अथ चतुष्षष्टितमः पटलः ।
जीर्णोद्धारविधिं वक्ष्ये लिङ्गप्रासादयाः क्रमात् । खण्डिते
स्फुटिते भिन्ने चलिते पतिते हृते ॥ १॥
दग्धे जीर्णेऽङ्गहीने च सगर्भे वा क्षते च्युते ।
अज्ञानादधिके वोनमाने लिङ्गे तु मानुषे ॥ २॥
प्रतिष्ठिते वा क्षुदार्थं लिङ्गे नद्यब्धिपीडिते । त्यजन्ति
मन्त्रास्तल्लिङ्गं देवश्चापि यतः स्फुटम् ॥ ३ ॥
त्यक्तं मन्त्रैश्च देवेन त्याज्यं पाषाणवद् भवेत् ।
तल्लिङ्गमाश्रयन्तीह पिशाचा ब्रह्मराक्षसाः ॥ ४ ॥
उक्तैर्दोषैः प्रदुष्टं चेत् त्याज्यं पीठमपि स्फुटम् ।
सकलेऽपि च तुल्याः स्युरेते दोषास्तथैव हि ॥ ५ ॥
ब्रह्मविष्ण्वादिकानामप्यन्यासां प्रतिमासु च । देवतानामिमे
दोषास्तुल्यास्त्याज्यास्ततस्तु ताः ॥ ६ ॥
तत्र मूलालयाद् बाह्ये याम्ये पूर्वोत्तरेऽथवा । कुर्याद्
बालालयं मूले पञ्चांशे तु त्रिभागतः ॥ ७ ॥
नवांशे पञ्चभिस्त्र्यंशे द्वाभ्यां बालालयः स्मृतः । मूले
तु पश्चिमद्वारे स्यान्नैर्-ऋत्यां तु वानिले ॥ ८ ॥
तदग्रे मण्डपं चापि समलङ्कृत्य पूर्ववत् । तन्मध्यवेद्यां
शयनं सङ्कल्प्योक्तविधानतः ॥ ९ ॥
मूललिङ्गेषु नन्देषुत्र्यंशपञ्चत्रिदस्रकैः । कृत्वा तु
दारवं लिङ्गं सपीठं सुमनोरमम् ॥ १० ॥
पुण्याह विकिरक्षेपकुम्भास्त्रभ्रमणादनु ।
तोरणद्वारलोकेशकलशार्चनपूर्वकम् ॥ ११ ॥
विद्येशकुम्भान् परितः संस्थाप्य शयनस्य तु ।
हैमाद्यन्यतमं कुम्भं शय्यायां विनिधाय तुम् ॥ १२ ॥
तीर्थाम्भःपूरिते तस्मिन् हेमरत्नादिसंयुते ।
मूलाङ्गब्रह्ममन्त्रांश्च व्योमव्यापिद्वयं तथा ॥ १३ ॥
गायत्रीं चैव सावित्रीमस्त्रमन्त्रौ च विन्यसेत् । पूजयेच्च
यथापूर्वं संस्पृश्य प्रजपेच्च तान् ॥ १४ ॥
शङ्खभेर्यादिनिर्घोषैः कुम्भं गर्भगृहं नयेत् ।
यात्राहोमं तु मूलाङ्गैः कुर्याद् गर्भस्य पूर्वतः ॥ १५ ॥
कुम्भाद्भिः प्रोक्ष्य लिङ्गाद्यं शिवाज्ञां श्रावयेत् ततः ।
भो भोः सत्त्वेन येनेदं दुष्टलिङ्गं समाश्रितम् ॥ १६ ॥
स शीघ्रमेतदुत्सृज्य गच्छतु स्थानमीप्सितम् । अत्र देवो
यथापूर्वं विद्याविद्येश्वरैर्युतः ॥ १७ ॥
देव्या सह गणैः शश्वत् सन्निधत्तां सदाशिवः ।
इत्युक्त्वार्घ्यं च दत्त्वास्मात् पिशाचादीन् विसर्जयेत् ॥ १८ ॥
व्यापकेश्वरशब्दश्च चतुर्थ्यन्तो नमोन्वितः । तारादियुक्तः
स्वेनैव षडङ्गानि स्वजातिभिः ॥ १९ ॥
अनेन सकलीकृत्य स्वयं तद्व्यापिनं शिवम् । लिङ्गालयादौ
संस्मृत्य प्रार्थयेन्मनुनामुना ॥ २० ॥
ॐ
भगवल्लिँङ्गमेतत् तु दुष्टं दोषावहं यतः ।
अस्योद्धाराच्छान्तिरस्तु सर्वेभ्यो व्यापकेश्वर ! ॥ २१ ॥
तदुद्धारे प्रवृत्तं मामधितिष्ठेह शङ्कर! । तथेति
देवेनादिष्टः शान्तिहोमं समाचरेत् ॥ २२ ॥
क्षीराज्यमधुदूर्वाग्रैर्मन्त्रसंहितया शतम् ।
लिङ्गसञ्चलनार्थं तु सहस्रं जुहुयाद् घृतम् ॥ २३ ॥
मूलाद् दशांशतोऽङ्गैश्च पुनःस्थापनमुद्दिशन । ऽसतं
जुहोति क्षैरेय्या ततः पाशुपतास्त्रतः ॥ २४ ॥
ब्राह्मादिकानां भागानां सहस्रं तु पृथक् पृथक् ।
सम्प्रोक्ष्य शान्तिकुम्भाद्भिस्तत्तद्भागे तु संस्पृशेत् ॥ २५ ॥
जपित्वाहुतिसङ्ख्यं तु विलोमार्घ्यं प्रदाय तु । पुनः
प्रतिष्ठा कालेन यावता तस्य शक्यते ॥ २६ ॥
तन्निश्चित्यावधिं तस्मै शनैर्विज्ञापयेद् गुरुः । प्रणवाद्यं
तु संरुद्धैर्मूलाङ्गैर्ब्रह्मभिस्तथा ॥ २७ ॥
विलोमतस्तु लिङ्गादौ व्याप्तं तं व्यापकेश्वरम् । सूत्रस्थं
व्योमवद् व्याप्तं ध्यात्वा कुम्भे नियोजयेत् ॥ २८ ।
ब्रह्मादिभागगान् मन्त्रान् मूलं चापि षडध्वभिः । कुम्भे
तस्मिन् समावाह्य सम्पूज्यार्घ्यादिभिः क्रमात् ॥ २९ ॥
वाससास्त्रेण संवेष्ट्य दत्त्वार्घ्यं कुम्भमुद्ध[ख्:त्त]रेत् ।
शिरसैव वहन् गच्छेत् प्रादक्षिण्यं स्वयं गुरुः ॥ ३० ॥
प्रवेश्य मण्डपे प्राग्वच्छय्यायां विनिवेशयेत् । पूर्ववद्
ब्रह्मभिर्दिक्षु कोणेष्वङ्गैर्जुहोति च ॥ ३१ ॥
त्रिखण्डभावना कार्या दाअरुलिङ्गं यथापुरम् ।
प्रातर्बालालये लग्ने दारुलिङ्गं सपिण्डिकम् ॥ ३२ ॥
संस्थाप्य कुम्भगान् मन्त्रांस्तस्मिन् देवं च योजयेत् । अभिषिच्य
तु तत्रस्थमेवं विज्ञापयेच्छिवम् ॥ ३३॥
ॐ
यावन्मूलालये लिङ्गं निष्पन्नं स्यात् प्रतिष्ठितम् । तावद्
दारुमये लिङ्गे सान्निध्यं कुरु शङ्कर ! ॥ ३४॥
ततस्तत्रैव गन्तव्यमस्माल्लिङ्गात् प्रसीद मे । सृष्टिक्रमेण
मन्त्रांश्च ध्यात्वा तस्मिन् षडध्वनः ॥ ३५॥
अर्घ्याद्यैः प्राग्वदभ्यर्च्य हुत्वा प्राग्वत् त्रिवासरम् ।
चतुर्थदिवसे स्नानं नवकेन विधाय तु ॥ ३६ ॥
नित्यपूजोत्सवाद्यं यत् कर्म तत्र प्रवर्तयेत् । सति चण्डेश्वरे
चण्डं विसृज्याप्सु विनिक्षिपेत् ॥ ३७ ॥
ततो हेमखनित्रेण खात्वास्त्रेण तु देशिकः । अदोषदुष्टं
पीठं चेदुद्धृत्यान्यत्र विन्यसेत् ॥ ३८ ॥
रक्षेद् यजेत् स एवेशो यतो बालालयेऽर्च्यते । दुष्टं लिङ्गं
हैमरज्ज्वा बद्ध्वा वृषभयोजिते ॥ ३९ ॥
शकटे तु समारोप्य क्षिपेद् गाधेतरेऽम्भसि । शैललिङ्गे
विधिस्त्वेवं दारुजं चेच्छिवाग्निना ॥ ४०॥
दहेदस्त्रेण रत्नं वा मृन्मयं वाग्निदाहतः ।
अविवर्णमुदुष्टं चेत् तदेव स्थापयेत् पुनः ॥ ४१ ॥
लौहं तदेव तु पुनः प्राग्वत् कृत्वा सलक्षणम् ।
प्रतिष्ठाप्यार्चयेत् कुर्यादालये नूतनं पुनः ॥ ४२ ॥
मृत्सुधाप्रतिमादीनि वर्णाद्याधानतः पुनः ।
नूतनान्युक्तमार्गेण प्रतिष्ठाप्य तु पूजयेत् ॥ ४३ ॥
पिण्डिकैव यदा दुष्टा त्यक्त्वा तामपरां पुनः । अधिवास्य
यथापूर्वं मूललिङ्गं नियोजयेत् ॥ ४४ ॥
मूललिङ्गे तु निष्पन्ने प्राग्वद् देवाग्रमण्डपे ।
कृत्वाधिवासनाद्यं तु स्थापयेद् गर्भमन्दिरे ॥ ४५ ॥
बाललिङ्गस्थितं देवं प्राग्वत् कुम्भेऽधिरोप्य तु । स्थापिते
(बा? मू)ललिङ्गे तु पूर्ववत् सन्नियोजयेत् ॥ ४६॥
प्रासाद एव जीर्णश्चेत् तस्योधारोऽथ कथ्यते । प्रासादमन्त्रान्
सर्वांस्तु समाहृत्य यथाक्रमम् ॥ ४७ ॥
पूर्वोक्तेन क्रमेणैव खड्गे संयोज्य पूजयेत् । प्रासादे तु
सुनिष्पन्ने तन्मन्त्रान् पूर्ववत् क्रमात् ॥ ४८ ॥
खड्गादादाय संयोज्य सम्प्रोक्ष्य स्नपयेच्छिवम् । प्रतिष्ठातो
दशगुणां जीर्णोद्धारे तु दक्षिणाम् ॥ ४९ ॥
दद्यान्मूर्तिधरेभ्यश्चाप्याचार्याय ततोऽधिकम् । विप्रेभ्यश्चैव
लिङ्गिभ्यस्तक्षभ्योऽर्थिभ्य एव च ॥ ५० ॥
तद्वत् कर्मकरादिभ्यो दद्याद् देयांस्तु पुष्कलान् । लिङ्गे
प्रतिष्ठिते यद् वा प्रासादकरणे फलम् ॥ ५१ ॥
जीर्णोद्धारे कृते तस्माद् द्विगुणं लभते फलम् ।
इत्थं धर्माद् विशिष्टाज्जगति तनुभृतां भोगमोक्षोपलब्ध्यै
विद्यादेहस्य शम्भोर्वदनसरसिजव्यक्तविश्वागमार्थैः ।
नित्याद्यं कर्मचक्रं सविधिकमखिलं यत्र दृश्यं यथाव-
ज्जीर्णोद्धारावसानं सुरगुरुविबुधस्तं क्रियापादमूचे ॥ ५२ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
क्रियापादे जीर्णोद्धारपटलाश्चतुष्षष्टितमः ॥
समाप्तः क्रियापादः