ऐं ह्रीं श्रीम् ऊं ॐ ह्रीं फ्रें सः नित्यक्लिन्ने मदद्रवे
स्वाहा वज्रेश्वरीनित्याकलायै नमः ( ६) ।
ऐं ह्रीं श्रीम् ऋं ह्रीं शिवदूत्यै नमः दृतीनित्याकलायै नमः
(७) ।
ऐं ह्रीं श्रीं ॠं ॐ ह्रीं हुं खेचछेक्ष स्त्रीं हूं क्षे
ह्रीं फट् त्वरितानित्याकलायै नमः (८) ।
ऐं ह्रीं श्रीम् ऌम् ऐं क्लीं सौः कुलसुन्दरीनित्याकलायै नमः
(९) ।
ऐं ह्रीं श्रीं ॡम् ऐं क्लीं सौः ह स क र डैं ह स क ल र
डीं ह स क ल र डौः द्रां द्रीं क्लीं ब्लूं सः सौः क्लीम् ऐं
विमलनित्याकलायै नमः ।
अथवा ऐं ह्रीं श्रीं ॡं द्रां द्रीं क्लीं ब्लूं सः
विमलानित्याकलायै नमः (१०) ।
ऐं ह्रीं श्रीम् एं ॐ ह्रीं फ्रें ब्लूम् आं ह्रीं क्रों नित्ये
मदद्रवे हुं क्रों ह्रीं नीलपताकिनी नित्याकलायै नमः (११) ।
ऐं ह्रीं श्रीं भ्म्रौं विजयानित्याकलायै नमः ।
अथवा-
ऐं ह्रीं श्रीम् ऐं भ्न्त्र्यौं विजयेत्यादि (१२) ।
ऐं ह्रीं श्रीं ॐ स्वों सर्वमङ्गलायै नमः
सर्वमङ्गलानित्याकलायै नमः (१३) ।
ऐं ह्रीं श्रीम् औं ॐ नमो भगवति ज्वालमालिनि देवि
ज्वालामालिनि देवि सर्वभूतसंहारकारिके जातवेदसि ज्वलन्ति ज्वलन्ति
ज्वल प्रज्वल प्रज्वल हुं हुं हुं रं रं रं हुं फट् स्वाहा
ज्वालामालिनीनित्याकलायै नमः (१४) ।
ऐं ह्रीं श्रीम् अं चं कौं विचित्रानित्याकलायै नमः (१५) ।
ऐं ह्रीं श्रीम् अः मूलविद्यामुच्चार्य
श्रीमहात्रिपुरसुन्दरीनित्याकलायै नमः (१६) ।
यद्वा ऐं ह्रीं श्रीम् अः ॐ कामेश्वरीनित्याकलायै नमः ।
इति षोडशनित्या न्यसेत् ।
अस्मिन् काले वा सृष्टिस्थितिन्यासः ।
इति षोडशमित्यान्यासः ।
अथ प्रकटयोगिनीन्यासः-
मूलाधारे ऐं ह्रीं श्रीं प्रकटयोगिनीभ्यो नमः ।
स्वाधिष्ठाने ३ गुप्तयोगिनीभ्यो नमः ।
नाभौ ३ गुप्ततरयोगिनीभ्यो नमः ।
हृदये ३ सम्प्रदाययोगिनीभ्यो नमः ।
कण्ठे ३ कुलकौलिनीयोगिनीभ्यो नमः ।
भ्रूमध्ये ३ निगर्वयोगिनीभ्यो नमः ।
नादे ३ रहस्ययोगिनीभ्यो नमः ।
नादान्ते ३ अतिरहस्ययोगिनीभ्यो नमः ।
ब्रह्मरन्ध्रे ३ परमातिरहस्ययोगिनीभ्यो नमः ॥ ८ ॥
अथ आयुधन्यासः-
द्रां द्रीं क्लीं ब्लूं सः यां रां लां वां शां धं
सम्मोहनाय कामेश्वरधनुषे नमः ।
यां ५ द्रां ५ थं सम्मोहनाय कामेश्वरीधनुषे नमः ।
एतद्द्वयं स्ववामाधोहस्ते ।
द्रां ५ यां ५ जं जम्भलेभ्यः कामेश्वरबाणेभ्यो नमः ।
यां ५ द्रां ५ जं जम्भलेभ्यः कामेश्वरी वाणेभ्यो नमः ।
एतद्द्वयं दक्षिणाधःकरे ।
द्रां ५ यां ५ आं वशीकरणाय कामेश्वरपाशाय नमः ।
द्रां ५ यां ५ ह्रीं वशीकरणाय कामेश्वरीपाशाय नमः ।
एतद्द्वयं वामोर्ध्वहस्ते ।
द्रां ५ यां ५ क्रों सर्वस्तम्भनाय कामेश्वराङ्कुशाय नमः
।
द्रां ५ यां ५ सर्वस्तम्भनाय कामेश्वर्यङ्कुशाय नमः ।
एतद्द्वयं दक्षोर्ध्वे ।
इति तु वक्ष्यमाणक्रमेण कामकला ध्यात्वा न्यसेत् ।
तथा च ज्ञानार्णवे-
एवं कामकलारूपं देवतामयमात्मनः ।
वपुर्विचिन्त्य शिवयोरायुधन्यासमाचरेत् ।
तथा च-
द्रां द्रीं क्लीं ब्लूं सः इत्येते कामबाणाः प्रकीर्तिताः ।
यां रां लां वां शाम् इदं कामेश्वरीबाणपञ्चकम् ।
द्रादीनि पश्चाद्यादीनि धं सम्मोहनशब्दतः ।
ङेऽन्तात्कामेश्वरधनुर्ङेऽन्तं नमोऽन्तमुद्धरेत् ।
अनेन च स्ववामाधोहस्ते सन्धारयेद्धनुः ।
यादिद्रादीनि थं ङेऽन्तसम्मोहनपदोपरि ।
कामेश्वरीधनुर्ङेऽन्तं नमोऽन्तमित्यधःकरे ।
वामे देव्यास्तथा मन्त्री धारयेदैक्षवं धनुः ।
द्रादियादीनि जं जम्भलेभ्यः कामेश्वरपदान्तिके ।
वाणेभ्यो नम इत्यन्तं दक्षिणाधःकरे निजे ।
शैवान्प्रविन्यसेद्वाणान् पौष्पान्साधकसत्तमः ।
यादिद्रादीनि जं जम्भलेभ्यः कामेश्वरीपदात्ततः ।
बाणेभ्योनम इत्येतान् दक्षिणाधः करे निजे ।
देव्याः प्रविन्यसेद्वाणान् पौष्पानिति च साधकः ।
द्रादियादीनि भूयोऽपि मुखवृत्तं सविन्दुकम् ।
स्याद्वशीकरणायेति कामेश्वरपदं ततः ।
पाशाय नम इत्येवं वामोर्ध्वे विन्यसेत्करे ।
यादिद्रादीनि गगनं वह्निवामाक्षिविन्दुमत् ।
स्याद्वशीकरणायेति ततः कामेश्वरीति च ।
पाशाय नम इत्येवं वामोर्ध्वे विन्यसेत्करे ॥ ९ ॥
द्रादियादीनि क्रों सर्वस्तम्भनाय पदं ततः ।
कामेश्वरपदात्पश्चादङ्कुशाय नमो लिखेत् ।
दक्षिणोर्ध्वकरे शैवं विन्यसेदङ्कुशं ततः ।
यादिद्रादीनि क्रों सर्वस्तम्भनाय ततः परम् ।
कामेश्वरीपदादूर्ध्वमङ्कुशाय नमो लिखेत् ।
दक्षिणोर्ध्वकरे देव्या विन्यसेदङ्कुशं ततः ॥ ९क ॥
ततो मूलेन व्यापकं नवमुद्राः प्रदर्शयेत् ॥
तद्यथा-
द्रां सर्वसङ्क्षोभिणीं द्रीं सर्वद्राविणीं क्लीम् आकर्षिणीं
ब्लूं सर्ववेशिनीं सः सर्वोन्मादिनीं क्रों महाङ्कुशां ह स
ख फ्रें खेचरीं ह्सौः बीजमुद्राम् ऐं योगिनीमुद्राम् ॥ १० ॥
न्यासकालस्तु योगिनीहृदये-
प्रातःकालेऽथवा पूजासमये होमकर्मणि ।
जपकालेऽपि वा तेषां विनियोगः पृथक् पृथक् ।
पूजाकाले समस्तं वा कुर्यात्साधकसत्तमः ॥ ११ ॥
ततो ध्यानम्-
ततः पद्मनिभां देवीं बालार्ककिरणोज्ज्वलाम् ।
जवाकुसुमसङ्काशां दाडिमीकुसुमोपमाम् ।
पद्मरागप्रतीकाशां कुङ्कुमारुणसन्निभाम् ।
स्फुरन्मुकुटमाणिक्य किङ्किणीजालमण्डिताम् ।
कालालिकुलसङ्काशकुटिलालकपल्लवाम् ।
प्रत्यग्रारुणसङ्काशवदनाम्भोजमण्डलाम् ।
किञ्चिदर्द्धेन्दुकुटिलललाटमृदुपट्टिकाम् ।
पिनाकिधनुराकारभ्रूलतां परमेश्वरीम् ।
आनन्दमुदितोल्लासलीलान्दोलितलोचनाम् ।
स्फुरन्मयूखसङ्काशविलसद्धेमकुण्डलाम् ।
सुगण्डमण्डलाभोग जितेन्द्वन्मृतमण्डलाम् ।
विश्वकर्मविनिर्माणसूत्रसुस्पष्टनासिकाम् ।
ताम्रविद्रुमविम्बाभरक्तोष्ठीममृतोपमाम् ।
स्मितमाधुर्यविजितमाधुर्यरससागराम् ।
अनौपम्यगुणोपेतचिबुकोद्देशशोभिताम् ।
कम्बुग्रीवां महादेवीं मृणालललितैर्भुजैः ।
रक्तोत्पलदलाकारसुकुमारकराम्बुजाम् ॥
रक्ताम्बुजनखज्योतिर्वितानितनभस्तलाम् ।
मुक्ताहारलतोपेतसमुन्नतपयोधराम् ।
त्रिवलीवलयायुक्तमध्यदेशसुशोभिताम् ॥ १२ ॥
लावण्यसरिदावर्ताकारनाभिविभूषिताम् ।
अनर्घरत्नघटिकाञ्चीयुतनितम्बिनीम् ।
नितम्बविम्बद्विरदरोमराजिवराङ्कुशाम् ।
कदलीललितस्तम्भसुकुमारोरुमीश्वरीम् ।
लावण्यकुसुमाकारजानुमण्डलबन्धुराम् ।
लावण्यकदलीतुल्यजङ्घायुग लमण्डिताम् ।
गूढगुल्फपदद्वन्द्वप्रपदाजितकच्छपाम् ।
तनुदीर्घाङ्गुलिस्वच्छनखराजिविराजिताम् ।
ब्रह्मविष्णुशिरोरत्ननिघृष्टचरणाम्बुजाम् ।
शीतांशुशतसङ्काशकान्तिसन्तानहासिनीम् ।
लौहित्याजितसिन्दूरजवदाडिमरूपिणीम् ।
रक्तवस्त्रपरीधानां पाशाङ्कुशकरोद्यताम् ।
रक्तपद्मनिविष्टान्तु रक्ताभरणभूषिताम् ।
चतुर्भुजां त्रिनेत्रान्तु पञ्चबाणधनुर्धराम् ।
कर्पूरशकलोन्मिश्रताम्बूलपूरिताननाम् ।
महामृगमदोद्दामकुङ्कुमारुणविग्रहाम् ।
सर्वशृङ्गारवेशाढ्यं सर्वाभरणभूषिताम् ।
जगदाह्लादजननीं जगद्रञ्जनकारिणीम् ।
जगदाकर्षणकरीं जगत्कारणरूपिणीम् ।
सर्वमन्त्रमयीं देवीं सर्वसौभाग्यसुन्दरीम् ।
सर्वलक्ष्मीमयीं नित्यां सर्वशक्तिमयीं शिवाम् ।
एवं रूपमात्मानं ध्यात्वा मानसैः सम्पूजयेत् ॥ १२क ॥
तद्यथा-
हृत्पद्ममध्ये देवीं विभाव्य, कुण्डली पात्र-संस्थेन
सहस्रारामृतेन पाद्यं देव्याश्चरणे दद्यात् ।
ततो मनश्चार्घ्यं दत्त्वा
सहस्रदलपद्मभृङ्गारगलितपरमामृतजलेनाचमनीयं मुखे ।
चतुर्विंशतितत्त्वेन गन्धञ्च ।
अहिंसां विज्ञानं क्षमां दयाञ्च अलोभम् अमोहम्
अमात्सर्यम् ।
अमायाम् अनहङ्कारम् अरागमद्वेषम् इन्द्रियाणि च दशैतानि
पुष्पाणि प्रदापयेत् ।
ततो वायुरूपं धूपं तेजोरूपञ्च दीपं दद्यात् ।
अम्बरं चामरं सूर्यं दर्पणं चन्द्रं छत्रं पद्मन्तु
मेखलाम् आनन्दं हारमुत्तमम् ।
अनाहतध्वनिमयीं घण्टां निवेदयेत् ।
ततः सुधारसाम्बुधिं मांसपर्वतं ब्रह्माण्ड
पूरितपायसञ्च दत्त्वा, मनोनर्तकसत्तालैः
शृङ्गारादिरसोद्भवैः ।
नृत्यैर्गीतैश्च वाद्यैश्च तोषयेत् परमेश्वरीम् ।
एवं सम्पूज्याभेदेन जपः कार्यः ।
ततो वहिःपूजामारभेत ततोऽर्घ्यस्थापनम् ॥ १३ ॥
प्रथमं सामान्यार्घ्यम्
तत्र क्रमः-
आदौ स्ववामे जलेन चतुरस्रं विधाय तदन्तर्वृत्तमालिखेत् ।
ततः ॐ मण्डलाय नमः इति पुष्पैस्तदभ्यर्च्य, तत्र
साधारं पात्रं संस्थाप्य बालया तमभ्यर्च्य शुद्धजलेन
तमापूर्य, ऐं सर्वज्ञाशक्तिश्रीमत्त्रिपुरसुन्दरीहृदयाय नमः
इत्यादिक्रमेण षङ्गानि सम्पूज्य, तदुपरि मूलमष्टधा जप्त्वा
विशेषार्घ्यस्थापनं कुर्यात् ॥ १३क ॥
तत्पात्रन्तु तन्त्रान्तरे-
पात्रं काञ्चनकाचरूप्यजनितं मुक्ताकपालोद्भवं,
विश्वामित्रमयञ्च कामदमिदं हैमं प्रियं स्फाटिकम् ।
ताम्रं प्रीतिदमिष्टसिद्धिजनकं श्रीनारिकेलोद्भवं, कपालं
स्फुटमन्त्रसिद्धिजनकं मुक्तिप्रदं मौक्तिकम् ॥ १४ ॥
नवरत्नेश्वरे-
नरपात्रं महेशानि विज्ञेयञ्चोत्तमोत्तमम् ।
नारिकेलोद्भवं पात्रं ज्ञेयञ्चोत्तमकल्पनम् ।
रत्नपात्रञ्च सुश्रोणि ज्ञेयञ्चोत्तममध्यमम् ।
मध्यमोत्तमगं बैल्वं ब्रह्मवृक्षजमेव च ।
कल्पं सुमध्यमं प्रोक्तं मृण्ममयं कल्पमध्यमम् ॥ १५ ॥
वश्याकर्षणकर्माणि हेमपात्रे सुशोभने ।
शान्तिके पौष्टिके वापि राजतं कारयेत् प्रिये ॥ १६ ॥
लौहपात्रं विजानीयान्मारणोच्चाटने तथा ।
स्तम्भकार्येषु पाषाणं विद्वेषे लौहमृण्मयम् ॥ १७ ॥
सर्वकार्येषु कर्त्तव्यं विश्वामित्रञ्च सुव्रते ।
कुलोत्सादनकार्येषु काचपात्रं विशिष्यते ॥ १८ ॥
काष्ठपत्रं विजानीयान्मन्त्राराधनकर्मणि ।
नरपात्रस्तु हृह्णीयाद्भुक्तिमुक्तिप्रदायकम् ॥ १९ ॥
दृष्ट्वार्घ्यपात्रं देवेशि ब्रह्माद्या देवताः सदा ।
नृत्यन्ति सर्वयोगिन्यः प्रीताः सिद्धिं ददत्यपि ॥ २० ॥
सामान्यविशेषार्घ्ययोरावश्यकत्वमाह नवरत्नेश्वर-
एकपात्रं न कुर्वात यदि साक्षान्महेश्वरः ।
मन्त्राः पराङ्मुखा यान्ति आपदश्च पदे पदे ।
इहलोके द्ररिद्रः स्यान्मृते च पशुतां व्रजेत् ॥ २१ ॥
तत आत्मश्रीचक्रयोर्मध्ये सामान्यार्घ्यजलेन
त्रिकोणवृत्तषट्कोणचतुरस्रमण्डलं कृत्वा, त्रिकोण-मध्ये
मूलविद्यया मध्यं सम्पूज्य, त्रिकोणे प्रत्येककूटैः पूजयेत् ।
अग्न्यादिकोणक्रमेण षट्कोणे मूलविद्यया द्विरावृत्त्या षडङ्गानि
पूजयेत् ।
तत्र त्रिपदिकां संस्थाप्य, ऐं ह्रीं श्रीं मं वह्निमण्डलाय
दशकलात्मने अर्घ्यपात्राधाराय नमः इत्याधारं सम्पूज्य,
तत्र वृत्ताकारेण वह्नेर्दशकलाः पूजयेत् ।
तद्यथा-
ऐं ह्रीं श्रीं यं धूम्रायै नमः ।
एवं ३ रं नीलायै ।
३ लं कपिलायै ।
३ वं विस्फुलिङ्गिन्यै ।
३ शं ज्वालिन्यै ।
३ यं हैमवत्यै ।
३ सं हव्यवाहिन्यै ।
३ हं कव्यवाहिन्यै ।
३ लं रात्र्यै ।
३ क्षं सङ्कर्षिण्यै ।
इति सम्पूज्य तदुपरि अस्त्रान्तं मूलमुच्चार्य
प्रक्षालितमर्घ्यपात्रं संस्थाप्य, पूर्ववत्तत्र मन्त्रमालिख्य,
सम्पूज्य, ऐं ह्रीं श्रीं क्लीम् अं सूर्यमण्डलाय
द्वादशकलात्मने अर्घ्यपात्राय नमः इति सम्पूज्य वृत्ताकारेण
सूर्यस्य द्वादशकलाः पूजयेत् ।
यथा-
ऐं ह्रीं श्रीं कं भं तपिन्यै नमः ।
एवं ३ खं बं तापिन्यै ।
३ गं फं धूम्रायै ।
३ घं पं विबुधायै ।
३ ङं नं बोधिन्यै ।
३ चं धं कलिन्यै ।
३ छं दं शोषिण्यै ।
३ जं थं वरेण्यायै ।
३ झं तम् आकर्षिण्यै ।
३ ञं णं मायायै ।
३ टं ढं विवस्वत्यै ।
३ ठं डं हेमप्रभायै ।
नमः सर्वत्र ।
इति सम्पूज्य, मूलेन जलादिनापूर्य, पूर्ववद्यन्त्रमाख्यि, त्रिकोणे
अकथादित्रिरेखां मध्ये हलक्षाणि च चिन्तयेत् ।
ततः पूर्ववत् सम्पूज्य, सौः ऐं ह्रीं श्रीम् उं सोममण्डलाय
षोडशकलात्मने अर्घ्यपात्रामृताय नमः इति सम्पूज्य, सोमस्य
षोडशकला वृत्ताकारेण पूजयेत् ।
यथा-
ऐं ह्रीं श्रीम् अम् अमृतायै नमः ।
एवं ३ आं मदनायै ।
३ इं तुष्टयै ।
३ ईं पुष्ट्यै ।
३ उं प्रीत्यै ।
३ ऊं रत्यै ।
३ ऋं श्रियै ।
ॠं क्रियायै ।
३ ऌं सुधायै ।
३ ॡं रात्र्यै ।
एं ज्योत्स्नायै ।
३ ऐं हैमवत्यै ।
३ ॐ छायायै ।
३ औं पूर्णिमायै ।
अं विद्यायै ।
३ अः अमावस्यायै ।
नमः सर्वत्र ।
इति सम्पूज्य तीर्थमावाह्य मध्ये हंसात्मने नमः ।
ततो ह स क्ष म ल व र यूम् आनन्दभैरवाय वषट् ।
ह स क्ष म ल व र यीं सुधादेव्यै वषट् ।
इति सम्पूज्य, मत्स्यमुप्रया तज्जलमाच्छाद्य मूलविद्यामष्टधा
जप्त्वा, धूपदीपौ दत्त्वा, नवमुद्राः प्रदर्श्य, ब्रह्ममयं
तज्जलं किञ्चित् पात्रान्तरे प्रक्षिप्य, मूलेनात्मानं पूजाद्रव्याणि
च सम्प्रोक्ष्य, सर्वं ब्रह्ममयं कुर्यात् ।
पूजासमाप्तिर्यावत् स्यात् तावर्दर्घ्यं न चालयेत् ॥ २२ ॥
समयाङ्के-
सुन्दरीदेवताया अङ्गदेवतापूजनन्त्वर्घ्यस्थापनानन्तरम् ।
तथा च-
आत्मानं यागवस्तूनि प्रोक्षयित्वा यथाक्रमम् ।
चिन्मयं तत् सदा भक्त्या चिन्तयेन्मन्त्रवित्तमः ।
तस्माच्चक्र-चतुर्दिशिक्रमवशान्निर्मायचक्रं शुभं, सूर्यं
हस्तिमुखं परं स्मरहरं गोपालमेवं तथा ।
ध्यात्वावाह्य च तांस्ततो वहुविधैः पुष्पैश्च
पाद्यादिभिर्नानाद्रव्यसुगन्धिमोदकफलैरुद्वासयेत् स्वेहृदि ।
ततो महाचक्रे ऐं ह्रीं श्रीम् अमृताम्भोनिधये नमः ।
एवं ३ रत्नद्वीपाय ।
३ नानावुक्षमहोद्यानाय ।
३ सन्तानवाटिकायै ।
३ कल्पवृक्षवाटिकायै ।
३ हरिचन्दनवाटिकायै ।
३ मन्दारवाटिकायै ।
३ पारिजातवाटिकायै ।
३ कदम्बवन वाटिकायै ।
३ पुष्परागरत्नप्राकाराय ।
३ पद्मरागरत्नप्राकाराय ।
३ गोमेदरत्नप्राकाराय ।
३ इन्द्रनीलरत्नप्राकाराय ।
३ वज्ररत्नप्राकाराय ।
३ वैदूर्यरत्नप्राकाराय ।
३ मुक्तारत्नप्राकाराय ।
३ विद्रुमरत्नप्राकाराय ।
३ माणिक्यरत्नप्राकाराय ।
३ माणिक्यमण्डपाय ।
३ सहस्रस्तम्भमण्डपाय ।
३ अमृतवापिकायै ।
३ आनन्दवापिकायै ।
३ विमर्षवापिकायै ।
३ बालातपोद्धाराय ।
३ चन्द्रिकोदराय ।
३ महाशृङ्गारपरिखायै ।
३ महापद्माटव्यै ।
३ चिन्तामणिगृहराजाय ।
३ पूर्वाम्नायपूर्वद्वाराय ।
३ दक्षिणाम्नायदक्षिणद्वाराय ।
३ पश्चिमाम्नायपश्चिमद्वाराय ।
३ उत्तराम्नाय-उत्तरद्वाराय ।
३ रत्नद्वीपवलयाय ।
३ महासिंहासनाय ।
३ ब्रह्ममयैकमञ्चपादाय ।
३ विष्णुमयैकमञ्चपादाय ।
३ रुद्रमयैकमञ्चपादाय ।
३ ईश्वरमयैकमञ्चपादाय ।
३ सदाशिवमयैकमञ्चफलकाय ।
३ हंसतुलतनिनाय ।
३ हंसतुलमहोपधानाय ।
३ कौसुम्भास्तरणाय ।
३ महावितानिकायै ।
३ महायमनिकायै ।
सर्वत्र नमोऽन्तेन पूजयेत् ।
तदुपरि ऐं ह्रीं श्रीं ह्सौः सदाशिवमहाप्रेतपद्मासनाय
नमः ॥ २२क ॥
ततः पूर्ववद्ध्यात्वा, त्रिखण्डां मुद्रां कृत्वा तदुपरिशिखरे
मातृकायन्त्रे समानीय ऐं ह्रीं श्रीं सौः त्रिपुरसुन्दरीमूर्तिं
कल्पयामीति विन्दौ कल्पितमूर्तावावाहयेत् ।
ह्स्रैं हसक्ल्रीं हस्रौम् इत्युच्चार्य, ॐ महापद्मवनान्तःस्थे
कारणानन्दविग्रहे ।
सर्वभूतहिते मातरेह्येहि परमेश्वरि ।
इति वैन्दवचक्रे परिचितिमावाह्यावाहनादिप्राणप्रतिष्ठान्तं
कर्म विधाय, वाणकोदण्डपाशाङ्कुशादि मुद्राः प्रदर्शयेत् ।
ततो यथोपचारैः सम्पूज्य त्रिधा सन्तर्पयेत् ॥ २३ ॥
तत्रायं क्रमः-
सव्यहस्तानामिकाङ्गुष्ठ-नखाग्रेण धृतश्रीपात्राम्भसा
अन्यहस्तक्षिप्तपुष्पाक्षतैः श्रीमहात्रिपुरसुन्दरीं तर्पयामीति
त्रिस्तर्पयेत् ।
तदुक्तं स्वतन्त्रे-
अङ्गुष्ठानामिकायोगाद्वामहस्तस्य पार्वति ।
तर्पयेत् सुन्दरीं देवीं समुद्राञ्च सवाहनाम् ।
तर्पयामि मुखे देव्यास्त्रिवारं मूलविद्यया ।
अङ्गुष्ठानामिकायोगान्नखैर्निर्दिष्टमुद्धृतम् ।
श्रीपात्रस्योदकं विन्दुं तर्पयेत् कुलनायिकाम् ।
अङ्गुष्ठो भैरवो देवि अनामा चण्डिका प्रिये ।
सव्येन हस्तयोगेन तर्पयेद्वा कुलेश्वरीम् ॥ २४ ॥
विशेषस्तु-
अङ्गुष्ठानामिकाभ्यान्तु वश्यकर्मणि तर्पयेत् ।
अङ्कुष्ठमध्यमाभ्यान्तु तर्पयेच्छान्तिकर्मणि ।
तर्जन्यङ्गुष्ठयोगेन तर्पयेदभिचारके ।
कनिष्ठाङ्गुयोगेन स्तम्भने तर्पयेत् प्रिये ॥ २५ ॥
ततोऽग्नीशासुरवायव्यमध्ये दिक्षु च देव्या देहे वा षडङ्गानि
पूजयेत् ।
तद्यथा-
ऐम् अर्वज्ञाशक्तिश्रीमहात्रिपुरसुन्दरी हृदयाय नमः ।
क्लीं नित्यतृप्तिशक्तिश्रीमहात्रिपुरसुन्दरी शिरसे स्वाहा ।
सौः अनादिबोधशक्तिश्रीमहात्रिपुरसुन्दरी शिखायै वषट् ।
ऐं स्वतन्त्रशक्तिश्रीमहात्रिपुरसुन्दरी कवचाय हुम् ।
क्लीम् अलुप्तशक्तिश्रीमहात्रिपुरसुन्दरी नेत्रत्रयाय वौषट् ।
सौः अनन्तशक्तिश्रीमहात्रिपुरसुन्दरी अस्त्राय फट् ।
ततः स्वशरीरे कामकलां भावयेत् ।
तथा च-
विन्दुं सङ्कल्प्य वक्त्रन्तु तदस्तात् कुचद्वयम् ।
तदधः सपरार्द्धञ्च चिन्तयेत्तदधोमुखम् ।
ततस्तिथिनित्यां पूजयेत् ।
महात्र्यस्रे वामावर्तेन अकारादिपञ्च उकारादिपञ्च
एकारादिपञ्च विभाव्य मध्ये विसर्गं तेषु वामावर्तन
शुक्लपक्षे कामेश्वर्यादिविचित्रान्तं कृष्णपक्षे
विचिदिकामेश्वर्यन्तं पूजयेत् ।
तद्यथा-
प्रतिपदि अकारे ऐं ह्रीं श्रीं तत्तन्मत्रमुच्चार्य
कामश्वरीनित्यकलाश्रीपादुकां पूजयामि नमः ।
एवमाकारे द्वितीयायां ३ भगमालिनीम् ।
इकारे तृतीयायां ३ नित्यक्लिन्नाम् ।
ईकारे चतुर्थ्यां ३ भेरुण्डाम् ।
उकारे पञ्चम्यां ३ वह्निवासिनीम् ।
ऊकारे षष्ठ्यां ३ महाविद्वेश्वरीम् ।
ऋकारे सप्तम्यां ३ शिवदूतीम् ।
ॠकारे अष्टम्यां ३ त्वरिताम् ।
ऌकारे नवम्यां ३ कुलसुन्दरीम् ।
ॡकारे दशम्यां ३ नित्याम् ।
एकारे एकादश्यां ३ नीलपताकाम् ।
ऐकारे द्वादश्यां ३ विजयाम् ।
ओकारे त्रयोदश्यां ३ सर्वमङ्गलाम् ।
औकारे चतुर्दश्याम् ३ ज्वालामालिनीम् ।
अङ्कारे पौर्णमास्यां ३ विचित्राम् ।
विसर्ग ३ त्रिपुरसुन्दरीं पूजयेत् ।
कृष्णपक्षे विचित्रादिकामेश्वर्यन्तं पूजयेत् ॥ २६ ॥
पूजामन्त्रस्तु तन्त्रान्तरे-
श्रीपद पूर्वमुच्चार्य पादुकापदमुच्चरेत् ।
पूजयामि नमः पश्चात् पूजयेदङ्गदेवताः ।
ततो मध्यप्राक्त्र्यस्रमध्येषु गुरुपङ्क्ति पूजयेत् ।
आनन्दनाथशब्दान्ता विज्ञयाः परमेश्वरि ।
अन्वान्ता गुरवः प्रोक्ताः स्त्रीलिङ्गा वीरवन्दिते ।
तद्यथा-
ऐं ह्रीं श्रीं परप्रकाशानन्दनाथश्रीपादुकां पूजयामि
नमः ।
एवं ३ परशिवम् ।
तथा परशक्त्यम्बाश्रीपादुकां पूजयामि नमः ।
एवं ३ कौलेश्वरं शुक्लादेवीम् ।
३ परेशानम् ।
३ कामेश्वर्यम्बिकाम् ।
एते दिव्यौधाः ।
भोगं क्रीडं समयं वेदं सहजम् एते सिद्धौधाः ।
गगनं विश्वं विमलं मदनं भुवनं नीलम् आत्मानं
प्रियम् एते मानवौधाः ।
ततो गुरुं परमगुरुं परापरगुरुं परमेष्ठिगुरुं केवलं
गुरुं वा ।
एते कामराजविद्यायास्तद्घटितायाश्च गुरवः ।
लोपायास्तद्घटितायास्तु परशिवं कामेश्वर्यम्बां दिव्यौघं
महौघं सर्वानन्दं प्रज्ञादेवीं प्रकाशम् ।
एते दिव्यौघाः ।
दिव्यं चित्रं कैवल्यं दिव्याम्बां महोदयम् एते सिद्धौघाः ।
चिद्विश्वशक्ति ईश्वरकमलपरमानन्दमनोहरसुखानन्द
प्रतिभान् ।
एते मानवौधाः ।
इति पूजयेत् ।
ततः पूर्ववद्गुरुत्रयम् एकं वा पूजयेत् ।
अथवा सामान्यगुरुपङ्क्ति पूजयेत् ।
तद्यथा-
ऐं ह्रीं श्रीं गुरुभ्यो नमः ।
३ गुरुपादुकाभ्यो नमः ।
३ परमगुरुभ्यो नमः ।
३ परमगुरुपादुकाभ्यो नमः ।
३ परापरगुरुभ्यो नमः ।
३ परापरगुरुपादुकाभ्यो नमः ।
३ परमेष्ठिगुरुभ्यो नमः ।
३ परमेष्ठिगुरुपादुकाभ्यो नमः ।
३ आचार्येभ्यो नमः ।
३ आचार्यपादुकाभ्यो नमः ।
३ सर्वत्रादौ द्वितार्या त्रितार्यां वा प्रयोगः ।
तथा च ज्ञानार्णवे-
मायालक्ष्मीमयं बीजयुग्मं पूर्वक्रमेण हि ।
कथितं योजयेद्देवि त्रयं वा परमेश्वरि ।
कल्पसूत्रेऽपि-
सर्वत्रादौ त्रितारीप्रयोगः ।
त्रितारी च-
वाङ्माया कमला चेति त्रितारी समुदाहृता ॥ २६क ॥
ततस्त्रैलोक्यमोहनादिसृष्टिचक्रे ऐं ह्रीं श्रीं हस्रीं स्ह्रीं
श्रीं कलह्रीं पूर्वाम्नाय-उन्मनीदेवी श्रीपादुकां
पूजयामि नमः ।
स्थितिचक्रे ३ ऐं क्लिन्ने क्लीं मदद्रवे कूले ह्सौः दक्षिणाम्नाय-
भोगिनीदेवी श्रीपादुकां पूजयामि नमः ।
ततः सर्वसौभाग्यादिसंहारात्मकत्रिचक्रे ३ ह स ख फ्रें ह्सौः
भगवत्यम्ब ह स ख फ्रें कुब्जिके ह्स्रां ह्स्रीं ह्स्रम् अघोरे घोरे
घोरमुखि चव्रां चव्रीं चब्रूं किलि किलि विलोमतः पूर्वोक्तानि
पञ्चबीजानि पश्चिमाम्नायकुब्जिकादेवीश्रीपादुकां पूजयामि
नमः ।
सर्व चक्रे ३ ह स ख फ्रें महाचण्डयोगेश्वरि
उत्तराम्नायकालिकादेवी श्री पादुकां पूजयामि ।
वैन्दवचक्रे ३ हसैं हसकलरीं ह्सौः ऊर्ध्वाम्नाय
सकलसिद्धिदादेवी श्रीपा० पू० ।
ततोऽग्नीशासुर वायव्यमध्ये दिक्षु च मूलेन षडङ्गानि पूजयेत्
।
तथा च ज्ञानार्णवे-
अथाङ्गवरणं कुर्यात् श्रीविद्यामनुसम्भवम् ।
अग्नीशासुरवायव्यमध्ये दिक्ष्वङ्गपूजनम् ।
ततो वाह्यचतुरस्रे पश्चिमादिद्वारचतुष्टयेषु अणिमाद्यष्टसिद्धोः
पूजयेत् ॥ २६क ॥
पश्चिमादिदिङ्नियमस्तु गुप्तार्णवे-
यदाशार्भिमुखो मन्त्री त्रिपुरां परिपूजयेत् ।
देवीपश्चात्तदा प्राची प्रतीची त्रिपुरापुरः ।
विशुद्धेश्वरे च-
उत्तराभिमुखो मन्त्रो यदि चक्रं प्रपूजयेत् ।
उत्तराशा तदा देवी पूर्वाशैव न संशयः ।
दक्षिणं पश्चिमं प्रोक्तं देव्या दक्षे तथोत्तरम् ।
तद्वामं दक्षिणन्तु स्यात् सर्वत्र नियमः स्मृतः ।
ईशानकोणं देवेशि तदाग्नेयं न संशयः ॥ २७ ॥
ऐं ह्रीं श्रीम् अणिमासिद्धिश्रीपा० पू० ।
एवं ३ लघिमासिद्धिश्रीपा० पू० ।
३ महिमासिद्धिश्रीपा० पू० ।
३ ईशित्वसिद्धिश्रीपा० पू० ।
वायव्यादिकोणचतुष्टयेषु ३ वशित्वसिद्धिश्रीपा० पू० ।
३ प्राकाम्यसिद्धिश्रीपा० पू० ।
३ इच्छासिद्धिश्रीपा० पू० ।
३ भुक्तिसिद्धिश्रीपा० पू० ।
अधः ३ प्राप्तिसिद्धिश्रीपा० पू० ।
ऊर्ध्वे ३ सर्वज्ञानसिद्धिश्रीपा० पू० ।
मध्यचतुरस्रस्य पश्चिमादिद्वारचतुष्टयेषु ३ तां
ब्रह्माणीश्रीपा० पू० ।
एवं ३ ईं माहेश्वरीश्रीपा० पू० ।
३ ऊं कौमारीश्रीपा० पू० ।
३ ॠं वैष्णवीश्रीपा० पू० ।
वायव्यादि चतुष्कोणेषु ३ ॡं वाराहीश्रीपा० पू० ।
३ ऐम् इन्द्रणीश्रीपा० पू० ।
३ औं चामुण्डाश्रीपा० पू० ।
३ अः महालक्ष्मीश्रीपा० पू० ।
अभ्यन्तर चतुरस्रस्य पश्चिमादिद्वारचतुष्टयेषु ३ द्रां
सर्वसङ्क्षोभिणी मुद्राश्रीपा० पू० ॥ २८ ॥ एवं ३ द्रीं
सर्वविद्रावणीमुद्राश्रीपा० पू० ।
३ क्लीं सर्वाकर्षिणीमुद्राश्रीपा० पू० ।
३ ब्लू सर्ववशङ्करीमुद्राश्रीपा० पू० ।
वायव्यादिकोणचतुष्टयेषु ३ सः सर्वोन्मादिनीमुद्राश्रीपा० पू० ।
३ क्रों माहाङ्कुशामुद्राश्रीपा० पू० ।
३ ह स ख फ्रें खेचरीमुद्राश्रीपा० पू० ।
३ ह्सौः सबीजमुद्राश्री पा० पू० ।
अधः ३ ऐं योनिमुद्राश्रीपा० पू० ।
ऊर्ध्वे ३ औं त्रिखण्डामुद्राश्रीपा० पू० ।
चक्राग्रे सम्पूर्णचक्रे ३ त्रैलोक्यमोहनचतुरस्रचक्राय नमः ।
३ अम् आं सौः त्रिपुराश्रीपा० पू० ।
एतस्या दक्षिणे ३ द्रां सर्वसङ्क्षोभिणी मुद्राश्रीपा० पू० ।
देव्या वामे ३ अः अणिमादिसिद्धिश्रीपा० पू० ।
३ चार्वाकदर्शनाय नमः ।
अत्र त्रैलोक्यमोहनचतुरस्रचक्रे त्रिपुराचक्रनायिकाधिष्ठिते एता
अणिमाद्याः प्रकटयोगिन्यः समुद्राः ससिद्धयः सायुधाः
सवाहनाः सपरिवारः सर्वोपचारैः पूजितास्तर्पिताः सन्तु
इत्यर्घ्यजलेन मूलदेव्यै समर्पयेत् ॥ २८क ॥
ततो द्रामिति सर्वसङ्क्षोभिणी मुद्रां प्रदर्श्य, ऐम् आत्मतत्त्वाय
स्वाहा ।
क्लीं विद्यातत्त्वाय स्वाहा ।
सौः शिवतत्त्वाय स्वाहा ।
इति त्रिवारमर्घ्योदकेन तर्पयेत् ॥ २९ ॥
ततः षोडशदलेषु पश्चिमदलादारभ्य वामावर्तेन ३ अं
कामाकर्षिणीनित्याकलाश्रीपा० पू० ।
३ आं बुद्ध्याकर्षिणीनित्याकलाश्रीपा० पू० ।
एवं सर्वत्र नित्यकलाश्रीपादुकां पूजयामिति पदप्रयोगः ।
तथा च नवरत्नेश्वरे-
विलोमेन यजेदेताः क्रमान्नित्याकलाः पुनः ।
३ (ऐं ह्रीं श्रीं) अहङ्काराकर्षिणी ।
३ ईं शब्दाकर्षिणी ।
३ उं स्पर्शाकर्षिणी ।
३ ऊं रूपाकर्षिणी ।
ऋं रसाकर्षिणी ।
३ ॠं गन्धाकर्षिणी ।
३ ऌं चित्ताकर्षिणी ।
३ ॡं धैर्याकर्षिणी ।
३ एं स्मृत्याकर्षिणी ।
३ ऐं नामाकर्षिणी ।
३ ॐ बीजाकर्षिणी ।
३ औम् आत्माकर्षिणी ।
३ अम् अमृताकर्षिणी ।
३ अः शरीराकर्षिणी ।
चक्राग्रे ३ सर्वाशापरिपुरकषोडदलचक्राय ।
३ ऐं क्लीं सौः त्रिपुरेश्वरीचक्रनायिका श्रीपा० पू० ।
सर्वत्रान्ते श्रीपादुकां पूजयामि, आदौ ऐं ह्रीं श्रीम् ।
एतस्या दक्षिणे ३ द्रीं सर्वविद्राविणीमुद्राश्रीपा० पू० ।
वामे ३ लघिमासिद्धिश्रीपा० पू० ।
वौद्धदर्शनाय नमः ।
अत्र सर्वाशापरिपूरकषोडशदलचक्रे त्रिपुरेश्वरी
चक्रनायिकाधिष्ठिते एताः कामाकर्षिण्याद्याः गुप्तयोगिन्यः
समुद्रा इत्यादि मूलदेव्यै समर्पयेत् ।
द्रीमिति सर्वविद्राविणी मुद्रां प्रदर्श्य, ऐम् आत्मतत्त्वाय स्वाहेति
पूर्ववत् ॥ ३० ॥
अष्टदलचक्रे पूर्वादिचतुर्दलेषु वामावर्तेन ३ कं ५
अनङ्गकुसुमादेवीश्रीपा० पू० ।
३ चं ५ अनङ्गमेखलादेवीश्रीपा० पू० ।
३ टं ५ अनङ्गमदनादेवी श्रीपा० पू० ।
३ तं ५ अनङ्गमदनातुरादेवीश्रीपा० पू० ।
अग्नेयादिदलेषु ३ पं ५ अनङ्गरेखादेवीश्रीपा० पू० ।
३ यं ४ अनङ्गवेगिनीदेवीश्रीपा० पू० ।
३ शं षं सं हम् अनङ्गाङ्कुशादेवीश्रीपा० पू० ।
३ लं क्षम् अनङ्गमालिनीदेवीश्रीपा० पू० ।
चक्राग्रे ३ सर्वसङ्क्षोभणाष्टदलचक्राय नमः ।
३ ह्रीं क्लीं सौः त्रिपुरसुन्दरीचक्रनायिकाश्रीपा० पू० ।
एतस्या दक्षिणे ३ क्लीं सर्वाकर्षिणीमुद्राश्रीपा० पू० ।
वामे ३ महिमासिद्धिश्रीपा० पू० ।
जितेन्द्रदर्शनाय नमः ।
अत्र सर्वसङ्क्षोभणाष्टदलचक्रे
श्रीमहात्रिपुरसुन्दरीचक्रनायिकाधिष्ठिते एता अनङ्गकुसुमाद्या
गुप्ततरयोगिन्यः समुद्रा इत्यादि मूलदेव्यै समर्पयेत् ।
क्लीमिति सर्वाकर्षिणीमुद्रां प्रदर्शयेत् ।
ऐम् आत्मतत्त्वाय स्वाहेत्यादि पूर्ववत् ॥ ३१ ॥
चतुर्दशारचक्राग्रात्समारभ्य वामावर्तेन
पश्चिमादिदक्षिणान्तं यावत् ३ सर्वसङ्क्षोभिणीशक्तिश्रीपा० पू०
।
३ सर्वविद्राविणी ।
३ सर्वाकर्षिणी ।
३ सर्वाह्लादिनी ।
३ सर्वसम्मोहिनी ।
३ सर्वस्तम्भिनी ।
३ सर्वजृम्भणी ।
३ सर्वसत्त्ववशङ्करी ।
३ सर्वरञ्जनी ।
३ सर्वोन्मादिनी ।
३ सर्वार्थसाधिनी ।
३ सर्वसम्पत्तिपूरणी ।
३ सर्वमन्त्रमयी ।
३ सर्वदुःख-क्षयङ्करी ।
सर्वत्र शक्तिश्रीपादुकापदप्रयोगः ।
चक्राग्रे ३ सर्वसौभाग्यदायकचतुर्दशारचक्राय नमः ।
हैं ह क्लीं ह्सौः त्रिपुरवासिनीचक्रनायिकाश्रीपा० पू० ।
एतस्या दक्षिणे ३ ब्लूं सर्ववशङ्करीमुद्राश्रीपा० पू० ।
वामे ३ ईशित्वादिसिद्धिश्रीपा० पू० ।
साङ्ख्यमीमांसान्यायदर्शनेभ्यो नमः ।
अत्र सर्वसौभाग्यदायकचतुर्दशारचक्रे
त्रिपुरवासिनीचक्रनायिकाधिष्ठिते एताः सर्वसङ्क्षोभिण्याद्याः
शक्तयः सम्प्रदाययोगिन्यः समुद्रा इत्यादि मूलदेव्यै समर्पयेत् ।
ब्लूं सर्ववशङ्करीमुद्रां प्रदर्श्य ऐम् आत्मतत्त्वाय
स्वाहेत्यादि पूर्ववत् ॥ ३२ ॥
बहिर्दशारचक्राग्रात्समारभ्य वामावर्तेन
पश्चिमाद्दक्षिणान्तम् ।
३ सर्वसिद्धिप्रदादेवीश्रीपा० पू० ।
एवं सर्वत्र देवीश्रीपा० पू० ।
३ सर्वसम्पत्प्रदा ।
३ सर्वप्रियङ्करी ।
३ सर्वमङ्गलकरी ।
३ सर्वकामप्रदा ।
३ सर्वदुःखविमोचिनी ।
३ सर्वमृत्युप्रशमिनी ।
३ सर्वविघ्ननिवारिणी ।
३ सर्वाङ्गसुन्दरी ।
३ सर्वसौभाग्यदायिनी ।
चक्राग्रे सर्वार्थसाधकवहिर्दशारचक्राय नमः ।
३ हसैं ह स क्लीं ह्सौः त्रिपुराश्रीचक्रनायिकाश्रीपा० पू ।
एतस्या दक्षिणे ३ सः सर्वोन्मादिनीमुद्राश्रीपा० पू० ।
वामे ३ वशित्वादिसिद्धि श्रीपा० पू० ।
ब्राह्म्यवैद्यकदर्शनाय नमः ॥ ३३ ॥
अथ सर्वार्थसाधके वहिर्दशारचक्रे
त्रिपुराश्रीचक्रनायिकाधिष्ठिते एताः सर्वसिद्धिप्रदा देव्यः
कुलकौलिनीयोगिन्यः समुद्रा इत्यादि मूलदेव्यै समर्पयेत् ।
ततः सः सर्वोन्मादिनीं मुद्रां प्रदर्श्य, ऐम् आत्मतत्त्वाय
स्वाहेति पूर्ववत् ॥ ३३क ॥
अन्तर्दशारचक्राच्च समारभ्य पश्चिमाद्दक्षिणान्तं यावत् ऐं
ह्रीं श्रीं सर्वज्ञादेवीश्रीपा० पू० ।
एवं सर्वत्रदेवीश्रीपा० पू० ।
३ सर्वशक्तिमयी ।
३ सर्वैश्वर्यप्रदायिनी ।
३ सर्वज्ञानमयी ।
३ सर्वव्याधिविनाशिनी ।
३ सर्वाधारस्वरूपिणी ।
३ सर्वपापहरा ।
३ सर्वानन्दमयी ।
सर्वरक्षास्वरूपिणी ।
३ सर्वेप्सितफलप्रदा ।
चक्राग्रे ३ सर्वरक्षाकरान्तर्दशारचक्राय नमः ।
ह्रीं क्लीं ब्लूं त्रिपुरमालिनीचक्रनायिकाश्रीपा० पू० ।
एतस्या दक्षिणे ३ क्रों महाङ्कुशमुद्राश्रीपा० पू० ।
वामे ३ ३ प्राकाम्यसिद्धिश्रीपा० पू० ।
३ सौरदर्शनाय नमः ।
अत्र सर्वरक्षाकरान्तर्दशारचक्रे
त्रिपुरमालिनीचक्रनायिकाधिष्ठिते एताः सर्वज्ञाद्या देव्यो
निगर्भयोगिन्यः समुद्रा इत्यादि मूलदेव्यै समर्पयेत् ।
क्रों महाङ्कुशमुद्रां प्रदर्श्य ऐम् आत्मतत्त्वाय स्वाहेति
पूर्ववत् ॥ ३४ ॥
ततोऽष्टारचक्राग्राच्च समारभ्य पश्चिमाद्दक्षिणान्तं यावत् ।
३ अं १६ वरलुं वशिनीवाग्देवताश्रीपा० पू० ।
एवं ३ वाग्देवताश्रीपा० पू० ।
एवं सर्वत्र ३ कं ५ क ल ह्रीं कामेश्वरी ।
३ चं ५ न व लीं मोदिनी ।
३टं ५ य्लूं विमला ।
३ तं ५ ज म रीम् अरुणा ।
३ पं ५ ह स ल व यूं जयिनी ।
३ यं ४ झ म र यूं सर्वेश्वरी ।
३ शं षं सं हं लं क्षमरीं कौलिनीवाग्देवताश्रीपा० पू० ।
चक्राग्रे सर्वरोगहराष्टारचक्राय नमः ।
ह्रीं श्रीं सौः त्रिपुरासिद्धानित्याश्रीपा० पू० ।
एतस्या दक्षिणे ३ ह स ख फ्रें खेचरीमुद्राश्रीपा० पू० ।
वामे भुक्तिसिद्धश्रीपा० पू० ।
वैष्णवदर्शनाय नमः ।
अत्र सर्वरोगहरे अष्टारचक्रे त्रिपुरासिद्धाचक्रनायिकाधिष्ठिते एता
वशिन्याद्या योगिन्यः समुद्रा इत्यादि मूलदेव्यै समर्पयेत् ।
३ ह स ख फ्रें खेचरीमुद्रां प्रदर्श्य ऐम् आत्मतत्त्वाय स्वाहेति
पूर्ववत् ॥ ३५ ॥
त्रिकोणवाह्ये अग्रतः वामावत्रेन पश्चिमादिदक्षिणान्तं यावत् ।
३ द्रां द्रीं क्लीं ब्लूं सः यां रां लां वां शां
कामेश्वरकामेश्वरीजम्भणवाणेभ्यो नमः ।
३ द्रां ५ यां ५ धं थं सर्वसम्मोहनाय
कामेश्वरकामेश्वरीधनुषे नमः ३ द्रां ५ यां ५ आं ह्रीं
वशीकरणाय कामेश्वरकामेश्वरीपाशाय नमः ।
३ द्रां ५ यां ५ क्रों सर्वस्तम्भनाय
कामेश्वरकामेश्वर्यङ्कुशाय नमः ।
ततस्त्रिकोणाग्रदक्षिणवामेषु मूलवाग्भवमुच्चार्याग्निचक्रे
कामगिर्यालये मित्रीशनाथात्मके
रुद्रात्मशक्तिकामेश्वरीदेवीश्रीपा० पू० ।
कामराजमुच्चार्य सूर्यचक्रे जालन्धरपीठे
षष्ठीशनाथात्मके विष्ण्वात्मकशक्तिवज्रेश्वरीदेवीश्रीपा० पू० ।
शक्तिकूटमुच्चार्य सोमचक्रे पूर्णगिरिपीठे उड्डीशनाथात्मके
ब्रह्मात्मशक्तिभगमालिनीदेवीश्रीपा० पू० ।
चक्राग्रे ३ सर्वसिद्धिप्रदाद्यचक्राय नमः ।
ह्स्रैं ह्स्क्ल्रीं ह्स्रौः त्रिपुराम्बानित्याश्रीपा० पू० ॥
एतस्या दक्षिणे ३ ह्सौः बीजमुद्राश्रीपा० पू० ।
वामे ३ इच्छासिद्धिश्रीपा० पू० ।
३ शक्तिदर्शनाय नमः ।
अत्र सर्वसिद्धिप्रदाद्यचक्रे बाणचापपाशाङ्कुशभूषितान्तराले
त्रिपुराम्बाचक्रनायिकाधिष्ठिते एताः कामेश्वर्याद्या
अतिरहस्ययोगिन्यः समुद्रा इत्यादि मूलदेव्यै समर्पयेत् ।
ह्सौः बीजमुद्रां प्रदर्श्य ऐम् आत्मतत्त्वाय स्वाहेति पूर्ववत् ॥ ३६
॥
ततो वैन्दवचक्रे मूलमुच्चार्य श्रीमहात्रिपुरसुन्दरीनित्याश्रीपा
पू० ।
इति त्रिः सम्पूज्य चक्राग्रे सर्वानन्दमयवैन्दवचक्राय नमः ।
मूलमुच्चार्य श्रीमहात्रिपुरसुन्दरीचक्रनायिकाश्रीपा० पू० ।
एतस्या दक्षिणे ऐं योनिमुद्राश्रीपा० पू० ।
वामे ३ प्राप्तिसिद्धिश्रीपा० पू० ।
३ मोक्षसिद्धिश्रीपा० पू० ।
३ शैवदर्शनाय नमः ॥
कुलोड्डीशे यथा-
ततो मूलं समुच्चर्य महात्रिपुरसुन्दरीम् ।
पूजयेद्देवतारूपां विन्दौ चक्रेश्वरीं पुनः ।
यद्वा नवरत्नेश्वरे-
बौद्धं ब्राह्मं तथा सौरं शैवं वैष्णवमेव च ।
शाक्तं षष्ठन्तु विज्ञेयं चक्रं षड्दर्शनात्मकम् ॥ ३७ ॥
रुद्रयामलेऽपि-
चतुरस्रं बौद्धभेदं ब्रह्मं वै षोडशच्छदम् वैष्णवं
शैवभेदञ्च मन्वस्रं सौरमुच्यते ।
अष्टास्रं द्विदशारन्तु मध्यं शाक्तं समीरितम् ।
इत्युक्तस्थाने तत्तदर्शनं पूज्यम् ।
अत्र सर्वानन्दमये वैन्दवचक्रे परब्रह्मस्वरूपिणी
परापरशक्तिमहात्रिपुर-
सुन्दरीसमस्तचक्रनायिकासम्वित्तिरूपचक्रनायिकाधिष्ठिते
त्रैलोक्यमोहनसर्वाशा-परिपूरकसर्वसङ्क्षोभकारक-
सर्वसौभाग्यदायक-सर्वार्थसाधक-सर्वरक्षाकर-
सर्वरोगहर-सर्वसिद्धिप्रद-(सर्वानन्दमय)-
श्रीचक्रसमुन्मीलितसमस्तप्रकट- गुप्तगुप्ततरसम्प्रदाय-
कुलकौलिनी-निगर्भ रहस्यातिरहस्य-परापररहस्य
समस्तयोगिनीपरिवृत्त-श्रीत्रिपुरा-त्रिपुरेशी-त्रिपुरसुन्दरी-
त्रिपुरवासिनी-त्रिपुरा-श्रीत्रिपुरमालिनी-त्रिपुरसिद्धा-
त्रिपुराम्बा तत्तचक्रनायिकावन्दितचरणकमल-
श्रीमहात्रिपुरसुन्दरीनित्यादेवी सर्वचक्रेश्वरी-सर्वमन्त्रेश्वरी-
सर्वविद्येश्वरी- सर्वपीठेश्वरी- सर्वकामेश्वरी- सर्वतत्त्वेश्वरी-
सर्ववीरेश्वरी त्रैलोक्यमोहिनी-जगदुत्पत्तिमातृका-सर्वचक्रमयी
- तच्चक्रनायिकासहिताः समुद्राः ससिद्धयः सायुधाः
सवाहनाः सपरिवाराः सर्वोपचारैः श्रीमहात्रिपुरसुन्दरी-
परापरया सपर्यया पूजितास्तर्पिताः सन्तु ।
इति विशेषार्घ्योदकाक्षतकुसुमैः प्रधानदेव्या वामहस्ते
समर्पयेत् ।
ततो नवमुद्राः प्रदर्श्य, ऐम् आत्मतत्त्वाय स्वाहेत्यादि
त्रिरर्घ्योदकेन पूर्ववत्तर्पयेत् ॥ ३७क ॥
ततो गन्धपुष्पादूर्वाक्षतमालादीन् दत्त्वा, ऐम् इत्युक्त्वा
घण्टां वादयन्, मूलमुचार्य, ॐ वनस्पतिरसो दिव्यो गन्धाढ्यो
गन्ध उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।
इति धूपं दद्यात् ।
ततो मूलमुच्चार्यः ॐ सुप्रकाशो महादीपः सर्वतस्तिमिरापहः ।
सवाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ।
इति दीपं दद्यात् ।
ततो मूलमुच्चार्य श्रीमहात्रिपुरसुन्दर्यै नैवेद्यं कल्पयामि
नमः ।
इति नैवेद्यं दद्यात् ।
ततो नित्यहोमं कुर्यात् ।
तद्यथा-
परिषिच्य भुमौ मूलमुच्चार्य ॐ प्राणाय स्वाहा, ॐ अपानाय
स्वाहा, ॐ समानाय स्वाहा, ॐ उदानाय स्वाहा, ॐ व्यानाय स्वाहा
।
षडङ्गेनापि आहुतिषट्कं दद्यात् ।
तथा च-
परिषिच्य ततो भूमौ नित्यहोमं समाचरेत् ।
मूलमन्त्रेण देवेशि हुनेत्पञ्चाहुतीं क्रमात् ।
प्राणापानौ तथा व्यान उदानश्च समानकः ।
एतत्स्वरूपं जानीयादाहुतीनाञ्च पञ्चकम् ।
षडाहुतीः षडङ्गेषु नित्यहोमोऽयमीरितः ।
ततः स्ववामे त्रिकोणवृत्तं चतुरस्रं कृत्वा ऐं ह्रीं श्रीं
व्यापकमण्डलाय नमः इति सम्पूज्य, अर्द्धान्नपूर्णसलिलं
स्थापयेत्तत्र भाजनम् ।
त्रिधा पठन् कलावर्णमनुं दद्याद्वलिं ततः ।
ॐ ह्रीं सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यः हूं स्वाहा इति
सामान्यार्घ्योदकेन दत्त्वा तत्त्वमुद्रां प्रदर्शयेत् ॥ ३८क ॥ ततो
वटुकादिभ्यो वलिं दद्यात् ।
ईशाने वायु-निर्-ऋति अग्निकोणेषु त्रिकोणवृत्तमण्डलानि कृत्वा तेषु
वां वटुकाय नमः ।
यां योगिनीभ्यो नमः ।
गां गणपतये नमः ।
क्षां क्षेत्रपालाय नमः ।
इति पाद्यदिभिः सम्पूज्य तेषु द्रव्यभरितपात्राणि निक्षिप्य वलिं
दद्यात् ।
तदुक्तम्-
वामादिवटुकं ङेऽन्तं नमोऽन्तो मनुरीरितः ।
पाद्यादिभिश्च सम्पूज्य वलिं दद्यादनेन तु ।
एवमन्यत्राऽपि ।
एह्येहि देवोपुत्र वटुकनाथ कपिलजटाभारभास्वरत्रिनेत्र
ज्वालमुख सर्वविघ्नान्नाशय सर्वोपचारसहितं वलिं गृह्ण
गृह्ण स्वाहा इत्यनेन मन्त्रेण वटुकाय बलिं दद्यात् ।
वामाङ्गुष्ठानामायोगेन मुद्रां प्रदर्शयेत् ।
ऊर्ध्वं ब्रह्माण्डतो वा दिवि गगनतले भूतले निष्कले वा, पाताले
वा तले वा पवनसलिलयोर्यत्र कुत्र स्थिता वा ।
क्षेत्रे पीठोपपीठादिषु च कृतपदा धूपदीपादिकेन, प्रीता
देव्यः सदा नः शुभवलिविधिना पान्तु वीरेन्द्रवन्द्याः ।
यां योगिनीभ्यः स्वाहा, सर्वयोगिनीभ्यः हुं फट् स्वाहा इत्यनेन
वलिं दद्यात् ।
वामहस्ताङ्गुष्ठतर्जनीमध्यमानामाभिर्योन्याकारेण
मुद्राः प्रदर्शयेत् ।
क्षां क्षीं क्षूं क्षैं क्षौं क्षेत्रस्थाने क्षेत्रपाल
धूपादिसहितवलिं गृह्ण गृह्ण स्वाहा, इत्यनेन क्षेत्रपालबलिं
हरेत् ।
वामगुष्ठेस्तर्जनीं सरलां कृत्वा मुद्रां प्रदर्शयेत् ।
गां गीं गं गणपतये वरवरद सर्वजनं मे वशमानय
बलिं गृह्ण गृह्ण स्वाहा इत्यनेन गणपतये बलिं हरेत् ।
वामगुष्टेर्मध्यमाङ्गुलिं दण्डवत् कृत्वा मुद्रां प्रदर्शयेत् ।
भैरवीविद्याया अपि एतद्बलिचतुष्टयं कर्त्तव्यम् ।
सर्वान्ते वा सर्वभूतबलिं दद्यात् ।
तन्त्रे वलिमधिकृत्य-
अदत्त्वा वटुकादीनां यः पूजयति चण्डिकाम् ।
पूजा च विफला तस्य देवीशापः प्रजायते ।
ततो मूलदेव्यै आचमनीयादिकं दत्त्वा सुवासितताम्बूलं दद्यात्
॥ ३९ ॥
ततः आरात्रिकं दद्यात् ।
यथा-
कांसादिभाजने कुङ्कुमादिना बालायाश्चकं विलिख्य, तत्र
कर्पूरगर्भिण्या वर्त्त्या घृतपूरितानष्टयोनिष्वष्टप्रदीपान्
निधाय मध्ये पिष्टकादिरचितमस्तकोपरि महादीपं संस्थाप्य,
श्री ह्रीं ग्लूं स्लूं, म्लूं, प्लूं, ल्लूं ह्रीं श्रीम् इति मन्त्रेण
चाभ्यर्च्य, तत्पात्रं मस्तकान्तं समुद्धृत्य नववारं
नीराजयेत् ।
तथा च ज्ञानार्णवे-
आरात्रिकमतः कुर्यात्सर्वकामार्थसिद्धये ।
सौवर्णे राजते कांस्ये स्थानके परमेश्वरि ।
कुङ्कुमेन लिखिद्यन्त्रं नवकोणं मनोहरम् ।
चन्द्ररूपं चरुं कृत्वा तन्मध्ये मस्तके शिवे ।
दीपमेकं विनिक्षिप्य वसुकोणेऽष्टदीपकान् ।
यवगोधूममुद्गादिरचितान् शर्करायुतान् ।
चषकाहितशोभाभिः शोभितान् घृतपूरितान् ।
अभिमन्त्र्य महेशानि रत्नेश्वर्यास्ततः परम् ।
श्रीबीजञ्च पराबीजं संलिख्य वरवर्णिनि ।
गसौ च मपलाः पश्चादिन्द्रस्थाः क्रमतः प्रिये ।
वामकर्णसमायुक्ता नादविन्दुविभूषिताः ।
बीजपञ्चकमेतत्तु, पञ्चरत्नानि सुन्दरि ।
पूर्वबीजविलोमेन रत्नेशीयं नवाक्षरी ॥ ४० ॥
ततो मूलमुच्चार्य-
समस्तचक्रचक्रेशि शुभे देवि नवात्मिके आरात्रिकमिदं देवि
गृहाण मम सिद्धये ।
ततश्चक्रमुद्रां प्रदर्शयेत् ।
आरात्रिके महादेवि चक्रमुद्रां प्रदर्शयेत् ।
ततो विसर्जनान्तं कर्म समापयेत् ।
इति श्रीविद्याप्रकरणम् ॥ ४१ ॥
अथ प्रचण्डचण्डिकामन्त्राः
प्रचण्डचण्डिकां वक्ष्ये सर्वकामफलप्रदाम् ।
यस्याः प्रसादमात्रेण सदाशिवो भवेन्नरः ॥ १ ॥
अपुत्रो लभते पुत्रमधनो धनवान् भवेत् ।
कवित्वञ्च सुपाण्डित्यं लभते नात्र संशयः ॥ २ ॥
विशसारे यामले च-
लक्ष्मीं लज्जां ततो मायां मात्रां द्वादशिकामपि ।
वज्रवैरोचनीये द्वे माये फट् स्वाहयायुतः ॥ ३ ॥
लक्ष्मीबीजं यदाद्यं स्यात्तदा श्रीः सर्वतोमुखी ।
लज्जाबीजेन चाद्येन वश्यतां यान्ति योषितः ।
मायाबीजेन चाद्येन महापातकनाशनम् ।
मात्रां द्वादशिकां बीजमाद्यं स्यान्मुक्तिदायकम् ॥ ४ ॥
भैरवोऽस्य ऋषिर्देवि सम्राट उदीरितम् ।
छिन्नमस्ता स्मृता देवि बीजं कूर्चद्वयं पुनः ।
स्वाहा शक्तिरभीष्टार्थे विनियोग उदाहृतः ।
अत्र लज्जापदं कामबीजपरम् ॥ ५ ॥
तथा च-
अत्र लज्जापदे देवि कामबीजं वितन्यते ।
महाकालमतं ज्ञेयं मन्त्रोद्धारं शुभावहम् ।
पूर्वमायापदेति पाठे मायायाः पूर्वं लज्जाबीजं
तस्मिन्नित्यर्थः ।
तथा च-
पूर्वमायापदेन लज्जाबीजमुच्यते अन्यथा तापिन्यादि विरोधः ।
तथा च-
कामाद्यं वाग्भवाद्यां वा मायाद्यां वा जपेत् सुधीः ।
लक्ष्म्याद्यां वा जपेद्विद्यां चतुर्वर्गफलप्रदाम् ।
अन्येषाञ्च मुनीनां मते सर्वत्र मायापदं कूर्चपरम् ॥ ६ ॥
तत्रैव वान्तं वह्निसमायुक्तं रतिविन्दुसमन्वितम् ।
लक्ष्मीबीजमिदं प्रोक्तं सर्वकामार्थसिद्धिदम् ।
वामाक्षिवह्निसंयुक्तं विन्दुनादविभूषितम् ।
शिवबीजं महेशानि लज्जाबीजमुदाहृतम् ।
ईशानमुद्धृत्य पुरारिबीजं, सविन्दुकं नादविभूषितञ्च ।
सवामकर्णं परितः प्रकल्प्य, मायां वन्दन्तीह मनीषिणस्ताम् ।
द्वादशस्वरवर्णं स्यान्नादविन्दुविभूषितम् ।
वाग्भवं बीजमित्युक्तं सर्ववाक्यविशुद्धये ।
इति मन्त्रचतुर्बीजव्याख्यानात् ।
अयन्तु समीचीनः ॥ ७ ॥
भैरवमते तु माया भुवनेश्वर्येव ।
लक्ष्मीः प्रथमबीजऽस्ति लज्जाबीजे मनोभवः ।
तृतीयेऽस्मिन् सदा देवी महापातकनाशिनी ।
चतुर्थे तु गुणातीता मुक्तिविद्याप्रदायिका ।
वकारे वरुणः साक्षाज्जकारे तु सुराधिपः ।
रेफे हुताशनो देवो वकारे वसुधाधिपः ।
ऐकारे त्रिपुरादेवी रेफे त्रिपुरसुन्दरी ।
त्रैलोक्यविजया देवि सदैवौकारसंस्थिता ॥ ८ ॥
चकारे चन्द्रमा देवी नकारे हि विनायकः ।
ईकारे कमला साक्षात् येकारे च सरस्वती ।
मायायुग्मे सदा देवी प्रकृत्या सह सङ्गता ।
वैखरी चैव फट्कारे स्वाकारे कुसुमायुधः ।
हाकारे च रतिस्तिष्ठेदेवं मन्त्रसमुच्चयः ।
इति व्याख्यानच्च ॥ ८क ॥
अथ पूजाप्रयोगः-
प्रातःकृत्यादिकं कृत्वा मन्त्राचमनं कुर्यात् ।
यथा-
लक्ष्मीमायाकूर्चबीजैस्त्रिभिः पीत्वाम्बु साधकः ।
वाग्भवेनोष्ठौ सम्मृज्य मायाभ्याञ्च द्विरुन्मृजेत् ।
कूर्चेन क्षालयेत् पाणी एभिर्मन्त्रैश्च विन्यसेत् ।
श्रीमायाकूर्चवाक्कामत्रिपुटाभगवर्णकैः ।
कामकलाङ्कुशाभ्याञ्च वक्त्रनासाक्षिश्रोत्रयोः ।
नाभिहृन्मस्तकञ्चांसौ स्पृष्ट्वाशम्भुर्भवेत् क्षणात् ।
आचम्यैवं छिन्नमस्तां वत्सरात्तां प्रपश्यति ॥ ९ ॥
ततः प्राणायामान्तं विधाय षोढान्यासं कुर्यात् ।
मन्त्रषोढां ततः कुर्यात् त्रैलोक्यवशकारिणीम् ।
श्रीबालात्रिपुटायोनिप्रासादप्रणवैस्तथा ।
कालीवध्वङ्कुशैः कामकलाकूर्चास्त्रकैः क्रमात् ।
षोडशीमनुवर्णैश्च पृथगष्टदशाक्षरैः ।
एभिर्बीजैर्मातृकार्णान् स्वेषु स्थानेषु विन्यसेत् ।
एषा ब्रह्मस्वरूपा हि बीजषोढा प्रकीर्तिता ॥ १० ॥
अस्याश्च न्यसनात्सव वज्रदेहा भवन्ति हि सर्वैश्वर्ययुतास्ते हि
जीवन्मुक्ता दशाब्दतः ॥ ११ ॥
ततः ऋष्यादिन्यासं कुर्यात्-
अस्य मन्त्रस्य भैरव - ऋषिः सम्राट छन्दश्छिन्नमस्ता देवता
हूङ्कारद्वयं बीजं स्वाहा शक्तिरभीष्टार्थसिद्धये विनियोगः ।
यथा-
शिरसि भैरवाय ऋषये नमः ।
मुखे सम्राट् छन्दसे नमः ।
हृदि छिन्नमस्तायै देवतायै नमः ।
गुह्ये हूं हूं बीजाय नमः ।
पादयोः स्वाहा शक्तये नमः ॥ १२ ॥
ततः कराङ्गन्यासौ-
ॐ आं खङ्गाय हृदयाय स्वाहा इति कनीयसि ।
ॐ ईं सुखङ्गाय शिरसे स्वाहा इति अनामा-पवित्राङ्गुल्योः ।
ॐ ऊं सुवज्राय शिखायै स्वाहा इति मध्यमयोः ।
ॐ ऐं पाशाय कवचाय स्वाहा इति तर्जन्योः ।
ॐ औं क्रों नेत्रत्रयाय स्वाहा इति अङ्गुष्ठयोः ।
ॐ अः सुरक्षासुरक्षायास्त्राय फट् ।
इति करतलपृष्ठयोः ।
एवं हृदयादिषु ।
तदुक्तं भैरवतन्त्रे-
उच्चरेत् पूर्वमाकारं विन्दुलाञ्छितमस्तकम् ।
खङ्गाय हृदयायेति स्वाहा युक्तं कनीयसि ।
ईकारञ्च ततो देवि चन्द्रकोटिसमप्रभम् ।
सुखङ्गाय ततो वाच्यं शिरसे तदनन्तरम् ।
स्वाहायुक्तं ततो वाच्यं पवित्राङ्गुलिसंयुतम् ।
ऊकारञ्च ततो वाच्यं विन्दुलाञ्छितमस्तकम् ।
सुवज्राय ततो वाच्यं शिखायै तदनन्तरम् ।
स्वाहान्तं मध्यमायाञ्च विन्यसेत्तदनन्तरम् ।
मात्रां द्वादशिकां देवीं विन्यसेच्च ततः परम् ।
पाशायेति समुच्चार्य प्रवदेत् कवचाय च ।
स्वाहान्तं विन्यसेन्मन्त्रं तर्जन्यां तदनन्तरम् ।
औङ्काराञ्चततो देवि चाङ्कुशं तदनन्तरम् ।
नेत्रत्रयाय स्वाहान्तमङ्गुष्ठे करयोर्द्वयोः ।
अकारञ्च विसर्गान्तं सुरक्षाक्षरसंयुतम् ।
असुरक्षाय संयुक्तम् अस्त्रायेति ततः परम् ।
कडक्षरसमायुक्तं विन्यसेत् करयोर्द्वयोः ।
अङ्गन्यासस्य प्रमाणम्-
हृदि मूर्ध्निशिखायाञ्च कवचे नेत्रमण्डले ।
यावदस्त्रं चतुर्दिक्षु विदिक्षु च यथाक्रमम् ।
त्रिशक्तितन्त्रे भैरववाक्यम्-
उच्चरेत्प्रणवं पूर्वमाकारं विन्दुसंयुतम् ।
इत्यादिवाक्यात्कराङ्गेषु प्रणवसंवलितो न्यासः ॥ १३ ॥
ततो मूलेन मस्तकादिपादपर्यन्तं पादादिमस्तकान्तं
वारत्रयं न्यसेत् ॥ १४ ॥
ततो ध्यानम्-
स्वनाभौ नीरजं ध्यायेच्छुद्धं विकसितं सितम् ।
तत्पद्मकोषमध्ये तु मण्डलं चण्डरोचिषः ।
जवाकुसुमसङ्काशं रक्तबन्धूकसन्निभम् ।
रजःसत्त्वतमोरेखायोनिमण्डलमण्डितम् ।
मध्ये तु तां महादेवीं सूर्यकोटिसमप्रभाम् ।
छिन्नमस्तां करे वामे धारयन्तीं स्वमस्तकम् ॥ १५ ॥
प्रसारितमुखीं भीमां लेलिहानोग्रजिह्विकाम् ।
पिबन्तीं रौधिरीं धारां निजकण्ठविनिर्गताम् ।
विकीर्णकेशपाशाञ्च नानापुष्पसमन्विताम् ।
दक्षिणे च करे कर्त्री मुण्डमालाविभूषिताम् ।
दिगम्बरीं महाघोरं प्रत्यालीढपदे स्थिताम् ।
अस्थिमालाधरां देवीं नागयज्ञोपवीतिनीम् ।
रतिकामोपविष्टाञ्च सदा ध्यायन्ति मन्त्रिणः ।
सदा षोडशवर्षीयां पीनोन्नतपयोधराम् ।
विपरीतरतासक्तौ ध्यायेद्रतिमनोभवौ ।
डाकिनी वर्णिनीयुक्तां वामदक्षिणयोगतः ।
देवीगलोच्छलद्रक्तधारापानं प्रकुर्वतीम् ।
वर्णिनीं लोहितां सौम्यां मुक्तकेशीं दिगम्बरीम् ।
कपालकर्त्तृकाहस्तां वामदक्षिणयोगतः ।
नगयज्ञोपवीताढ्यं ज्वलत्तेजोमयीमिव ।
प्रत्यालीढपदां दिव्यां नानालङ्कारभूषिताम् ।
सदा द्वादशवर्षीयामस्थिमालाविभूषिताम् ।
डाकिनीं वामपार्श्वस्थां कल्पसूर्यानलोपमाम् ।
विद्युज्जटां त्रिनयनां दन्तपङ्क्तिबलाकिनीम् ।
दंष्ट्राकरालवदनां पीनोन्नतपयोधराम् ।
महादेवीं महाघोरां मुक्तकेशीं दिगम्बरीम् ।
लेलिहानमहाजिह्वां मुण्डमालाविभूषिताम् ।
कपालकर्तृकाहस्तां वामदक्षिणयोगतः ।
देवीगलोच्छद्रक्तधारापानं प्रकुर्वीतम् ।
करस्थितकपालेन भीषणेनातिभीषणाम् ।
आभ्यां विषेव्यमाणां तां ध्यायेद्देवीं विचक्षणः ।
पिवन्तीमिति तेन मुखेनेति शेषः ।
तथा च-
स्वमस्तकं सखर्परं रक्तधाराभिपूरितम् ।
ललजिह्वं महाभीमं धृतं वामभुजे तथा ।
इति भैरवतन्त्रे पाठः ॥ १५क ॥
ध्यानस्यावश्यकत्वमाह तन्त्रे-
प्रचण्डचण्डिकामेवमध्यात्वा यस्तु पूजयेत् ।
सद्यस्तस्य शिरश्छित्त्वा देवी पिबति शोणितम् ॥ १६ ॥
अस्याः पूजायन्त्रम् ।
तत्रैव-
सितं कुर्याद्दलं पूर्वमाग्नेयां रक्तवर्णकम् ।
याम्यं कृष्णमतः पीतं शुक्लं रक्तं सितासितम् ।
ततः पीतां प्रकुर्वीत कर्णिकां तस्य मध्यगाम् ।
तन्मध्ये तु प्रकूर्वीत मण्डलं चण्डरोचिषः ।
रजः सत्त्वतमोरेखा रक्तशुक्लासिताः क्रमात् ।
मायायुग्मं ततो न्यस्य फडक्षरसमन्वितम् ।
वाह्यं तस्य च चक्रस्य कुर्यात्प्राकारवेष्टितम् ।
पूर्वं रक्तं ततः कृष्णं सितं पीतं यथाक्रमात् ।
चतुर्द्वारसमायुक्तं क्षेत्रपालैरधिष्ठितम् ।
इत्यस्याः पूजायन्त्रम् ॥ १७ ॥
अथवा-
त्रिकोणं विन्यसेदादौ तन्मध्ये मण्डलत्रयम् ।
तन्मध्ये विन्यसेद्योनिं द्वारत्रयसमन्वितम् ।
वहिरष्टदलं पद्मं भुविम्बत्रितयं पुनः ।
कूर्चबीजं लिखेन्मध्ये त्रिकोणे फट्समन्वितम् ।
(चित्र ३३) ।
यथा च-
अपरञ्च प्रवक्ष्यामि शृणु देवि यथाक्रम ।
स्वनाभौ नीरजं ध्यायेद्भानुमण्डलसन्निभम् ।
योनिचक्रसमायुक्तां गुणत्रितयसंश्रितम् ।
तत्र मध्ये महादेवीं छिन्नमस्तां स्मरेद्यतिः ।
प्रदीपकलिकाकारामद्वितीयव्यवस्थिताम् ।
योनिमुद्रासमायुक्तं हृदयस्थितलोचनाम् ।
ध्येयमेतद्-यतीनाञ्च गृहस्थानं निशामय ॥ १८ ॥
यथा-
अन्तरे स्वशरीरस्य नाभिनीरजसङ्गताम् ।
निर्लेपां निर्गुणां सूक्ष्मां वा बालचन्द्रसमप्रभाम् ।
समाधिनात्रगम्यान्तु गुणत्रितयवेष्टिताम् ।
कलातीतां गुणातीतां मुक्तिमात्रप्रदायिनीम् ।
एवं ध्यात्वा मानसैः सम्पूज्य तारिणीवच्छङ्खस्थापनं
कुर्यात् ॥ १९ ॥
ततः पीठपूजा-
आधारशक्तये, प्रकृतये, कूर्माय, अनन्ताय, पृथिव्यै,
क्षीरसमुद्राय, रत्नद्वीपाय, कल्पवृक्षाय, तदधः
स्वर्णसिंहासनाय, आनन्दकन्दाय सम्विन्नालाय,
सर्वतत्त्वात्मकपद्माय, सं सत्त्वाय, रं रजसे, तं तमसे, आम्
आत्मने, अम् अन्तरात्मने, पं परमात्मने, ह्रीं ज्ञानात्मने ।
नमः सर्वत्र ।
पद्ममध्ये रतिकामाभ्याम् ॥ २० ॥
भैरवमते तु-
आधारशक्तिं कूर्मञ्च नागराजमतःपरम् ।
पद्मनालञ्च पद्मञ्च पूजयेन्मन्त्रविन्नरः ।
मण्डलं चतुरस्रञ्च रजः सत्त्वं तमस्तथा ।
रतिकामौ च सम्पूज्य शक्तिपूजां समाचरेत् ।
इति रतिकामोपरि वज्रवैरोचनीये देहि देहि एहि एहि गृह्ण गृह्ण स्वाहा
मम सिद्धिं देहि देहि मम शत्रून् मारय मारय करालिके हुं
फट् स्वाहा इति पीठमन्त्र ।
सर्वत्र प्रणवादिनमोऽन्तेन पूजयेत् ।
ततः पुनर्ध्यात्वा आवाहयेत् ॥ २१ ॥
यथा सर्वसिद्धिवर्णिनीये सर्वसिद्धिडाकिनीये वज्रवैरोचनीये
इहावह पुनस्तन्मन्त्रमुच्चार्य इह तिष्ट तिष्ट इह सन्निधेहि इह
सन्निरुध्यस्व इत्यनेनावाह्य ॐ ह्रीं क्रों हंसः इत्येनेन
प्राणप्रतिष्ठां कृत्वा ॐ आं खड्गाय हृदयाय स्वाहा
इत्यादिना षडङ्गं विन्यस्य यथाशक्ति पूजां कृत्वा बलिं
दद्यात् ।
यथा-
वज्रवैरोचनीये देहि देहि एहि एहि गृह्ण गृह्ण इमं बलिं मम
सिद्धिं देहि देहि मम शत्रून् मारय मारय करालिके हुं फट्
स्वाहा इति मन्त्रेण ॥ २२ ॥
ततो देव्या दक्षिणे वर्णिन्यै नमः ।
वामे ॐ डाकिन्यै नमः ।
तृतो देव्यङ्गे षडङ्गं सम्पूज्य, दक्षिणे ॐ शङ्खनिधये
नमः, वामे ॐ पद्मनिधये नमः ।
पूर्वादिदिक्षु लक्ष्मीं लज्जां मायां वाणीञ्च पूजयेत् ।
विदिक्षु ब्रह्मविष्णुरुद्रेश्वरान् ।
मध्ये सदाशिवम् ।
सर्वत्र प्रणवादिनमोऽन्तेन पूजयेत् ।
ततः पञ्चपुष्पाञ्जलीन् दत्त्वा आवरणान् पूजयेत् ।
अग्नीशासुरवायुषु मध्ये दिक्षु च ॐ आं खड्गाय हृदयाय
स्वाहा इत्यादिना षडङ्गानि सम्पूज्य, अष्टपत्रेक्षु
पूर्वादिक्रमेण ॐ ह्रीं काल्यै नमः, एवं वर्णिन्यै डाकिन्यै
भैरव्यै महाभैरव्यै इन्द्राक्ष्यै पिङ्गाक्ष्यै संहारिण्यै;
सर्वत्रैव प्रणवादिनमोऽन्तेन पूजयेत् ॥ २३ ॥
यथा-
एकां नामाभिधां कालीं वर्णिनीं डाकिनीं तथा ।
भैरवीञ्च महापूर्वा भैरवीं तदनन्तरम् ।
इन्द्राक्षीञ्च सपिङ्गाक्षीं ततः संहारकारिणीम् ।
पूर्वादिके दले पूज्याः शक्तयश्च यथाक्रमम् ।
प्रणवादिनमोऽन्तेन लज्जाबीजं समुच्चरन् ।
पद्ममध्ये हुं फट् नमः ।
स्वाहायै नमः ।
देव्या दक्षिणे सम्राट्छन्दसे नमः ।
देव्या उत्तरे सर्ववर्णभ्यो नमः ।
पुनर्दक्षिणे बीजशक्तिभ्यां नमः ।
पत्राग्रेषु पूर्वादिक्रमेण ब्राह्म्यै माहेश्वर्यै कौमार्यै
वैष्णव्यै वाराह्यै इन्द्राण्यै चामुण्डायै महालक्ष्म्यै ।
सर्वत्र प्रणवादिनमोऽन्तेन पूजयेत् ।
ततश्चतुर्दिक्षु द्वारेषु ॐ करालाय नमः ।
ॐ विकरालाय एवम् अतिकरालाय महाकरालाय ।
यथा भैरवीये-
पूर्वद्वारे करालञ्च विकरालञ्च दक्षिणे ।
पश्चिमेऽति करालञ्च महाकरालमुत्तरे ।
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ।
विसर्जने त्वयं विशेषः-
संहारमुद्रां प्रदर्श्य अञ्जलावारोप्य वामनासापुटेन,
योनिमुद्रासमारूढां प्रदीपकलिकोज्ज्वलाम् ।
कृष्णपक्षे विधुमिव क्रमेण क्षीणतां गताम् ।
इमं मन्त्रं समुच्चार्य चण्डरश्मौ निवेशयेत् ।
मन्त्रस्तु-
उत्तरे शिखरे देवि भूम्यां पर्वतवासिनी ।
ब्रह्मयोनि समुत्पन्ने गच्छ देवि ममान्तरम् ॥ २४ ॥
अस्य पुरश्चरणं लक्षजपः ।
सिद्धविद्यात्वात् ॥ २५ ॥
बलिदाने तु भैरवीये-
रात्रौ बलिः प्रदातव्यो मत्स्यमांससुरादिभिः ।
अथवा मधुपानाद्यैर्मधुरैर्विभवक्रमैः ॥ २६ ॥
मन्त्रस्तु-
उच्चरेत्प्रणवं पूर्वं सर्वसिद्धिप्रदेऽन्वितम् ।
वर्णिनीये ततो वाच्यं सर्वसिद्धिप्रदे ततः ।
डाकिनीये ततो वाच्यं देवीनाम ततः परम् ।
एह्येहीति ततो वाच्यम् इमं बलिमनन्तरम् ।
गृह्ण गृह्ण ततः प्रोक्त्वा मम सिद्धिमनन्तरम् ।
देहि देहीति माये च ततः फट् स्वाहया युतः ।
बलिमन्त्रः समाख्यातः पूजितोऽयं सुरेश्वरीति ॥ २७ ॥
मन्त्रान्तरम् -
भुवनेशी कामबीजं कूर्चबीजञ्च वाग्भवम् ।
भुवनेशी कूर्चबीजं वाग्भवं तदनन्तरम् ।
वज्रवैरोचनीये च हूं फट् स्वाहा ततः परम् ॥ २८ ॥
अस्य पूजाप्रयोगः-
न्यासपूजादिकं षोडशीवत्कार्यम् ॥ २९ ॥
हृल्लेखा मादनं लक्ष्मीं वाग्भवं कूर्चमेव च ।
अस्त्रान्ता छिन्नमस्ता या महाविद्या प्रकीर्तिता ।
अस्यास्तु सदृशी विद्या जगत्स्वपि न विद्यते ।
षड्वर्णोऽयं मनुः साक्षान्मोक्षदो नात्र संशयः ॥ ३० ॥ अस्या
ध्यानमहं वक्ष्ये शृणुष्व कमलानने ।
प्रत्यालीढपदां सदैव दधतीं छिन्नं शिरः कर्तृकां,
दिग्वस्त्रां स्वकबन्धशोणितसुधाधारां पिबन्तीं मुदा ।
नागावद्धशिरोमणिं त्रिनयनां हृद्युत्पलालङ्कृतां,
रत्यासक्तमनोभवोपरि दृढां ध्यायेज्जवासन्निभाम् ।
दक्षे चातिसिता विमुक्तचिकुरा कर्ती तथा खर्परं, हस्ताभ्यां
दधती रजोगुणभवा नाम्नापि वर्णिनी ।
देव्याश्छिन्नकबन्धतः पतदसृग्धारां पिबन्ती मुदा,
नागावद्धशिरोमणिर्मनुविदा ध्येया सदा सा सुरैः ।
वामे कृष्णतनूस्तथैव दधती खड्गं तथा खर्परं,
प्रत्यालीढपदा कबन्ध-विगलद्रक्तं पिबन्ती मुदा ।
सैषा या प्रलये समस्तभुवनं भोक्तुं क्षमा तामसी, शक्तिः
सापि परात्परा भगवती नाम्ना परा डाकिनी ।
इति ध्यानम् ।
अस्याः पूजादिकं सर्वं षोडशीवत्कार्यम् ॥ ३१ ॥
मन्त्रान्तरम् -
तारं लज्जाद्वयं वज्रवैरोचनीये हूं फट् स्वाहा ।
अस्यापि ध्यानपूजादिकं सर्वं षोडशीवत्कार्यम् ॥ ३२ ॥
वियत्सूत्रयुतं विन्दुनादयुक्तं ततः प्रिये ।
एकाक्षरी महाविद्या त्रैलोक्यवशकारिणी ।
सूत्रं दीर्घम् ऊकारः ।
ठठान्तैषा महाविद्या त्रैलोक्यमोहकारिणी ।
ताराद्यान्ता भवत्येषा चतुर्वर्गफलप्रदा ॥ ३३ ॥
वज्रवैरोचनीये च कूर्चयुग्मं सफट् ठठः ।
ताराद्यैषा महाविद्या सर्वतेजोऽपहारिणी ।
त्रैलोक्याकर्षिणी विद्या चतुवर्गफलप्रदा ।
ध्यानपूजादिकं सर्वं षोडशीवत्समाचरेत् ॥ ३४ ॥
इदानीं षोडशीविद्याप्रशंसामाह-
तथा सर्वप्रयत्नेन सर्वोपास्या च षोडशी ।
लक्ष्मीबीजादिका सैव सर्वैश्वर्यप्रदायिनी ॥ ३५ ॥
लज्जाद्या स्वर्गभूनागयोषिदाकर्षिणी परा ।
कूर्चाद्या सर्वजन्तूनां महापातकनाशिनी ॥ ३६ ॥ वाग्भवाद्या
यदा देवी वागीशत्वप्रदायिनी ।
एषा तु षोडशीविद्या वेद्या सप्तदशाक्षरी ॥ ३७ ॥
श्रीबीजपुटिता सा तु लक्ष्मीवृद्धिकरी सदा ।
लज्जया पुटिता विद्या त्रैलोक्याकर्षिणी परा ॥ ३८ ॥
कूर्चेन पुटिता सर्वपापिनां पापहारिणी ।
वाग्बीजपुटिता चैषा वागीशत्वप्रदायिनी ॥ ३९ ॥
चतुर्विधेति विद्यैषा प्रिये सप्तदशाक्षरी ।
ताराद्या षोडशी चान्या भवेत् सप्तदशाक्षरी ।
एषा विद्या महाविद्या भुक्तिमुक्तिकरी सदा ॥ ४० ॥
कमला भुवनेशानी कूर्चबीजं सरस्वती ।
वज्रवैरोचनीये च पूर्वबीजानि चोच्चरेत् ।
फट् स्वाहा च महाविद्या वसुचन्द्राक्षरी परा ।
ताराद्येकोनविंशार्णा ब्रह्मविद्यास्वरूपिणी ।
एते विद्योत्तमे देवि भुक्तिमुक्तिप्रदे शुभे ॥ ४१ ॥
लक्ष्म्यादिपुटिता पूर्वा रन्ध्रचन्द्राक्षरी भवेत् ।
चतुर्द्धा च महाविद्या चतुर्वर्गफलप्रदा ।
प्रणवाद्या यथा चैषा भोगमोक्षकरी सदा ॥ ४२ ॥
मन्त्रान्तरम् -
विद्यान्तरं प्रवक्ष्यामि सावधानावधारय ।
हृल्लेखाकूर्चवाग्बीजवज्रवैरोचरीये हूम् ।
अस्त्रं स्वाहा ।
महाविद्या चतुर्दशाक्षरी मता ।
सर्वश्वर्यप्रदा चैषा सर्वमोहनकारिणी ॥ ४३ ॥
भुवनेशोत्रितत्त्वञ्च वाग्बीजं प्रणवं ततः ।
वज्रवैरोचनीये च फट् स्वाहा च तथा परा ।
चतुर्दशाक्षरी चैषा चतुर्वर्गफलप्रदा ।
एषा विद्या महाविद्या जन्ममृत्युविनाशिनी ॥ ४४ ॥
तन्त्रान्तरे-
रमा कामस्तथा लज्जा वाग्भवं वज्र वै पदम् ।
रोचनीये लज्जाद्वन्द्वमन्त्रं स्वाहासमन्वितम् ।
इयं सा षोडशी प्रोक्ता सर्वकामफलप्रदा ॥ ४५ ॥
कथिताः सकला विद्याः सारात्सारतराः शुभाः ।
आसाम् ऋषिर्भैरवोऽहं नाम्ना तु क्रोधभूपतिः ।
सम्राट्छन्दो देवता च छिन्नमस्ता प्रकीर्तिता ।
षड्दीर्घभाक्स्वरेणैव प्रणवाद्येन सुन्दरि ।
खड्गाद्येन ठठान्तानि षडङ्गानि प्रकल्पयेत् ॥ ४६ ॥
नारिदोषादिकञ्चासां ताः सुसिद्धाः सुरासुरैः ।
सकलेषु च वर्णेषु सकलेष्वाश्रमेषु च ।
अन्तिमेषु च वर्णसु भुक्तिमुक्तिप्रदायिका ।
प्राणवाद्याश्च या विद्याः शूद्रादौ न समीरिताः ।
अस्याञ्चैव विशेषोऽयं योषिच्चेत्समुपासयेत् ।
डाकिनी सा भवत्येव डाकिनीभिः प्रजायते ।
पतिहीना पुत्रहीना यथा स्यात् सिद्धयोगिनी ।
इति ते कथितं तत्त्वं रहस्यमखिलं प्रिये ।
अति स्नेहतरङ्गेन भक्त्या दासोऽस्मि ते प्रिये ॥ ४८ ॥
एतासां ध्यानपूजादिकं षोडशीवत्कार्यम् ॥ ४९ ॥
नाभौ शुद्धारविन्दं तदुपरि कमलं मण्डलं चण्डरश्मेः,
संसारस्यैकसारां त्रिभुवनजननीं धर्मकामोदयाढ्याम् ।
तस्मिन्मध्ये त्रिकोणे त्रितयतनुधरां छिन्नमस्तां प्रशस्तां,
तां वन्दे ज्ञानरूपां निखिलभयहरां योगिनीं योगमुद्राम् ॥
५० ॥
इति छिन्नमस्ताप्रकरणम् ॥
श्यामाप्रकरणम्
अथ श्यामाप्रकरणम् -
भैरवतन्त्रे-
अथ वक्ष्ये महाविद्याः कालिकायाः सुदुर्लभाः ।
यासां विज्ञानमात्रेण जीवन्मुक्तो भवेन्नरः ॥ १ ॥
नात्र चिन्ताविशुद्धिः स्यान्न वा मित्रादिदूषणम् ।
न वा प्रयासबाहुल्यं समयासमयादिकम् ।
न वित्तव्ययबाहुल्यं कायक्लेशकरं न च ॥ २ ॥
य एनां चिन्तयेन्मन्त्री सर्वकामसमृद्धिदाम् ।
तस्य हस्ते सदैवास्ति सर्वसिद्धिर्न संशयः ॥ ३ ॥
गद्यपद्यमयी वाणी सभायां तस्य जायते ।
तस्य दर्शनमात्रेण वादिनो निष्प्रभां गताः ॥ ४ ॥
राजानोऽपि च दासत्वं भजन्ते किं परे जनाः ।
दिवारात्रिव्यत्ययञ्च वशीकर्त्तुं क्षमो भवेत् ।
अन्ते च लभते देव्या गणत्व्रं दुर्लभं नरः ॥ ५ ॥
अथ श्यामामन्त्राः -
तत्र कालीतन्त्रे-
कामत्रयं वह्निसंस्थं रतिविन्दुविभूषितम् ।
कूर्चयुग्मं तथा लज्जायुगलं तदनन्तरम् ।
दक्षिणे कालिले चेति पूर्वबीजानि चोच्चरेत् ।
अन्ते वह्निवधूं दद्याद्विद्याराज्ञी प्रकीर्तिता ॥ ६ ॥
मन्वर्थमाह यामले-
ककाराज्जलरूपत्वात्केवलं मोक्षदायिनी ।
ज्वलनार्णसमयोगात्सर्वतेजोमयी शुभा ॥ ७ ॥
मायात्रयेण देवेशि सृष्टिस्थित्यन्तकारिणी ।
विन्दुनां निष्फलत्वाच्च कैवल्यफलदायिनी ॥ ८ ॥
बीजत्रया शाम्भवी सा केवलं ज्ञानचित्कला ।
शब्दबीजद्वयेनैव शब्दराशिप्रबोधिनी ॥ ९ ॥
लज्जाबीजद्वयेनैव सृष्टिस्थित्यन्तकारिणी ।
सम्बोधनपदेनैव सदा सन्निधिकरिणी ।
स्वाहया जगतां माता सर्वापापप्रणाशिनी ॥ १० ॥
अस्याः पूजाप्रयोगः-
प्रातःकृत्यादिकं कृत्वा मन्त्राचमनं कुर्यात् ।
यथा-
कालिकाभिस्त्रिभिः पीत्वा काल्यादिभिरुपस्पृशेत् ।
द्वाभ्यामोष्ठौ द्विरुन्मृज्य चैकेन क्षालयेत्करौ ॥ ११ ॥
मुखघ्राणेक्षणश्रोत्रनाभ्युरस्कं भुजौ क्रमात् ।
आचाम्यैवं भवेत्काली वत्सरात्तां प्रपश्यति ।
कं शिरः ।
तद्यथा-
क्रीमिति त्रिराचमेत् ।
ॐ काल्यै नमः ॐ कपालिन्यै नमः इति ओष्ठो द्विरुन्मृजेत् ।
ॐ कुल्वायै नमः इति करं क्षालयेत् ।
ॐ कुरुकुल्वायै नमः इति मुखे ।
ॐ विरोधिन्यै नमः इति दक्षिणनासायाम् ।
ॐ विप्रचित्तायै नमः इति वामनासायाम् ।
ॐ उग्रायै नमः ॐ उग्रप्रभायै नमः इति नेत्रवोः ।
ॐ दीप्तायै नमः ॐ नीलायै नमः इति श्रोत्रयोः ।
ॐ घनायै नमः इति नाभौ ।
ॐ बलाकायै नमः इति वक्षसि ।
ॐ मात्रायै नमः इति शिरसि ।
ॐ मुद्रायै नमः ॐ मितायै नमः इत्यंसयोः ।
इति मन्त्राचमनम् ॥ ११क ॥
ततो भूतशुद्ध्यन्तं विधाय मायाबीजेन यथाविधि
प्रणायामं कुर्यात् ॥ १२ ॥
ततः ऋष्यादिन्यासः ।
यथा-
अस्य मन्त्रस्य भैरवऋषिरुष्णिक् छन्दो दक्षिणकालिका देवात ह्रीं
बीजं हूं शक्तिः क्रीं कीलकं पुरुषार्थचतुष्टयसिद्ध्यर्थे
विनियोगः ।
तथा च कालीक्रमे-
कीलकं चाद्यबीजं स्याच्चतुर्वर्गफलप्रदम् ।
शिरसि भैरवऋषये नमः ।
मुखे उष्णिक्छन्दसे नमः ।
हृदि दक्षिणकालिकायै देवतायै नमः ।
गुह्ये ह्रीं बीजाय नमः ।
पादयोः हूं शक्तये नमः ।
सर्वाङ्गे क्रीं कीलकाय नमः ॥ १३ ॥
ततः कराङ्गन्यासौ ।
तदुक्तं कालीतन्त्रे-
अङ्गन्यासकरन्यासौ यथावदभिधीयते ।
भैरवोऽस्य ऋषिः प्रोक्त उष्णिक्छन्द उदाहृतम् ।
देवात कालिका प्रोक्ता लज्जा-बीजन्तु बीजकम् ।
कीलकं चाद्यबीजं स्याच्चतुर्वर्गफलप्रदम् ।
शक्तिश्च कूर्चबीजं स्यादनिरुद्धा सरस्वती ।
कवित्वार्थे नियोगः ।
स्यादित्यादि ।
तेन मायया षडङ्गन्यासः ।
षड्दीर्घभाजा बीजेन प्रणवाद्येन कल्पयेत् ।
वीरतन्त्रे-
दीर्घषट्कयुताद्येन प्राणवाद्येन कल्पयेत् इति वा ।
तद्यथा-
ॐ ह्राम् अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं तर्जनीभ्यां स्वाहा ।
ॐ हूं मध्यमाभ्यां वषट् ।
ॐ ह्रैम् अनामिकाभ्यां हुम् ।
ॐ ह्रौं कनिष्ठाभ्यां वौषट् ।
ॐ ह्रः करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु ।
ॐ ह्रां हृदयाय नमः इत्यादि ।
ॐ क्राम् अङ्गुष्ठाभ्यां नमः इत्यादिना वा ॥ १४ ॥
ततो वर्णन्यासः-
अम् आम् इम् ईम् उम् ऊम् ऋं ॠम् ऌं ॡं नमः इति हृदये ।
एम् ऐं ॐ औम् अम् अः कं खं गं घं नमः इति दक्षिणबाहौ
।
ङं चं छं जं झं ञं टं ठं डं ढं नमः इति
वामबाहौ ।
णं तं थं दं धं नं पं फं बं भं नमः इति
दक्षिणपादे ।
मं यं रं लं वं शं षं सं हं लं क्षं नमः इति
वामपादे ।
विरूपाक्षमते सविन्दुरयं न्यासः ।
यथा वीरतन्त्रे-
अम् आम् इम् ईम् उम् ऊम् ऋं ॠम् ऌं ॡं वै हृदये न्यसेदित्यादि ।
कालीतन्त्रे पुनर्निर्विन्दुः ।
यथा-
अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ वै हृदयं स्पृशेदित्यादि ।
किन्तु सविन्दून् वा न्यसेदेतान् निर्विन्दून वाथ वर्णकानित्याचार्य
परिगृहीतभैरवीयवाक्यादुभयमेव युक्तम् ॥ १५ ॥
अथ षोडान्यासः ।
तदुक्तं वीरतन्त्रे-
केवलां मातृकां कृत्वा मातृकां तारसम्पुटाम् ।
मातृकापुटितं तारं न्यसेत् साधकसत्तमः ।
श्रीबीजपुटितां तान्तु मातृकापुटितन्तु तत् ।
कामेन पुटितां देवीं तत्पुटं काममेव च ।
शक्त्या च पुटितां देवीं शक्तिञ्च तत्पुटां न्यसेत् ।
क्रीं द्वन्द्वञ्च पुनर्न्यस्त्वा ऋ-ॠं-ऌ-ॡञ्च पूर्ववत् ।
मूलेन पुटितां देवीं तत्पुटं मन्त्रमेव च ।
अनुमोल विलोमेन न्यस्य मन्त्रं यथाविधि ।
मूलेनाष्टशतं कुर्याद्व्यापकं तदनन्तरम् ।
यथा-
ॐ अं ॐ एवं मातृकापुटितं तारम् ।
एवं श्रीबीजपुटितां ताम् ।
तत्पुटितं श्रीबीजम् ।
एवं कामेन पुटितां मातृकाम् ।
मातृकापुटितं कामम् ।
एवं शक्त्या पुटितां मातृकाम् ।
मातृकापुटितां शक्तिं न्यसेत् ।
तथा क्रीं द्वन्द्वञ्च ऋ ॠ ऌ ॡञ्च पूर्ववत् ।
तत्पुटितां मातृकां मातृकापुटितञ्च तन्न्यसेत् ।
मन्त्रपुटितां मातृकां तत्पुटितं मनुम् ।
पुनरनुलोम विलोमेन केवलं मन्त्रं मातृकास्थाने न्यस्य
मूलेनाष्टशतेन व्यापकं कुर्यात् ॥ १६ ॥
अयं न्यासस्ताराया अपि कार्यः ।
इति गुप्तेन दुर्गाया अङ्गषोढा प्रकीर्तिता ।
तारायाः कालिकायाश्च उन्मुख्याश्च तथा परा
कृतेऽस्मिन्न्यासवर्ये तु सर्वं पापं प्रणश्यति ॥ १७ ॥
ततस्तत्त्वन्यासः ।
यथा-
मूलं त्रिखण्डं विधाय प्रथमखण्डान्ते ॐ आत्मतत्त्वाय
स्वाहेति पादादि-नाभिपर्यन्तम् ।
द्वितीयखण्डान्ते ॐ विद्यातत्त्वाय स्वाहेति नाभ्यादि-हृदयान्तम् ।
तृतीयखण्डान्ते ॐ शिवतत्त्वाय स्वाहेति हृदयादिशिवःपर्यन्तं
न्यसेत् ।
तदुक्तं स्वतन्त्रे-
मूलविद्यात्रिखण्डान्ते प्रणवाद्यैर्यथाविधि ।
आत्मविद्याशिवैस्तत्त्वैस्तत्त्वन्यासं समाचरेत् ॥ १८ ॥
अथ बीजन्यासः ।
तदुक्तं कुमारीकल्पे-
ब्रह्मरन्ध्रे भ्रुवोर्मध्ये ललाटे नाभिदेशके ।
गुह्ये वक्त्रे च सर्वाङ्गे सप्तबीजं क्रमान्न्यसेत् ।
तद्यथा-
आद्यबीजं ब्रह्मरन्ध्रे ।
द्वितीयबीजं भ्रूमध्ये ।
तृतीयबीजं ललाटे ।
चतुर्थबीजं नाभौ ।
पञ्चमबीजं गुह्ये ।
षष्ठबीजं वक्त्रे ।
सप्तबीजं सर्वाङ्गे ।
एतत्त्रयं काम्यम् ॥ १९ ॥
ततो मूलेन सप्तधा व्यापकं कृत्वा यथाविधि मुद्रां प्रदर्श्य
ध्यायेत् ॥ २० ॥
तद्यथा कालीतन्त्रे-
करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् ।
कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषिताम् ।
सद्यश्छिन्नशिरःखड्गवामाधोर्ध्वकराम्बुजाम् ।
अभयं वरदञ्चैव दक्षिणोर्ध्वाधः पाणिकाम् ।
महामेघप्रभां श्यामां तथा चैव दिगम्बरीम् ।
कण्ठावसक्तमुण्डालीगलद्रुधिरचर्चिताम् ।
कर्णावतंसतानीतशवयुग्मभयानकाम् ।
घोरदंष्ट्रां करालास्यां पीनोन्नतपयोधराम् ।
शवानां करसङ्घातैः कृतकाञ्चीं हसन्मुखीम् ।
सृक्वद्वयगलद्रक्तधाराविस्फुरिताननाम् ॥ २१ ॥
घोररावां महारौद्रीं श्मशानालयवासिनीम् ।
वालार्कमण्डलाकारलोचनत्रितयान्विताम् ।
दन्तुरां दक्षिणव्यापिमुक्तालम्बिकचोच्चयाम् ।
शवरूपमहादेवहृदयोपरिसंस्थिताम् ।
शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्विताम् ।
महाकालेन च समं विपरीतरतातुराम् ।
सुखप्रसन्नवदनां स्मेराननसरोरुहाम् ।
एवं सञ्चिन्तयेत् कालीं सर्वकामसमृद्धिदाम् ।
शवयुग्मेति घोरवाणावतंसेति प्रेतकर्णावतंसेति च ।
शकुन्तपक्षसंयुक्तवामकर्णविभूषिताम् ।
विगतासुकिशोराभ्यां कृतकर्णावतंसिनीमिति दर्शनादुभयमेव
पाठः ॥ २१ क ॥
ध्यानान्तरं स्वतन्त्रे-
अञ्जनाद्रिनिभां देवीं करालवदनां शिवाम् ।
मुण्डमालावलीकीर्णां मुक्तकेशीं स्मिताननाम्
महाकालहृदम्भोजस्थितां पीनपयोधराम् ।
विपरीतरतासक्तां घोरदंष्ट्रां शिरैः सह ।
नागयज्ञोपवीताढ्यां चन्द्रार्द्धकृतशेखराम् ।
सर्वालङ्कारसंयुक्तां मुण्डमालाविभुषिताम् ।
शवहस्तसहस्रैस्तु वद्धकाञ्चीं दिगंशुकाम् ।
शिवकोटिसहस्रैस्तु योगिनीभिर्विराजिताम् ।
रक्तपूर्णमुखाम्भोजां मध्यपानप्रमत्तिकाम् ।
वह्न्यर्कशशिनेत्राञ्च रक्तविस्फुरिताननाम् ।
विगतासुकिशोराभ्यां कृतवर्णावतंसिनीम् ।
कण्ठावसक्तमुण्डालीगलद्रुधिरचर्चिताम् ।
श्मशानवह्निमध्यस्थां ब्रह्मकेशववन्दिताम् ।
सद्यःकृत्तशिरः खड्गवराभीतिकराम्बुजाम् ।
एवं ध्यात्वा मानसैः सम्पूज्य अर्घ्यस्थापनं कुर्यात् ॥ २२ ॥
तद्यथा-
स्ववामे भूमौ हूङ्कारगर्भं त्रिकोणं विलिख्यार्घ्यपात्रं
संस्थाप्य मूलेन शुद्धजलादिना शङ्खादिपात्रमापूर्य,
गन्धादिकं दत्त्वा, ॐ गङ्गे चेत्यादिना तीर्थमावाह्य, मं
वह्निमण्डलाय दशकलात्मने नमः इत्याधारं, अं
सूर्यमण्डलाय द्वादशकलात्मने नमः इति शङ्खम्, उं
सोममण्डलाय षोडशकलात्मने नमः इति जलं सम्पूज्य, ॐ
ह्रां हृदयाय नमः, ॐ ह्रीं शिरसे स्वाहा, ॐ ह्रूं शिखायै
वषट् ॐ ह्रैं कवचाय हुम् इत्यग्नीशासुरवायुषु ।
अग्र ॐ ह्रौं नेत्रत्रयाय वौषट्, चतुर्दिक्षु ॐ ह्रः अस्त्राय फट् ।
इत्यभ्यर्च्य तदुपरि मत्स्यमुद्रयाच्छाद्य मूलं दशधा जप्त्वा
धेनुमुद्रयामृतीकृत्यास्त्रेण संरक्ष्य, भूतिनीयोनिमुद्रे
प्रदर्श्य, तज्जलं किञ्चित्प्रोक्षणीपात्रे निक्षिप्य, मूलेन
तेनोदकेनात्मानं पूजोपकरणञ्चाभ्युक्ष्य,
पीठपूजामारभेत् ॥ २३ ॥
अस्याः पूजायन्त्रम्-
आदौ विन्दुं स्वबीजं भुवनेशीञ्च विलिख्य, ततस्त्रिकोणं तद्वाह्ये
त्रिकोणचतुष्टयं वृत्तमष्टदलं पद्मं पुनर्वृत्तं
चतुर्द्वारात्मकं भूगृहं लिखेत् ।
(चित्र ३४-क) ।
तदुक्तं कालीतन्त्रे-
आदौ त्रिकोणमालिख्य त्रिकोणं तद्बहिर्लिखेत् ।
ततो वै विलिखेन्मन्त्री त्रिकोणत्रयमुत्तमम् ।
ततो वृत्तं समालिख्य लिखेदष्टदलं ततः ।
वृत्तं विलिख्य विधिवल्लिखेद्भूपुरमेककमम् ।
तथा कुमारीकल्पे-
मध्ये तु वैन्दवं चक्रं बीजमायाविभूषितमिति ॥ २४ ॥
विशेषाधारो मुण्डमालायाम्
अथ विशेषाधारो मुण्डमालायाम्-
ताम्रपात्रे कपाले वा श्मशानकाष्ठनिर्मिते ।
शनिभौमदिने वापि शरीरे मृतसम्भवे ।
स्वर्णे रौप्येऽथ लौहे वा चक्रं कार्यं विधानतः ॥ २५ ॥
यन्त्रान्तरमाह तन्त्रे-
शक्त्याग्निभ्याञ्च षट्कोणं शक्तिभिश्च नवात्मकम् ।
पद्मे वसुदले भूमिपूश्चतुर्द्वार-संयुते इति ॥ २६ ॥ (चित्र ३४-ख)
ततः पीठपूजा ।
कुमारीकल्पे-
पीठपूजां ततः कुर्यादाधारशक्तिपूर्वकम् ।
प्रकृति कमठं चैव शेषं पृथ्वीं तथैव च ।
सुधाम्बुधिं मणिद्वीपं चिन्तामणिगृहं तथा ।
श्मशानं पारिजातञ्च तन्मूले रत्नवेदिकाम् ।
तस्योपरि मणेः पीठं न्यसेत् साधकसत्तमः ।
चतुर्दिक्षु मुनीन् देवान् शिवाश्चैव समुण्डकाः ।
धर्माद्यधर्मादींश्चेत्यादि ह्रीं ज्ञानात्मने नमः ।
इत्यन्तं सम्पूज्य, केशरेषु पूर्वादिक्रमेण पूजयेत् ।
इच्छा ज्ञाना क्रिया चैव कामिनी कामदायिनी ।
रतीरतिप्रिया नन्दा मध्ये चैव मनोन्मनी ।
सर्वत्र प्रणवादिनमोऽन्तेन पूजयेत् ।
तदुपरि ह्सौः सदाशिवमहाप्रेतपद्मासनाय नमः ।
पीठस्योत्तरे गुरुपङ्क्तिपूजा ॥ २७ ॥
ततः पुनर्ध्यात्वा, पुष्पाञ्जलावानीय,
मूलमन्त्रकल्पितमूर्तावावाहयेत् ।
ॐ देवेशि भक्तिसुलभे परिवारसमन्विते यावत्त्वां पूजयिष्यामि
तावत्वं सुस्थिरा भव ।
ततो मूलमुच्चार्यामुकि देवि इहावह इहावह इह तिष्ठ तिष्ठ इह
सन्निरुध्यस्व इह सन्निहिता भव ।
ततो हुमित्यवगुण्ठ्याङ्गमन्त्रैः सकलीकृत्य, धेनुमुद्रया
अमृतीकृत्य, परमीकरणमुद्रया परमीकृत्य,
भूतिन्याकर्षिणीयोनिमुद्राः प्रदर्श्य, प्राणप्रतिष्ठां विधाय,
मूलेन पाद्यादिभिः पूजयेत् ॥ २८ ॥
तत्र क्रमः-
आदौ मूलमुच्चार्य एतत्पाद्यम् अमुकदेवतायै नमः ।
एवमर्घ्यं स्वाहा ।
इदमाचमनीयं स्वधा ।
स्नानीयं निवेदयामि ।
पुनराचमनीयं स्वधा ।
एष गन्धो नमः ।
एतानि पुष्पाणि वौषट् ।
ततो मूलेन पञ्चपुष्पाञ्जलिं दत्त्वा धूपदीपौ दद्यात् ।
वनस्पतीत्यादि पठन्मूलमुच्चार्य एष धूपो नमः ।
दीपमन्त्रस्तु-
सुप्रकाशो महादीपः सर्वतस्तिमिरापहः ।
सवाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ।
मूलमुच्चार्य एष दीपो नमः ।
तत ॐ जयध्वनि मन्त्रमातः स्वाहेति घण्टां सम्पूज्य,
वामहस्तेन वादयन्, नीचैर्धूपं दत्त्वा दृष्टिपर्यन्तं दीपं
दद्यात् ।
ततो मूलेन पुष्पाञ्जलित्रयं दत्त्वा यथोपपन्नं नैवेद्यं
दद्यात् ॥ २९ ॥
तत आवरणपूजां कुर्यात् ।
श्री-अमुकि देवि आवरणं ते पूजयामि इत्याज्ञां गृहीत्वा,
केशरेषु अग्न्यादिकोणेषु ॐ ह्रां हृदयाय नमः ।
ईशाने ॐ ह्रीं शिरसे स्वाहा ।
नैर्-ऋते ॐ ह्रूं शिखायै वषट् ।
वायौ ॐ ह्रैं कवचाय हुम् ।
अग्रे ॐ ह्रौं नेत्रत्रयाय वौषट् ।
चतुर्दिक्षु ॐ ह्रः अस्त्राय फट् ।
ततः वहिः षट्कोणे ॐ काल्यै नमः ।
सर्वत्र प्रणवादिनमोऽन्तेन पूजयेत् ।
एवं कपालिन्यै कुल्वायै कुरुकुल्वायै विरोधिन्यै विप्रचित्तायै ।
प्रथमत्र्यस्रे उग्रायै, उग्रप्रभायै, दीप्तायै, ।
द्वितीयत्र्यस्रे ॐ नीलायै एवं घनायै वलाकयै ।
तृतीयत्र्यस्रे एवं मात्रायै, मुद्रायै, मितायै ।
तथा च-
कालीं कपालिनीं कुल्वां कुरुकुल्वां विरोधिनीम् ।
विप्रचित्तां पूजयेच्च वहिःषट्कोणके बुधः उग्रामुग्रप्रभां
दीप्तां तन्मध्ये च त्रिकोणके ।
नीलां घनां बलाकाञ्च मध्ये त्रिकोणके यजेत् ।
मात्रां मुद्रां मिताञ्चैव पूजयेदपरे त्रिके ।
इति ।
सर्वाः श्यामा असिकरा मुण्डमालाविभूषिताः ।
तर्जनीं वामहस्तेन धारयन्त्यः शुचिस्मिताः ।
दिगम्बरा हसन्मुख्यं स्वस्ववाहनभूषिताः ।
एवं ध्यात्वा अर्चयेत् ।
ततोऽष्टपत्रेषु पूर्वादिक्रमेण ॐ ब्राह्म्यै नमः, एवं
नारायण्यै, माहेश्वर्यै, चामुण्डायै, कौमार्यै, अपराजितायै,
वाराह्यै, नारसिंह्यै ।
एता गन्धादिभिः पूजयेत् ।
पत्रात्रे असिताङ्गादिभैवरान्पूजयेत् ।
ततो मूलेन पुष्पाञ्जलित्रयं दत्त्वा पाद्यादिना देव्या दक्षिणे
महाकालं पूजयेत् ॥ ३० ॥
तस्य ध्यानम्-
महाकाल यजेद्देव्या दक्षिणे धूम्रवर्णकम् ।
विभ्रतं दण्डखट्टाङ्गौ दंष्ट्राभीममुखं शिशुम् ।
व्याघ्रचर्मावृतकटिं तुन्दिलं रक्तवाससम् ।
त्रिनेत्रमूर्ध्वकेशञ्च मुण्डमालाविभूषितम् ।
जटाभारलसच्चन्द्रखण्डमुग्रं ज्वलन्निभम् ॥ ३१ ॥
तथा च कुमारीकल्पे-
देव्यास्तु दक्षिणे भागे महाकालं प्रपूजयेत् ।
हूं क्ष्रौं यां रां लां वाम् आं क्रों महाकालभैरवं
सर्वविघ्नान्नाशय नाशय ह्रीं श्रीं फट् स्वाहा ।
इत्यनेन पाद्यादिभिराराध्य त्रिस्तर्पयित्वा मूलेन देवीं
पञ्चापचोरैः पूजयेत् ॥ ३२ ॥
तथा च कालीतन्त्रे-
महाकालं यजेद्यत्नात्पश्चाद्देवीं प्रपूजयेत् ।
कालीकल्पे-
कवचं क्ष्रौं समुद्धृत्य यां रां लां वाम् आं क्रोन्ततः ।
महाकालभैरवेति सर्वविघ्नान्नाशयेति च ।
नाशयेति पुनः प्रोच्य मायां लक्ष्मीं समुद्धरेत् ।
फट्स्वाहया समायुक्तो मन्त्रः सर्वार्थसाधकः ॥ ३३ ॥
ततो देव्या अस्त्र पूजयेत् ।
तथा च कालीहृदये-
देवीवामोर्ध्वाधोहस्ते खड्गं मुण्डञ्च पूजयेत् ।
देव्या दक्षहस्तोर्ध्वाधः पूजयेदभयं वरम् ।
ततो देवीं ध्यात्वा यथाशक्ति जप्त्वागुह्यातीत्यादिना देव्या
वामहस्ते जपं समर्प्य आत्मसमर्पणं कुर्यात् ॥
तथा च स्वतन्त्रे-
ततः पुनर्मूलदेवीं मुद्रातर्पणपूजनैः अर्चयित्वा जपं कृत्वा
नत्वा विसर्जयेधृदि ।
ततः स्तुत्वा, प्रदक्षिणीकृत्याष्टाङ्गप्रणामं कृत्वा,
श्रीजगन्मङ्गलं नाम कवचं पठेत् ।
तत आवरणदेवता देव्या अङ्गे विलाप्य, संहारमुद्रया अमुकि देवि
क्षमस्व इति विसृज्य, तत्तेजः पुष्पेण समं स्वहृद्यारोपयेत् ।
ॐ उत्तरे शिखरे देवि भूम्यां पर्वतवासिनि ।
ब्रह्मयोनिसमुत्पन्ने गच्छ देवि ममान्तरमिति मन्त्रेण ॥ ३४ ॥
ततस्तन्नैवेद्यं किञ्चिदुच्छिष्टचाण्डालिन्यै नमः इत्यैशान्यां
दिशि दत्त्वा, शेषमिष्टेभ्यो दत्त्वा, किञ्चित् स्वीकृत्य, पादोदकं
पीत्वा, निर्माल्यं शिरसि विधृत्य, यथेच्छं विहरेदिति ॥ ३५ ॥
ततो यन्त्रलेपं वामहस्ते कृत्वा सव्यहस्तकनिष्ठया मायाबीजं
विलिख्य तया तिलकं कुर्यात् ।
तथा च-
वामे कृत्वा यन्त्रलेपं मायां सव्यकनिष्ठया ।
विलिख्य तिलकं कुर्यान्मन्त्रेणानेन साधकः ।
ॐ यं यं स्पृशामि पादाभ्यां यो मां पश्यति चक्षुषा ।
स एव दासतां यातु राजानो दुष्टदस्यवः ।
जपकाले च कर्पूरयुक्ता जिह्वा कार्या ।
तथा च-
कर्पूराढ्या सदा जिह्वा कर्त्तव्या जपकर्मणि, इति विश्वसारवचनात्
।
इदं काम्यजप एवेति ॥ ३६ ॥
ततो मूलेनाष्टोत्तरशताभिमन्त्रितं पुष्पं चन्दनञ्च धृत्वा
त्रैलोक्यं वशमानयेत् ।
सर्वसिद्धियुतो भूत्वा भैरवो वत्सराद्भवेत् ॥ ३७ ॥
अस्य पुरश्चरणं लक्षद्वयजपः ।
तथा च कालीतन्त्रे-
लक्षमेकं जपेन्मन्त्री हविष्याशी दिवा शुचिः ।
रात्रौ ताम्बूलपूरास्यः शय्यायां लक्षमानतः ।
व्यवस्थामाह स्वतन्त्रे-
दिवा लक्षं शुचिर्भूत्वा हविष्याशी जपेन्नरः ।
ततस्तत्तद्दशांशेन होमयेद्धविषा प्रिये ॥ ३८ ॥
अत्राङ्गस्य कालान्तरमाह नीलसारस्वते-
लक्षमेकं जपेन्मन्त्रं हविष्याशी दिवा शुचिः ।
अशुचिश्च तथा रात्रौ लक्षमेकं तथैव च ।
दशांशं होमयेन्मन्त्री तर्पयेदभिषेचयेत् ।
इति साम्प्रदायिकाः ।
वस्तुतस्तु कुमारीकल्पे-
लक्षमेकं जपेद्विद्यां हविष्याशी दिवा शुचिः ।
रात्रौ ताम्बूलपूरास्यः शय्यायां लक्षमानतः ॥ ३९ ॥
एवं लक्षद्वयं जप्त्वा तद्दशांशेन मन्त्रवित् ।
अयुतं होमयेद्देवि दिवारात्रिविभेदतः ।
तेन दिवा लक्षं जप्त्वा तद्दशांशं होमं कुर्यात् ॥ ४० ॥ रात्रौ
लक्षं जप्त्वा रात्रौ तद्दशांशं होमं कुर्यादिति रहस्यार्थः ॥
४०क ॥
रात्रिजपे तु कालो मुण्डमालायाम्-
गते तु प्रथमे यामे तृतीय प्रहरावधि ।
निशायान्तु प्रजप्तव्यं रात्रिशेषे जपेन्न हि ।
अस्य पुरश्चरणं लक्षजपश्च पूर्णानन्दमतेन ।
अत्रेदं बोध्यं विप्राणान्तु दिवा लक्षजपमात्रेणैव
पुरश्चरणम् ।
तथा च फेत्कारीये-
द्विजातीनाञ्च सर्वेषां दिवाविधरिहोच्यते ।
शूद्राणाञ्च तथा प्रोक्तं रात्राविष्टं महाफलम् ॥ ४१ ॥
कालीरहस्येऽपि-
दिवैव प्रजपेन्मन्त्रं लक्षमेकं शुचिर्द्विजः पूर्णानन्दमतेन
लक्षजपे पुरश्चरणं तत् सन्दिग्धमतं, नानातन्त्रे
लक्षद्वयदर्शनात् लक्षद्वयेनैव पुरश्चरणं सिद्धमिति ।
अन्यत्र च-
दिवैव प्रजपेन्मन्त्रं न तु रात्रौ कदाचन ।
श्यामायाः पुरश्चरणाङ्गब्राह्मणभोजनं हविष्यान्तेन
कारयितव्यम् ॥ ४२ ॥
तथा च विश्वसारे-
लक्षमेकं जपेद्विद्यां हविष्याशी दिवाशुचिः ।
ततस्तु तद्दशांशेन होमयेद्धविषा प्रिये ।
तर्पयेत्तद्दशांशेन तीर्थतोयेन पार्वतीम् ।
मधुना वा सितामिश्रतोयेन परमेश्वरि ।
देवीञ्चाभिषिञ्चेत्तोयैस्तर्पणस्य दशांशतः ।
तद्दशांशं हविष्यान्नैर्भक्तितो भोजयेद्द्विजाम् ।
कालीमन्त्रविदो मन्त्री दक्षिणां गुरवे दिशेत् ।
पाशवं कथितं कल्पं शृणु वीरं ततः प्रिये ।
रात्रौ ताम्बूलपूरास्यः शय्यायां लक्षमानतः ।
जप्त्वा समाहितो मन्त्री होमयेत् कल्पितानले ।
कालीकूलार्णवे-
पाशवेन तु कल्पेन लक्षं जप्यात् समाहितः ।
दिव्यगुरुमुखाल्लब्ध्वा कालिकां दिव्यरूपिणीम् ।
लक्षं जप्यात्सदा मन्त्री वीरकल्पेन साधकः ।
विश्वसारे-
प्रजपेत् परया भक्त्या लक्षमेकं दिवानिशम् ।
यत्त कुमारीकल्पे-
लक्षमेकं जपेन्मन्त्रं हविष्याशी दिवा शुचिः ।
रात्रौ ताम्बूलपूरास्यः शय्यायां लक्षमानतः ।
(एवं लक्षद्वयं जप्त्वा तद्दशांशेन मन्त्रवित् ।
इति वचनात् लक्षद्वयस्य विशिष्टस्य पुरश्चरणमिति ।
तन्न, पूर्वोक्तवचनविरोधात् ।
एतद्वचनस्य पुरश्चरणद्वये तात्पर्यम् ॥ ४२क ॥)
अथ मन्त्रभेदाः-
वर्गाद्यं वह्निसंयुक्तं रतिविन्दुविभूषितम् ।
एकाक्षरो महामन्त्रः सर्वकामफलप्रदः ॥ ४३ ॥
त्रिगुणा तु विशेषेण सर्वशास्त्रप्रबोधिनी ॥ ४४ ॥
अनयोः पूजाप्रयोगः-
प्रातः कृत्यादि प्राणायामान्तं विधाय, पूर्वोक्त
ऋषिच्छन्दोदेवता विन्यस्य, वर्णन्यासं कृत्वा, कराङ्गन्यासौ
कुर्यात् ।
यथा-
ॐ क्राम् अङ्गुष्ठाभ्यां नमः ।
ॐ क्रीं तर्जनीभ्यां स्वाहा इत्यादि ।
एवं ॐ क्रां हृदयाय नमः इत्यादि ॥ ४५ ॥
तथा च वीरतन्त्रे-
दीर्घषट्कयुताद्येन प्रणवाद्येन कल्पयेत् ।
षडङ्गानि मनोरस्य जातियुक्तेन देशिकः ।
अन्यत् सर्वं पूर्ववत् कार्यम् ॥ ४६ ॥
एकाक्षरस्य ध्यानं सिद्धेश्वरतन्त्रे-
शवारूढां महाभीमां घोरदंष्ट्रां वरप्रदाम् ।
हास्ययुक्तां त्रिनेत्राञ्च कपालकर्तृकाकराम् ।
मुक्तकेशीं ललज्जिह्वां पिबन्तीं रुधिरं मुहुः ।
चतुर्बाहुयुतां देवीं वराभयकरां स्मरेत् ॥ ४७ ॥
अनयोः पुरश्चरणं लक्षजपः ।
तथा च सिद्धेश्वरतन्त्रे-
एवं ध्यात्वा जपेन्मन्त्रं लक्षमेकं विधानतः ।
तद्दशांशविधानेन होमयेत् साधकोत्तमः ॥ ४८ ॥
कुलचूडमणौ-
एवं ध्यात्वा जपेन्मन्त्रं हविष्याषी दिवा शुचिः ।
लक्षं रात्रौ तथा लक्षं महाशौचपरायणः ॥ ४९ ॥
रात्रौ जपैकमात्रेण दक्षिणा सिद्धिदा भवेत् ॥ ५० ॥
मन्त्रान्तरम्
कालीतन्त्रे-
विद्यारत्नं प्रवक्ष्यामि शृणुष्व कमलानने ।
मायाद्वयं कूर्चयुग्मैन्द्रान्तं मादनत्रयम् ।
मायाद्विन्द्वीश्वरयुतं दक्षिणे कालिके पदम् ।
संहारक्रमयोगेन बीजसप्तकमुद्धरेत् ।
एकविंशाक्षरी ज्ञेयस्ताराद्यः कालिकामनुः ।
इन्द्रस्य समीपम् ऐन्द्रं रेफः ॥ ५१ ॥
तथा च तन्त्रे-
माये क्रोधौ त्रयः कामा वह्न्यन्ते रतिसंयुताः ।
विन्दुयुक्ता महेशानि सम्बोधनपदद्वयम् ।
सप्तबीजानि संहारैः स्वाहान्तः प्रणवादिकः ॥ ५२ ॥
इत्यत्र स्फुटमाह ।
तथा च-
प्रणवं मायाद्वयं कूर्चद्वयं निजबीजत्रयं दक्षिणे कालिके
निजबीजत्रयम् ।
कूर्चद्वयं मायाद्वयम् इत्येकविंशाक्षरः ।
अस्याः पूजादिकं दक्षिणावत् कार्यम् ।
पुरश्चरणन्तु लक्षजपः तन्त्रोक्तत्वात् ।
होमस्तु तद्दशांशतः ॥ ५३ ॥
विश्वसारे-
स्वाहान्तश्च त्रयोविंशत्यक्षरो मन्त्रराजकः ।
विना प्रणवं देवेशि द्वाविंशत्यक्षरी भवेत् ।
स्वाहां विना चैकविंशत्यक्षरः कामदो मौः ।
विंशत्यर्णा महाविद्या स्वाहाप्रणववर्जिता ।
ध्यानपूजादिकं सर्वं दक्षिणावदुपाचरेत् ॥ ५४ ॥
भैरवतन्त्रे-
कामबीजद्वयं देवि दीर्घहूङ्कारमेव च ।
त्र्यक्षरी सा महाविद्या चामुण्डा कालिका स्मृता ॥ ५५ ॥
तन्त्रे-
अथ वक्ष्ये महाविद्यां सिद्धविद्यां मयोदयाम् ।
भैरवेण पुरा प्रोक्ता कालीहृदयसञ्ज्ञिता ।
अस्या ज्ञानप्रभावेण कलयामि जगत्त्रयम् ॥ ५६ ॥
प्रणवं पूर्वमुद्धृत्य हृल्लेखाबीजमुद्धरेत् ।
रतिबीजं समुद्धृत्य प-पञ्चमभगान्वितम् ।
ठद्वयेन समायुक्ता विद्याराज्ञी प्रकीर्तिता ।
रतिबीजं निजबीजम् ।
तथा च चामुण्डातन्त्रे-
रत्याद्या कालिका पातु द्वाविंशाक्षररूपिणी ।
इति चामुण्डातन्त्रस्थ-कवचप्रतिपादनात् ।
तेन प्रणवो मायाबीजं निजबीजं प-पञ्चमो मकारः भग
एकारः वह्निवल्लभा ॥ ५७ ॥
अस्य पूजाप्रयोगः-
प्रातःकृत्यादि प्राणायामान्तं कर्म विधाय ऋष्यादिन्यासं
कुर्यात् ।
यथा-
अस्य मन्त्रस्य भैरव-ऋषिर्विराट्छन्दः सिद्धकाली ब्रह्मरूपा
भुवनेश्वरी देवता निजबीजं बीजं लज्जाबीजं शक्तिः ।
वर्णन्यासकराङ्गन्यासौ च दक्षिणावत् ॥ ५८ ॥
ध्यानन्तु-
खड्गाद्भिन्नेन्दुखण्डस्रवदमृतरसाप्लाविताङ्गी त्रिनेत्रा, सव्ये
पाणौ कपालाद् गलद्सृजमथो मुक्तकेशी पिबन्ती ।
दिग्वस्त्रा बद्धकाञ्ची मणिमयमुकुटाद्यैर्युता, दीप्तजिह्वा,
पायान्नील्लोत्पलाभा रविशशिविलसत्कुण्डलालीढपादा ।
एवं ध्यात्वा दक्षिणावत् सर्वं कार्यम् ॥ ५९ ॥
पुरश्चरणन्तु एकविंशतिसहस्रजपः ।
तदुक्तं कालीतन्त्रे-
जपेद्विंशतिसाहस्त्र्यं सहस्रैकेन संयुतम् ।
होमयेत्तद्दशांशेन मृदुपुष्पेण मन्त्रवित् ॥ ६० ॥
मन्त्रान्तरम्
विश्वसारे-
मूलबीजं ततो माया लज्जाबीजं ततः परम् ।
महाविद्या महाकाल्या महाकालेन भाषिता ॥ ६१ ॥
वर्गाद्यं वह्निसंयुक्तं रतिविन्दुसमन्वितम् ।
एतत्त्रयं वह्निवल्लभा ॥ ६२ ॥
निजबीजत्रयं फट् वह्निवल्लभा ॥ ६३ ॥
निजबीजत्रयं कूर्चं लज्जा पुनस्तान्येव वह्निवल्लभा ॥ ६४ ॥
वाग्भवं नमो मूलबीजं पुनस्तदेव कालिकायै वह्निवल्लभा ॥
६५ ॥
एतासां पूजाप्रयोगः-
प्रातःकृत्यादि प्राणायामान्तं विधाय ऋष्यादिन्यासं कुर्यात् ।
यथा दक्षिणामूर्तिर्-ऋषिः पङ्क्तिश्छन्दः कालिका देवाता ।
शिरसि दक्षिणामूर्ति-ऋषये नमः ।
मुखे पङ्क्तिच्छन्दसे नमः ।
हृदि कालिकायै देवतायै नमः ॥ ६६ ॥
ततो ध्यानम्-
चतुर्भुजा कृष्णवर्णा मुण्डमालाविभूषिता ।
खड्गञ्च दक्षिणे पाणौ विभ्रतीन्दीवरद्वयम् ।
कर्त्रीञ्च खर्परञ्चैव क्रमाद्वामेन विभ्रती ।
द्यां लिखन्तीं जटामेकां विभ्रती शिरसा स्वयम् ।
मुण्डमालाधरा शीर्षे ग्रीवायामथ चापरम् ।
वक्षसा नागहारञ्चविभ्रती रक्तलोचना ।
कृष्णवस्त्रधरा कट्यां व्याघ्राजिनसमन्विता ।
वामपादं शवहृदि संस्थाप्य दक्षिणं पदम् ।
विलाप्य सिंहपृष्ठे तु लेलिहाना शवं स्वयम् ।
साट्टहासा महाघोररावयुक्ता सुभीषणा ।
एवं ध्यात्वा अन्यत् सर्वं दक्षिणावत् कुर्यात् ।
पूर्वोक्तानां मन्त्राणां सर्वं दक्षिणावत् कार्यम् ॥ ६७ ॥
अस्य पुरश्चरणं लक्षद्वयजपः ।
अन्यासां मन्त्रवर्णसङ्ख्यलक्षजपः ॥ ६८ ॥
निजबीजद्वयं मायाद्वयं दक्षिण-कालिके वह्निवल्लभा ॥ ६९ ॥
निजं कूर्चं लज्जा दक्षिणे कालिके फट् ॥ ७० ॥
मूलबीजद्वयं कूर्चद्वयं लज्जाद्वयं दक्षिणे कालिके
पूर्वषड्बीजानि वह्निवल्लभा ॥ ७१ ॥
एतासां पूजाप्रयोगः-
प्रातःकृत्यादिप्राणायामान्तं विधाय ऋष्यादिन्यासं कुर्यात् ।
एतासां दक्षिणामूर्तिर्-ऋषिः पङ्क्तिश्छन्दः दक्षिणकालिका
देवता ।
अन्यत् सर्वं दक्षिणावत् ॥ ७२ ॥
निजबीजं वह्निवल्लभा ।
भैरवोऽस्य ऋषिः ॥ ७३ ॥
निजबीजद्वयं कूर्चद्वयं लज्जायुगं वह्निवल्लभा ॥ ७४ ॥
निजबीजं कूर्चं लज्जा वह्निवल्लभा ।
अस्य पञ्चवक्त्र ऋषिः ॥ ७५ ॥
मूलत्रयं कूर्चद्वयं लज्जाद्वयं वह्निवल्लभा ॥ ७६ ॥
मूलबीजं दक्षिणे कालिके वह्निवल्लभा ॥ ७७ ॥
निजबीजं कूर्चद्वयं मायां पुनस्तानि वह्निवल्लभा ॥ ७८ ॥
मूलद्वयं कूर्चद्वयं लज्जाद्वयं पुनस्तान्येव वह्निवल्लभा ॥
७९ ॥
निजबीजत्रयं लज्जाद्वयं कूर्चद्वयं पुनस्तान्येव वह्निवल्लभा
॥ ८० ॥
हृदयं वाग्भवं मूलद्वयं कालिकायै ठद्वयम् ॥ ८१ ॥
हृदयं पाशद्वयम् अङ्कुशद्वयं फट् स्वाहा कालिके कूर्चम् ॥
८२ ॥
एतासाम् ऋष्यादिकं पूजादिकञ्च दक्षिणावत् ।
पुरश्चरणं लक्षजपः ॥ ८३ ॥
एतासां विद्यानां प्रमाणं विश्वसारे-
अथ पञ्चाक्षरीं वक्ष्ये शृणुष्व कमलानने ।
प्रजापतिं समुद्धृत्य वह्न्यारूढं ततः प्रिये ।
चतुर्थस्वरसंयुक्तं नादविन्दुविभूषितम् ।
बीजमत्रयं क्रमेणैव तदन्ते वह्निसुन्दरी ।
पञ्चाक्षरी महाविद्या कथिता पद्मयोनिना ।
षडक्षरीं महाकालीं वक्ष्यामि शृणु पार्वति ।
बीजत्रयं समुद्धृत्य अस्त्रमन्त्रं समुद्धरेत् ।
वह्निजायावधिः प्रोक्ता विद्या त्रैलोक्यमोहिनी ।
अष्टाक्षरी महाविद्या कथ्यते परमेश्वरि ।
बीजत्रयं क्रमेणैव पुनर्बीजत्रयं सुधीः ।
स्वाहान्ता कथिता विद्या चतुर्वर्गफलप्रदा ।
एकादशाक्षरी विद्या कथ्यते परमेश्वरि ।
वाग्भवं हृदयं पश्चाद्वह्न्यारूढं प्रजापतिम् ।
चतुर्थस्वरसंयुक्तं विन्दुनादविभूषितम् ।
द्विगुणञ्च ततः कृत्वा ङेऽन्तञ्च कालिकापदम् ।
स्वाहान्ता कथिता विद्या प्रिये एकादशाक्षरी ।
ऋषिः स्याद्दक्षिणामूर्त्तिश्छन्दः पङ्क्तिरुदाहृतम् ।
परात्परतरा शक्तिः कालिका देवता स्मृता ।
एकादशाक्षरी विद्या कालिकायाः सुदुर्लभा ।
लक्षद्वयं जपेद्विद्यां पुरश्चरणकर्मणि ।
अन्यासां वर्णलक्षं स्यात् कथितं पद्मयोनिना ।
अन्यासामुक्तपञ्चाक्षरीप्रभृतीनाम् ।
अस्या ध्यानम्-
चतुर्भुजां कृष्णवर्णामित्यादि ॥ ८४ ॥
मूलबीजं ततो मायां लज्जाबीजं ततः परम् ।
दक्षिणे कालिके चेति तदन्ते वह्निसुन्दरी ।
एकादशाक्षरी काली चतुर्वर्गफलप्रदा ॥ ८५ ॥
दशाक्षरी महाविद्या चतुर्वर्गफलप्रदा ।
कवचं मूलबीजाद्यं तदन्ते भुवनेश्वरी ।
दक्षिणे कालिके चेति अस्त्रान्ता समुदीरिता ॥ ८६ ॥
अथापरां प्रवक्ष्यामि विद्यां विंशतिवर्णिकाम् ।
यस्याः प्रसादमात्रेण भवेद्भूमिपुरन्दरः ।
मूलबीजद्वयं ब्रूयात्ततः कूर्चद्वयं वदेत् ।
लज्जाद्वयं समुद्धृत्य सम्बुद्ध्यन्तपदद्वयम् ।
पूर्ववत्षट् तथा बीजान्यन्ते च वह्निसुन्दरी ॥ ८७ ॥
ऋषिः स्याद्दक्षिणामूर्तिः पङ्क्तिश्छन्द उदाहृतम् ।
देवता कथिता सद्भिः काली दक्षिणपूर्विका ॥ ८८ ॥
अथापरां प्रवक्ष्यामि विद्यां त्रिभुवनेश्वरीम् ।
निजबीजं समुद्धृत्य तदन्ते वह्निसुन्दरी ।
भैरवोऽस्य ऋषिः प्रोक्तः सर्वतन्त्रसमन्वितः ॥ ८९ ॥
अष्टाक्षरी तु या प्रोक्ता सर्वतन्त्रेषु गोपिता ।
निजबीजद्वयं कूर्चद्वयं लज्जाद्वयं ततः ।
स्वाहान्ता कथिता विद्या सर्वकामफलप्रदा ॥ ९० ॥
निजं कूर्चं तथा लज्जा तदन्ते वह्निसुन्दरी ।
पञ्चाक्षरी महाविद्या पञ्चवक्त्र-ऋषिः स्मृतः ॥ ९१ ॥
नवाक्षरीं महाविद्यां शृणुष्व कमलानने ।
निजबीजत्रयं कूर्चयुग्मं लज्जायुगं ततः ।
स्वाहान्ता कथिता विद्या सर्वसम्पत्करी मता ॥ ९२ ॥
अथापरां प्रवक्ष्यामि विद्यां ताञ्च नवाक्षरीम् ।
मूलबीजं समुद्धृत्य सम्बुद्ध्यन्तपदद्वयम् ।
स्वाहान्ता कथिता विद्या सर्वशत्रुक्षयङ्करी ॥ ९३ ॥
अथ चाष्टाक्षरीं विद्यां शृणुष्व कमलानने ।
निजबीजं ततः कूर्चं ततो मायां समुद्धरेत् ।
पुनस्तानि समुद्धृत्य स्वाहान्ता मोक्षदायिनी ।
अथापरां प्रवक्ष्यामि दशतत्त्वसमन्विताम् ।
मूलद्वयं कूर्चयुग्मं तथा लज्जाद्वयं ततः ॥ ९४ ॥
पुनस्तान्येव बीजानि तदन्ते वह्निसुन्दरी ।
चतुर्दशाक्षरी विद्या चतुर्वर्गफलप्रदा ॥ ९५ ॥
ब्रह्मत्रयं समुद्धृत्य रतिवह्नि-समन्वितम् ।
नादविन्दुसमायुक्तं लज्जाकूर्चद्वयं ततः ।
पुनः क्रमेण चोद्धृत्य वह्निजायावधिर्मनुः ।
षोडशीयं समाख्याता विद्या कल्पद्रुमोपमा ॥ ९६ ॥
मायातन्त्रे-
हृदयं वाग्भवं देवि निजबीजयुगं ततः ।
कालिकायै पदं चोक्त्वा तदन्ते वह्निसुन्दरी ॥ ९७ ॥
तन्त्रान्तरे-
नमः पाशाङ्कुशौ द्वेधा फट् स्वाहा कालि कालिके ।
दीर्घतनुच्छदं कालीमनुः पञ्चदशाक्षरः ॥ ९८ ॥
एतासां पूजनं देवि दक्षिणावत्सुरेश्वरि ।
लक्षसङ्ख्यं जपं कुर्यात्पुरश्चरणसिद्धये ॥ ९९ ॥
एतासां पूजायन्त्रं कालीतन्त्रे-
आदौ त्रिकोणं विन्यस्य त्रिकोणं तद्वहिर्न्यसेत् ।
ततो वै विलिखेन्मन्त्री त्रिकोणत्रयमुत्तमम् ।
ततो वृत्तं समालिख्य लिखेदष्टदलं ततः ।
वृत्तं विलिख्य विधिबल्लिखेद्भूपुरमेककम् ।
कुमारीकल्पे-
मध्ये तु वैन्दवं चक्रं बीजमायाविभूषितम् ॥ १०० ॥
अथ गुह्यकाली -
विश्वसारे-
अथ वक्ष्ये महेशानि विद्यां सर्वफलप्रदाम् ।
चतुर्वर्गप्रदां साक्षान्महापातकनाशिनीम् ।
सर्वसिद्धिप्रदां नित्यां भुक्तिमुक्तिप्रदायिनीम् ।
गुह्यकालीं महाविद्यां त्रैलोक्य चातिदुर्लभाम् ॥ १ ॥
इन्द्रादिरूढं वर्गाद्यं रतिविन्दुसमन्वितम् ।
त्रिगुणञ्च ततः कृत्वा ईशानञ्च समुद्धरेत् ।
षष्ठस्वरसमायुक्तं नादविन्दुकलान्वितम् ।
द्विगुणञ्च ततः कृत्वा ईशानद्वयमुद्धरेत् ।
वामाक्षिवह्निसंयुक्तं नादविन्दुकलायुतम् ।
तद्गृह्ये कालिके प्रोक्त्वा चाथवा दक्षिणे वदेत् ।
सप्तबीज ततः पूर्वक्रमेण योजयेत्ततः ।
वह्निजायावधिः प्रोक्ता विद्या त्रैलोक्यमोहिनी ।
अथवेत्वि गुह्ये कालिके बीजद्वयं दक्षिणे कालिके वा मन्त्रः ॥ २ ॥
कामबीजं ततः कूर्चं तदन्ते भुवनेश्वरी ।
गुह्ये च कालिके चेति तथा बीजद्वयं भवेत् ।
स्वाहान्ता कथिता विद्या सर्वतन्त्रेषु गोपिता ।
एषा तु षोडशी प्रोक्ता चतुर्वर्गफलप्रदा (गुह्यकाल्यादि यन्त्रम्
चित्र ३५) ।
अस्यार्थः-
आदौ निजबीजं ततः कूर्चं माया ततः सम्बोधनपदद्वयम् ।
ततो निजबीजद्वयं कूर्चद्वयं मायाद्वयं वह्निवल्लभा ।
कामबीजद्वयं हित्वा भवेविद्या चतुर्दशी ।
अस्य मन्त्रस्येति शेषः ॥ ३ ॥
सप्तबीजं पुरा प्रोक्तं गुह्येऽन्ते कालिके पुनः ।
स्वाहान्ता कथिता विद्या सर्वतन्त्रेषु गोपिता ।
एषापि चतुर्दशाक्षरी ।
अस्या नामादिपदं हित्वा चेत्तदा दक्षिणे पञ्चदशाक्षरी ।
तथा च-
दक्षिणे पदमाभाष्य भवेत् पञ्चदशाक्षरी ॥ ४ ॥
तथा-
कामबीजं परित्यज्य षोडशाक्षरी ॥ ४ ॥
एतेन षोडशाक्षर विद्यायाः कामबीजाभावेन पञ्चदशाक्षरी
भवति ॥ ५ ॥
कामबीजं समुद्धृत्य सम्बुद्ध्यन्तपदद्वयम् ।
पुनः कामं तदन्ते च दद्याद्वह्नेश्च सुन्दरीम् ।
एषा नवाक्षरी विद्या गुह्यकाल्याः समीरिता ।
दक्षिणे पदमाभाष्य भवेद्विद्या दशाक्षरी ॥ ६ ॥
एतासां पूजनन्तु तत्रैव ।
पूर्ववन्न्यासवर्गन्तु पूर्ववत्पूजयेच्छिवाम् ।
पूर्ववच्च जपेद्विद्यां सर्व-पूर्ववदेव हि ।
बलिदानं पूर्ववत्परिकल्पयेत् ॥ ७ ॥
बलिमन्त्रस्तु-
एह्येहि जगन्मातर्जगतां जननि गृह्ण हृह्ण मम बलिं सिद्धिं
देहि देहि शत्रुक्षयं कुरु कुरु हूं हूं ह्रीं ह्रीं फट् फट् ॐ
कालिकायै नमः फट् स्वाहा ।
यद्वा, गुह्याकाल्या अयं बलिमन्त्रः-
एह्येहि गुह्यकालि मम बलिं गृह्ण गृह्ण मम शत्रून् नाशय
नाशय खादय खादय स्फुर स्फुर छिन्दि छिन्दि सिद्धिं देहि हूं
फट् स्वाहा ।
तथायं वा आसनमन्त्रः-
ॐ सदाशिवमहाप्रेताय गुह्यकाल्यासनाय नमः ॥ ९ ॥
भद्रकालीमन्त्राः-
भद्रकाल्यादयो विद्याः कथ्यन्ते शृणु पार्वति ।
कामबीजादिकं बीजं सर्वं पूर्वापरे यजेत् ।
भद्रकालीं तथा ङेऽन्तां बीजमध्ये नियोजयेत् ।
स्वाहान्ता कथिता विद्या विशद्वर्णात्मिका परा ।
चतुर्वर्गप्रदा विद्या भद्रकाली शुभावहा ॥ १० ॥
सप्तबीजं समुद्धृत्य श्मशानकालि चेत्तथा ।
पुनर्बीजं क्रमेणैव स्वाहान्ता सर्वसिद्धिदा ।
विंशत्येकाधिका विद्या श्मशानकालिका मता ॥ ११ ॥
बीजानि चोच्चरेत्पूर्वं महाकालिपदं ततः ।
तदन्ते सप्तबीजानि स्वाहान्ता सर्वसिद्धिदा ।
विंशत्यर्णा महाविद्या महाकाल्याः प्रकीर्तिता ॥ १२ ॥
एतासां पूजनं जपश्च दक्षिणावत् ।
विशेषस्तु भूपुरे इन्द्रादीन्वज्रादींश्च पूजयेत् ।
भूपुरस्य पूर्वादि चतुर्द्वारे ॐ विष्णवे नमः, ॐ शिवाय नमः ॐ
सूर्याय नमः, ॐ गणेशाय नमः इति पूजयेत् ।
तद्यथा,-
भूगृहे लोकपालांश्च तदस्त्राणि च तद्वहिः ।
भूपुरे च चतुर्दिक्षु पूजयेत् क्रमतः सुधीः ।
विष्णुं शिवं तथा सूर्य गणेशं पूजयेत्ततः ॥ १३ ॥
पूजा यन्त्रम्-
त्रिकोणञ्चैव षट्कोणं नवकोणं मनोहरम् ।
त्रिवृत्तं साष्टपत्रञ्च सकिञ्जल्कसमन्वितम् ।
भूपुरत्रितयारूढं योनिमण्डलमण्डितम् ।
त्रिपञ्चारमिदं प्रोक्तं सर्वतन्त्रे प्रकीर्तितम् ।
त्रिकोणं त्रिकोणाकारमित्यर्थः ॥ १४ ॥ (चित्र ३५) ।
ध्यानन्तु-
महामेघप्रभां देवीं कृष्णवस्त्रपिधायिनीम् ।
लोलजिह्वां घोरदंष्ट्रां कोटराक्षीं हसन्मुखीम् ।
नागहारलतोपेतां चन्द्रार्द्धकृतशेखराम् ।
द्यां लिखन्तीं जटामेकां लेलिहानासर्व स्वयम् ।
नागयज्ञोपवीताङ्गीं नागशय्यानिषेदुषीम् ।
पञ्चाशन्मुण्डसंयुक्तवनमालां महोदरीम् ।
सहस्रफण संयुक्तमनन्तं शिरसोपरि ।
चतुर्दिक्षु नागफणावेष्टितां गुह्यकालिकाम् ।
तक्षकसर्पराजेन वामकङ्कणभूषिताम् ।
अनन्तनागराजेन कृतदक्षिणकङ्कणाम् ।
नागेन रशनाहारकल्पितां रत्ननूपुराम् ।
वामे शिवस्वरूपन्तत्कल्पितं वत्सरूपम् ।
द्विभुजां चिन्तयेद्देवीं नागज्ञोपवीतिनीम् ।
नरदेहसमाबद्धकुण्डलश्रुतिमण्डिताम् ।
प्रसन्नवदनां सौम्यां नवरत्नविभूषिताम् ॥ १५ ॥
नारदाद्यैमुनिगणैः सेवितां शिवमोहिनीम् ।
अट्टहासां महाभीमां साधकाभीष्टदायिनीम् ।
द्यां लिखन्तीं जटामेकाम् इति धारयन्तीमिति शेषः ।
अनन्तं शिरसोपरि दधतीमिति शेषः ।
गुह्येत्युपलक्षणम् ॥ १५ क ॥
इति श्यामाप्रकरणम् ॥
अथ तारामन्त्राः -
अथ मन्त्रान् प्रवक्ष्यामि तारिण्याः सर्वसिद्धिदान् ।
येषां विज्ञानमात्रेण जीवन्मुक्तस्तु साधकः ॥ १ ॥
कवितां लभते शुद्धामनर्गलविजृम्भिणीम् ।
पाण्डित्यं सर्वशास्त्रेषु धनैर्धनपतिर्भवेत् ॥ २ ॥
राजद्वारे सभायाञ्च विवादे व्यवहारके ।
सर्वत्र जयमाप्नोति बृहस्पतिरिवापरः ॥ ३ ॥
मायाबीजं समुद्धृत्य तकारं वह्निसंयुतम् ।
मायाविन्द्वीशरयुतं द्वितीयं बीजमुद्धृतम् ।
कूर्चबीजं तृतीयं स्यात् फट्कारस्तदनन्तरम् ।
सम्पूर्णसिद्धमन्त्रस्तु रश्मिपञ्चक संयुतः ।
रश्मिपञ्चकं वर्णपञ्चकमित्यर्थः ॥ ४ ॥
तथा-
लीलया वाक्प्रदा चेति तेन नीलसरस्वती ।
तारकत्वात् सदा तारा सुखमोक्षप्रदायिनी ।
उग्रापत्तारिणी यस्मादुग्रतारा प्रकीर्तिता ॥ ५ ॥
तारार्णवे-
वसिष्ठाराधिता विद्या न तु शीघ्रफला यतः ।
अतस्तेनापि मूनिना शापो दत्तः सुदारुणः ।
ततः प्रभृति विद्येयं फलदात्री न कस्यचित् ॥ ६ ॥
शापोद्धारमाह-
चन्द्रबीजं त्रपान्तस्थबीजोपरि नियोजितम् ।
ततः प्रभृति विद्येयं वधूरिव यशस्विनी ।
फलिनी सर्वविद्यानां जयिन जयकांशिणाम् ।
विषक्षयकरी विद्या अमृतत्वप्रदायिनी ।
मन्त्रस्य ज्ञानमात्रेण विजयी भुवि जायते ॥ ७ ॥
एकवीराकल्पे-
लज्जाबीजं वधूबीजं कूर्चबीजं तथा हि फट् ।
एवं पञ्चाक्षरी विद्या पञ्चभूतप्रकाशिनी ।
वधूबीजं स्त्रीङ्कारः ।
तथा च विश्वसारे-
सतरीञ्च महेशानि वधूबीजं प्रकीर्तितम् ॥ ८ ॥
तथा एकवीराकल्पे-
षोडशव्यञ्जनं वह्निवामाक्षिविन्दुभूषितम् ।
चन्द्रबीजसमारूढं वधूबीजम्मिदं स्मृतम् ।
चन्द्रः सकारः ॥ ९ ॥
नीलतन्त्रे-
ताराद्या पञ्चवर्णेयं तथा नीलसरस्वती ।
सर्वभाषामयी शुद्धा सर्वाम्नायैर्नमस्कृता ॥ १० ॥
तारार्णवे-
अणूत्तरं समुद्धृत्य मायोत्तरमतःपरम् ।
प-पञ्चमसमारूढं पञ्चरश्मिप्रकीर्तितम् ।
जीवनीमध्यगा पश्चादेकाक्षरी तदनन्तरम् ।
उग्रदर्पं ततो दद्यादस्त्रं देवि प्रकाशितम् ।
एकाक्षी स्त्रीं तेन सर्वत्र शापोद्धारः ॥ ११ ॥
पञ्चाक्षरीमधिकृत्य तन्त्रे-
श्रीबीजाद्या यदा विद्या तदा श्रीः सर्वतोमुखी ।
एषैव हि महाविद्या मायाद्या सकलेष्टदा ।
वाग्भवाद्या यदा विद्या वागीशत्वप्रदायिनी ।
वितारैकजटा चैषा महामुक्तिकरी सताम् ।
तारास्त्ररहिता त्र्यर्णा महानीलसरस्वती ।
कुल्लुकेयं समाख्याता सर्वतन्त्रेषु गोपिता ।
जीवनीमध्यगा माया ॥ १२ ॥
यथा सङ्केतचन्द्रोदये-
हृल्लेखा भुवनेश्वरी च भुवना देवीश्वरी ह्रीं महामाया
जीवनमध्यगा त्रिजगतां धात्री परेशी परा इति ।
एषा क्रमागता प्राप्ता मतभेदादनेकधा ।
एषा पञ्चाक्षरी ॥ १३ ॥
तदेवाह-
पञ्चाक्षरी एकजटा ताराभावे महेश्वरी ।
ताराद्या तु भवेद्देवि श्रीमन्नीलसरस्वती ।
उग्रतारा त्र्यक्षरी च महानीलसरस्वती ।
अन्यासां विद्यानाम् एकजटैव देवथा प्रकृतित्वात् ॥ १४ ॥
एतासां विद्यानां साधनस्थानं नीलतन्त्रे महाफेत्कारीये च-
एकलिङ्गे श्मशाने वा शून्यागारे चतुष्पथे ।
शवस्योपरि मुण्डे वा जले वाकण्ठपूरिते ।
सङ्ग्रामभूमौ यानौ वा स्थले वा विजने वने ।
तत्रस्थः साधयेद्योगी विद्यां त्रिभुवनेश्वरीम् ॥ १५ ॥
तत्रैव-
पञ्चक्रोशान्तरे यत्र न लिङ्गान्तरमीक्षते ।
तदेव लिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा ॥ १६ ॥
अन्यत्रापि उज्जटे पर्वते वापि निर्जने वा चतुष्पथे ।
देवागारे च शून्ये च निर्जनैकान्तवेश्मनि ॥ १७ ॥
वीरतन्त्रेऽपि-
शून्यागारे श्मशाने यदि जपति जडस्त्वेकलिङ्गे तडागे,
गङ्गागर्भे गिरौ वा शुचिरमलमतिः सर्वदा भक्तियुतः ।
विद्यां श्रीनीलबाण्या भुवनजनपतिः सर्वशास्त्रार्थवेत्ता,
देहान्ते योगिमुख्यः परमसुखपदं ब्रह्मनिर्वाणमेति ॥ १८ ॥
अथ ताराचमनम् ।
भैरवतन्त्रे-
ताराभेदैस्त्रिभिः पीत्वा मायया क्षालयेत्करम् ।
स्त्रीं हूमोष्ठौ द्विरुन्मृज्य फट्कारैः क्षालयेत्करम् ।
आस्यनासेक्षण-श्रोत्र-नाभिवक्षःशिरोभुजान् ।
वैरोचनादिभिः स्पृष्ट्वा सर्वपापैः प्रमुच्यते ।
आचम्य भैरवो भूत्वा वत्सरात्तां प्रपश्यति ।
ताराभेदैरिति उग्रतारैकजटानीलसरस्वतीभेदैः ॥ १९ ॥
वैरोचनादयस्तु-
वैरोचन-शङ्ख-पाण्डव-पद्मनाभामिताभ-नामक-
मामक-तावक-(पाण्डर-असिताभ)-पद्मान्तक-यमान्तक-
विघ्नान्तक-नरान्तकाः ।
सचतुर्थीप्रणवादिनमोऽन्तकाः ॥ २० ॥
अथास्याः पूजाप्रयोगः ।
प्रातःकृत्यादिस्नानान्तं समाप्य यागस्थानं गत्वा, ॐ वज्रोदके
हूं फट् स्वाहेतिमन्त्रेण जलमधिष्ठाय, तज्जलं पूजार्थं
विधाय, किञ्चिदन्यजले निःक्षिप्य, तेनैव वारिणा ॐ ह्री
विशुद्धसर्वपापानि शमयाशेषविकल्पमपनय हूं फट्
स्वाहेति हस्तौ पादौ च प्रक्षाल्य
कुलकुशान्सुवर्णरजतरूपान्यथाक्रमं तर्जन्यनामासु दत्त्वा ॐ
ह्रीं स्वाहेत्याचम्य, पीठं चिन्तयेत् ॥
विषेषः कुमारीतन्त्रे-
स्नानाच्च तीर उत्थाय वस्त्रे द्वे परिधाय च ।
तिलकं कुलवत्कृत्वा आचम्यैवं सुरेश्वरि ।
तथा-
जलशङ्खं करे कृत्वा गत्वा द्वारि महेश्वरि ।
क्षालयेद्धस्तपादौ च वक्ष्यमाणेन वर्त्मना ।
मत्स्यसूक्ते-
तारं वज्रोदके हूं फट् स्वाहा जलमधिष्ठितम् ॥
तथा-
तारं लज्जाविशुद्धान्ते सर्वपानि चैव हि ।
शमयान्ते स्वशेषान्ते विकल्पपदमुच्चरेत् ।
अपनयान्ते धर्म फट् स्वाहा पदविशुद्धये ।
तारं माया च वह्निजाया स्मृतमाचमने मनुः ।
कुलकुशास्तु-
सुवर्णं रजतञ्चैव जपपूजादिकर्मसु ।
कुशकार्यकरं प्रोक्तं न तु वन्याः कुशाः कुशाः ।
तर्जन्या रजतं धार्यं स्वर्णं धार्यमनामया ।
पीठं यथा-
श्मशानं तत्र सञ्चिन्त्य तत्र कल्पद्रुमं स्मरेत् ।
तन्मूले मणिपीठञ्च नाना-मणिविभूषितम् ।
नानालङ्कारभूषाढ्यं मुनिदेवैश्च भूषितम् ।
शिवाभिर्बहुमांसास्थिमोदमानाभिरन्ततः ।
चतुर्दिक्षु शवमुण्डचिताङ्गारास्थिभूषितम् ।
तन्मध्ये भावयेद्देवं यथोक्तध्यानयोगतः ।
इति ध्यात्वा ॐ मणिधरि वज्रिणि महाप्रतिसरे रक्ष रक्ष हूं फट्
स्वाहा इति शिखां वध्नीयात् ।
ॐ रक्ष रक्ष हूं फट् स्वाहेति जलसेकाद्भूमिं शोधयेत् ।
ॐ सर्वान् विघ्नानुत्सारय हूं फट् स्वाहेति नाराचमुद्रया
अक्षतप्रक्षेपेण त्रिविधविघ्नान् ।
दिव्यान्तरीक्षभौमानुत्सारयेत् ।
ॐ पवित्रवज्रभूमे हूं फट् स्वाहा इति भूमिमभिमन्त्र्य तत्र
कम्बलकोमलविष्टराद्यासनानि यथा साधनान्यास्तीर्य, ॐ आः
सुरेखे वज्ररेखे हूं फट् स्वाहेति पुष्पादिना तदभ्यर्च्य,
स्वस्तिकादिक्रमेण तत्रोपविशेत् ॥ २१ ॥
तदुक्तं मतस्यसूक्ते-
मृदुकोमलमासीनश्चान्येषु कम्बलेषु च ।
विष्टरं वा समासीनः साधयेत्सिद्धिमुत्तमाम् ।
कोमलादिलक्षणमाह श्रीक्रमे-
पञ्चवर्णान्तरं यावन्मृतं बालमचूडकम् ।
षण्मासानन्तरं यावद्दशमासाच्च पूर्वतः ।
गर्भयुतं मृतं बालं गर्भाष्टमपुरःसरम् ।
एतत्कोमलमित्याहुर्विष्टरेषु कुशेषु वा ।
तथा च नीलतन्त्रे-
निवृत्तचूडको बालो हीनोपनयनः पुमान् ।
यो मृतः पञ्चमे वर्षे तमेव कोमलं विदुः ।
पञ्चमे वर्षे पञ्चमवर्षपूर्णे ।
आसनपरिमाणमाह-
एकहस्तं द्विहस्तं वा चतुरस्रं समन्ततः ।
विशुद्धे आसने कुर्यात्सङ्कारं पूजनं ततः ।
कृष्णसारव्याघ्राद्यजिनमप्यासनम् ।
तदुक्तं तन्त्रे-
कृष्णसारद्वीपिचर्म अचूडमित्यादि ।
विष्टरेष्वित्यादि ।
कुशपत्रशतेन वटुकं निर्माय तत्र शवप्राणप्रतिष्ठां कुर्यात्
।
तथा-
ओङ्कारम् आः सुरेखे वज्ररेखे ततः परम् ।
हूं फट् स्वाहेति कुर्यात्तु मण्डलन्तु शवासने ।
वीरासनेनोपविश्य सम्पूज्यासनमेव च ।
चतुरस्रं चतुर्द्वारमेवं मण्डलमालिखेत् ।
ततः ॐ मणिधरि वज्रिणि महाप्रतिसरे रक्ष रक्ष हूं फट् स्वाहा
इति वस्त्रान्ते रक्षाग्रन्थिं बन्धयेत् ।
ॐ आः हूं फट् स्वाहा इति व्यापकतया कायवाक्चित्तं शोधयेत् ।
ॐ पुष्पकेतुराजार्हते शताय सम्यक्सम्बन्धाय ॐ पुष्पे पुष्पे
महापुष्पे सुपुष्पे पुष्पभूषिते ।
पुष्पचयावकीर्णे हूं फट् स्वाहेति पुष्पमभिमन्त्रयेत् ।
ततः सुवर्णादिपीठे गोरोचनाकुङ्कुमादिलिप्ते ॐ आः सुरेखे
वज्ररेखे हूं फट् स्वाहेति
मन्त्रेणाधोमुखत्रिकोणगर्भाष्टदलपद्मं वृत्तं चतुरस्रं
चतुर्द्वारयुक्तं यन्त्रमुद्धरेत् ।
पद्मस्य पूर्वादिदले मन्त्राक्षराणि लिखेत् ॥ २१क ॥ (चित्र ३६)
तथा च कुलचुडामणौ-
ततः कुलरसेनैव पीठं निर्माय यत्नतः ।
आः सुरेखे वज्ररेखे हुं-फट् स्वाहासमन्वितम् ।
मन्त्रेणानेन संलिख्य वसुपत्रं मनोरमम् ।
चतुरस्रं चतुर्द्वारमेवं मण्डलमालिखेत् ।
कुलरसेन स्वयम्भूरसेन ॥ २१ ख ॥
वर्णलिखनप्रकारमाह-फेत्कारीये-
स्वयोनिं चन्दनेनाष्टदलं वृत्तं लिखेत्ततः ।
मृद्वासनं समासाद्य मायां पूर्वदले लिखेत् ।
मध्यबीजं द्वितीये फमुत्तरे पश्चिमे तु टम् ।
मध्ये बीजं लिखेत्तारं भूतशुद्धिमथाचरेत् ।
द्वितीये दक्षिणे तारं हूकारं ताराप्रणवत्वात् ।
टं पश्चिमे भागे कूर्चं पत्रान्ते भूपुरद्वयमिति ।
भेरवीयवाक्याच्च ।
मध्ये षट्कोणान्वितपद्ममिति केचित् ।
तदुक्तम्-
षट्कोणान्तर्गतं पद्मं भूविम्बद्वित्तयं पुनः ।
चतुरस्रं चतुर्द्वारमेवं वा यन्त्रमालिखेत् ।
बीजलिखनन्तु पूर्ववत् ॥ २२ ॥
नीलतन्त्रेऽपि सारस्वतार्थिनां विशेषयन्त्रमाह-
व्योमेन्द्वौ रसनार्णं कर्णिकमचां द्वन्द्वैः स्फुरत्केशरं,
वर्गोल्लासिवसुच्छदं वसुमतीगेहेन सवेष्टितम् ।
ताराधीश्वरवारिवर्णविलसद्दिक्कोणसंशोभितं, यन्त्रं
नीलतनोः परं निगदितं सर्वार्थसिद्धिप्रदम् ॥ २३ ॥
एवं वा यन्त्रं विखिख्य पीठमर्चयेत् ।
(चित्र ३७)
तथा च कुमारीकल्पे-
ततोऽर्घ्यपात्रं विन्यस्य द्वारपालान् समर्चयेत् ।
गाम्बीजाद्यं गणेशानं वामाद्यं वटुकं तथा ।
क्षामाद्यं क्षेत्रपालञ्च यामाद्यां योगिनीं तथा ।
पूर्वे पश्चिमे दक्षिणे उत्तरे पूजयेत् सुधीः ।
सर्वत्र प्रणवादिनमोऽन्तेन पूजयेत् ॥ २४ ॥
तन्त्रे-
ते सर्वे ध्रुवदीर्घाढ्याः शक्तिबीजपुरःसराः ।
यथा-
पीठस्य पूर्वद्वारे ॐ ह्रीं गां गणेशाय नमः, पीठस्य
दक्षिणे ॐ ह्रीं वां वटुकाय नमः, पीठस्य पश्चिमे ॐ ह्रीं
क्षां क्षेत्रपालाय नमः ।
पीठस्योत्तरे ॐ ह्रीं यां योगिनीभ्यो नमः ।
मध्ये ॐ श्मशानाय नमः, ॐ कल्पवृक्षाय नमः ।
तन्मूले मणिपीठाय नमः ।
एवं नानालङ्कारेभ्यो नमः ।
नाना मुनिभ्यः, नानादेवेभ्यः,
बहुमांसास्थिमोदमानशिवाभ्यः ।
चतुर्दिक्षु शवमुण्डचिताङ्गारास्थिभ्यः ।
ततोऽग्न्याद्यष्टदलेषु ॐ लक्ष्म्यै नमः एवं सरस्वत्यै रत्यै
प्रीत्यै कीर्त्यै शान्त्यै तुष्ट्यै पुष्ट्यै; मध्ये ह्सौः
सदाशिवमहाप्रेतपद्मासनाय नमः ।
तदुक्तं सिद्धसारस्वते-
लक्ष्मीः सरस्वती चैव रतिः प्रीतिस्तथैव च ।
कीर्तिः शान्तिश्च तुष्टिश्च पुष्टिरित्यष्टशक्तयः ।
देव्या नीलसरस्वत्याः पठीशक्तय ईरिताः ।
वीरतन्त्रे-
तन्मध्ये पूजयेद्देव्या वाहनं शवमेव च ॥ २५ ॥
ततो भूतशुद्धिं कुर्यात् ।
तद्यथा-
स्वाङ्के उत्तानौ करौ कृत्वा हंस इति मन्त्रेण कुलकुण्डलिनीं
जीवात्मानं वैलोम्येन चतुर्विंशतितत्त्वानि सुषुम्नावर्त्मना
शिरोऽवस्थित परमात्मनि परमशिवे संयोज्य, ह्रीङ्कारं
रक्तवर्णं नाभौ ध्यायन, पूरकेण तस्य षोडशवारजपेन
तदुद्भूतेनाग्निना लिङ्गशरीरं सन्दह्य, स्त्रीङ्कारं,
पीतवर्णं हृदि विचिन्त्य, कुम्भकेन तस्य चतुःषष्टिवारजपेन
तदुद्भूतेन वायुना भस्म प्रोत्सार्य, हूङ्कारं श्वेतवर्णं
शिरसि विचिन्त्य, रेचकेण तस्य द्वात्रिन्द्वारजपेन
तदुद्भूतेनामृतेन तदस्थि प्लावितं कृत्वा, समस्तमपगतव्यथं
विश्वं शरीरमाप्लावयेत् ।
तथा च श्रुतिः-
षट्त्रिंशत्तत्त्वानि शरीरमिति ।
तत आत्मानमपगतव्यथं निर्मलं देवताऽभेदेन विचिन्तयेत् ।
तस्मिन् विश्वव्यापके वारिणि आः-कराद्रक्तपङ्कजं तदुपरि
टाङ्कारात्श्वेतपङ्कजं तदुपरि नीलसन्निभं हूङ्कारं
ध्यात्वा तदुपरि हूङ्कारभूषितां कर्तृकां ध्यायेत् ॥ २६ ॥
तदुपरि देवतां ध्यात्वा, आं ह्रीं क्रों स्वाहेत्येकादशवारं
जपन् प्राणान् प्रतिष्ठाप्य ध्यायेत ।
तदुक्तं फेत्कारीये-
मायां नाभौ रक्तवर्णं ध्यात्वा तज्जातवह्निना ।
शुक्लं कर्मात्मकं देहं दग्धं सञ्चिन्तयेत्ततः ।
स्त्रीङ्कारं हृदि पीताभं तदुद्भूतेन वायुना ।
भस्म प्रोत्सारितं कृत्वा ललाटे चिन्तयेत्ततः ।
कूर्चं तुषारवर्णाभं तदुद्भूतामृतेन च ।
तदस्थि प्लावितं कृत्वा तदात्मानं विचिन्तयेत् ।
सर्वव्यथाविनिर्मुक्तं निर्मलं देवतामयम् ।
भूतशुद्धिं विधायेत्थं शून्यं विश्वं विचिन्तयेत् ।
निर्लेपं निर्गुणं शुद्धमात्मानं देवतामयम् ।
अन्तरीक्षे ततो ध्यायेदाःकाराद्रक्तपङ्कजम् ।
भूयस्तस्योपरि ध्यायेत् टाङ्कारात् श्वेतपङ्कजम् ।
तस्योपरि पुनर्ध्यायेत् हूङ्कारं नीलसन्निभम् ।
ततो हूङ्कारजां पश्येत् कर्तृकां बीजभूषिताम् ।
कर्तृकोपरि ध्यायेदात्मानं तारिणीमयम् ॥ २६क ॥
प्रत्यालीढपदां घोरां मुण्डमाला-विभूषिताम् ।
खर्वां लम्बोदरीं भीमां व्याघ्रचर्मावृतां कटौ ।
नवयौवनसम्पन्नां पञ्चमुद्राविभूषिताम् ।
चतुर्भुजां ललज्जिह्वां महाभीमां वरप्रदाम् ।
खड्गकर्तृसमायुक्त सव्येतरभुजद्वयाम् ।
कपालोत्पल-संयुक्त-सव्यपाणि-युगान्विताम् ।
पिङ्गोग्रैकजटां ध्यायेन्मौलावक्षोभ्यभूषिताम् ।
बालार्कमण्डलाकार लोचनत्रयभूषिताम् ।
ज्वलच्चितामध्यगतां घोरदंष्ट्रां करालिनीम् ।
सावेशस्मेरवदनां स्त्र्यलङ्कारविभूषिताम् ।
विश्वव्यापकतोयान्तःश्वेतपद्मोपरि स्थिताम् ।
अक्षोभ्यो देवीमूर्द्धन्यस्त्रिमूर्तिनागरूपधृक् ।
पञ्चमुद्राविभूषितामिति ललाटे श्वेतास्थि-पट्टिकाचतुष्टयान्वित
� कपालपञ्चकभूषितामित्यर्थः ।
श्वेतास्थिपट्टिकायुक्त-कपालपञ्चशोभितामिति तन्त्रचूडामणौ ।
श्रीशङ्कराचार्येणाप्युक्तम्-
विचित्रास्थिमालां ललाटे करालां कपालञ्च पञ्चान्वितं
धारयन्तीमिति ॥ २७ ॥
ततः प्राणायामः-
वामनासपुटे मूलं चतुर्वारं जप्त्वा वायुं पूरयेत् ।
तदनु नासापुटौ धृत्वा षोडशवारेण कुम्भयेत् ।
तदनु दक्षिणनासापुटेन वाराष्टकावर्तेन रेचयेत् ।
पुनर्दक्षिणेनापूर्य कुम्भयित्वा वामेन रेचयेत् ।
पुनर्वामेनापूर्य कुम्भयित्वा दक्षिणेन रेचयेत् ।
इति प्राणायामत्रयं भवति ॥ २८ ॥
ततः ऋष्यादिन्यासः-
शिरसि अक्षोभ्य-ऋषये नमः ।
मुखे वृहतीच्छन्दसे नमः ।
हृदि श्रीमदेकजटायै नमः ।
मूलाधारे हूं बीजाय नमः ।
पादयोः फट् शक्तये नमः ।
शेषाण्यक्षराण्युच्चार्य सर्वाङ्गे कीलकाय नमः ।
तथा च वीरतन्त्रे-
अक्षोभ्य-ऋषिरेतस्या वृहतीच्छन्द ईरितम् ।
नीलसरस्वती देवी त्रिषु लोकेषु गोपिता ।
हूं बीजं मन्त्रशक्तिः स्याच्चतुर्वर्गफलप्रदा ॥ २९ ॥
ततः कालीतन्त्रोक्तमातृकान्यासः ।
तथा चोक्तम्-
यथा काली तथा नीला तत्क्रमान्मातृकां न्यसेत् ।
तद्यथा ।
अम् आम् इम् ईम् उम् ऊम् ऋ ॠम् ऌं ॡं नमो हृदि ।
एम् ऐं ॐ औम् अम् अः कं खं गं घं नमो दक्षभुजे ।
ङं चं छं जं झं ञं टं ठं डं ढं नमो
वामभुजे ।
णं तं थं दं धं नं पं फं बं भं नमो
दक्षिणजङ्घायाम् ।
मं यं रं लं वं शं षं सं हं लं क्षं नमो
वामजङ्घायाम् ॥ ३० ॥
ततः कराङ्गन्यासौ-
ह्राम् अखिलवाग्रूपिण्यै अङ्गुष्ठाभ्यां नमः ह्रीम्
अखण्डवाग्रूपिण्यै तर्जनीभ्यां स्वाहा ।
ह्रूं ब्रह्मवाग्रूपिण्यै मध्यमाभ्यां वषट् ।
ह्रैं विष्णुवाग्रूपिण्यै अनामिकाभ्यां हूम् ।
ह्रौं रुद्रवाग्रूपिण्यै कनिष्ठाभ्यां वौषट् ।
ह्रः सर्ववाग्रूपिण्यै करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु ।
अङ्गुलिनियमस्तु पूर्वम् एवोक्तः ।
अयन्तु नीलसरस्वतीपक्षे ।
तथा च तामधिकृत्य सिद्धसारस्वते-
अखिलवाग्रूपिणीं प्रोच्य हृदयाय नमो वदेत् ।
वाग्रूपिणीति शिरसे वह्निवल्लभा ।
ब्रह्मवाग्रूपिणीमुक्त्वा शिखायै वषडित्यपि ।
विष्णुवाग्रूपिणीं प्रोच्य कवचाय हूमुच्चरेत् ।
रुद्रवाग्रूपिणीं नेत्रत्रयाय वौषडित्यपि ।
सर्ववाग्रूपिणीमुक्त्वा अस्त्राय फडिति स्मरेत् ॥ ३१ ॥
षड्दीर्घभाजबीजान्ते ङेऽन्तं नामाभियोजयेत् ।
अयन्तु नीलसरस्वतीपक्षे ।
अन्यत्र तु ह्राम् एकजटायै अङ्गुष्ठाभ्यां नमः ।
ह्रीं तारिण्यै तर्जनीभ्यां स्वाहा ।
ह्रूं वज्रोदके मध्यमाभ्यां वषट् ।
ह्रैम् उग्रजटे अनामिकाभ्यां हूम् ।
ह्रौं महाप्रतिसरे कनिष्ठाभ्यां वौषट् ।
ह्रः पिङ्गोग्रैकजटे करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु ।
तथा च एकजटामधिकृत्य नीलतन्त्रे-
बीजान्ते एकजटायै हृदयं परिकीर्तितम् ।
तारिण्यै शिरसे तद्वद्वज्रोदके शिखा तथा ।
उग्रजटे तु कवचं महाप्रतिसरे तथा ।
पिङ्गोग्रैकजटे तद्वन्नेत्रास्त्रे परिकीर्तिते ।
षड्दीर्घभाजबीजान्ते ङेऽन्तं नामाभियोजयेत् ॥ ३१क ॥
अनुक्तत्वादत्र पीठन्यासमातृकान्यासौ न लिखितौ ।
तथा च फेत्कारीये-
अत्रोक्तमाचरेत् सम्यक्नान्यत् सञ्चारयेद्बुधः ।
ततः फलार्थिना ताराषोढान्यासः कर्त्तव्यः ॥ ३२ ॥ ताराषोढां
प्रवक्ष्यामि सर्वतन्त्रेषु गोपिताम् ।
सर्वविघ्नोपशमनीं सर्वपापप्रणाशिनीम् ॥ ३३ ॥
महादारिद्र्यशमनीं सर्वसम्पत्प्रदायिनीम् ।
सर्वकामप्रदां नित्यं सर्वसाम्रज्यदायिनीम् ॥ ३४ ॥
शिष्याय भक्तियुक्ताय विनीताय महात्मने ।
वदान्याय कुलीनाय शुद्धाचाररताय च ॥ ३५ ॥
एवं विधाय देवेशि साधकाय प्रकाशयेत् ॥ ३६ ॥
अन्यथा सिद्धिहानिः स्यादित्याज्ञा शङ्करैः कृता ॥ ३७ ॥
रुद्रैस्तु प्रथमो न्यासो द्वितीयस्तु ग्रहैर्मतः ।
लोकपालैस्तृतीयः स्याच्छिवशक्त्या चतुर्थकः ।
तारादिभिः पञ्चमः स्यात् षष्ठः पीठैर्निगद्यते ।
एकेन सहिता रुद्राः पञ्चाशत् परिकीर्तिताः ॥ ३८ ॥
विन्दुयुक्तैर्मातृकार्णैस्त्र्यक्षरीबीजपूर्वकेः ।
ङेऽन्तैर्नमोन्तैर्देवेशि विन्यसेत्तान् क्रमात् सुधीः ।
तारिणी त्र्यक्षरी प्रोक्ता भवबन्धविनाशिनी ।
नीलवर्णां त्रिनयनां शवासनसमायुताम् ।
विभ्रतीं विविधां भूषां मौलावक्षोभ्यभूषिताम् ।
एवं ध्यात्वा तारिणीन्तु समाहितमनाश्चिरम् ॥ ३९ ॥
अथ रुद्रन्यासः-
ह्रीं स्त्रों ह्रूम् अं श्रीकण्ठेशाय नमः ।
इत्यादिना मातृकान्न्यसेत् ।
ह्रीं स्त्रीं हूम् आम् अनन्तेशाय नमः, ह्रीं स्त्रीं हूम् इं
सूक्ष्मेशाय नमः, ह्रीं स्त्रीं हूम् ईं त्रिमूर्तीशाय नमः,
ह्रीं स्त्रीं हूम् उम् अमरेशाय नमः ।
ह्रीं स्त्रीं हूम् ऊम् अर्घीशाय नमः ।
एवं ३ ऋं भारभूतीशाय , ३ ॠम् अतिथीशाय, ३ ऌं
स्थाणुकेशाय, ३ ॡं हरेशाय, ३ एं झिण्टीशाय, ३ ऐं
भौतिकेशाय, ३ ॐ सद्योजातेशाय, ३ औम् अनुग्रहेशाय, ३ अम्
अक्रूररेशाय, ३ अः महासेनेशाय, ३ कं क्रोधीशाय, ३ खं
चण्डेशाय, ३ गं पञ्चान्तकेशाय, ३ घं शिवोत्तमेशाय, ३
ङम् एकरुद्रेशाय, ३ चं कूर्मेशाय, ३ छम् एकनेत्रेशाय, ३ जं
चतुराननेशाय, ३ झम् अजेशाय, ३ ञं सर्वेशाय, ३ टं
सोमेशाय, ३ ठं लाङ्गलीशाय, ३ डं दारुकेशाय, ३ ढम्
अर्द्धनारीश्वरेशाय, ३ णम् उमाकान्तेशाय, ३ तम्
आषाढीशाय, ३ थं दण्डीशाय, ३ दम् अद्रीशाय, ३ धं
मीनेशाय, ३ नं मेषेशाय, ३ पं लोहितेशाय, ३ फं शिखीशाय,
३ बं छगलण्डेशाय, ३ भं द्विरण्डेशाय, ३ मं
महाकालेशाय, ३ यं बालीकाय, ३ रं भुजङ्गेशाय, ३ लं
पिनाकीशाय, ३ वं खड्गीशाय, ३शं वकेशाय, ३ यं
श्वेतेशाय, ३ सं भृग्वीशाय, ३ हं नकुलीशाय, ३ लं शिवेशाय,
३ क्षं संवर्तकेशाय ।
इति रुद्रन्यासः ॥ ४० ॥
अथ ग्रहन्यासः-
स्वरैर्हृदिन्यसेदर्कं रक्तं त्र्यक्षरपूर्वकैः ।
भ्रुवोर्मध्ये अवगण सोमं शुक्लन्तु विन्यसेत् ।
नेत्रत्रये कवर्गेण लोहितं मङ्गलं न्यसेत् ।
हृन्मण्डले तथा श्यामं चवर्गेण बुधं न्यसेत् ।
कण्ठकूपे पीतवर्णं टवर्गेण बृहस्पतिम् ।
पाण्डाराभं तवर्गेण शुक्रन्तु गलदेशके ।
नाभिदेशे नीलवर्णं पवर्गेण शनैश्चरम् ।
यवर्गेण धूर्मवर्णं राहुं वक्त्रेन्यसेत्ततः ।
लक्षाभ्यां गुददेशे च केतुं धूम्रं वरानने ॥ ४१ ॥
प्रयोगस्तु-
हृदि रक्तवर्णं सूर्यं ध्यात्वा ह्रीं स्त्रीं हूम् अं १६ सूर्याय
नमः ।
भ्रूमध्ये शुक्लवर्णं सोमं ध्यात्वा ३ यं रं लं वं
सोमाय नमः ।
नेत्रत्रये लोहितं मङ्गलं ध्यात्वा ३ कं खं गं घं ङं
मङ्गलाय नमः ।
हृदयमण्डले श्यामं बुधं ध्यात्वा ३ चं ५ बुधाय नमः ।
कण्ठकूपे पीतवर्णं बृहस्पतिं ध्यात्वा ३ टं ५ बृहस्पतये
नमः ।
गलदेशे पाण्डरं शुक्रं ध्यात्वा ३ तं ५ शुक्राय नमः ।
नाभिदेशे नीलवर्णं शनैश्चरं ध्यात्वा ३ पं ५ शनैश्चराय
नमः ।
मुखे धूम्रवर्णं राहुं ध्यात्वा ३ यं रं लं वं शं
षं सं हं राहवे नमः ।
गुदे धूम्रवर्णं केतुं ध्यात्वा ३ लं क्षं केतवे नमः ।
इति ग्रहन्यासः ॥ ४१ क ॥
अथ लोकपालन्यासः इन्द्रमग्निं यमं रक्षो वरुणं पवनं
विभुम् ।
ईशानमात्मनो मूर्ध्नि दिक्षु चाष्टास्वनुक्रमात् ।
अधोऽनन्तमूर्ध्वदेशे ब्रह्माणञ्च ततो न्यसेत् ।
ह्रस्वदीर्घस्वरैश्चाष्टवर्गेस्त्र्यक्षरपूर्वकेः ।
आत्मनो मूर्ध्नि देशेऽष्टदिक्ष्वध-ऊर्ध्वञ्च विन्यसेदित्यर्थः ।
तत्र प्रयोगः-
ह्रीं स्त्रीं हूम् अम् आं कं ५ इन्द्राय नमः ।
नमः सर्वत्र ।
३ इम् ईं चं ५ अग्नये ।
३ उम् ऊं टं ५ यमाय ।
३ ऋं ॠं तं ५ नैर्-ऋताय ।
३ ऌं ॡं पं ५ वरुणाय ।
एम् ऐं यं रं लं वं वायवे ।
३ ॐ औं शं षं सं हं कुबेराय ।
३ अम् अः लं क्षम् ईशानाय ।
३ अधः अनन्ताय ।
३ ऊर्ध्व ब्रह्मणे ।
इति लोकपालन्यासः ॥ ४२ ॥
अथ शिवशक्तिन्यासः-
ब्रह्मा विष्णुश्चरुद्रश्च ईश्वरश्च सदाशिवः ।
ततः परशिवो देवि षट्शिवाः परिकीर्तिताः ॥ ४३ ॥
मूलाधारे तु ब्रह्माणं डाकिनीसहितं न्यसेत् ।
सर्वत्र त्र्यक्षरीमुक्त्वा वादिसान्तं सविन्दुकम् ॥ ४४ ॥
स्वाधिष्ठानाख्यचक्रेण सविष्णुराकिणीं तथा ।
वादिलान्तं प्रविन्यस्य नाभौ तु मणिपूरके ॥ ४५ ॥
डादिफान्तार्णसहितं रुद्रञ्च लाकिनीन्तथा ।
अनाहते कादिठान्तम् ईश्वरं काकिनीं न्यसेत् ॥ ४६ ॥
विशुद्धाख्यमहाचक्रे षोडशस्वरसंयुतम् ।
सदाशिवं शाकिनीन्तु विन्यसेत्पूर्ववत्ततः ॥ ४७ ॥
आज्ञाचक्रे तु देवेशि हक्षवर्ण-समन्वितम् ।
परं शिवं ब्रह्मरूपं हाकिनीसहितं न्यसेत् ॥ ४८ ॥
अथ प्रयोगः-
मूलाधारे ह्रीं स्त्रीं हूं वं शं षं सं डाकिनी
सहितब्रह्मणे नमः ।
स्वाधिष्ठाने ३ वं भं मं यं रं लं वं
राकिणीसहितविष्णवे नमः ।
मणिपूरे ३ डं ढं णं तं थं दं धं नं पं फं
लाकिनीसहितरुद्राय नमः ।
अनाहते ३ कं खं गं घं ङं चं छं जं झं ञं टं
टं ठं काकिनीसहितेश्वराय नमः ।
विशुद्धाख्ये ३ अं १६ शाकिनीसहैतसदाशिवाय नमः ।
अज्ञाचक्रे ३ हं क्षं हाकिनीसहितपरशिवाय नमः ।
इति शिवशक्तिन्यासः ॥ ४९ ॥
अथ तारादिन्यासः-
तारा चोग्रा महोग्रा च वज्रा काली सरस्वती ।
कामेश्वरी च चामुण्डा इत्यष्टौ तारिणी मता ।
सर्वादौ तारिणीवर्णं समुच्चार्य क्रमेण तु ।
स्वरादिवसुवर्गेण भूषितेन च विन्दुना ।
ङेऽन्ता नमोऽन्ता न्यस्तव्यास्तराद्या ध्यानपूर्विकाः ।
ब्रह्मरन्ध्रे ललाटे च भ्रूमध्ये कण्ठगह्वरे ।
हृदये नाभिदेशे च लिङ्गे चाधारके न्यसेत् ।
प्रयोगस्तु-
ब्रह्मरन्ध्रे ह्रीं स्त्रीं हूम् अं १६ तारायै नमः ।
ललाटे ३ कं ५ उग्रायै नमः ।
भ्रूमध्ये ३ चं ५ महोग्रायै नमः ।
कण्ठगह्वरे ३ टं ५ वज्रायै नमः ।
हृदये ३ तं ५ काल्यै नमः ।
नाभिदेशे ३ पं ५ सरस्वत्यै नमः ।
लिङ्गे ३ यं रं लं वं कामेश्वर्यै नमः ।
मूलाधारे ३ शं षं सं हं लं क्षं चामुण्डायै नमः ।
इति तारादिन्यासः ॥ ५० ॥
अथ पीठन्यासः-
मूलाधारे कामरूपं हृदि जालन्धरं तथा ।
ललाटे पूर्णगिर्याख्यम् उड्डीयानं तदूर्ध्वके ।
वाराणसीं भ्रूवोर्मध्ये ज्वलन्तीं लोचनत्रये ।
मायावतीं मुखवृत्ते कण्ठे मधुपुरीं ततः ।
अयोध्यां नाभिदेशे च कट्यां काञ्चीं विनिर्दिशेत् ।
दशैतानि प्रधानानि पीठानि क्रमशो विदुः ।
ह्रस्वदीर्घस्वरैर्भिन्नैर्नमोऽन्तैः क्रमतो न्यसेत् ।
अथ प्रयोगः-
मूलाधारे ह्रीं स्त्रीं हूम् अम् आं कं ५ कामरूपीठाय
नमः ।
हृदि ३ इम् ईं चं जालन्धरपीठाय नमः ।
ललाटे ३ उम् ऊं टं ५ पूर्णगिरिपीठाय नमः ।
ललाटोर्ध्वे ३ ऋं ॠं तं ५ उड्डीयानपीठाय नमः ।
भ्रूवोर्मध्ये ३ ऌं ॡं पं ५ वाराणसीपीठाय नमः ।
लोचनत्रये ३ एम् ऐं यं रं लं वं ज्वलन्तीपीठाय नमः ।
मुखवृत्ते ३ ॐ औं शं षं सं हं मायावतीपीठाय नमः ।
कण्ठे ३ अम् अः लं क्षं मधुपुरीपीठाय नमः ।
नाभिदेशे ३ अयोध्यापीठाय नमः ।
कट्यां ३ काञ्चीपीठाय नमः ॥ ५१ ॥
इति षोडा प्रकथिता तारायाः सर्वसिद्धिदा ।
अक्षोभ्यः सर्वजन्तूनां न्यासस्यास्य प्रसादतः ॥ ५२ ॥
इति रुद्रयामले तारोषोडा समाप्ता ।
प्रकारान्तरम् ।
कालीतन्त्रे-
मन्त्रेणान्तरितान्कृत्वा षड्धा च मातृकां न्यसेत् ।
क्रमोत्क्रमाद्वरारोहे ताराषोढा प्रकीर्तिता ॥ ५३ ॥
कृतेऽस्मिन्न्यासवर्ये च सर्वं पापं प्रणश्यति ।
योगिनीनां भवेत्पूज्यः न देवो स तु मानुषः ॥ ५४ ॥
यं नमन्ति महेशानि षोढापुटितविग्रहाः ।
अल्पायुः स भवेत्सद्यो देवता कम्पते भिया ।
नास्त्यस्य पूज्यो लोकेषु पितृमातृमुखोज्ज्वलः ॥ ५५ ॥
तदुक्तं तन्त्रान्तरे-
न्यसेत्सर्गान्वितां सृष्ट्या हृत्या विन्द्वन्तिकां न्यसेत् ।
विन्दुसर्गान्वितां न्यस्येत् डाद्यर्णान् स्थितिवर्त्मना ॥ ५६ ॥
संहृतेर्दोडसंहारः सृष्टेस्तु सुतपुष्टयः ।
स्थितेस्तु शान्तिविन्यासस्तस्मात्कार्यस्त्रिधा मतः ॥ ५७ ॥
न्यासः संहारान्तो मस्करिवैखानसेषु विहितोऽयम् ।
स्थित्यन्तो गृहमेधिषु सृष्टयन्तो वर्णिमामिति प्राहुः ॥ ५८ ॥
वैराग्ययुजि गृहस्थे संहारान्तं केचिदाहुराचार्यः ।
सहजानौ वनवासिनि स्थितिञ्च विद्यार्थिनां सृष्टिम् ॥ ५९ ॥
एतेन सृष्टिस्थितिसंहृतिक्रमेण कर्त्तव्यम् ।
षडधा चेति सृष्टिस्थितित्याद्युत्क्रमेणेत्यर्थः ।
सृष्टिरकारादिक्षकारान्तः ।
स्थितिर्डादिठान्तः ।
संहृतिः क्षकाराद्यकारान्तः ॥ ६० ॥
अथ षोढान्तरम् ।
तदुक्तं यामले-
शृणु देवि प्रवक्ष्यामि गुह्यषोढार्त्वियं प्रिये ।
न प्रकाश्यमिदं क्वापि मन्त्रिणः कायशोधने ।
प्रणवं मातृकावर्णेः पुटितं मातृकास्थले ॥ ६१ ॥
तेनैव पुटितं वर्णं न्यसेत्तत्रैव पार्वति ।
मायाबीजं तथा देवि विन्यस्तव्यं प्रयत्नतः ॥ ६२ ॥
वधूबीजं तथा चैव विन्यसेत्सुसमाहितः ।
कूर्चबीजं तथा देवि न्यसनीयमशेषतः ॥ ६३ ॥
अस्त्रं चैव तथा न्यस्त्वा सकलं तदनन्तरम् ।
गुह्यषोढा त्वियं देवि न प्रकाश्या कदाचन ।
अवश्यं प्रत्यहं कार्या न पूजा न जपस्तथा ॥ ६४ ॥
अथवा कालीषोढा कर्तव्या ।
तदुक्तं यामले-
गुह्यषोढा सदा कार्या तारिण्या मन्त्रसिद्धये ।
कालीषोढाथवा देवि न पूजा न जपस्तथा ॥ ६५ ॥
ततो मूलमुच्चार्य शिर आदि पादपर्यन्तं पादादि शिरोऽन्तं
हृदादि मुखपर्यन्तं व्यापकत्रयं न्यसेत् ।
अथवा प्रणवपुटितमूलेन व्यापकन्यासं सप्तधा पञ्चधा वा
कुर्यात् ।
तदुक्तं फेत्कारीये-
ओङ्कारपुटितं कृत्वा मनुना व्यापकं न्यसेत् ॥ ६६ ॥
ततोऽर्घ्यस्थापनम् ।
यथा-
स्ववामे त्रिकोणवृत्तचतुरस्रमण्डलं कृत्वा तत्र साधारं
पात्रं निधाय मूलविद्यया जलादिनापूर्य जलमन्त्रेण
जलमधिष्ठाय रक्तचन्दनविल्वपत्रादीन्निक्षिप्य
अर्घ्यस्याग्नीशासुरवायुषु मध्ये दिक्षु च ह्रीम् अखिलवाग्रूपिण्यै
हृदयाय नमः इत्यादिना ह्राम् एकजटायै इत्यादिना वा षडङ्गानि
विन्यस्य अर्घ्यपात्रं मत्स्मुद्रयाच्छाद्य मूलं दशधा जपेत् ।
तथा च कालीतन्त्रे-
दशकृत्वो जपेद्विद्यां देवताभावसिद्धये ।
ततोऽस्त्रेण संरक्ष्य धुनेयोनिमुद्रे प्रदर्श्य तेजोमयं तज्जलं
विभाव्य किञ्चित्प्रोक्षणीपात्रे निक्षिप्य तेनोदकेनात्मानं
पूजोपकरणञ्चाभ्युक्ष्य पूजामारभेत् ।
भूतशुद्ध्यनन्तरं वा ।
तथा च फेत्कारीये-
भूतशुद्धिं विधायाथ अर्घ्यादिस्थापनञ्चरेत् ।
प्राणायामं ततः कृत्वा ऋष्यादिन्यासमाचरेत् ।
ततः पुष्पाञ्जलिं विरच्यात्माभेदेन देवतां ध्यायेत् ॥ ६७ ॥
यथा-
प्रत्यालीढपदार्पिताङ्घ्रि-शवहृद्घोराट्टहासा परा,
खड्गेन्दीवरकर्तृखर्परभुजा हूङ्कारबीजोद्भवा ।
खर्वा नीलविशालपिङ्गलजटाजूटैकनागैर्युता, जाड्यं न्यस्य
कपालके त्रिजगतां हन्त्युग्रतारा स्वयम् ॥ ६८ ॥
एवं विभाव्य करकलितदूर्वाक्षतरक्तचन्दनमिलितदिन-
करकिरणारुणकुसुमाञ्जलौ मातृकायन्त्रं ध्यात्वा
हृदयान्मूलमन्त्रतेजोमयीं शुद्धज्ञानचैतन्यमयीं
षट्चक्रभेदेन
शिरःस्थितसहस्रदलकमलकर्णिकान्तर्गतपरमशिवं प्रापय्य
क्रियासमभिव्याहारेण तदमृताम्बुधौ विश्राम्य
तदमृतलोलीभूतां चैतन्यानन्दमयीं तां
प्रवहन्नासापुटादानीय मूलेन कल्पितमूर्तावावाहयेत् ।
तथा च तन्त्रान्तरे-
देवीं सुषुम्नामार्गेण चानीय ब्रह्मरन्ध्रकम् ।
वहन्नासापुटे ध्यात्वा निर्यान्तीं स्वाञ्जलिस्थिताम् ।
पुष्पे आरोप्य तत्पुष्पं प्रतिमादौ निधापयेत् ।
ॐ देवेशि भक्तिसुलभे परिवार-समन्विते ।
यावत्त्वं पूजयिष्यामि तावत्त्वं सुस्थिरा भव ।
पूर्वोक्तक्रमेण आवाहनादिकं कृत्वा योन्यादिपञ्चमुद्रा
बीजसहिता दर्शयेत् ।
आवाहनादिमुद्राभिः पञ्चमुद्राः प्रदर्शयेत् ।
इति भैरवीये आह ।
तास्तु मुद्राप्रकरणे अनुसन्धेयाः ॥ ६९ ॥
आं ह्रीं क्रों स्वाहेति प्राणप्रतिष्ठां कृत्वा मूलमुच्चार्य
श्रीमदेकजटे वज्रपुष्पं प्रतीच्छ हूं फट् स्वाहेति
षोडशोपचारेण पञ्चोपचारेण वा पूजयेत् ।
अस्याः प्रयोगस्तु-
आदौ मूलं तत एतन्मन्त्रमुच्चार्य इदं द्रव्यममुकदेवतायै
नमः ।
तथा च फेत्कारिण्याम्-
श्रीमदेकजटे उक्त्वा वज्रपुष्पं प्रतीच्छ च ।
तारादिवह्निजायान्तमुदीर्य यजनं चरेत् ।
तारः कूर्चं तदादि हूं फटित्यर्थः ।
स च वह्निजायान्तश्चेति ।
कस्याञ्चित् प्राचिनपद्धतौ ॐ भगवत्येकजटे ह्रीं
विशुद्धधर्मगात्रि सर्वपापानि शमय सर्वविकल्पानपनय हूं
फट् स्वाहा पाद्मं नमः ।
ॐ तारिणि ह्रीम् इदमाचमनीयं स्वधा ।
ॐ ह्रीं मणिधरि वज्रिणि महाप्रतिसरे इदमर्घ्यं स्वाहा ।
ॐ ह्रीं कपालिके मधुपर्कः स्वधा ।
श्रीमदेकजटे इदमाचमनीयं सुगन्धिजलं नमः ।
गन्धपुष्पयोर्विशेषस्त्वयं-
ॐ परमानन्दसौरभ्यपरिपूर्णदिगन्तरम् ।
गृहाण परमं गन्धं कृपया परमेश्वरि ।
श्रीमदेकजटे एष गन्धो नमः ।
एवं ॐ तुरीयवनसम्भूतं नानागुणमनोहरम् ।
आनन्दसौरभं पुष्पं गृह्यतां परमेश्वरि ।
इयं वचोरचना विद्याधराचार्यसम्मता ॥ ७० ॥
तारिणीनिर्णये-
प्रणवं भगवत्येकजटे माया ततः परम् ।
विशुद्धधर्मगात्रितः सर्वपापानि तत्परम् ।
शमय सर्वविकल्पानपनय हूं फट् शिरः ।
अयं पाद्यमनुर्देवि आचमनीयमनुं शृणु ।
तारं वज्रिणि मायेति तारो माया ततः परम् ।
मणिधरि वज्रिणीति महाप्रतिसरे मनुः ।
माया कपालिके मन्त्रो मधुपर्के सुरेश्वरि ।
ततो योनिमुद्रां प्रदर्श्य देवि आज्ञापयभवत्याः परिवारान्
पूजयामिति प्रर्थ्याकरणान पूजयेत् ।
तद्यथा-
केशरेष्वग्नीशासुरवायुषु मध्ये दिक्षु च षडङ्गानि पूजयेत् ।
यथा-
ह्राम् एकजटायै हृदयाय नमः ।
ह्रीं तारिण्यै शिरसे स्वाहा ।
हूं वज्रोदके शिखायै वषट् ।
ह्रैम् उग्रजटे कवचाय हुम् ।
ह्रौं महाप्रतिसरे नेत्रत्रयाय वौषट् ।
चतुर्दिक्षु ह्रः पिङ्गोग्रैकजटे अस्त्राय फट् ।
नील सरस्वतीपक्षे तु ह्रीम् अखिलवाग्रूपिण्यै हृदयाय नमः
इत्यादिना षडङ्गानि सम्पूज्य देव्या मौलौ अक्षोभ्यवज्रपुष्पं
प्रतीच्छ हूं फट् स्वाहेति मन्त्रेणाक्षोभ्यं पूजयेत् ।
ततः पीठस्योत्तरे वायव्यादीशान पर्यन्तं गुरुपङ्क्तिः पूजयेत् ।
यथा-
ऊर्ध्वकेशानन्दनाथ वज्रपुष्पं प्रतीच्छ हूं फट् स्वाहेति ।
तथा प्रोक्तं फेत्कारीये-
वज्रपुष्पं प्रतीच्छेति हूं फट् स्वाहेति मन्त्रतः ।
एकमन्त्रे नाममात्रं भिन्नञ्चैव न संशयः ।
अनेन मनुना सर्वान् परिवारान् समर्चयेत् ।
एवं व्योमकेशानन्दनाथ-नीलकण्ठानन्दनाथ-
वृषध्वजानन्दनाथान् पूजयेत् ।
एते दिव्यौघाः ।
वसिष्ठानन्दनाथ-कूर्मनाथानन्दनाथ-
मीननाथानन्दनाथ-महेश्वरानन्दनाथ-
हरिनाथानन्दनाथान् पूजयेत् ।
एते सिद्धौघाः ।
एवं तारावत्यम्बा-भानुमत्यम्बा-जयाम्बा-विद्याम्बा-
महोदर्यम्बा-सुखानन्दनाथ-परानन्दनाथ-
पारिजातानन्दनाथ-कुलेश्वरानन्दनाथ-
विरूपाक्षानन्दनाथ-फेरव्यम्बाः पूजयेत् ।
एते मानवौघाः ॥ ७० क ॥
तथा च तारातन्त्रे-
अथ तारागुरून् वक्ष्ये दृष्टादृष्टफलप्रदान् ।
ऊर्ध्वकेशो व्योमकेशे नीलकण्ठो वृषध्वजः ।
दिव्यौघाः सिद्धिदाः वत्स सिद्धौघान् शृणु तत्त्वतः ।
वसिष्ठः कूर्मनाथश्च मीननाथो महेश्वरः ।
हरिनाथो मानवौघान् शृणु वक्ष्यामि तद्गुरुन् ।
तारावती भानुमती जया विद्या महोदरी ।
सुखानन्दः परानन्दः पारिजातः कुलेश्वरः ।
विरूपाक्षः फेरवो च कथितं तारिणीकुलम् ।
आनन्दनाथशब्दान्ता गुरवः सर्वसिद्धिदाः ।
स्त्रियोऽपि गुरुरूपास्तु अम्बान्ताः परिकीर्तिताः ।
अशक्तश्चेदक्षोभ्यमात्रं पूजयेत् ।
मम मौलिस्थितं देवमवश्यं परिपूजयेत् ।
इति फेत्कारीये देवीवाक्यात् ।
ततः पूर्वादिदले-
महाकाल्यथ रुद्राणी उमा भीमा तथैव च ।
घोरा च भ्रामरी चैव महारात्रिश्च सप्तमी ।
अष्टमी भैरवी प्रोक्ता योगिनीस्ताः प्रपूजयेत् ।
ततः पूर्वादि चतुर्दले वामावर्तेन वैरोचन-शङ्खपाण्डव-
पद्मनाभानसिताभान् पूजयेत् ।
अग्न्यादिकोणदलेषु नामकमामकपाण्डव-तारकान् पूजयेत् ।
पूर्वादिद्वारचतुष्टयेषु नामावर्तेन पद्मान्तकयमान्तक
विघ्नान्तक-नरान्तकान् वज्रपुष्पेत्यादिना पूजयेत् ।
तथा च सिद्धसारस्वते-
वैरोचनं तथा शङ्खं पाण्डवं पद्मनाभकम् ।
असिताभं यजेन्मन्त्री दिक्ष्विन्द्रतश्चचतुर्दले ।
नामकं मामकञ्चैव पाण्डवं तारकं तथा ।
वह्न्यादिकचतुष्कोणे मन्त्रैः स्वैः क्रमाद्यजेत् ।
नीलतन्त्रे-
वामावर्तक्रमेणैव पूजयेदङ्गदेवताः ।
द्वारपूर्वादितस्तद्वं पद्मान्तकयमान्तकौ ।
विघ्नान्तकमथाभ्यर्च्य पूजयेन्नरकान्तकमिति ॥ ७० ख ॥
ततो बलिदानम् ।
तदुक्तं फेत्कारीये-
पूजान्ते भोजनादौ च बलिं मन्त्रेण दापयेत् ॥ ७१ ॥
तत्र क्रमः-
स्वावामे त्रिकोणवृत्तचतुरस्रमण्डलं कृत्वा पुष्पैस्तमभ्यर्च्य
तत्र विहितबलिद्रव्यभरितं साधारं पात्रं निधाय
तद्वामाङ्गुष्ठानामिकाभ्यां धृत्वा ॐ ह्रीम् एकजटे
महायक्षाधिपतये मयोपनीतं बलिं गृह्ण गृह्ण गृह्णापय
गृह्णापय मम सर्वशान्ति कुरु कुरु परविद्यामाकृष्याकृष्य त्रुट
त्रुट छिन्धि छिन्धि सर्वजगद्वशमानय ह्रीं स्वाहा इति त्रिः
पठित्वा बलिं दद्यात् ॥ ७२ ॥
तदुक्तं मत्स्यसूक्ते-
इति सम्पूज्य वामे च व्यापकं मण्डलं लिखेत् ।
कुसुमैरर्चयेत्तत्तु तत्र पात्रं निधाय च ।
पात्रे विनिहितं द्रव्यं निधाय साधकोत्तमः ।
अङ्गुष्ठानामिकाभ्यान्तु बलिं दद्यात् प्रयत्नतः ।
इति ।
तथा च सिद्धसारस्वते-
प्रणवं पूर्वमुद्धृत्य हृल्लेखाञ्च ततःपरम् ।
एकजटे पदान्ते च महाशब्दमुदीरयेत् ।
यक्षाधिपदमाभाष्य पतये पदतो मया ।
उपनीतं पदं चोक्त्वा बलिं गृह्णेति च द्विधा ।
गृह्णापय द्विधा प्रोक्त्वा मम सर्वपदं तथा ।
शान्तिं कुरु पदद्वन्द्वं परविद्यामनन्तरम् ।
द्विधाकृष्येति च ब्रूयात् त्रुट छिन्धीति च द्विधा ।
सर्वादि च ततो जगद्वशमानय शब्दतः ।
मायया स्वाहया युक्तो मन्त्रो बलिविधौ स्मृतः ततो रहस्यमालया
निगदेनोपांशुना मानसेन वा अष्टोत्तरसहस्रं शतं वा जपेत् ।
तथा च-
अष्टोत्तरशतं जाप्यं यावज्जीवितसङ्ख्यया ।
सहस्रं वा जपेद्देवि नित्यपूजाविधौ पुनः ।
अशक्तश्चेद्विंशत्या न्यूनं न जपेत् ।
तथा च-
सहस्रं शतं विंशं वा जपेद्रहस्यमालया ॥ ७४ ॥
तत्र जपरहस्यम् यथा-
मूलाधारस्वाधिष्ठानमणिपूरकेषु यथाक्रमं
बीजत्रयव्याप्तिं तडित्कोटिभास्वरां परस्परानुस्यूतां विभाव्य
सर्वतेजोमयं फट्कारं विश्रान्तिमयं हृदि ध्यात्वा उच्चरेत् ।
तथा नीलतन्त्रे-
मन्त्रध्यानं प्रवक्ष्यामि जपात् सार्वज्ञदायकम् ।
मन्त्रध्यानान्महेशानि शुध्यते ब्रह्महा यतः ।
मूलचक्रे तु हृल्लेखां सूर्यकोटिसमप्रभाम् ।
स्वाधिष्ठाने पीतवर्णं द्वितीयन्तु विभावयेत् ।
नाभौ जीमूतसङ्काशं कूर्चबीजं महाप्रभम् ।
अस्त्रवीबीजं हृदि ध्यायेत् कालाग्निसदृशप्रभम् ।
मूलादिब्रह्मरन्ध्रे तु सर्वां विद्यां विभावयेत् ।
सूर्यकोटिप्रतीकाशां योगिभिर्दृष्टपूर्विकाम् ।
एवं यथाशक्ति जप्त्वा जपसमर्पणादि विसर्जनान्तं कर्म
समापयेत् ॥ ७५ ॥
जपसमर्पणक्रमस्तु फेत्कारीये-
ततश्चार्घ्योदकेनैव देव्याश्च वामहस्तके ।
जपं समर्पयेद्धीमान् गुह्यातिगुह्यमन्त्रकै ॥ ७६ ॥
अस्य पुरश्चरणं लक्षजपः ।
तथा च एवं कृत्वा हविष्याशी जपेल्लक्षमनन्यधीः ।
तथा-
रहस्यमालामादाय लक्षमेकं सदा जपेत् ॥ ७७ ॥
रहस्यमाला यथा-
अकस्माद्विहिता सिद्धिर्महाशङ्खाख्यमालया ।
पञ्चाशन्मणिभिर्माला निर्मिता सर्वसिद्धिदा ।
तथा-
कान्तेन रचिता सिद्धिर्महाशङ्खाख्यमालया ।
महाशङ्खाभावे स्फाटिकी माला कर्त्तव्या ।
तथा च-
महाशङ्खेऽप्यशक्तश्चेत् स्फाटिकीमालया जपेत् ॥ ७८ ॥
महाशङ्खस्तु तन्त्रान्तरे-
नृललाटास्थिखण्डेन रचिता जपमालिका ।
महाशङ्खमयीमाला ताराविद्याजपेप्रिया ।
केर्णनेत्रान्तरस्थास्थि महाशङ्खः प्रकीर्तितः ।
तुलसीगोमयस्पृष्टं तथा गङ्गोदेकेन च ।
अस्पृश्यं तच्च जानीयात् शालग्रामशिलादिभिः ।
तारामन्त्रेषु कुल्लुकाज्ञानमावश्यकम् ।
तथा च मत्स्यसूक्ते-
कुल्लुकां यो न जानाति महामन्त्रं जपेन्नरः ।
पञ्चत्वं जायते तस्य अथवा वातुलो भवेत् ॥ ७९ ॥
मायातन्त्रे-
कुल्लुकां धारयेच्छीर्षे लिखित्वा भूर्जपत्रके ।
राजद्वारे सभायाञ्च विजयी भवति ध्रुवमिति ॥ ८० ॥
एवमुक्तेन जप्त्वा तु तद्दसांशेन होमयेत् ।
तर्पणञ्चाभिषेकञ्च दशांशं विप्रभोजनम् ॥ ८१ ॥
तर्पयेच्च परां देवीं तत्प्रकार इहोच्यते ॥ ८२ ॥
तथा च सिद्धसारस्वते-
एवं जपं पुरा कृत्वा दशांशमसितोपलैः ।
आज्याक्तैर्जुहुयान्मन्त्रि तद्दशांशेन तर्पणम् ॥ ८३ ॥
तत्रैव-
एवं जपं पुरा कृत्वा दशांशमसितोपलैः ।
आज्याक्तैर्जुहुयान्मन्त्री विल्वैर्वा जुहुयात्ततः ।
कालागुरुद्रवोपेतैर्विमलैर्गन्ध वारिभिः ।
तर्पयेच्च परां देवीं तत्प्रकार इहोच्यते ॥ ८४ ॥
जले चावाह्य विधिवत् पाद्याद्यैरुदकात्मकैः ।
सन्तर्प्य विधिवद्देवीं परिवारान्पृथक्पृथक् ॥ ८५ ॥
अभिषेको यथा-
देवीबुद्ध्या स्वमात्मानं सम्पूज्य साधकोत्तमः ।
वारिणीं सिञ्चयामिति जलं मूर्ध्नि विनिक्षिपेत् ॥ ८६ ॥
अथ मन्त्रभेदाः -
एकवीराकल्पे-
लिखेत् खं कूर्चसंयुक्तं रोद्रं त्रैगुण्यमेव च ।
विधिविष्णुमहेशानां स्वशक्त्या क्रमयोगतः ।
एषा विद्या महाविद्या सर्वसिद्धिप्रदा मता ।
अस्यार्थः,-
खं खस्वरूपं न त्वाकाशबीजम् ।
तथा च तन्त्रे-
ऋद्धिसञ्ज्ञं समुद्धृत्य विन्दुनादविभूषितमिति वचनात् ।
रौद्रं प्रासादं त्रैगुण्यं प्रणवं, विधिशक्तिर्वाग्भवं
विष्णुशक्ती रमाबीजं महेशशक्तिर्भुवनेशीबीजम् ।
ध्यानार्चन प्रकारश्च तारिण्याः पूर्ववद्भवेत् ॥ ८७ ॥ प्रणवं
भुवनेश्वरीं हां कूर्चबीजं नमस्तारायै सकलदुस्तरं
तारय तारय प्रणवयुग्मं वह्निजाया ।
तथा च नीलतन्त्रे-
प्रणवं पूर्वमुद्धृत्य हृल्लेखावीञ्जमुद्धरेत् ।
गगनं शेषसंयुक्तं विन्दुनादविभूषितम् ।
कूर्चबीजञ्च हृदयं तारायै च समुद्धरेत् ।
सकलदुस्तरं तारय तारयेति ततः पुनः ।
तारयुग्मं वह्निजाया मन्त्रोऽयं सुरपादपः ।
ध्यानपूजादिकं सर्वं पूर्ववत्समुपाचरेत् ॥ ८८ ॥
अस्य पुरश्चरणं चतुर्लक्षजपः ।
तदुक्तं तत्रैव-
चतुर्लक्षजपेनास्याः सिद्धयोऽष्टौ भवन्ति हि ॥ ८९ ॥
मायातन्त्रे-
श्रीभगवानुवाच ।
तारा चोग्रा महोग्रा च वज्रा काली सरस्वती ।
कामेश्वरी भद्रकाली इत्यष्टौ तारिणी स्मृता ॥ ९० ॥
एतासां मन्त्रमाह-
उष्मवर्णगतोऽजीवो निगमस्वरसंयुतः ।
नादविन्दुसमाक्रान्तस्तत्त्वरश्मिसमन्वितः ।
कपिलो वामकर्णस्थो नादाढ्यो विन्दुशेखरः ।
पार्श्वान्तञ्च तथा ञान्तं शरान्तं परिकीर्तितम् ॥ ९१ ॥
मध्यादिमायाकवचं द्वितीयं मन्त्रमुद्धृतम् ॥ ९२ ॥ विपरीतं
त्रिधा ज्ञेयं कूर्चाद्यञ्च तुरीयकम् ॥ ९३ ॥ मायादिकवचान्तञ्च
पञ्चमं परिकीर्तितम् ॥ ९४ ॥ मायामध्यगतं षष्ठं
द्वितीयान्तञ्च सप्तमम् ॥ ९५ ॥ अष्टमं कवचं मध्यमेकं
भेदाष्टकं भवेत् ॥ ९६ ॥
अस्यार्थः-
उष्मवर्णोरेफः, अजीवो हकारः, निगमस्वर ईकारः,
तत्त्वरश्मिर्वधूबीजं, कपिलो हकारः, पार्श्वः पकारः,
तस्यान्तः फकारः, ञान्तष्टकारः, शरान्तं फडन्तं तेन
पञ्चाक्षरः प्रकृतिः ।
मध्यादीति तेन वधूर्माया कूर्चं फट् ।
विपरीतमिती आद्यन्तबीजयोर्वैपरीत्यमत्र ।
तेन कूर्चं वधूर्माया फट् ।
कूर्चेति कूर्चं माया वधूः फट् ।
मायादीति ।
तेन माया वधूः फट् कूर्चम् ।
मायेति तेन वधुर्माया फट् कूर्चम् ।
द्वितीयेति तेन माया कूर्चं वधूः फट् ।
अष्टमेति वधूः कूर्चं माया फट् ॥ ९७ ॥
ऋषि स्यादष्टकश्छन्दोऽनुष्टुप् च देवता तथा ।
शम्भुपत्नी महेशानि चतुवर्गेषु योजयेत् ॥ ९८ ॥
काललक्षं जपेन्मन्त्रमेवमुक्तेन वर्त्मना ॥ ९९ ॥
ध्यानपूजादिकं सर्वं पूर्ववत्समुपाचरेत् ॥ १०० ॥
त्र्यक्षरस्यैव भदोऽयं फटौ यत्र न तत्र वै ।
जप्ये तु त्र्यक्षरं ज्ञेयं न्यासे सर्वं प्रतिष्ठितम् ।
मन्त्रान्तरम्-
प्रणवं तारे तु तारे तत्ता वह्निवल्लभा ।
तदुक्तं गान्धर्वे-
प्रणवं पूर्वमुद्धृत्य तारे तु तारे तथा ।
तत्ता स्वाहेति मन्त्रोऽयं दशाक्षर उदाहृतः ॥ २ ॥
अस्या ध्यानं स्वतन्त्रतन्त्रे-
श्यामवर्णा त्रिनयनां द्विभुजां वरपङ्कजे ।
दधानां बहुवर्णाभिर्बहुरूपाभिरावृताम् ।
शक्तिभिः स्मेरवदनां स्मेरमौक्तिकभूषणाम् ।
रत्नपादुकयोर्न्यस्तपादाम्बुजयुगां स्मरेत् ॥ ३ ॥
अस्य पूजादिकं पूर्ववत्कार्यम् ।
पुरश्चरणन्तु दशलक्षजपः ।
तदुक्तं तत्रैव-
वर्णलक्षं जपेद्धीमान्नियमेन यथाविधि ।
दशांशं जुहुयान्मन्त्री घृताक्तै रक्तपुष्पकैः ॥ ४ ॥
वाग्भवं भुवनेशानी प्रणवं पुनर्वाग्भवः भुवनेश्वरी
फट् स्वाहा ।
तदुक्तं मातृकार्णवे-
वाग्भवं कुलदेवीञ्च तारकं वाग्भवं तथा ।
हृल्लेखा चास्त्रमन्त्रान्ते वह्निजायावधिर्मनुः ।
अष्टाक्षरो मनुः प्रोक्तौ वेदमातुरनुत्तमः ॥ ५ ॥ पञ्चाङ्गान्यस्य
मन्त्रस्य पञ्चबीजैः प्रकल्पयेत् ।
अस्त्रं शेषाक्षरैर्न्यस्य कृतकृत्यो भवेन्नरः ।
ध्यानपूजादिकं सर्वं पूर्ववच्च समाचरेत् ॥ ६ ॥
मत्स्यसूक्ते-
प्रणवं पूर्वमुद्धृत्य पद्मे-युग्मं तथैव च ।
महापद्मे पद्मं ब्रूयात्पद्मावति पदं ततः ।
माये स्वाहेति मन्त्रोऽयं प्रोक्तः सप्तदशाक्षरः ॥ ७ ॥
पूर्ववदुद्दिष्टा अर्द्धरात्रे चतुष्पथे ।
जपमस्याश्चरेद्यस्तु स स्यादद्रुतकविस्तथा ॥ ८ ॥
हंसः प्रणवं माया वधूबीजं कूर्चबीजं हंसः ।
तदुक्तं स्वच्छन्दसङ्ग्रहे-
शिवबीजं महेशानि शक्तिबीजं ततः परम् ।
विन्दुसर्गसमायुक्तं वेदाद्यं तदधः क्रमात् ।
माया स्त्री वर्गवीजान्ते हंसबीजमुदाहृतम् ।
एषा अष्टाक्षरी विद्या कथिता भुवि दुर्लभा ॥ ९ ॥
पञ्चाक्षरी च या विद्या हिंसाद्यन्ता महोदया ।
केवलं त्वत्प्रसादेन तव स्नेहात् प्रकीर्तिता ।
अनयोर्जपपूजादीन् पञ्चाक्षरीवदाचरेत् ॥ १० ॥
तन्त्रान्तरे-
लज्जायुगं वधूबीजं ततो दीर्घतनुच्छदम् ।
सारेस्वतोऽपरो मन्त्रः सम्प्रोक्तश्चतुरक्षरः ।
तदन्ते यदि फट्कारो मनुः पञ्चाक्षरो भवेत् ॥ ११ ॥
तथा-
तारशक्तिवधूबीजान्यन्ते दीर्घतनुच्छदम् ।
अस्त्रमग्निवधूरन्ते मनुः सप्ताक्षरो भवेत् ।
मन्त्रमात्रेष्वयं प्रोक्तस्तथा दीर्घेण वर्मणा पुटितञ्च
वधूबीजमपरोऽसौ गुणाक्षरः ॥ १२ ॥
रहस्यपुरश्चरणम् ।
यथा-
अशक्तानाञ्च मे देव पुरश्चरणमुच्यताम् ।
अथवान्यप्रकारेण पुरश्चरणमुच्यते ॥ १३ ॥
कुजे वा शनिवारे वा नरमुण्डं समाहृतम् ।
पञ्चगव्येन मिलितं चन्दनाद्यैर्विशेषतः ।
निक्षिप्य भूमौ हस्तार्द्धमानतः कानने वने ॥ १४ ॥
तत्र तद्दिवसे रात्रौ सहस्रं यदि मानतः ।
एकाकी प्रजपेन्मन्त्री स भवेत् कल्पपादपः ॥ १५ ॥
अथवान्यप्रकारेण पुरश्चरणमिष्यते ।
शवमानीय तद्वारे तेनैव परिखन्यते ।
तद्दिनात्तद्दिनं यावत्तावदष्टोत्तरं शतम् ।
स भवेत् सर्वसिद्धीशो नात्र कार्या विचारणा ॥ १६ ॥
अथवान्यप्रकारेण पुरश्चरणमिष्यते ।
अष्टम्याक्ष चतुर्दश्यां पञ्चयोरुभयोरपि ।
सूर्योदयं समारभ्य यावत् ।
सूर्योदयान्तरम् ।
तावज्जप्त्वा निरातङ्कः सर्वसिद्धिश्वरो भवेत् ॥ १७ ॥
अथवान्यप्रकारेण पुरश्चरणमिष्यते ।
शरत्काले चतुर्थ्यादि नवम्यन्तं विशेषतः ।
भक्तितः पूजयित्वा तु रात्रौ तावत् सहस्रकम् ।
जपेदेकाकी विजने केवलं तिमिरालये ।
अष्टम्यादिनवम्यन्तमुपवासपरो भवेत् ॥ १८ ॥
मुण्डमालतन्त्रे-
कृष्णाष्टमीं समारभ्य यावत्कृष्णाष्टमी भवेत् ।
सहस्रसङ्ख्यजप्तेन पुरश्चरणमिष्यते ॥ १९ ॥
कृष्णां चतुर्दशीं प्राप्य नवम्यन्तं महोत्सवे अष्टमी-
नवमीरात्रौ पूजां कुर्याद्विशेषतः ॥ २० ॥
दशम्यां पारणं कुर्यान्मत्स्यमांसादिभिर्युतम् ।
षटसहस्रं जपेन्नित्यं भक्तिभावपरायणः ॥ २१ ॥
चतुर्दशीं समारभ्य यावदन्या चतुर्दशी ।
तावज्जप्ते महेशानि पुरश्चरणमिष्यते ।
केवलं जपमात्रेण मन्त्राः सिद्धा भवन्ति हि ॥ २२ ॥
सूर्योदयं समारभ्य यावत् सूर्योऽस्तगो ।
भवेत्तावज्जप्त्वामहेशानि पुरश्चरणमिष्यते ॥ २३ ॥
वीरसाधनम्
अथ वीरसाधनम्
तदुक्तं वीरतन्त्रे-
ऽष्टम्याञ्च चतुर्दश्यां पक्षयोरुभयोरपि ।
कृष्णपक्षे विशेषेण साधयेद्वीरसाधनम् ॥ २४ ॥ तत्सार्द्धप्रहरे
यामे गते च सुरसुन्दरि ।
शवं वापि चितां वापि नीत्वा गत्वा यथासुखम् ।
साधयेत् स्वहितं मन्त्री मन्त्रध्यानपरायणः ॥ २५ ॥
भयं नैव तु कर्तव्यं हास्यं तत्र विवर्जयेत् ।
चतुर्दशिं न वीक्षेत मन्त्रमेव समभ्यसेत् ॥ २६ ॥
पूजाद्रव्यम्
अथ पूजाद्रव्यम्-
सामिषान्नं गुडं छागं सुरापायसपिष्टकम् ।
नानाफलञ्च नैवेद्यं स्वस्वकल्पोक्तसाधितम् ॥ २७ ॥ चिन्तास्थानं
समानीय सुहृद्भिः शस्त्रपाणिभिः ।
समामगुणसम्पन्नैः साधयेद्वीतभीः स्वयम् ॥ २८ ॥
तथा च योगिनीहृदये-
बल्यर्थं सामिषान्नञ्च गुडं छागं तथा मधु ।
पिष्टक परमान्नञ्च पयो मूलं फलं तथा ॥ २९ ॥ सप्तपात्रं
बलिं कृत्वा चतुःपात्रं चतुर्दिशि ।
पात्रत्रयं सदा मध्ये स्थापयेन्मनुनामुना ।
गुरुं वा भ्रातरं वापि ब्राह्मणान् वापि सुव्रतान् ।
अन्यानपि च रक्षार्थं किञ्चिद्दूरे निवेशयेत् ॥ ३० ॥
चितालक्षणम् ।
यथा-
असंस्कृता चिता ग्राह्या न तु संस्कारसंस्कृता ।
चाण्डालादिषु सम्प्राप्ता केवलं शीघ्रसिद्धिदा ॥ ३१ ॥
अथाधिकारिलक्षणम् यथा-
महाबलो महाबुद्धिर्महासाहसिकः शुचिः ।
महास्वच्छो दयावांश्च सर्वभूतहिते रतः ॥ ३२ ॥
ततः सामान्यार्घ्यं विधाय स्वस्तिवाचनपूर्वकं सङ्कल्पं
कुर्यात् ।
यथा-
ओमेद्येत्यादि अमुकगोत्रः श्री-अमुकदेवशर्मा
अमुकमन्त्रसिद्धिकामः श्मशानसाधनमहं करिष्ये ।
इति सङ्कल्प्य-वस्त्रालङ्कारभूषणाद्यैर्भूषितः
पूर्वदिङ्मुखः ।
अस्त्रान्तमूलमन्त्रेण प्रोक्षणं यागभूमिषु मूलमन्त्रेण
फट्कारान्तेनेत्यर्थः ।
गुरुपादरजो ध्यात्वा गणेशं वटुकं तथा ।
योगिनीं मातृकाञ्चैव वामपादपुरःसरम् ।
तथा च-
गणेशादिकं सम्पूज्य अस्त्रमन्त्रेणात्मानं संरक्ष्य ।
तथा च-
अस्त्रमन्त्रेण मन्त्रज्ञो रक्षामात्मनि कारयेत् ।
ततः पुष्पाञ्जलित्रयं चितायां क्षिपेत् ।
तदुक्तं वारतन्त्रेण-
ये चात्र संस्थिता देवा राक्षसाश्च भयानकाः ।
पिशाचाः सिद्धयो यक्षा गन्धर्वाप्सरसां गुणाः ।
योगिन्यो मातरो भूताः सर्वाश्च खेचरा स्त्रियः ।
सिद्धिदास्ता भवन्त्यत्र तथा च मम रक्षकाः ।
प्रणम्य मनुनानेन पुष्पाञ्जलित्रयं क्षिपेत् ॥ ३३ ॥
श्मशानाधिपतिं पश्चाद्भैरवं कालभैरवम् ।
महाकालं यजेत् पश्चात् पूर्वादिदिक्चतुष्टये ।
शब्दबीजं ततः पश्चात् श्मशानाधिप तत्परम् ।
इममन्ते सामिषान्नबलिं गृह्ण ततः परम् ।
गृह्ण गृह्णापयद्वन्द्वं विघ्ननिरावरणं ततः ।
कुरु सिद्धिं ममान्तञ्च प्रयच्छ स्वाहयान्वितम् ।
प्रणवाद्येन मनुना प्रथमो बलिरोरितः ।
(१) मायास्ते भैरवात् पश्चाद्भयानक ततः परम् ।
पूर्ववद्बलिमुद्धृत्य दक्षिणे बलिमाहरेत् ।
(२) पश्चिमे कालदेवाय प्रणवाद्येन कल्पयेत् ।
शवान्ते कालशब्दान्ते भैरवेति ततः परम् ।
श्मशानाधिप इत्येवं पूर्ववच्चोत्तरे हरेत् ॥
(३) हूमन्ते च महाकालात्पश्चात् पूर्ववदुच्चरेत् ।
श्मशानाधिप इत्येवः पूर्ववद्बलिमाहरेत् (४) ।
पाद्यादिभिश्च मन्त्रज्ञो बलिं पश्चान्निवेदयेत् ।
तद्यथा-
श्मशानाधिपतिं पञ्चोपचारैः सम्पूज्यानेन मन्त्रेण बलिं
दद्यात् ।
तद्यथा-
ॐ हूं श्मशानाधिप इमं सामिषान्नबलिं गृह्ण गृह्ण
गृह्णापय गृह्णापय विघ्ननिवारणं कुरु सिद्धिं मम प्रयच्छ
स्वाहा ।
ततो भैरवं पूर्ववत् सम्पूज्य दक्षिणस्यां ह्रीं भैरव
भयानक इमं सामिषान्नबलिमित्यादि ।
ततः पश्चिमे कालभैरवं सम्पूज्य हूं कालभैरव
श्मशानाधिप इमं सामिषान्नबलिमित्यादि ।
उत्तरे महाकालमभ्यर्च्य हूं महाकाल श्मशानाधिप इमं
सामिषान्नबलिमित्यादि ।
चितामध्ये ततो दद्याद्वलित्रयमनुत्तमम् ।
कालरात्रि महाकालि कालिके घोरनिःस्वने ।
गृहाणेमं बलिं मातर्देहि सिद्धिमनुत्तमाम् ।
कालिकायै बलिं दत्त्वा भूतनाथाय दापयेत् ।
शब्दान्ते भूतनाथान्ते श्मशानाधिप इत्यपि ।
प्रणवाद्येन मनुना दापयेद्वलिमुत्तमम् ।
शब्दान्ते तु सर्वगणनाथान्ते चाधिपाय च ।
श्मशानमस्तके दत्त्वा पूर्ववच्च समुद्धरेत् ।
ताराद्येन बलिं दत्त्वा पञ्चगव्येन सुन्दरि ।
अद्भिश्च प्रोक्षणं कृत्वा पीतवस्त्रं न्यसेत्ततः ।
भूर्जे वा वटपत्रे वा तत्र पीठमनुं न्यसेत् ।
पीठमास्तीर्य तस्मिन् वै वद्धवीरासनस्ततः ।
वीरार्दनेन मनुना रक्षां दिक्षु प्रकल्पयेत् ।
अस्यार्थः-
श्मशानास्थ्यादिकं पञ्चगव्येन सम्प्रोक्ष्य, भूर्जपत्रादौ
तत्तत्कल्पोक्तपीठमन्त्रं लिखित्वा तत्र
व्याघ्रचर्मादिपीठमास्तीर्यं तत्र वीरासनक्रमेणोपविश्य,
वीरार्दनेन मन्त्रेणचतुर्दिक्षु रक्षां कुर्यात् ॥ ३४ ॥
वीरार्दनमन्त्रस्तु-
हूं हूं ह्रीं ह्रीं कालिके घोरदंष्ट्रे प्रचण्डे चण्डनायिके
दानवान् दारय हन हन शव-शरीरे महाविघ्नं छेदय छेदय
स्वाहा हूं फडिति ।
अनेन मन्त्रितं लोष्ट्रं दशदिक्षु विनिक्षिपेत् ।
तन्मध्ये भैरवो देवो न विघ्नैः परिभूयते ।
नीलतन्त्रे-
कूर्चद्वयं ततो देवि मायायुग्मं ततः परम् ।
कालिके घोरदंष्ट्रे च प्रचण्डे चण्डनायिके ।
दानवान् दारयेत्युक्त्वा हनेति द्वितयं पुनः ।
शवशरीरे महाविघ्नं छेदयं द्वितयं पुनः ।
द्विठान्तो वर्म चास्त्रान्तो वीरार्दनमनुर्मतः ॥ ३४ क ॥
यदि प्रमादाद्देवेशि साधको भयविह्वलः ।
ततस्तैस्तैः सुहृद्वर्गै रक्षितो नाभिभूयते ॥ ३५ ॥
सितार्ककर्पूरसितवाट्यालकतूलैवेर्तिकां निर्माय, तत्र प्रदीपं
संस्थाप्य, देव्यस्त्रेभ्यो नमः इत्यस्त्रं सम्पूज्य,
अधस्थात्ज्वलत्प्रदीपं निखनेत् ।
तथा च-
अर्केन्दुसितवाट्यालतूलैर्निर्मितवर्तिकाम् ।
प्रदीपं तत्र संस्थाप्य अस्त्रं तत्र प्रपूजयेत् ।
हते तस्मिन् महादीपे विघ्नैश्च परिभूयते ।
तदधश्चास्त्रमन्त्रेण निखनेत्कुलदीपकम् ॥ ३६ ॥
ततस्तत्कल्पोक्तभूतशुद्ध्यादिन्यासजालं विधाय इष्टदेवतां
सम्पूज्य, सङ्कल्पमन्त्रं जपेत् ।
सङ्कल्पस्तु-
अद्येत्यादि अमुकगोत्रः श्री-अमुदेवशर्मा अमुकमन्त्रसिद्धिकामः
अमुकमन्त्रस्यामुकसङ्ख्यकजपमहं करिष्ये इति सङ्कल्प्य,
देवताध्यानपुरःसरं मन्त्रं जपेत् ॥
तथा च-
तत्तत्कल्पविधानेन भूतशुद्ध्यादिकं चरेत् ।
षोढां वा तारकं वापि विन्यस्य पूजयेत्ततः मन्त्रध्यानपरो
भूत्वा जपेन्मन्त्रमनन्यधीः ॥ ३७ ॥
जपनियमस्तु-
एकाक्षरी यदि भवेद्दिक्सहस्रं ततो जपेत् ।
द्व्यक्षरेऽष्टसहस्रं स्यात्त्र्यक्षरे चायुतार्द्धकम् ।
अतःपरन्तु मन्त्रज्ञो गजान्तकसहस्रकम् ।
निशायां वा समारभ्य उदयान्तं समाचरेत् ।
गजान्तकमिति अष्टोत्तरसहस्रमित्यर्थः ॥ ३८ ॥
यद्यसह्यभयं जायते कर्णे नेत्रे वस्त्रेण बन्धयेत् ।
ततोऽर्द्धरात्रिपर्यन्तं यदि किञ्चिन्न लक्ष्यते ।
जयदुर्गाख्यमनुना तेनैव सर्षपान् क्षिपेत् ।
जयदुर्गामन्त्रस्तु-
ॐ दुर्गे दुर्गे रक्षणि स्वाहा ।
ॐ तिलोऽसि सोमदेवत्यो गोसवस्तृप्तिकारकः ।
पितॄणां स्वर्गदाता त्वं मर्त्यानां मम रक्षकः ।
भूतप्रेतपिशाचानां विघ्नेषु शान्तिकारकः ।
इति पठित्वा ईशानादिचतुर्दिक्षु तिलांश्च निक्षिपेत् ।
ततः सप्तपदं गत्वा तत्रैव संविशेत् ।
पुनर्देवता सम्पूज्य जपेत् ॥ ३९ ॥
ततो यदि वरं वरयेति वदेत्तदा सत्यं कारयेत् ।
तथा च-
वरं वरय चेत्युक्ते साधकः स्थिरमानसः ।
सत्यन्तु कारयित्वा च वरयेद्वरमुत्तमम् ॥ ४० ॥
जपादौ तु बलिं दत्त्वा पश्चादपि बलिं हरेत् ।
जपान्ते जपमध्ये वा देहि देहीति भाषिते ।
तदापि च बलिं दद्यान्महिषं वापि छागलम् ।
बलिञ्च यवापिष्टमयेन ॥ ४१ ॥
यदा बलिं प्रार्थयते नरं कुञ्जरमेव वा ।
दिनान्तरेऽपि दास्यामि स्वीकृत्य स्वगृहं व्रजेत् ॥ ४२ ॥
अपरेऽह्नि ततो दद्यात्पिष्टेन नरकुञ्जरान् ।
पिष्टेनेति यवधान्योद्भवेनेत्यर्थः ॥ ४३ ॥
तथा च तन्त्रान्तरे-
यवक्षोदमयं वापि शालिक्षोदमयन्तथा ।
चन्द्रहासेन विधिवत्तत्तन्मन्त्रेण घातयेत् ॥ ४४ ॥
योगिनीहृदये-
जपान्ते तु बलिं दद्याद्देवतायै यथाविधि ।
महिषं छागलं वापि गृहीत्वा वरमेव च ।
गृहं गच्छेत्स्वसुहृदा सार्द्धं संहृष्टमानसः ।
ततो दक्षिणां दद्यात् ।
समाप्य साधनं देवि दक्षिणां विभवावधि ।
गुरवे गुरुपुत्राय तत्पत्न्यै वा निवेदयेत् ॥ ४५ ॥
शवसाधनम्
अथ शवसाधनम् -
तत्र स्थाननियममाह भावचूडामणौ-
शून्यागारे नदीतीरे पर्वते निर्जनेऽपि वा ।
विल्वमूले श्मशाने वा तत्समीपे वनस्थले ॥ ४६ ॥
अष्टम्याञ्च चतुर्दश्याम् पक्षयोरुभयोरपि ।
भौमवारे तमिस्रायां साधयेत् सिद्धिमुत्तमाम् ॥ ४७ ॥
माषभक्तञ्च बल्यर्थं धूपदीपादिकन्तथा ।
तिलाः कुशाः सर्षम्पाश्च स्थापनीयाः प्रयत्नतः ॥ ४८ ॥
ततः पूर्वोक्तान्यतमस्थानं गत्वा सामान्यार्घ्यं विधाय,
पूर्वमुखो मूलान्ते फट्कारं दत्त्वा, यागभूमिं सम्प्रोक्ष्य,
गुरुं गणेशं वटुकं योगिनीञ्च चतुर्दिक्षु पूर्वादितः
सम्पूज्य, पूर्वोक्तवीरार्दनमन्त्रं भूमौ विलिख्य, ये चात्रेत्यादि
� पूर्वोक्त-क्रमेण पुष्पाञ्जलित्रयं दत्त्वा प्रणम्य
श्मशानाधिपतिभ्यः पूर्वोक्तक्रमेण पूर्ववद्बलिं दत्वा
अघोरमन्त्रेण शिखाबन्धनं विधाय, सुदर्शनमन्त्रान्ते
आत्मानं रक्ष रक्षेति हृदि हस्तं दत्त्वा, आत्मरक्षां कुर्यात् ।
अघोरसुदर्शनमन्त्रौ तु-
ॐ ह्रीं स्फुर स्फुर प्रस्फुर प्रस्फुर घोर घोरतर तनुरूप चट
चट प्रचट प्रचट कह कह वम वम बन्ध बन्ध घातय
घातय हूं फट् ॐ सहस्रारे हूं फट् ॥ ४९ ॥
ततः पूर्वोक्तक्रमेण भूतशुद्धिं न्यासजालञ्च विधाय,
जयदुर्गा मन्त्रेण दिक्षु सर्षपान्विकीर्य तिलोऽसीति मन्त्रेण तिलांश्च
विकीर्य, विहितशवसमीपं गच्छेत् ॥ ५० ॥
विहितशवो यथा भावचूडामणौ-
यष्टिविद्धं शूलविद्धं खड्गविद्धं जले मृतम् ।
वज्रविद्धं सर्पदष्ष्टं चाण्डालञ्चाभिभूतकम् ।
तरुण सुन्दरं शूरं रणे नष्टं समुज्ज्वलम् ।
पलायनविशून्यन्तु सम्मुखे रणवर्तिनाम् ॥ ५१ ॥
भैरवतन्त्रेऽपि-
यष्टिप्रभृतिविद्धं वा चाभिभूतं जले मृतम् ।
शवमानीयं कर्तव्यं नाहरेत्स्वेच्छाया मृतम् ।
स्त्रीवश्यं पतितास्पृश्यं नयवर्जं हि तूवरम् अव्यक्तलिङ्गं
कुष्ठिं वा वृद्धभिन्नं शवं हरेत् ।
न दुर्भिक्षमृतञ्चापि न पर्युषितमेव वा ।
स्त्रीजनञ्चेदृशं रूपं सर्वथा परिवर्जयेत् ॥ ५२ ॥
कालीतन्त्रेऽपि-
ब्राह्मणं गोमयं त्यक्त्वा साधयेद्वीरसाधनम् ।
महाशवाः प्रशस्ता स्युः प्रधाने वीरसाधने ।
क्षुद्रप्रयोगकर्तृणां प्रशस्ताः सर्वसिद्धये ॥ ५३ ॥
एवमुक्तं शवं गृहीत्वा मूलमन्त्रेण पूजास्थानमानयेत् ।
तत्समीपं गत्वा ॐ फट् इति शवमभ्युक्ष्य ॐ हूं मातृकाय
नमः फडिति पुष्पाञ्जलित्रयं दत्त्वा शवं स्पृष्ट्वा प्रणमेत् ।
तदुक्तं भावचूडामणौ-
प्रणवाद्यस्त्रमन्त्रेण शवस्य प्रोक्षणञ्चरेत् ।
प्रणवं कूर्चबीजञ्च मृतकाय नमश्च फट् ।
पुष्पाञ्जलित्रयं दत्त्वा प्रणमेत् स्पर्शपूर्वकम् ॥ ५४ ॥
प्रणाममन्त्रस्तु-
वीरेश परमानन्द शिवानन्द कुलेश्वर ।
आनन्दभैरवाकार देवीपर्यङ्कशङ्कर ।
वीरोऽहं (शिवोऽहं) त्वां प्रपद्यामि उत्तिष्ठ चण्डिकार्चने ।
अनेन शवमन्त्रेण प्रणम्य क्षालयेत्शवम् ।
ॐ हूं मृतकाय नमः अनेन क्षालयित्वा, सुगन्धिजलेन
स्नापयित्वा, वाससा जलमुत्तोल्य, धूपैर्धूपयित्वा चन्दनादिना
शवं प्रलिप्य, शवस्य कटिदेशं घृत्वा, पूजास्थानं
समानयेत् ।
तदुक्तं कालीतन्त्रे-
तारं शब्दं मृतकाय नमोऽन्तं मन्त्रमुच्चरेत् ।
शवस्य स्नानमन्त्रोऽयमित्यादि ।
भावचूडामणौ-
धूपेन धूपितं कृत्वा गन्धादिना विलिख्य च ।
रक्ताक्तो यदि देवेशि भक्षयेत्कुलसाधकम् ॥ ५५ ॥
ततः कुशशय्यां कृत्वा पूर्वशिरसं कृत्वा शवं स्थापयेत् ।
तदुक्तं तत्रैव-
कुशशय्यां परिष्कृत्य तत्र संस्थापयेच्छवम् ।
तत-एला-लवङ्ग-कर्पूर-जाती-खादिरामार्द्रकम् ।
ताम्बूलं तन्मुखे दत्त्वा शवं कुर्यादधोमुखम् ।
तत्पृष्ठ चन्दनेनापि विलिप्य प्रयतः सुधीः ।
बाहुमूलादिकट्यन्तं चतुरस्रं विधाय च ।
मध्ये पद्मे पद्मं चतुर्द्वारं दलाष्टकसमन्वितम् ।
पीठमन्त्रं लिखेन्मध्ये तत्तत्कल्पविधानतः ।
ततः ॐ ह्रीं फडिति मन्त्रेण तत्तत्कल्पोक्तपीठमन्त्रं लिखेत्तदुपरि
कम्बलाद्यासनं न्यसेत् ।
तन्त्रान्तरे-
गत्वा शवस्य सान्निध्यं धारयेत्कटिदेशतः ।
यद्युपद्रावयेत्तस्य दद्यान्निष्ठीवनं शवे ।
पुनः प्रक्षालनं कृत्वा जपस्थाने समानयेत् ॥ ५६ ॥
ततो द्वादशाङ्गुल-यज्ञकाष्ठानि दशदिक्षु पूर्ववत्
संस्थाप्य, इन्द्रादिदशदेवताः सम्पूज्य सामिषान्नेन बलिं
दद्यात् ।
तदुक्तं तन्त्रान्तरे-
द्वादशाङ्गुलमानानि यज्ञकाष्ठानि दिक्षु च ।
संस्थाप्य पूजयेत्तत्र क्रमादिन्द्रादिदेवताः ॥ ५६ क ॥
तत्रायं क्रमः-
ॐ लाम् इन्द्राय सुराधिपतये ऐरावत वाहनाय वज्रहस्ताय
सशक्तिपारिषदाय सपरिवाराय नमः, इति पाद्यादिभिः सम्पूज्य
बलिं दद्यात् ।
बीजमिन्द्राय संलिख्य सुराधिपतये ततः ।
इमं बलिं गृह्ण-युग्मं गृह्णापय युगं ततः ।
विघ्ननिवारणं कृत्वा सिद्धं प्रयच्छ ठद्वयम् ।
अनेन मनुना पूर्वे बलि दद्याच्च सामिषम् ।
स्वस्वनामादिकं कृत्वा पूर्ववद्बलिमाहरेत् ।
सर्वेषां लोकपालानां ततः साधकसत्तमः ।
ॐ लाम् इन्द्राय सुराधिपतये इमं बलिं गृह्ण गृह्ण गृह्णापय
गृह्णापय विघ्ननिवारणं कृत्वा मम सिद्धिं प्रयच्छ स्वाहा ।
एष माषभक्तबलिः ॐ लाम् इन्द्राय स्वाहा ।
ॐ राम् अग्नये तेजोऽधिपतये मेषवाहनाय सपरिवाराय
शक्तिहस्ताय सायुधाय नमः ।
इति सम्पूज्य ॐ राम् अग्नये तेजोऽधिपतये इत्यादिना बलिं दद्यात् ।
ॐ यां यामाय प्रेताधिपतये दण्डहस्ताय महिषवाहनाय
सायुधायेत्यादिना सम्पूज्य ॐ यां यमाय प्रेताधिपतये बलिं
दद्यात् ।
ॐ क्षां निर्-ऋतये रक्षोऽधिपतये असिहस्ताय सवाहनाय
सपरिवाराय इत्यादिना सम्पूज्य, ॐ क्षां निर्-ऋतये रक्षोऽधिपतये
इत्यादिना बलिं दद्यात् ।
ॐ वां वरुणाय जलाधिपतये पाशहस्ताय मकरवाहनाय
सायुधाय इत्यादिना सम्पूज्य, ॐ वां वरुणाय जलाधिपतये
इत्यादिना बलिं दद्यात् ।
ॐ यां वायवे प्राणाधिपतये हरिणवाहनायाङ्कुशहस्ताय
इत्यादिना सम्पूज्य, ॐ यां वायवे प्राणाधिपतये इत्यादिना बलिं
दद्यात् ।
ॐ कुबेराय यक्षाधिपतये गदाहस्ताय नरवाहनाय सपरिवाराय
इत्यादिना सम्पूज्य, ॐ कुबेराय यक्षाधिपतये इत्यादिना बलिं
दद्यात् ।
ॐ हाम् ईशानाय भूताधिपतये शूलहस्ताय वृषवाहनाय
सपरिवाराय इत्यादिना पूर्ववत् सम्पूज्य, ॐ हाम् ईशानाय
भूताधिपतये इत्यादिना बलिं दद्यात् ।
इन्द्रेशानयोर्मध्ये ॐ हां ब्रह्मणे प्रजाधिपतये
हंसवाहनाय पद्महस्ताय सपरिवाराय इत्यादिना सम्पूज्य, ॐ
आं ब्रह्मणे प्रजाधिपतये हंसवाहनाय इत्यादिना बलिं दद्यात्
।
नैर्-ऋतवरुणयोर्मध्ये ॐ अम् अनन्ताय नागाधिपतये चक्रहस्ताय
रथवाहनाय सपरिवाराय इत्यादिना सम्पूज्य, ॐ अम् अनन्ताय
नागाधिपतये सायुधाय इत्यादिना सम्पूज्य बलिं दद्यात् ।
ततः सर्वभूतबलिं दद्यात् ।
सर्वत्र सामिषान्नेन ।
ततः-
अधिष्ठातृदेवताभ्यो बलिञ्च स्मारयेत्ततः ।
चतुःषष्टियोगिनीभ्यो डाकिनीभ्योऽपि सन्दिशेत् ॥ ५७ ॥
अथ पूजासामग्रीं समीपे दूरे चोत्तरसाधकं संस्थाप्य,
मूलान्ते ह्रीं फट् शवासनाय नमः इति शव सम्पूज्य, ह्रीं
फडन्तमूलमुच्चार्य, अश्वारोहणक्रमेण शवोपर्युपविश्य,
स्वपदतले कुशान्दत्त्वा शवकेशान् प्रसार्य, जुटिकां बद्ध्वा,
गुरुं गणपति देवञ्च नमस्कृत्य प्राणायामषडङ्गन्यासौ
कृत्वा, पूर्ववत् वीरार्दनमन्त्रेण दशदिक्षु लोष्ट्रान्निक्षिप्य
सङ्कल्पं कुर्यात् ।
अद्येत्यादि अमुकगोत्रः श्री-अमुदेवशर्मा अमुकदेवतायाः
सन्दर्शनकामः अमुकमन्त्रस्यामुकसङ्ख्यजपमहं करिष्ये ।
इति सङ्कल्प्य ॐ ह्रीम् आधारशक्तिकमलासनाय नमः इत्यासनं
सम्पूज्य, स्ववामतः शवसमीपे अर्घ्यपात्रादिकं संस्थाप्य,
शवजुटिकायां पीठपूजां कृत्वा, षोडशोचारैर्दशोपचारैः
पञ्चोपचारैर्वा देवीं सम्पूज्य, शवमुखे देवीं गन्धादिना
सन्तर्पयेत् ।
ततः शवादुत्थाय सम्मुखे गत्वा मन्त्रं पठेत् ।
ॐ वशो मे भव देवेश मम वीरासिद्धिं देहि देहि महाभाग
कृताश्रयपरायण ।
ततः शवचरणौ पट्टसूत्रेण वद्धा मूलेन दृढं बन्धयेत् ।
ॐ मद्वशो भव देवेश वीरसिद्धिकृतास्पद ।
भीम भीरुभयाभाव भवमोचन भावुक ।
त्राहि मां देवदेवेश शूराणामधिपाधिप ।
इत्यनेन शवस्य पादमूले त्रिकोणं यन्त्रं लिखेत् ।
ततः शवोपर्युपविश्य हस्तद्वयं पार्श्वयोः प्रसार्य, तदुपरि
कुशान् दत्त्वा, तत्र स्वपादौ निधाय पुनः प्राणायामत्रयं
कृत्वा, शिरसि गुरुं विभाव्य, हृदये देवीं ध्यात्वा, ओष्ठौ
सम्पुटौ कृत्वा, विहितमालया मौनी भूत्वा विगतभीर्जपेत् ।
अत्र श्मशानसाधनक्रमेण जपः कार्यः ॥ ५८ ॥
यद्यर्द्धरात्रपर्यन्त किञ्चिन्न लक्ष्यते, तदा
पूर्ववत्सर्षपतिलविकिरणं सप्तपदगमनञ्च कृत्वा जपं कुर्यात्
।
भये जाते सति एवं फठेत् ॥ ५८ क ॥
चलच्छवाद्भयं नास्ति भये जाते वदेत्ततः ।
यत्प्रार्थय बलित्वेन दातव्यं कुञ्जरादिकम् ।
दिनान्तरे च दास्यामि स्वनाम कथयस्व मे ।
इत्युक्त्वा संस्कृतेनैव निर्भयश्च पुनर्जपेत् ततश्चेन्मधुरं वक्ति
वक्तव्यं मधुरं ततः ।
ततः सत्यं करयित्वा वरञ्च प्रार्थयेत्ततः ।
यदि सत्यं न कुरुते वरं वा न प्रयच्छति ।
तदा पुनर्जपेद्धीमानेकाग्रमानसस्तथा ।
अस्यार्थः-
यदि जपकाले आकाशगत्या कुञ्जरादिकं प्रार्थयते तदा दिनान्तरे
दास्यामि मम स्थाने स्वनाम कथय इत्युक्त्वा पुनर्जपेत् ।
यदि स्वनाम मधुरं कथयति, तदा त्वम् अमुक इति सत्यं कुरु ।
कृते सत्ये वरं प्रार्थयेत् ।
यदि कदाचिदपि सत्यं न करोति वरं वा न प्रयच्छति, तदा
पुनर्जपेत् ।
तथा च-
सत्ये कृते वरं लब्ध्वा सन्त्यजेच्चजपादिकम् ।
फलं जातमिति ज्ञात्वा जुटिकां मोचयेत्ततः ।
शवं प्राक्षाल्य संस्थाप्य मोचयेत्पादबन्धनम् ।
पादचक्रं मोचयित्वा पूजाद्रव्यं जले क्षिपेत् ।
शवं जले तु गर्ते वा निक्षिप्य स्रानमाचरेत् ॥ ६० ॥
ततस्तु स्वगृहं गत्वा बलिं दद्याद्दिनान्तरे ।
बलिमन्त्रस्तु-
अग्रिमरात्रौ येषां यजमानोऽहं ते गृह्णन्त्विमं बलिम् ।
अथ यैर्याचितानश्वान् नरकुञ्जरशूकरान् ।
दत्त्वा पिष्ठमयानन्ते कर्तव्यं समुपोषणम् ॥ ६१ ॥
ततः परेऽह्नि नित्यक्रियां कृत्वा पञ्चगव्यं पिबेत् ।
पञ्चविंशतिसङ्ख्यकानपि ब्राह्मणान् भोजयेत् ॥ ६२ ॥
यथा-
परेऽह्नि नित्यमाचर्य पञ्चगव्यं पिबेत्ततः ।
ब्राह्मणान् भोजयेत्तत्र पञ्चवविंशति सङ्ख्यकान् ।
सप्तपञ्चविहीनान् वा क्रमेणैव दशावधि ।
ततः स्नात्वा च भुक्त्वा च निवसेदुत्तमस्थले ॥ ६३ ॥
यदि न स्याद्विप्रभोज्यं तदा निर्धनतां ब्रजेत् ।
तेन चेन्निर्धनत्वं स्यात्तदा देवी प्रकुप्यति ।
त्रिरात्रं वाथ षड्रात्रं नवरात्रन्तु गोपयेत् ॥ ६४ ॥
स्त्रीशय्यां यदि गच्छेत्तु तदा व्याधिं विनिर्दिशेत् ।
गीतं श्रुत्वा च वधिरो निश्चक्षुर्नृत्यदर्शनात् ।
यदि वक्ति दिने वाक्यं तदास्य मूकता भवेत् ॥ ६५ ॥ पञ्चदशदिनं
यावद्देहे देवस्य संस्थितिः ।
न स्वीकार्ये गन्धपुष्पे वहिर्याति यदा तदा ।
तदा वस्त्रं परित्यज्य गृह्णीयाद्वसनान्तरम् ॥ ६६ ॥
गोब्राह्मणविनिन्दाञ्च न कुर्याच्च कदाचन ।
दुर्जनं पतितं क्लीवं न स्पृशेच्च कदाचन ॥ ६७ ॥
देवगोब्राह्मणादींश्च प्रत्यहं संस्पृशेच्छुचिः ।
प्रातर्नित्यक्रियान्ते च विल्वपत्रोदकं पिबेत् ॥ ६८ ॥
ततः स्नात्वा तु गङ्गायां प्राप्ते षोडशवासरे ।
स्वाहान्तं मन्त्रमुच्चार्य तर्पणान्ते ममः पदम् ।
एवं शतत्रयादूर्ध्वं देवान् सन्तर्पयेज्जलैः ।
स्नानतर्पणशून्यस्य न स्याद्देवस्य तर्पणम् ।
इत्यनेन विधानेन सिद्धिं प्राप्नोति साधकः ।
इह भुक्त्वा वरान् भोगान्ते याति हरेः पदम् ।
ततो दक्षिणां दत्त्वाच्छिद्रावधारणं कुर्यात् ॥ ६९ ॥
इति शवसाधनम् ।
चण्डोग्रशूलपाणिमन्त्राः
अथ विद्याभेदाः ।
कुब्जिकातन्त्रे-
प्रणवञ्च ततो मायां कूर्चबीजं समुद्धरेत् ।
शिवायेति फडन्तञ्च चण्डोग्रोऽयं महामनुः ।
चण्डोग्रशूलपाणेश्च मन्त्रः सर्वार्थसाधकः ॥ ७० ॥
अस्य ब्रह्मा ऋषिर्गायत्रीच्छन्दो माया बीजं देवश्चण्डोग्र ईरितः ।
षड्दीर्घभाजा बीजेन ताराद्येन षडङ्गकम् ॥ ७१ ॥
ध्यानन्तु-
शुद्धस्फटिकसङ्काशं चतुर्बाहुं किरीटिनम् ।
शूलं कपालं दक्षे तु वामे तु पाशमङ्कुशम् ।
सुरापानरसाविष्टं साधकाभीष्टदायकम् ॥ ७२ ॥
ध्यात्वा सम्पूज्य देवेशं पञ्चसहस्रं जपेन्मनुम् ।
दशांशं संस्कृते वह्नौ हुनेद्रक्तोत्पलेन च ॥ ७३ ॥
अथात्र प्रयोगः-
त्रिमध्वक्तेन लभते कवितां धनभाग्भवेत् ।
रक्तपद्मस्य होमेन महतीं श्रियामाप्नुयात् ॥ ७३ ॥
पायसेन तु होमेन शत्रून् नाशयतेऽचिरात् ।
कुसुम्भतैलहोमेन रिपून् हन्यान्न संशयः ॥ ७५ ॥
करवीरस्य होमेन वाकस्तम्भो जायते ध्रूवम् ।
शुक्लपद्मस्य होमेन मोहयेदखिलं जगत् ॥ ७६ ॥ षट्कोणाष्टदलं
पद्मं मध्ये मूलं प्रपूजयेत् ।
केवलं शुद्धभावेन हविष्याशी दिवा जपेत् ॥ ७७ ॥
अस्य पुरश्चरणमात्रेण न च विघ्नैर्विलिप्यते ।
अस्यैव जपमात्रेण सर्वसिद्धिमुपालभेत् ॥ ७८ ॥
(चण्डोग्रशूलपाणियन्त्रम् चित्र ३८)
इति चण्डोग्रशूलपाणिप्रकरणम्
अथ मातङ्गीमन्त्रः
वामकेश्वरतन्त्रे-
अथ वक्ष्ये महादेवीं मातङ्गीं सर्वसिद्धिदाम् ।
अस्योपासनमात्रेण वाक्सिद्धिं लभतेऽचिरात् ॥ ७९ ॥
प्रणवञ्च ततो मायां कामबीजञ्च कूर्चकम् ।
मातङ्गी ङेयुता चास्त्रं वह्निजायावधिर्मनुः ॥ ८० ॥
ऋषिः स्याद्दक्षिणामूर्तिर्विराटछन्दः प्रकीर्तितम् ।
मातङ्गी देवता देवी सर्वकार्यप्रदायिनी ॥ ८१ ॥
अङ्गन्यासकरन्यासौ कुर्यान्मन्त्री समाहितः ।
षड्दीर्घभाजा बीजेन प्रणवाद्येन कल्पयेत् ॥ ८२ ॥
अस्या यन्त्रं यथा-
षट्कोणाष्टदलं पद्मं लिखेद्यन्त्रं मनोहरम् ।
तत्र पूजा प्रकर्तव्या जवापुष्पेण मन्त्रवित् ।
अष्टशक्तीश्चाष्टदले पूजयेत् सुसमाहितः ।
रतिः प्रीतिर्मनोभवा क्रिया श्रद्धा च शक्तयः ।
अनङ्गकुसुमानङ्गमदना मदनालसा ।
इत्यस्टशक्तीः सम्पूज्य उपहारसमन्वितः ।
ततो देवीं परां ध्यायेत् साधकः स्थितमानसः ॥ ८३ ॥ (चित्र ३८)
तद्यथा-
श्यामाङ्गीं शशिशेखरां त्रिनयनां रत्नसिंहासनस्थिताम् ।
वेदैर्बाहुदण्डैरसिखेटकपाशाङ्कुशधराम् ॥ ८४ ॥
एवं ध्यात्वा महादेवीं गन्धपुष्पैर्मनोरमैः ।
नैवेद्यन्तु महादेव्यै पायसं शर्करान्वितम् ।
पुरश्चरणकाले तु षट्सहस्रं मनुं जपेत् ।
तद्दशांशं हुनेदाज्यैः शर्करामधुभिः सह ।
ब्रह्मवृक्षोद्भवैः काष्ठैः साधकः शक्तिभिः सह ।
एवं पुरस्क्रियां कृत्वा प्रयोगविधिमाचरेत् ॥ ८५ ॥
चतुष्पथे श्मशाने वा कलामध्ये च मान्त्रिकः ।
मत्स्यं मांसं पायसञ्च दद्याद्धूपञ्च गुग्गुलुम् ।
रात्रियोगेन कर्तव्यं सदा पूर्णश्च साधकः ॥ ८६ ॥
एवं प्रयोगमात्रेण कविता जायते ध्रुवम् ।
अग्निस्तम्भं जलस्तम्भं वाक्स्तम्भम् कारयेद् ध्रुवम् ।
मन्त्री जयति शत्रूंश्च तार्क्ष्यो भोगिकुलं यथा ।
शास्त्रे वादे कवित्वे च बृहस्पतिरिवापरः ॥ ८७ ॥
अनेनैव विधानेन मातङ्गी सिद्धिदायिनी ।
नूनं तद्गृहमागत्य कुबेरैर्दीयते वसु ।
विना मत्स्यैर्विना मांसैर्नार्चयेत् परदेवताम् ॥ ८८ ॥
अथ उच्छिष्टचाण्डालिनी-मन्त्राः
उच्छिष्टचाण्डालिनी सुमुखी देवी महापिशाचिनी लज्जाबीजं ठंः
ठंः ठंः ।
तदुक्तं फेत्कारिण्याम्-
उक्त्वा उच्छिष्टशब्दन्तु तथा चाण्डालिनीति च ।
सुमुखी तु ततो देवीं कीर्तयेत्तदनन्तरम् ।
महापिशाचिनीं पश्चाल्लज्जा बीजं ततः परम् ।
नादविन्दुसमाक्रान्तं ठकारत्रितयं पुनः ।
सविसर्गं महादेवि सर्वसिद्धिप्रदायकम् ॥ ८९ ॥
मन्त्रान्तरम्-
उच्छिष्टचाण्डालि मातङ्गि सर्ववशङ्करि नमः स्वाहा ।
तदुक्तं तन्त्रान्तरे अथवोच्छिष्टचाण्डालि मातङ्गिपदमीरयेत् ।
ततः सर्ववशं चान्ते करि हृद्वह्निवल्लभा ।
एकोनविंशत्यर्णोऽयं सर्वाभीष्टकरो भवेत् ॥ ९० ॥
मन्त्रान्तरम्-
मन्त्रदेवप्रकाशिकायाम्-वाग्भवं माया कामः सौः ऐं
ज्येष्ठमातङ्गि नमामि उच्छिष्टचाण्डालि त्रैलोक्यवशङ्करि
स्वाहा ।
इमां विद्यां महेशानि चापरां हूं-समन्विताम् ।
इयं विद्या महाविद्या सर्वपापाहारिणी ।
सुखदा मोक्षदा चैव राज्यसौभाग्यदायिका ।
यां यां प्रार्थयते सिद्धिं हठात्तां तामवाप्नुयात् ॥ ९१ ॥
विधानञ्च प्रवक्ष्यामि शृणु देवि वरानने ।
भोजनानन्तरं देवि विनैवाचमने कृते ।
बलिं दद्यात् प्रथमतो मूलमन्त्रेण साधकः ।
ततो मन्त्रं जपेद्ध्यात्वा देवीं तामिष्टसिद्धये ।
वलिमपि उच्छिष्टेन ॥ ९२ ॥
तथा च-
न तिर्थिन च नक्षत्रं न चाङ्गन्यासमेव च ।
नारिदोषे न वा विघ्नं नाशौचं नियमो न च ।
यस्य तिष्ठति मन्त्रोऽयं न च विघ्नैः स बाध्यते ॥ ९३ ॥
ध्यानस्तु-
शवोपरि समासीनां रक्ताम्बरपरिच्छदाम् ।
रक्तालङ्कारसंयुक्तां गुञ्जाहारविभूषिताम् ।
षोडशाब्दाञ्च युवतीं पीनोन्नतपयोधराम् ।
कपालकर्तृकाहस्तां परां ज्योतिःस्वरूपिणीम् ।
वामदक्षिणयोगेन ध्यायेन्मन्त्रविदुत्तमः ॥ ९४ ॥
उच्छिष्टेन बलिं दत्त्वा जपेत्तद्गतमानसः ।
उच्छिष्टेन तु कर्तव्यो जपोऽस्याः सिद्धिमिच्छता ।
उच्छिष्टे जपमानस्य जायन्ते सर्वसिद्धयः ॥ ९५ ॥
अपरञ्च प्रवक्ष्यामि शृणु देवि फलप्रदम् ।
होमञ्च तर्पणञ्चैव सर्वकामार्थसिद्धये ।
स्थण्डिले मण्डलं कृत्वा चतुरस्रं समन्ततः ।
पूजयेन्मण्डलं देवि मूलमन्त्रेण साधकः ।
ततो मूलमुच्चार्य मण्डलाय नमः इति मन्त्रेण वह्निस्वरूपां
देवतां ध्यात्वा होमयेत् ।
तथा च-
ततो देवीं समाधाय वह्निस्वरूपां व्यवस्थिताम् ।
देवीं ध्यात्वा चरेद्धोमं दधिसिद्धार्थतण्डुलैः ।
सहस्रमात्रहोमेन राजा च वशगो भवेत् ।
मार्जारस्य तु मांसेन देव्या होमं समाचरेत् ।
स प्राप्नोति परां विद्यां सर्वशास्त्रवशीकृताम् ।
कुर्याच्छागस्य मांसेन होमं मधुसमन्वितम् ।
सहस्रैकविधानेन भवन्ति कुलसिद्धयः ॥ ९६ ॥
विद्याकामश्चरेद्धोमं शर्करायुतपायसैः ।
नूनं तस्य भवन्त्येव सद्यो विद्याश्चतुर्दश ॥ ९७ ॥
बिल्वपत्रैस्त्रिमध्वक्तैर्मासमेकं समाहितः ।
वन्ध्यापि लभते पुत्रं चिरजीविनमुत्तमम् ॥ ९८ ॥ कर्कन्धुकुसुमं
हुत्वा छागरक्तसमन्वितम् ।
दुर्भगाया हठाद्देवि सौभाग्यं शुभदायकम् ॥ ९९ ॥
रजस्वलाया वस्त्रेण मधुना पायसेन च ।
होमं कृत्वा महादेवि त्रैलोक्यं वशमानयेत् ॥ १०० ॥
इत्येषा कथिता देवि सर्वपापप्रणाशिनी ।
मन्त्रस्योच्चारणाद्देवि सर्वपापप्रणाशिनी ।
उच्छिष्टदूषणं त्यक्त्वा स पवित्रो जपेद् ध्रुवम् ॥ १ ॥
अस्य यद्यपि पुरश्चरणं नोक्तं तथापि अष्टोत्तरसहस्रजपः ।
तद्दशांशेन होमादिकं बोध्यम् ।
तथा च-
येषां जपे च होमे च सङ्ख्या नोक्ता मनीषिभिः ।
तेषामष्टसहस्रन्तु सङ्ख्या स्याज्जपहोमयोः ।
इत्यभिधानात् ।
अष्टसहस्रमष्टोत्तरसहस्रमिति सम्प्रदायः ।
वस्तुवस्तु आसां सिद्धविद्यत्वात् पुरश्चरणं नास्तीति
निबन्धकाराः ॥ २ ॥
अथ धूमावती मन्त्राः
फेत्कारिण्याम्-
दान्तावर्घीशविन्द्वन्तौ बीजं धूमावती द्विठः ।
धूमावतीमनुः प्रोक्तो वैरिनिग्रहकारकः ॥ ३ ॥
अस्याः पूजा-
प्रातःकृत्यादिकं कृत्वा भूतशुद्ध्यादि-प्राणायामौ च कृत्वा
ऋष्यादिन्यासं कुर्यात् ।
यथा-
शिरसि पिप्पलाद-ऋषये नमः, मुखे निवृच्छन्दसे नमः, हृदि
धूउमावत्यै देवतायै नमः ॥ ४ ॥
ततः कराङ्गन्यासौ-
धाम् अङ्गुष्ठाभ्यां नमः, धीं तर्जनीभ्यां स्वाहा इत्यादि ।
एवं धां हृदयाय नमः इत्यादि ॥ ५ ॥
ततो ध्यानम्-
विवर्णा चञ्चला रुष्टा दीर्घा च मलिनाम्बरा ।
विवर्णकुन्तला रुक्षा विधवा विरलद्विजा ।
काकध्वजरथारूढा विलम्बितपयोधरा ।
सूर्पहस्तातिरुक्षाक्षी धूतहस्ता वरान्विता ।
प्रवृद्धघोणा तु भृशं कुटिला कुटिलेक्षणा ।
क्षुत्पिपासार्दिता नित्यं भयदा कलहप्रिया ।
विरलद्विजा विरलदन्ता ॥ ६ ॥
जपेत् कृष्णचतुर्दश्यां पुरश्चरणसिद्धये ।
उपवासरतो मन्त्री शून्यागारे दिवानिशम् ।
श्मशाने विपिने वापि जपेल्लक्षञ्च वाग्यतः ।
सोञ्चीष आर्द्रवासाश्च पुरश्चरणकर्मणि ।
आख्योपरि लिखेन्मन्त्रं तस्मिन् स्थाप्य शिवं यजेत् ।
तथा च-
अवष्टभ्य शिवं शत्रुनाम्ना तु प्रजपेन्मनुम् ।
सहस्रस्यार्द्धतः शत्रुर्ज्वरेण परिगृह्यते ।
पञ्चगव्येन शान्तिः स्याज्ज्वरस्य पयसापि वा ।
(ततः पूर्ववत् पञ्चोपचारैः सम्पूज्य जपेत् ॥ ७ ॥
तथा कृत्वा मन्त्रे रिपोराख्यामारण्ये यामिनीदले ।
उत्सादो जायते शत्रोर्मनोरयुतजापतः ।
दग्ध्वा काकं श्मशानाग्नौ तद्भस्मादाय मन्त्रितम् ।
विरोधिनामष्टाशासु सद्य उच्चाटनं रिपोः ।
मन्त्रितमित्यष्टोत्तरशतमिति ।
अष्टाशासु क्षिपेदित्यर्थः ॥ ७क ॥
श्मशानभस्मना कृत्वा शिवं तस्योपरि न्यसेत् ।
विरोधिनामसंरुद्धं कृष्णपक्षे समर्चयेत् ।
महिषीक्षीरधूपञ्च यद्यच्छक्रविपत्करम् ।
महिषीरूपमासाद्य स्वप्ने शत्रुं विनाशयेत् ।
मन्त्रेणानेन विखनेत्तद्भस्म रिपुमन्दिरे ।
शत्रूनुच्चाटयेन्नूनं नात्र कार्या विचारणा ॥ ८ ॥
श्मशानभस्मना लिङ्गं कृत्वा पुष्पादिनार्चयेत् ।
भगवन्निति समाभाष्य मनसा कर्म चिन्तयन् ।
निम्बकाकच्छदावेकीकृत्य चाष्टशतं जपेत् ।
दद्याद्धूपं साध्यनाम्ना सद्यो विद्वेषयेदरीन् ।
अस्यार्थः-
निम्बकाकच्छदावेकीकृत्य तदुपरि अष्टोत्तरशतं जप्त्वा तेन
द्रव्येणामुकं द्वेषय द्वेषय ।
मूलमुच्चार्य धूपं दद्यात् ।
तथा च-
चितिकाष्ठानले क्षीरहोमाच्छान्तिः सदा भवेत् ।
तथा च रजोधूपप्रदानेन गृध्ररूपेण कालिका ।
मारयत्यरिमागत्य शान्तिर्निर्माल्यधूपतः ।
वराहकर्णधूपेन हन्याच्छूकररूपिणी ।
अश्वत्थपत्रधूपेन शान्तिर्भवति नान्यथा ।
शान्तिः सर्वाभिचारस्य पञ्चगव्येन जायते ।
क्षीरेण वापि देवेशि मधुरत्रितयेन वा ।
कीले क्षीरतरोर्विदर्भ्य विलिखेन्मन्त्रेण नामाक्षरं, जप्त्वालिख्य
पदद्वये तु निखनेदुच्चाटनं विद्विषाम् ।
तत्पादद्वयधूलिकीर्णहविषा दद्याद्द्विजेभ्यो बलिं, तज्जप्त्वा
चितिभस्मकीलितमरेर्गेहे तदुच्चाटनमित्यादि प्रयोगः ॥ ९ ॥
अथ भद्रकालीमन्त्रः
प्रासादबीजमुद्धृत्य कालीतिपदमुद्धरेत् ।
महाकालिं-पदं चोक्त्वा किलियुग्ममतः परम् ।
अस्त्रमग्निप्रियान्तोऽयं भद्रकालीमहामनुः ॥ १० ॥
आराध्य प्रजपेन्नित्यमष्टोत्तरशतं जपेत् ।
जपमाला विधातव्या अष्टोत्तरशतेन च ।
ध्यातव्येयं महादेवी भरकाली भयापहा ।
आराध्येति भूतशुद्ध्यादिप्राणायामौ कृत्वा पञ्चोपचारैः
शिवलिङ्गे सम्पूज्येत्यर्थः ॥ ११ ॥
ध्यानं यथा-
क्षुत्क्षामा कोटराक्षरी मसिमलिनमुखी मुक्तकेशी रुदन्ती नाहं
तृप्ता वदन्ती जगदखिलमिदं ग्रासमेकं करोमि ।
हस्ताभ्यां धारयन्ती ज्वलदनलशिखासन्निभं पाशयुग्मं
दन्तैर्जम्बुफलाभैः परिहरतु भयं पातु मां भद्रकाली ॥ १२ ॥
प्रयोगमात्रं कर्तव्यं वैरिनिग्रहकारकम् ।
इयं देवी महादेवी शत्रुनिग्रहकारिणी ।
यथेष्टचिन्तया चिन्त्या धर्मकामार्थसिद्धिदा ॥ १३ ॥
अस्य पुरश्चरणादिकं दक्षिणकालीमन्त्रवदिति केचित्, वस्तुवस्तु
पुरश्चरणमष्टोत्तरसहस्रजपः ॥ १४ ॥
अथ उच्छिष्टगणेशमन्त्रः
ॐ हस्तिपिशाचि लिखे ठद्वयम् ।
तन्त्रान्तरे-
हस्तिपदं समुच्चार्यं पिशाचीतिपदं ततः ।
देवराजं सनेत्रञ्च कान्तमीशस्वरान्वितम् ।
वह्निजायावधिर्मन्त्रस्ताराद्यः सर्वकामदः ।
प्रणवस्थाने गमिति केचित् ।
हस्तिपिशाचि लिखेऽग्निवनिता गं तदादित इति तत्त्वबोधात् ॥ १५ ॥
तथा-
सारभूतमिदं मन्त्रं न देयं यस्य कस्यचित् ।
गुह्यं सर्वागमेष्वेव हितबुद्ध्या प्रकाशितम् ॥ १६ ॥
तथा च-
तिथिर्न च नक्षत्रं नोपवासो विधीयते । यथेष्टचिन्तया मन्त्रः
सर्वकामफलप्रदः ॥ १७ ॥
अस्या पूजाप्रयोगः-
प्रातःकृत्यादि प्राणायामान्तं विधाय ऋष्यादिन्यासं कुर्यात् ।
शिरसि सुधीर-ऋषये नमः, मुखे निवृद्गायत्रीच्छन्दसे नमः, हृदि
उच्छिष्टगणपतये देवतायै नमः ।
ततः प्रणवेन कराङ्गन्यासौ कृत्वा ध्यायेत् ॥ १८ ॥
ध्यानं यथा-
रक्तमूर्तिं गणेशञ्च सर्वाभरणभूषितम् ।
रक्तवस्त्रं त्रिनेत्रञ्च रक्तपद्मासने स्थितम् ।
चतुर्भुजं महाकालं द्विदन्तं सस्मिताननम् ।
इष्टञ्च दक्षिणे हस्ते दन्तञ्च तदधःकरे ।
पाशाङ्कुशौ च हस्ताभ्यां जटामण्डलवेष्टितम् ।
ललाटचन्द्ररेखाढ्यं सर्वालङ्कारभूषितम् ।
एवं ध्यात्वा करस्थपुष्पैर्मूलेन शिरसि सम्पूज्य
बहिःपूजामारभेत् ॥ १९ ॥
(अष्टदलपद्मं लिखित्वा पूजयेत् ।) तत्र प्रथमं मूलेनार्घ्यं
संस्थाप्य दशधा मूलं प्रजप्य, तेनोदकेनात्मानं
पूजोपकरणञ्चाम्भ्युक्ष्य, पुनर्ध्यात्वा, अष्टदलपद्ममध्ये
स्थापयेत् ।
ततः पञ्चोपचारैः सम्पूज्य पत्रेषु पूर्वादि ॐ वक्रतुण्डाय
स्वाहा ।
एवम् एकदन्ताय स्वाहा, लम्बोदराय विकटाय विघ्नेशाय
गजवक्त्राय विनायकाय गणपतये, मध्ये हस्तिमुखाय ।
सर्वत्र स्वाहान्तता ।
पुनर्देवं त्रिः सम्पूज्य, यथाशक्ति जपं कृत्वा समर्प्यं,
बलिरूपनैवेद्यमुपनीय, ॐ उच्छिष्टगणेशाय महाकालाय एष
बलिर्नमः इति बलि दत्त्वा, आचमनीयादिकं दद्यात् ।
विशेषफलाकाङ्क्षिभिः पुनः ॐ ह्रां ह्रीं ह्रैं ह्रूं स्वाहा
इत्यनेन बलिं दद्यात् ।
ततः पुष्पमेकं दक्षिणदिशि क्षिप्त्वा क्षमस्वेति विसर्जयेत् ॥ २० ॥
(उच्छिष्ट गणेशयन्त्रम् चित्र ३९)
अस्य पुरश्चरणं षोडशसहस्रजपः ।
तथा च-
कृष्णां चतुर्थीमारभ्य यावत्शुक्लचतुर्थिका ।
सहस्रं हि जपेन्नित्यं योषिन्नियमपूर्वकम् ।
स्नापयेन्मधुना नित्यं नैवैद्यं गुडपायसम् ।
भुक्तोच्छिष्टो जपेन्नित्यं गणेशोऽहं सदा प्रियः ।
श्वेतर्केणाकृतिं कृत्वा रक्तचन्दनकेन वा ।
अङ्गुष्ठमात्रं प्रतिष्ठाप्य द्विजाग्निगुरुसन्निधौ ।
जप्त्वा षोडशसाहस्त्र्यं सिद्धमन्त्रो भवेद्ध्रुवम् ।
योषिदिति योषिदुपगमने नियमपुरःसरमित्यर्थः न तु त्यागनियमः
।
अप्रसङ्गादनौचित्यादनाचान्त इति दर्शनात् ॥ २१ ॥
उच्छिष्टश्चाशुचिर्भूत्वा जपपूजनमाचरेत् ।
अनुच्छिष्टे न सिध्येत तस्मादेवं समाचरेत् ।
इति तन्त्रान्तरवचनाच्च ।
केषाञ्चिन्मते पूजा नास्ति मनसा जपेत् ।
केषाञ्चिन्मते कराङ्गन्यासौ न स्तः गणेशोऽहमिति ।
पूर्वोक्तं चिन्तयेत् ।
गर्गमते विजने वने स्थित्वा रक्तचन्दनानुलिप्तताम्बूलमुखोच्छिष्ट
� मुखो जपेत् ।
केषाञ्चिन्मते सर्वालङ्कारभूषितः सर्वावस्थानु जपेत् ।
अन्यमते सम्पूज्य मोदकं चर्वयन्, भृगुमते फलमश्नन् ।
विभीषणमते मांसनैवेद्यं दत्त्वा तदेव खादयन् ॥ २२ ॥
अथ विशेष प्रयोगः-
राजद्वारे तथारण्ये सभायां गोत्रसंसदि ।
विवादे व्यवहारे च सङ्ग्रामे शत्रुसङ्कटे ।
नौकायां विपिने वापि द्यूते च च व्यसने तथा ।
ग्रामदाहे चौरविद्धे सिंहव्याघ्रादिसङ्कटे ।
स्मरणादेव देवस्य सर्वं वै विद्रुतं भवेत् ।
तत् सर्वं नश्यति क्षिप्रं सूर्येणैव तमो यथा ॥ २३ ॥
तथा-
सद्योच्छिष्टगणेशानो यक्षराजेन धीमता ।
आराधितं सोपहारैः सम्यगिष्टफलप्रदः ।
एवं कृत्वा व्ययस्थान्तु तद्धनेश्वरतां गतः ॥ २४ ॥
अपामार्गसमिद्धोमे सौभाग्यं लभते ध्रुवम् ।
अष्टोत्तरशतैर्मन्त्री मूलमन्त्राभिमन्त्रितम् ॥ २५ ॥
तथा-
वानरास्थिसमुद्भूतं कीलकञ्चाभिमन्त्रितम् ।
निखनेन्मन्दिरे यस्य भवेदुच्चाटनं परम् ॥ २६ ॥
अथ वीथ्यां खनेद्यस्य क्रयविक्रयणं हरेत् ।
निखनेच्छौण्डिकागारे तन्मद्यं विकृतं भवेत् ॥ २७ ॥ वेश्यागृहे
तु निखनेद्ग्राहकं लभते न सा ।
कन्यागृहे तु निखनेन्न विवाहो भवेद्ध्रुवम् ॥ २८ ॥
मनुषास्थिसमुद्भूतं कीलकञ्चाभिमन्त्रितम् ।
निखनेन्मन्दिरे यस्य मरणं तस्य निश्चितम् ॥ २९ ॥
उद्धृते तु भवेत्स्वास्थ्यमिति सर्वस्व सम्मतम् ।
यस्य नाम्ना जपेन्मन्त्रं सहस्रं स वशो भवेत् ॥ ३० ॥
पञ्चसहस्रहोमेन उद्वहेत वरां स्त्रियम् ।
सहस्रदशहोमेन राजा सद्यो वशो भवेत् ॥ ३१ ॥
लक्षजापेन राजैव द्विलक्षे राजपङ्क्तयः ।
दशलक्षेण तद्राष्ट्रं वश्यं तस्य च सर्वथा ॥ ३२ ॥
अणिमादिमहासिद्धिः कोटिजपान्न संशयः ।
खेचरत्वं भवेन्नित्यं सर्वज्ञत्वञ्च जायते ॥ ३३ ॥
मन्त्रं लिखित्वा शिरसि कण्ठे वा धारयेद्यदि ।
सौभाग्यं सर्वरक्षा च भवेत्तत्र सुनिश्चितम् ॥ ३४ ॥
अथ धनदामन्त्रः -
तु-तूर्यं विन्दुसंयुक्तं लज्जाबीजं समुद्धरेत् ।
लक्ष्मीबीजं ततो देवि सम्बोध्या च रतिप्रिया ।
वह्निजायावधिः प्रोक्तो मन्त्रराजोत्तमोत्तमः ॥ ३५ ॥
तन्त्रान्तरे-
तु-तूर्यं विन्दुसंयुक्तं लक्ष्मीप्रणवमेव च ।
मायाबीजं समुद्धृत्य सम्बोध्या च रतिप्रिया ।
वह्निजायावधिः प्रोक्तो मन्त्रराजोत्तमोत्तमः ।
लक्ष्मीप्रणवं श्रीबीजं कुबेरानुमतोऽयं मन्त्रः ॥ ३६ ॥
अस्य पूजा-
प्रातःकृत्यादि प्राणायामान्तं कृत्वा ऋष्यादिन्यासं कुर्यात् ।
शिरसि कुबेर-ऋषये नमः, मुखे पङ्क्तिछन्दसे नमः,
हृदिधनदायै देवतायै नमः ॥ ३७ ॥
ततः कराङ्गन्यासौ -
ह्राम् अङ्गुष्ठाभ्यां स्वाहा इत्यादि ।
एवं हृदयादिषु ॥ ३८ ॥
ततो ध्यानम्-
कुङ्कुमोदर-गर्भाभां किञ्चिद्यौवनशालिनीम् ।
मृणालकोमलभुजां केयूराङ्गभूषणाम् ।
तुलाकोटिपरिभ्रान्तपादपद्मद्वयान्वितम् ।
माणिक्यहारमुकुटकुण्डलादिविभूषिताम् ।
नीलोत्पलदृशं किञ्चिदुद्यत्कुचविराजिताम् ।
कराभ्या भ्राम्यत्कमलां रक्तवस्त्राङ्गरागिणीम् ।
हेमप्राकारमध्यस्थां रत्नसिंहासनोपरि ।
ध्यायेत्कल्पतरोर्मूले देवतां धनदायिकाम् ।
एवं ध्यात्वा मानसैः सम्पूज्य वहिःपूजामारभेत् ॥ ३९ ॥
पूजायन्त्रम्-
नवयोन्यात्मकं चक्रं विलिखेत्कर्णिकोपरि ।
दिग्दलं पद्ममालिख्य चतुरस्रं लिखेद्वहिः ।
कोणेषु वज्रान संलिख्य मध्ये बीजं समुल्लिखेत् ॥ ४० ॥ (चित्र ४०)
ततोर्ऽर्घ्यस्थापनम्-
फडिति पात्रं प्रक्षाल्य, नमः इत्यनेन जलेनापूर्य, तत्र प्रणवेन
गन्धपुष्पे निक्षिप्य, तीर्थमावाह्य धेनुमुद्रां प्रदर्श्य,
तदुपरि मूलं दशधा जप्त्वा तज्जलं किञ्चित् प्रोक्षणीपात्रे
निक्षिप्य, तेनोदकेनात्मानं पूजोपकरणञ्च मूलेन त्रिरभ्युक्ष्य,
आधारशक्त्यादि ह्रीं ज्ञानात्मने नमः इत्यन्तं पीठपूजां
विधाय, ॐ पद्मासनाय नमः इति मध्ये सम्पूज्य
पुनर्ध्यात्वावाह्य पञ्चापचारैः पूजयेत् ॥ ४१ ॥
ततो योनिमुद्रां प्रदर्श्य, केशरेष्वग्न्यादिकोणेषु मध्ये दिक्षु च
ह्रां हृदयाय नमः इत्यादिना षडङ्गेन पूजयेत् ।
ततो दलेषु पूर्वादि ॐ लक्ष्म्यै नमः, एवं पद्मायै पद्मालयायै
श्रियै हरिप्रियायै तारायै कमलायै चञ्चलायै अजायै लोलायै,
मध्ये देवीञ्च पुनः पूजयेत् ।
ततो यथाशक्ति जप्त्वा जपं समर्प्य, क्षमस्वेति विसर्जयेत् ॥ ४१क ॥
अस्य पुरश्चरणं लक्षजपः ।
तथा च-
प्रजपेदक्षसूत्रेण रत्नादिकृतकेन तु ।
लक्षे जप्ते मन्त्रसिद्धिं पुरश्चर्यां समाचरेत् ॥ ४२ ॥
विनियोगान् यथा कुर्यात्साधकः सुमनोहरान् ।
रात्रौ चेज्जप्यते चाष्टसहस्रं सप्तवासरान् ।
एतेनैव सुसिद्धः स्यात् पुरश्चर्यादिको विधिः ॥ ४३ ॥
किमिह दुर्लभं देवि साधयेद्यदि मानवः ।
भुक्त्वा वाप्यथवाभुक्त्वा पायसान्नं प्रदाय च ।
दशकृत्तोऽथवा शौचमकृत्वा वा कुचेलताम् ।
यः स्मरेद्देवि विद्यां तां दारिद्र्यैर्नाभिभूयते ॥ ४४ ॥
कामदेवं यजेत् पार्श्वे देव्याः प्रत्यहमादरात् ।
तेन देव्यां महाप्रीतिर्वाञ्छितार्थं ददाति च ॥ ४५ ॥
पूजान्ते च समायाति रात्रौ देवी धनेश्वरी ।
सर्वालङ्कारमुत्सृज्य दत्त्वा याति निजालयम् ॥ ४६ ॥
धनञ्च विपुल दत्त्वा साधकस्य मनोरथान् ।
पुरयित्वा महेशानि वशगा जायते शुभा ॥ ४७ ॥
यद्वा भक्त्या महेशानि चन्दनेनानुलेपनम् ।
दातव्यं सर्वदा तस्मै नित्यं दारिद्र्यशान्तये ॥ ४८ ॥
पूजा कार्या महादेव्याश्चन्दनेनानुलेपिता ।
नैवेद्यञ्च प्रदातव्यं नित्यं दारिद्र्यशान्तये ॥ ४९ ॥
यक्षिणी स्वयमाहेति यो मां स्मरति मानवः ।
तस्य दारिद्र्यसन्न्यासं दासीवत् करवाण्यहम् ॥ ५० ॥
सहस्रं सप्तभिर्यावत् पुरश्चरणमिष्यते ।
तथा घृतेन खण्डेन मधुना च दशांशतः ।
होमोऽपि च विधातव्यः क्षणाद्दारिद्र्यशान्तये ॥ ५१ ॥
पूजा कार्या महादेव्याश्चन्दनेनानुलेपिते ।
ताम्रपात्रे तथा कार्यं मण्डलं सुमनोहरम् ॥ ५२ ॥
तत्र पूजा विधातव्या देव्या एवं मनीषिणा ।
कुतो दारिद्र्यशङ्कास्य स हि कोटीश्वरो भवेत् ॥ ५३ ॥
अङ्गन्यासकरन्यासौ चाङ्गे चैवास्य देवता ।
कुबेरस्य मतेनास्याः पूजादि क्रियते सदा ॥ ५४ ॥
अथ श्मशानकालीमन्त्रः
कालीतन्त्रे-
वाणीं मायां ततो लक्ष्मीं कामबीजमतः परम् ।
कालिके सम्पुटत्वेन चतुष्कं बीजमालिखेत् ।
एकादशार्णा देवेशि चतुर्वर्गप्रदायिनी ॥ ५५ ॥ (श्मशानकाली
यन्त्रम् चित्र ४१)
अस्यायन्त्रम्-
पद्ममष्टदलं वृत्तं तद्वाह्ये धरणीतलम् ।
चतुर्द्वारसमायुक्तं मध्ये मूलं समालिखेत् ।
दलेष्वष्टसु विलिखेत् कवर्गाद्यष्टवर्गकम् ।
धरण्यां विलेखेदाद्यं चतुष्कञ्च चतुष्कके ।
पूर्वादि-उत्तरान्तञ्च मध्ये देवीं प्रपूजयेत् ॥ ५६ ॥
पूजाक्रमः-
प्रातःकृत्यादि प्रणायामायान्तं कर्म कृत्वा ऋष्यादिन्यासं
कुर्यात् ।
शिरसि भृगु-ऋषये नमः, मुखे निवृच्छन्दसे नमः, हृदि
श्मशानकालिकायै देवतायै नमः, गुह्ये वाग्बीजाय नमः,
पादयोः ह्रीं शक्तये नमः, सर्वाङ्गे कामबीजकीलकाय नमः ॥
५७ ॥
ततः कराङ्गन्यासौ-
ऐम् अङ्गुष्ठाभ्यां नमः, ह्रीं तर्जनीभ्यां स्वाहा, श्रीं
मध्यमाभ्यां वषट्, क्लीम् अनामिकाभ्यां हूं, कालिके
कनिष्ठाभ्यां वौषट् ।
क्लीं, आदिवाग्भवान्तं करतलपृष्ठाभ्यां फट् । एवं
हृदयादिषु ॥ ५८ ॥
ततो ध्यानम्-
अञ्जनाद्रिनिभां देवीं श्मशानालयवासिनीम् ।
रक्तनेत्रां मुक्तकेशीं शुद्धमांसातिभैरवाम् ।
पिङ्गाक्षीं वामहस्तेन मद्यपूर्णं समांसकम् ।
सद्यःकृत्तशिरो दक्षहस्तेन दधतीं शिवाम् ।
स्मितवक्त्रां सदा चाममांसचर्वणतत्पराम् ।
नानालङ्कारभूषाङ्गीं नग्नां मत्तां सदासवैः ॥ ५९ ॥
एवं ध्यात्वा जपेद्देवीं श्मशाने तु विशेषतः ।
गृहे वापि गृहस्थोऽपि मत्स्यमांससुभोजनैः ।
नग्नो भूत्वा महापूजां कुर्याद्रात्रौ विशेषतः ॥ ६० ॥
पूजनन्तु-
ध्यात्वा मानसैः सम्पूज्यार्घ्यस्थापनं कुर्यात् । पुनर्ध्यात्वा
पञ्चोपचारैः सम्पूज्य, पत्रेषु ब्राह्म्यादिकाः पूजयेत् ।
तद्वहिरसिताङ्गादिभैरवान् पूजयेत् ॥ ६१ ॥
अस्याः पुरश्चरणम् एकादशलक्षजपः ।
तथा च-
वर्णलक्षं जपेन्मन्त्रं तद्दशांशेन होमयेत् ॥ ६२ ॥
मन्त्रान्तरं तत्रैव-
कामबीजं समालिख्य कालिकायै समालिखेत् ।
नमोऽन्तेन च देवेशि सप्तार्णो मनुरुत्तमः ।
षडङ्गं कालिकादेव्या अन्यत् सर्वन्तु पूर्ववत् ।
कालिका देव्या इति निजबीजेन इत्यर्थः ॥ ६३ ॥
बगलामुखीमन्त्रः -
तदुक्तं तन्त्रान्तरे-
ब्रह्मास्त्रं सम्प्रवक्ष्यामि सद्यः प्रत्ययकारकम् ।
साधकानां हितार्थाय स्तम्भनाय च वैरिणाम् ।
यस्याः स्मरणमात्रेण पवनोऽपि स्थिरायते ॥ ६४ ॥
प्रणवं स्थिरमायाञ्च ततश्च बगलामुखि ।
तदन्ते सर्वदुष्टानां ततो वाचं मुखं पदम् ।
स्तम्भयेति ततो जिह्वां कीलयेति पदद्वयम् ।
बुद्धिं नाशाय पश्चात्तु स्थिरमायां समालिखेत् ।
लिखेच्च पुनरोङ्कारं स्वाहेति च पदन्ततः ।
षट्त्रिंशदक्षरी विद्या सर्वसम्पत्प्रदायिनी ।
स्थिरयमायां ह्लीम् ।
तथा च-
वह्निहीनेन्द्रयुङ्माया स्थिरमाया प्रकीर्तिता ॥ ६५ ॥
तन्त्रान्तरे-
वह्निहीनेन्द्रयुङ्माया बगलामुखि सर्वयुक् ।
दुष्टानां वाचमित्युक्त्वा मुखं स्तम्भय कीर्तयेत् ।
जिह्वां कीलय बुद्धिन्तु विनाशयपदं वदेत् ।
पुनर्बीजं ततस्तारं वह्निजायावधिर्भवेत् ।
तारादिका चतुर्स्त्रिंशदक्षरा बगलामुखी ।
इत्यपि मन्त्रान्तरम् ॥ ६६ ॥
अनयोः पूजा-
प्रातःकृत्यादि प्राणायामान्तं विधाय ऋष्यादिन्यासं कुर्यात् ।
यथा-
शिरसि नारद-ऋषये नमः, मुखे तृष्टुप्छन्दसे नमः, हृदि
बगलामुख्यै देवतायै नमः, गुह्ये ह्लीं बीजाय नमः, पादयोः
स्वाहा शक्तये नमः ।
नारदोऽस्य ऋषिमूर्ध्नि तृष्टुप्छन्दश्च तन्मुखे ।
श्रीबगलामुखीं देवीं हृदये विन्यसेत्ततः ।
ह्लीं बीजं गुह्यदेशे तु स्वाहाशक्तिस्तु पादयोः ॥ ६७ ॥
ततः कराङ्गन्यासौ-
ॐ ह्लीम् अङ्गुष्ठाभ्यां नम, बगलामुखि तर्जनीभ्यां स्वाहा,
सर्वदुष्टानां मध्यमाभ्यां वषट्, वाचं मुखं स्तम्भय
अनामिकाभ्यां हुं, जिह्वां कीलय कीलय कनिष्ठाभ्यां वौषट्,
बुद्धिं विनाशय ह्लीं ॐ स्वाहा करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु ।
तथा च दिव्यतन्त्रे-
युग्मबाणेषुसप्ताहिशेषार्णश्च मनुद्भवैः ।
करशाखासु तलयोः कराङ्गन्यासमाचरेत् ॥ ६८ ॥
ततो मूलान्ते आत्मतत्त्वव्यापिनीबगलामुखी श्रीपादुकां
पूजयामि इति मूलाधारे ।
मूलान्ते विद्यातत्त्वव्यापिनीबगलमुखी श्रीपादुकां पूजयामि इति
शिरसि ।
मूलान्ते सर्वतत्त्वव्यापिनी बगलामुखी श्रीपादुकां पूजयामि इति
सर्वाङ्गे ।
तथा च-
मूर्ध्नि भाले दृशोः श्रोत्रे गण्डयोर्नसयोः पुनः ।
ओष्ठयोर्मुखवृत्ते च दक्षिणांसे च कूर्परे ।
मण्डिबन्धेऽङ्गुलेर्मूले गले च कुचयोर्हृदि ।
नाभौ कट्यां गुह्यदेशे वामांसे कूर्परे तथा ।
मणिबन्धेऽङ्गुलेर्मूले ततश्च विन्यसेत्पुनः ।
दक्षवामे चोरुजान्वोर्गुल्फे चाङ्गुलिमूलके ।
क्रमेण मन्त्रवर्णांस्तु न्यस्य ध्यायेद्यथाविधि ॥ ६९ ॥
ततो ध्यानम्-
मध्ये सुधाब्धिमणिमण्डपरत्नवेदीसिंहासनोपरिगतां
परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविभूषिताङ्गीं देवीं स्मरामि
धृतमुद्गरवैरिजिह्वाम् ।
जिह्वाग्रमादाय करेण देवीं वामेन शत्रून्परिपीडयन्तीम्,
गदाभिघातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां नमामि
।
एवं ध्यात्वा मानसैः सम्पूज्य बहिःपूजामारभेत् ॥ ७० ॥
तत्र प्रथमतोऽर्घ्यस्थापनम् ।
यथा-
अष्टाङ्गुलं चतुरस्र विधाय ईशानादिकोणेषु पूर्वादिदिक्षु च
कुसुमाक्षतरक्तचन्दनैः ग्लौं गणपतये नमः इत्यनेन
गजदानेन सम्पूज्य तेन मधुना वा अर्घ्यपात्रमापूरये ।
ततो वारत्रयं मूलविद्यया सम्पूज्याङ्गानि विन्यसेत् ।
ततो धेनुयोनिमुद्रां प्रदर्श्य तेनोदकेनात्मानं
पूजोपकरणञ्चाभ्युक्षयेत् ॥ ७१ ॥
अस्या यन्त्रम्-
त्र्यस्रं षडस्रं वृत्तमष्टदलपद्मं भूपुरान्वितम् ॥ ७२ ॥ ततो
मूलमुच्चार्य ॐ आधारशक्तिकमलासनाय नमः एवं
शक्तिपद्मासनाय नमः ।
ततः पूर्ववद्ध्यात्वा पीठे आवाह्य षडङ्गानि विन्यसेत् ।
ततो मुद्राः प्रदर्श्य, पुरतः षडङ्गेन मण्डलं यजेत् ।
ततो मूलेन मन्त्रयित्वा धेनुयोनिमुद्रे प्रदर्श्य,
आत्मविद्याशिवैस्तत्त्वैर्विन्दुत्रयं मुखे क्षिप्त्वा
तर्जन्याङ्गुष्ठयोगेन साङ्गावरणां बगलामुखी तर्पयेत् ॥ ७३ ॥
ततो यथासम्भवमुपचारैः सम्पूज्यावरणपूजामारभेत् ।
षट्कोणेषु पूर्वे ॐ सुभगायै नमः, एवमग्निकोणे भगसर्पिण्यै,
ईशाने भगवहायै, पश्चिमे भगसिद्धायै, नैर्-ऋते
भगनिपातिन्यै, वायौ भगमालिन्यै ।
ततोऽष्टदलपत्रेषु ब्राह्म्यद्याः पूज्याः पत्राग्रेषु ।
ॐ जयायै नमः एवं विजयायै अजितायै अपराजितायै स्तम्भिन्यै
जम्भिन्यै मोहिन्यै आकर्षिण्यै ।
ततो द्वारेषु ॐ भैरवाय नमः ।
तद्बाह्ये इन्द्रादीन्वज्रादींश्च पूजयेत् ।
ततो धूपादिकं दत्त्वा यथाशक्ति जपं विधाय, त्रिशूलमुद्रां
प्रदर्श्य, पुष्पाञ्जलित्रयं दत्त्वा, देव्यै योनिमुद्रां प्रदर्शयेत् ।
ततो भैरवाय बलिं दद्यात् ।
ततो विसर्जनान्तं कर्म समापयेत् ॥ ७३क ॥
(बगलामुखी यन्त्रम् चित्र ४२)
अस्य पुरश्चरणं लक्षजपः ।
तथा च-
पीताम्बरधरो भूत्वा पूर्वाभिमुखसंस्थितः ।
लक्षमेकं जपेन्ममन्त्रं हरिद्राग्रन्थिमालया ।
ब्रह्मचर्यरतो नित्यं प्रयतो ध्यानतत्परः ।
प्रियङ्गुकुसुमेनापि पीतपुष्पैश्च होमयेत् ॥ ७४ ॥
द्वितीयमन्त्रे न्यासादिकं सर्वं पूर्ववत् ।
ध्यानस्तु-
गम्भीराञ्च मदोन्मत्तां स्वर्णकान्तिसमप्रभाम् ।
चतुर्भुजां त्रिनयनां कमलासनसंस्थिताम् ।
मुद्गरं दक्षिणे पाशं वामे जिह्वाञ्च वज्रकम् ।
पीताम्बरधरां देवीं दृढपीनपयोधराम् ।
हेमकुण्डलभूषाञ्च पीतचन्द्रार्द्धशेखराम् ।
पीतभूषणभूषाञ्च रत्नसिंहासने स्थिताम् ॥ ७५ ॥
अथ प्रयोगः-
कुरुते वाग्गतिस्तम्भं दुष्टानां बुद्धिनाशनम् ।
जपहोमप्रयोगे च मन्त्रं चाप्ययुतं जपेत् ॥ ७६ ॥
हरिद्राहरितालाभ्यां लवणं जुहुयान्निशि ।
स्तम्भयेत्परसैन्यानि नात्र कार्या विचारण ॥ ७७ ॥
अथवा पीतपुष्पैश्च त्रिमध्वक्तैश्च होमयेत् ।
स्तम्भनेषु च सर्वेषु प्रयोगः प्रत्ययावहः ॥ ७८ ॥
यन्त्रस्तु-
ॐ कारयोः सम्मुखयोरुर्ध्वाधः शिरसो लिखेत् ।
मध्यगं नाम साध्यस्य तद्बाह्ये चाक्षरत्रयम् ।
बीजं द्वितीयवर्गस्य तृतीयं विन्दुभूषिताम् ।
चतुर्दशस्वरोपेतं संलिखेत्पृथिवीगतम् ।
ठकारेण समावेष्ट्य चतुष्कोणपुटं बहिः ।
तत्कोणरेखासंसक्तैः शून्यैर्वज्राष्टकं लिखेत् ।
त्रिशूलमध्यरेखायाः पृथिवीबीजानि पार्श्वयोः ।
अष्टस्वपि च कोणेषु तद्बहिर्वगलां लिखेत् ।
पृथिव्यन्तरितं वाये मातृकापरिमण्डलम् ।
आवेष्ट्य चाष्टधा पश्चात्तद्वाह्ये स्थिरमायया ।
निरुद्धाङ्कुशबीजेन नादसम्मिलिताङ्घ्रिणा ।
लिखेत्पूर्ववदावेष्ट्य पश्चाच्च वगलमुखीम् ।
पट्टे पाषाणपट्टे वा हरिद्रोन्मत्ततालकैः ।
दिव्यस्तम्भने मुखस्तम्भे लिखित्वा गाढमाक्रमेत् ।
विवादे यन्त्रमालिख्य भूर्जे तैरेव वस्तुभिः ।
कुम्भकारस्य चक्रस्य भ्रमतो विपरीततः ।
मृत्तिकां समुपादाय वृषभं कारयेत्ततः ।
यन्त्रं तस्योपरि न्यस्य तालकेन विलिप्य च ।
तन्नासायां विनिक्षिप्य पीतरज्जुं निजे गृहे ।
अर्चयेत्तं चतुष्कोणं नित्यं पीतोपचारतः ।
दुष्टस्य स्तम्भत्येव मुखं वाचस्पतेरपि ॥ ७९ ॥ (बगलामुखी
धारणयन्त्रम् चित्र ४३ )
विश्वसारे-
काली तारा महाविद्या षोडशी भुवनेश्वरी ।
भैरवो छिन्नमस्ता च विद्या धूमावती तथा ।
बगला सिद्धिविद्या च मातङ्गी कमलात्मिका ।
एता दश महाविद्या सिद्धविद्याः प्रकीर्तिताः ॥ ८० ॥
इति कृष्णानन्दभट्टाचार्यविरचिते तन्त्रसारे द्वितीयः परिच्छेदः
॥ २ ॥