अथ प्रथमः पटलः ।
अथ मोक्षस्तु संसिध्येत् सम्यग् ज्ञानेन देहिनः ।
ज्ञानं जायेत वैराग्याद् वैराग्यं च स्वभावतः ॥ १ ॥
स्वभावो नाम संसारस्वरूपस्य निरूपणम् ।
संसारस्त्वात्मबुद्धिः स्याद् देहे स्वत्वेन वस्तुषु ॥ २ ॥
देहोऽपि द्विविधो ज्ञेयः स्थूलसूक्ष्मप्रभेदतः ।
पृथिव्यादीनि भूतानि श्रोत्राद्याधारकान्यपि ॥ ३ ॥
वागादिकर्मेन्द्रियाणि वातपित्तकफास्तथा ।
त्वगसृङ्मांसमेदोस्थिमज्जाशुक्लैश्च नाडिभिः ॥ ४ ॥
मूलाधारे कुण्डलिन्यां नाभिहृत्कण्ठमूर्धसु ।
चतुष्षडष्टजगतीविकाराक्षिच्छदाम्बुजैः ॥ ५ ॥
युक्तं स्थूलशरीरं स्यात् सूक्ष्मं पुर्यष्टकात्मकम् ।
तत्तच्छब्दादयः पञ्च मनो बुद्धिरहङ्कृतिः ॥ ६ ॥
देहद्वयं तु साध्यात्मं साधिभूताधिदैवतम् ।
तद्यथा -
श्रोत्रादयश्च वागाद्यास्तथाध्यात्मानि वै पृथक् ॥ ७ ॥
शब्दादिवक्तव्यादीनामधिभूतत्वमिष्यते । खवायुतेजांसि
जलं पृथिवी च तथानलः ॥ ८॥
इन्द्रो विष्णुश्च मित्रश्च प्र(दे? जे) शश्चाधिदैवतम् ।
अध्यात्मानि मनो बुद्धिरहङ्कारश्च तत्त्रयम् ॥ ९ ॥
मन्तव्यं चैव बोद्धव्यं मानश्चैवाधिभूतकम् । चन्द्रो जीवो
विरिञ्चश्चाअप्यधिदैवा?न्यनुक्रमात् ॥ १० ॥
गुणत्रयमयी या सा प्रकृतिः पुरुषस्तथा । रागो
विद्यादितत्त्वानि मायान्तान्यखिलानि तु ॥ ११ ॥
मलं कर्म च माया च सर्वमस्य प्रवर्तकम् । जाग्रत् स्वप्नः
सुषुप्तिश्चेत्यवस्थात्रितयं तथा ॥ १२ ॥
कामः क्रोधश्च लोभश्च मोहश्च मदमत्सरौ । षडूर्मय इमे
व्याप्ये मोहाब्धौ व्यापकाः स्मृताः ॥ १३ ॥
एवम्भूतं शरीरं यदाममृत्कुम्भसन्निभम् । जन्मादिभिः
षड्विकारैरध्यस्तमतिनश्वरम् ॥ १४ ॥
अस्वतन्त्रं कर्मवशात् प्रविशन् निर्विशन्नपि । प्रवसन्नपि
संसारे भ्रमत्यात्मा ह्यलक्षितः ॥ १५ ॥
शरीराणि तथैतानि पञ्चधा मानसानि च ।
जरायुजान्यण्डजानि स्वेदजान्युद्भिदान्यपि ॥ १६ ॥
तत्र देवादिदेहाः स्युर्मानसाश्चाजरायुजाः । जरायुजा
मनुष्याणां पशूनां च भवन्ति हि ॥ १७॥
सरीसृपाहिविहगशरीराण्यण्डजानि तु ।
जरायुजाश्चाण्डजाश्च देहाः स्युर्जलचारिणम् ॥ १८ ॥
स्वेदजाः क्रिमयः प्रोक्ताः स्थावराश्चोद्भिदा मताः । सर्वे
स्वकर्मवशगा भवन्ति न भवन्ति च ॥ १९ ॥
मृतिजन्मजले घोरे सुखदुःखझषाकुले । शोकमोहादिकलिले
त्वगाधे भवसागरे ॥ २०॥
उन्मज्जन्तो निमज्जन्तः पुण्यपापैकबन्धनैः । निबद्धा देहिनः
सर्वे स्वर्गभूनरकादिषु ॥ २१ ॥
मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिपञ्जरे । त्वचावृते
शरीरेऽस्मिन् सौन्दर्यं स्मर्यते कुतः ॥ २२ ॥
अस्थिपञ्जरसारेऽस्मिन् मूत्रश्लेष्ममलाशये ।
मांसकेशनखस्नायुरुधिरत्वक्समावृते ॥ २३ ॥
देहे चेत् प्रीयते कश्चित् प्रीयते नरकेऽपि सः ।
यद्वाप्यज्ञानिभिर्देहे सुखबुद्ध्यात्र भण्यते ॥ २४ ॥
शब्दादीन्द्रियसौख्यान्यप्यन्वयव्यतिरेकतः । असाराणि
यथागीतं मत्तोन्मत्तप्रलापवत् ॥ २५ ॥
वादयन्तश्च दृश्यन्ते यथोन्मत्ता विकुर्वते । स्वर्णसौख्यं
तथोपाधेरुपाध्यन्तरसङ्गमात् ॥ २६ ॥
व्रणादेस्तु यथापूयमूत्रादेर्निर्गमात् सुखम् ।
पामकण्डूतिसौख्यं वा तत्तुल्यं सुरते सुखम् ॥ २७ ॥
चक्षुरिन्द्रियसौख्यं यन्नृत्तकान्तादिदर्शने ।
उन्मत्तचेष्टितान्नृत्तं न किञ्चिदपि हीयते ॥ २८ ॥
स्वक्षी सुनासा सुमुखी सुदतीत्यादिदर्शने । सौख्यं
त्वगस्थिमांसादौ कतरत् स्यान्मनोहरम् ॥ २९ ॥
आस्वाद्येषु पदार्थेषु रसनेन्द्रियचापलात् । क्षुत्तृण्णिवृत्त्या
सौहित्यं दुःखापायो न तत् सुखम् ॥ ३० ॥
निद्रादुःखं यदि लसैत् सौख्यं स्वापे सुखं यथा ।
तदात्मसुखमुद्दिष्टं करणानां तु संहृतौ ॥ ३१ ॥
घ्रेयेष्वपि सुगन्धेषु यत्नात् प्राप्येषु दृश्यते । अयत्नेन
वनादौ च प्राप्तुं तच्छक्यते सुखम् ॥ ३२ ॥
गर्भवासे च जनने बाल्ये वास्य कुतः सुखम् । अस्वतन्त्रस्येव
परैर्यन्त्रितस्येव पक्षिणः ॥ ३३ ॥
यौवनेऽनिष्टसंयोगादिष्टलाभे वियोगतः ।
रागाद्याक्रान्तचित्तस्य कुतः सौख्यं शरीरिणः ॥ ३४ ॥
वार्धक्येऽण्प्र?समर्थस्य विषयांस्तु बुभुत्सतः ।
प्रक्षीणेन्द्रियवृत्तेस्तु रोगरागाद्युपद्रवैः ॥ ३५ ॥
पीड्यमानस्य तत्सौख्यं कुतो वास्य मरिष्यतः । म्रियमाणस्य
यद् दुःखे नरकेऽपि न तद् भवेत् ॥ ३६ ॥
ततः पापकृतां दुःखं यमलोकाय गच्छताम् । तद्दर्शनेन
पततां पतितानां पतिष्यताम् ॥ ३७ ॥
नरकेषु प्रसिद्धं हि दुःखं तस्मान्न भण्यते । यदि
पुण्यकृदेव स्यात् स्वर्गे देवादिदेहवान् ॥ ३८ ॥
विमानादिषु दिव्येषु भोगेषूपनतेष्वपि । दृष्ट्वा (पापा?
त्वल्पां) श्रियं दीप्तामन्येषामात्मनोऽधिकाम् ॥ ३९ ॥
सन्तप्त एष विषयान् भुङ्क्ते दुःखं धिया वहन् । ततोऽपि
क्षीणपुण्यानां पतनाद्यवलोक्य तु ॥ ४० ॥
यादृशं हृदये दुःखं न तद् वर्णयितुं क्षमम् । अथ
राज्यादिषु सुखं स्याच्चेत् सन्ध्यादिदुःखिनः ॥ ४१ ॥
पुत्रेभ्योऽपि भयं यस्य तस्य सौख्यं कुतो भवेत् ।
अत्र पराशरः -
यावतः कुरुते जन्तुः सम्बन्धान् मनसः प्रियान् । तावन्तोऽस्य
निखन्यन्ते हृदये शोकशङ्कवः ॥
यद् यद् गृहे तन्मनसि यत्रतत्रावतिष्ठतः ।
[नाशदाहापहरणं तत् तस्यास्यैव तिष्ठति इति विष्णुपुराणे
पठ्यते।] नाशव्ययादिभीत्या क्व परिग्रहवतां सुखम् ॥
इति ।
तथा चाहुः -
यतो यतो निवर्तते ततस्ततः सुखी भवेत् । निवर्तनाद्धि सर्वतो
न वेत्ति दुःखमण्वपि ॥
इति ।
तथापि तृष्णया जन्तुः पीड्यमानो दिवानिशम् ।
अर्थाद्यार्जनवैतृष्ण्यं न कदाचिन्निगच्छति ॥
तथाचोक्तं -
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
चक्षुश्श्रोत्रे च जीर्येते तृष्णैका निरुपद्रवा ॥
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तु यतस्तां तृष्णां दुरतस्त्यजेत् ॥
अतो न कर्मणा कार्यं प्रजया वा धनेन वा ।
त्यागेनैवामृतत्वं हि प्राप्तुं शक्यं मनीषिभिः ॥ ४२ ॥
तस्माद् धर्मार्थकामेभ्यो मोक्ष एव विशिष्यते । अस्थिरत्वात्
त्रिवर्गाणां दुस्सम्पादतयापि च ॥ ४३ ॥
अलमलमतिविस्तरेण । प्रस्तुतमेवानुसन्धीयते ।
इत्थं विज्ञाय संसारमसारं तद्विरागतः । मोक्षमार्गः
परो योगः साङ्गः साध्यो विपश्चिता ॥ ४४ ॥
स च सन्न्यसनात् सम्यग् योगः प्राप्यो न चान्यथा । सन्न्यासो
मुण्डनान्न स्याद् दण्डादेर्ग्रहणादपि ॥ ४५ ॥
काषायावरणाद्यं च मुण्डनं दण्डधारणम् ।
यदन्यदप्येवमाद्यं देहस्योक्तं न देहिनः ॥ ४६ ॥
जडस्येह शरीरस्य घटकुड्यादिधर्मणः ।
वेषलङ्घनमात्रेण देही मोक्षं कथं व्रजेत् ॥ ४७ ॥
अत एव शरीरस्य कर्तृत्वं नापि भोक्तृता । शरीरकर्मणां
कर्ता संस्कार्यस्तत्फलार्थिभिः ॥ ४८ ॥
अत एव हि सन्न्यासस्त्यागः स्यात् काम्यकर्मणाम् । काम्यानां
कर्मणां न्यासं सन्न्यासं कवयो विदुः ॥ ४९ ॥
लोकार्थपुत्रैषणाभ्यो निवृत्तो यः सदैव हि ।
स्ववर्णाश्रमयुक्तानां तथा स्वसमयस्य तु ॥ ५० ॥
विहितानां तु धर्माणां तत्फलेप्वनपेक्षया ।
ईश्वरार्पणबुद्ध्या तु करणं न्यास इष्यते ॥ ५१ ॥
तद्वान् यतिश्च सन्न्यासी न स्यात् केवलमुण्डितः । ज्ञेयः स
नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति ॥ ५२ ॥
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः । चीरवासा
जटी वापि द्विदण्डो वाथ [ख्: स] मुण्डितः ॥ ५३ ॥
विवासाः शुक्लवस्त्रो वा काषायवसनोऽथवा । कर्मसन्न्यासनं
कृत्वा साङ्गयोगं समाश्रितः ॥ ५४ ॥
शिवानुग्रहमासाद्य योगी मोक्षमवाप्नुयात् । विज्ञाय
संसारमसारमेवं वैराग्यतोऽनुग्रहतश्च शम्भोः ।
सम्प्राप्य योगं तु गुरूपदेशाद् योगी विमुक्तिं न चिरादुपैति ॥
५५ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
योगपादे योगलक्षणं नाम प्रथमः पटलः ॥