अथ तृतीयः पटलः ।
अथ योगं विविदिषुः प्राप्य योगविदं गुरुम् ।
शुश्रूषार्थप्रदानाद्यैराराध्य परितोष्य च ॥ १ ॥
तस्माद् विज्ञाय योगं तु दत्त्वा तु गुरुदक्षिणाम् । अनुज्ञातस्तु
गुरुणा गत्वा देशं मनोरमम् ॥ २ ॥
पुण्यक्षेत्रनदीतीर्थवनसानुमदादिकम् । तत्राश्रमे मठे
वाथ प्राज्य[क्: ण्य]मूलफलोदके ॥ ३ ॥
ग्रामे देवालये वापि स्वगृहे वा मनोरमे । परिशुद्धा(त्म)वान्
योगी निस्सङ्गो विजितेन्द्रियः ॥ ४ ॥
स्ववर्णाश्रमकर्माणि चोदितानि समाचरन् । युक्ताहारविहारस्तु
युक्तस्वप्नावबोधनः ॥ ५ ॥
शान्तस्त्रिषवणस्नायी सर्वत्र समदर्शनः ।
पिचुतूलादिसम्पूर्ण आसने सोत्तरच्छदे ॥ ६ ॥
विशुद्धे सम्यगासीनो विजितासनमास्थितः । विनायकं गुरुं
चाथ नमस्कृत्य ततः शिवौ ॥ ७ ॥
ऋजुकायशिरोग्रीवः कृत्वान्तर्यजनं हृदि । योगं युञ्जीत
मतिमान् न द्रुतं न विलम्बितम् ॥ ८ ॥
अथ ये ग्रन्थयः पञ्च भूतशुद्धौ प्रदर्शिताः ।
हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रस्थिताः क्रमात् ॥ ९ ॥
तानूर्ध्ववायुना भित्त्वा मुक्त्वा दक्षिणनासया ।
वामनासापुटेनाथ पूरयेन्मरुतोदरम् ॥ १० ॥
पूरकस्तु स विज्ञेयो मात्राषोडश(का? को) विधिः ।
निरुन्ध्यान्निर्गमं तस्य कुम्भकाख्यः स तु स्मृतः ॥ ११ ॥
स चापि षष्टिमात्रः स्याद् रेचकस्तस्य रेचनात् । पिधाय
वामघ्राणं तु दक्षिणेनैव रेचयेत् ॥ १२ ॥
स तु रेचक उद्दिष्टो मानं तेषां निगद्यते । पूरके
द्व्यष्टमात्राभिर्नाभिपद्मे चतुर्मुखम् ॥ १३ ॥
अकारमूर्तिमगुणं समाधिस्थं चतुर्भुजम् । कुम्भके च
चतुष्षष्टिमात्रामात्रं तु धारयेत् ॥ १४ ॥
उकारमूर्तिं शङ्खाभं वासुदेवं हृदम्बुजे ।
शङ्खचक्रधरं सौम्यं समाधिस्थं चतुर्भुजम् ॥ १५ ॥
किरीटिनं स्मरेच्छक्त्या यावत् तावत् तु कुम्भयेत् । रुद्रं
मकारमूर्तिं तु भ्रूमध्यकमले स्मरन् ॥ १६ ॥
शुक्लवर्णं समाधिस्थं चतुर्बाहुं त्रिलोचनम् ।
एणटङ्कधरं सौम्यमिन्दुमौलिं कपर्दिनम् ॥ १७ ॥
मात्राद्वादशमात्रं तु दक्षिणेनैव रेचयेत् । अथ प्रणवतो
वायुं समापूर्य भ्रुवोऽन्तरात् ॥ १८॥
बिन्दुमत्यक्षरे तस्मिन् नियम्यात्मानमात्मनि । मनसा तपदोङ्कारं
जपेन्मात्रत्रयाधिकम् ॥ १९॥
एष प्राणजयोपायो दृष्टादृष्टफलप्रदः ।
भूतशुद्ध्युक्तमार्गेण प्राणायामास्तु पञ्च ते ॥ २० ॥
शोषणाद्यास्त्रयश्च स्युः सहैतान् पृथगाचरेत् ।
सन्ध्ययोर्वायुमाकृष्य पिबन् वाग्ग्मी च जायते ॥ २१ ॥
व्याधयो ह्यस्य नश्यन्ति मासान् मासैस्तु वा क्रमात् । बधिरो
मूर्ध्न्यथात्मानमाधायापूर्य मारुतम् ॥ २२ ॥
पिधाय सर्वद्वाराणि व्योमेन्दोरमृताप्लुतम् । कर्णाभ्यां
विसृजेद् वायुं बाधिर्यादेष मुच्यते ॥ २३ ॥
पार्श्वयोर्वाथ नाभौ वा धारयेद् गुल्मशूलनुत् । यत्र यत्र
रुजा देहे तत्र तत्र तु मारुतम् ॥ २४ ॥
आरोप्य प्राणनियमात् तं तं रोगं व्यपोहति । अथापानं
समुत्कृष्य वह्निस्थाने नियोजयेत् ॥ २५॥
निरुन्ध्याच्च षडक्षाणि ततो नादः प्रवर्तते ।
नाभेरामूर्धतो वीणाध्वनिर्नादः प्रवर्तते ॥ २६ ॥
सुषुम्नयोर्ध्वङ्गमया तच्छ्रुत्वासौ विमुच्यते । ब्रह्मरन्ध्रेण
तस्याथ प्राणोऽप्युच्चरतीच्छया ॥ २७ ॥
हृदयाम्भोरुहान्तःस्थः प्राणो हंस इतीरयन् । उच्छ्वासं
जनयेच्छश्वदहोरात्रे तु सङ्ख्यया ॥ २८ ॥
षष्ट्युछ्वासः स्मृतः प्राणः षट् प्राणा घटिका स्मृता ।
घटिकानां स्मृतः षष्ट्या त्वहोरात्रस्तु मानुषः ॥ २९ ॥
श्वासनिःश्वासविच्छेदः प्राणायामात् प्रवर्तते । अथोदरे
नाभिपद्मे ध्यात्वा तु चतुराननम् ॥ ३० ॥
अकारमूर्तिमिडया पूरयेन्मरुतोदरम् । कुम्भीकृत्य यथापूर्वं
धियैव प्रणवं जपन् ॥ ३१ ॥
स्थिरीकृत्य तु संहृत्य रेचयेद् दक्षिणेन तु । अथवा
हृदयाब्जस्थं वासुदेवं चतुर्भुजम् ॥ ३२ ॥
शङ्खचक्रधरं सौम्यं शुक्लवर्णं किरीटिनम् ।
चतुर्बाहुमुदारस्थमुकारमयविग्रहम् ॥ ३३ ॥
स्मरञ्जपन् धिया तारं पूर्ववत् पूरकुम्भकौ । रेचकं च
विधाय स्यात् प्राणायामस्तु वैष्णवः ॥ ३४ ॥
भ्रुवोरन्तरतोऽम्भोजे मकारमयविग्रहम् । भस्माङ्गरागधवलं
रुद्रं ध्यायंस्त्रिलोचनम् ॥ ३५ ॥
सूपविष्टं चतुर्बाहुं पूर्ववत् प्रणवं जपेत् ।
पूरकाद्यैर्यथापूर्वं रौद्रोऽयं प्राणसंयमः ॥ ३६ ॥
बिन्दुस्थानेऽम्बुजासीनमष्टबाहुं चतुर्मुखम् । ईश्वरं
प्रोक्तरूपादिं ध्यायंस्तारं जपन् धिया ॥ ३७ ॥
पूरकाद्यैर्यथापूर्वं प्राणायामोऽयमैश्वरः । तथैव
मूर्ध्नि कमले ध्यायन् देवं सदाशिवम् ॥ ३८ ॥
तारं जपन् धिया प्राग्वत् प्राणानायम्य पूर्ववत् ।
सर्वदोषहरोऽयं स्यात् सादेशः प्राणसंयमः ॥ ३९ ॥
कारणाधीशसंयुक्ताः पञ्चैते प्राणसंयमाः ।
सर्वकल्मषदोषघ्नाः सर्वे सर्वार्थसाधकाः ॥ ४० ॥
योगसिद्धिकराः पञ्च प्राणायामा भवन्ति हि । अथ
हृत्पद्ममध्ये वा वि(न्दू? न्दौ) वा व्योमपङ्कजे ॥ ४१ ॥
सूर्यादिमण्डलाधीशतत्त्वतत्त्वेशमूर्तिभिः ।
पुर्यष्टकाष्टच्छदने स्वस्वाङ्गावरणान्विते ॥ ४२ ॥
यो यो यस्या देवताया भक्तस्तां तत्र संस्मरन् । तत्तन्मन्त्रं
जपन् बुद्ध्या पूरकादिक्रमेण तु ॥ ४३ ॥
प्राणसंयमनं कुर्वन् योगसिद्धिमवाप्नुयात् । अथवा
हृदयाब्जादौ पश्यञ् ज्योतिर्निरञ्जनम् ॥ ४४ ॥
ब्रह्मादिकारणोपाधिनिर्मुक्तं चिद्धनं शिवम् ।
ध्यायंस्त्रिमात्रं चिन्मात्रप्रणवं वा धिया जपन् ॥ ४५ ॥
प्राणायामं प्रकुर्वीत न चिरात् सिद्धिमश्नुते मूलाब्जात्
कुण्डलिन्यास्तु ध्यायञ्च्छक्तिं विनिर्गताम् ॥ ४६ ॥
विद्युल्लेखोपमामूर्ध्व–न्गमामा व्योमप–न्कजा(न्? त्) ।
परमामृतनिःष्यन्दैः प्लाव्यमानां ततोऽपि हि ॥ ४७ ॥
निवृत्तां पुनरायान्तीं मूलाम्भोजं पुनः पुनः ।
सुषुम्नयोर्ध्वं गच्छन्तीममृतासारवर्षिणीम् ॥ ४८ ॥
ध्यायञ्च्छक्तिं परां सूक्ष्मां चिन्मात्र(प्रणवं) तु वा ।
जपन् धिया यथापूर्वं प्राणानायम्य योगवित् ॥ ४९ ॥
योगसिद्धिमवाप्नोति नचिरान्नात्र संशयः । अथवा
प्रणवाद्यां तु सप्तव्याहृतिपूर्विकाम् ॥ ५० ॥
गायत्रीं शिरसोपेतां त्रिः पठन् मनसा हृदि । व्योम्नि वा
परमात्मानं सावित्रीं सूर्यमेव वा ॥ ५१ ॥
ध्यायन् प्रागुक्तमार्गेण पूरकादिक्रमेण तु । प्राणसंयमनं
कुर्वन् योगी सिद्धिमवाप्नुयात् ॥ ५२ ॥
षड्भिर्द्वादशभिश्चाथ तथा षोडशभिः क्रमात् ।
मनोवाक्कर्मजानीह पातकानि विनाशयेत् ॥ ५३ ॥
प्राणायामस्ततश्चापि द्विगुणैस्त्रिगुणैरपि ।
अष्टोत्तरसतस्यापि (?) भ्रूणहत्यां च नाशयेत् ॥ ५४ ॥
अत्र याज्ञवल्क्यवसिष्ठौ -
अपि भ्रूणहनं मासात् पुनात्यहरहः कृतः । ऋतुत्रयात्
पुनात्येनं जन्मान्तरकृतादघात् ॥ वत्सरादिह सर्वज्ञो
ब्रह्मविच्चापि जायते । प्रस्वेदकम्पोत्थानानां जननाः
कुम्भकाः (पुनः) ॥
कनिष्ठमध्यश्रेष्ठाः स्युः फलं तेषां च तादृशम् ।
प्राणायामैः क्रमाभ्यस्तैर्विजिताः स्युश्च वायवः ॥
निःश्वासोच्छ्वसनाद्यं च विना ज्ञानं च शक्यते ।
विनैव पूरकं तद्वद् रेचकं च विनैव तु ॥ कुम्भकेनैव
सुचिरमपि तिष्ठेज्जितानिलः । मनोजव(इ?ग)तिश्च स्याद्
दूरादर्थांश्च पश्यति ॥
खेचरो द्वादशाब्देन जरापलितवर्जितः । चिरजीवी च भवति
ततो द्विगुणवत्सरैः ॥
ऋषिगन्धर्वदेवादीन् पश्यत्याभाषतेऽपि च । ततोऽपि
द्विगुणैर्वर्षैर्लभते चाणिमादिकान् ॥
प्राणायामाधिकारः ।
इन्द्रियाणां यथास्वं स्वं विषयं परिधावताम् ।
बलादाहरणं तेषां प्रत्याहारं प्रचक्षते ॥ ५५ ॥
कर्मणां वि(जि? हि)तानां तु नित्यादीनां विधिं विना । मनसा
हृद्यनुष्ठानं प्रत्याहारं विदुर्बुधाः ॥ ५६ ॥
अथवाष्टादशस्थानेष्वाकृष्याधाय मारुतम् । स्ववशे
स्थापनं केचित् प्रत्याहारं वदन्ति हि ॥ ५७ ॥
तानि तानि स्थानानि -
पादा–न्गुष्ठद्वयं गुल्फे ज–न्घे जानूरुपायवः । मेढ्रं
कटिस्ततः कन्दो नाभी हृदयवक्षसी ॥ ५८ ॥
कण्ठकूपं तथा तालु घ्राणं नेत्रे भ्रुमध्यकम् । मूर्धा
चाष्टादशैतेषु स्थानात् स्थानं क्रमेण तु ॥ ५९ ॥
आहृत्य धा?रणं वायोः प्रत्याहारः स्मृतो बुधैः । अनेन
रोगशान्तिः स्यादायुषो वर्धनं तथा ॥ ६० ॥
प्रत्याहाराधिकारः ।
यमाद्यैः पञ्चभिः (क?)स्तैर्विशुद्धस्य तु योगिनः ।
आत्मन्यवस्थितिं बुद्धेर्धारणं सम्प्रचक्षते ॥ ६१ ॥
प्रदेशावस्थितं देहे बुद्धेस्तु मरुता सह । * * * * * * * * * * *
कारणेश्वरान् ॥ ६३ ॥
जान्वादिभूतशुद्ध्युक्तमार्गेण स्वस्वबीजतः । स्मृत्वा बुद्धिं
तु तत्रैव प्रतीत्यन्तरवर्जिताम् ॥ ६४ ॥
संस्थाप्य प्राणसहितां धारणाभिश्च पञ्चभिः ।
त्रिभिस्त्रिभिर्भवे * * * * * * * * * * ॥ ६५ ॥
ब्रह्मादीन् कारणेशांस्तु स्वैःस्वैः संयोज्य कारणैः ।
प्रणवाक्षरसम्भेदात् क्षित्याद्यैर्मण्डलाक्षरैः ॥ ६६ ॥
निष्कले द्वादशान्तस्थे शिवे संयोज्य चिद्धने । तन्मयं च
स्वमात्मानं सर्वगं? सर्ववेदिना ॥ ६७ ॥
६८ ॥
धारणाधिकारः ।
अथ ध्यानं द्विधा प्रोक्तं सकलं निष्कलं तथा । साकारं
सकलं ध्यानं निराकारं तु निष्कलम् ॥ ६९ ॥
चतुर्भुजादिशुक्लादिद्वित्र्यक्षैकाननादिभिः ।
भेदैरिष्टसुराकारस्मरणं हृदयादिषु ॥ ७० ॥
साकारध्यानमुद्दिष्टं निराकारमथोच्यते । हृत्पद्मे वा
भ्रुवोर्मध्ये बिन्दौ वा द्वादशान्तगे ॥ ७१ ॥
लै–न्गिकं परमं ज्योतिर्ध्यायेद–न्गुष्ठमात्रकम् ।
कदम्बगोलकाकारं भाभासितदिगन्तरम् ॥ ७२ ॥
तस्मान्नीवारशूकाभं ज्योतिरूर्ध्वं सुषुम्नया । निर्गतं
द्वादशान्तस्थशिवेनाप्येकतां गतम् ॥ ७३ ॥
स्वेदेहरोमकूपेभ्यो निर्यज्ज्योतिश्शिखोज्ज्वलम् । विश्वमावृत्य तु
व्याप्तं ध्यायेन्निश्चलमानसः ॥ ७४ ॥
ध्यानानामुत्तमं त्वेतद् योगश्चायं परो मतः । एवं सन्त[ख्:
त]तयुक्तात्मा योगी निर्धूतबन्धनः ॥ ७५ ॥
अणिमादिगुणैश्वर्याण्यधिगम्याप्यविस्मितः ।
षडूर्मिभिरसंस्पृष्टो मैत्रादिगुणवर्जितः ॥ ७६ ॥
क्षमादमशमोपेतः सर्वभूतानुकम्पकः । छित्त्वा गुणमयान्
पाशान् परं निर्वाणमृच्छति ॥ ७७ ॥
धारणानां द्वादशकैरायतं ध्यानमिष्यते । ध्यानाद्
द्वादशकायामः समाधिर्भवति स्फुटम् ॥ ७८ ॥
ध्यानाधिकारः ।
समाधिः समभावः स्याज्जीवात्मपरमात्मनोः ।
तद्वच्छिवाह्वयं ब्रह्म परञ्ज्योतिः सुनिर्मलम् ॥ ७९ ॥
एकं ज्ञानघनं शान्तं सर्वकारणकारणम् ।
अवस्थात्रयनिर्मुक्तं षड्भावविकृतेः परम् ॥ ८० ॥
सर्वानुग्राहकं विश्वव्यापि नित्यं निरञ्जनम् ।
आकाशादिमहाभूतैः शब्दाद्यैर्विषयैरपि ॥ ८१ ॥
दशेन्द्रियमनोबुद्धिसाह–न्कारगुणैरपि । प्राणादिभिः प्रकृत्या
च पुरोगाभ्यामविद्यया ॥ ८२ ॥
नियत्या कलया कालमायाभ्यां च विवर्जितम् ।
सादेशेश्वरविद्याभिः शक्त्या चाखिलकारणम् ॥ ८३ ॥
नादान्तभासकं शश्वत् पञ्चकृत्यैकहेतुमत् । अनाद्यन्तं पर
सूक्ष्मं तद् योऽहं सोऽहमित्यपि ॥ ८४ ॥
चित्ताधानं शिवे सम्यक् स समाधिरिति स्मृतः । यदा समरसं
चित्तं सर्वत्र समदर्शनात् ॥ ८५ ॥
रागादिदोषरहितं हेयोपादेयनिःस्पृहम् । आहितं स्याच्छिवे
शश्वत् समाधिः परमः स्मृतः ॥ ८६ ॥
अनात्मबुद्धिदेहेऽस्मिन्नस्वबुधिश्च वस्तुषु । एषणात्रयमुक्तस्य
कर्मपुत्रार्थवर्जनात् ॥ ८७ ॥
सर्वारम्भपरित्यागात् सर्वस–न्गविवर्जनात् । सर्वव्यापिनि
चिन्मात्रे शिवेनैक्येन भावना ॥ ८८ ॥
अविच्छेदेन सततं समाधिः पा(शमोचनः) । * * * * * * * * * * *
जिघ्रतो मौनिनो वाचं ब्रुवतः शयितस्य वा । आसीनस्यापि
मिषतो मीलिताक्षस्य तिष्ठतः ॥ ९० ॥
जाग्रतः स्वपतो वापि स्वप्नान् वा परिपश्यतः । गच्छतोऽपि
यदा चेतः समाधिस्थस्य निश्चलम् ॥ ९१ ॥
करणानां तु संहारादव्यक्तिर्विषयेष्वपि । स योगः परमो
ज्ञेयस्तद्वान् योगीन्द्र उच्यते ॥ ९२ ॥
ऐश्वर्याण्यणिमादीनि योगस्यावान्तरं फलम् ।
अष्टैश्वर्यगुणा योगस्यान्तराया भवन्ति हि ॥ ९३ ॥
ते(ष? षु)योग * * * * * * * नाभिरोचयेत् । फलं हि मोक्षो योगस्य
तस्मात् तदभिरोचयेत् ॥ ९४ ॥
एवं सा–न्गोऽत्र योगस्तु समासात् सम्प्रदर्शितः । संस्मृत्य
योगशास्त्रेभ्यः शिवानुग्रहतः स्फु(टम्) ॥ ९५ ॥
पश्वादिप्रविचारचारुविशदज्ञानक्रियायोगतः ।
अष्टैश्वर्यगुणास्तथैव सुलभं निःश्रेयसं श्रेय(सा)
तामीशानशिवोऽभ्यधाद् सुरगुरुः सिद्धान्ततापद्धतिम् ॥ ९६ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
योगपादे प्राणायामादिपटलस्तृतीयः ।
योगपादः समाप्तः ॥
समाप्ता चेयमीशानशिवगुरुदेवस्य कृतिः
सिद्धान्तसारपद्धतिः ॥
शुभं भूयात् ॥