अथ त्रिषष्टितमः पटलः ।
च्युतस्खलितदोषाणामद्भुतानां च शान्तये ।
नित्यनैमित्तिकानां तु प्रायश्चित्तं निगद्यते ॥ १ ॥
त्रिद्व्येकसङ्ख्यायजने हीने निर्माल्यशोधने । क्रमात्
कनिष्ठस्नपनैः स्नपयेत् पूजयेदपि ॥ २ ॥
सन्ध्यासु यदि निर्माल्यं लिङ्गमूर्धनि तिष्ठति । सान्निध्यं
हन्ति देवस्य राज्ञः शक्तिं च हापयेत् ॥ ३ ॥
गन्धहानौ तु दारिद्र्यं पुष्पहानौ श्रियश्च्युतिः ।
धूपदीपविहीनं यदर्चनं रोगदुःखदम् ॥ ४ ॥
नैवेद्यहीनं दुर्भिक्षमग्निकार्ये च्युते सति । अनावृष्टिभयं
राष्ट्रे बलिच्छेदे प्रजाक्षयः ॥ ५ ॥
नित्योत्सवस्य हानौ स्यात् परचक्रभयं सदा । महोत्सवस्य
विच्छेदे राज्ञः कर्तुश्च नाशनम् ॥ ६ ॥
तस्मान्न हापयेत् कञ्चिदुपचारं विचक्षणः ।
यथाक्तोचा(र? रात्)सम्पद् विवर्धते ।
प्रमोदाद् वाथवा विघ्नात् पूजादेहिह विच्युतौ ॥ ७ ॥
तत्तद्द्विगुणितां पूजां कृत्वाघोरशतं जपेत् ।
वृषयागविहीने तु गवां नाशो भवेद् यतः ॥ ८ ॥
तच्छान्त्यै वृषभस्यैव पूजा द्विगुणिता भवेत् ।
ध्वजहीनोत्सवे राज्ञः शत्रुपीडा भवेद् यतः ॥ ९ ॥
तद्भङ्गे वा पताकाया मारी राष्ट्रे प्रवर्धते । तच्छान्त्यै
तु ध्वजस्यैशे कुण्डेऽग्नौ वृषमन्त्रतः ॥ १० ॥
समिदाद्यष्टभिर्हुत्वा वृषं चैव शिवं यजेत् । पुनरपि
ध्वजमुच्छ्रित्योत्सवं प्रवर्तयेदिति यावत् । मङ्गलाङ्कुरहीने
स्याद् राजादीनाममङ्गलम् ॥ ११॥
त्रियम्बकादिना हुत्वा सविशेषं शिवं यजेत् । हीने कौतुकबन्धे
तु राष्ट्रे रक्षा विनश्यति ॥ १२ ॥
तत्र त्रैयम्बकेनाज्यं हुत्वेष्ट्वा कलयेच्च तम् । चूर्णोत्सवं
विना रोगो राष्ट्रे भवति शान्तये ॥ १३ ॥
मृत्युञ्जयेन हुत्वात्र सविशेषं शिवं यजेत् । तीर्थयात्रां
विना राष्ट्रं जलाभावेन पीड्यते ॥ १४ ॥
हुत्वाज्यं संहितामन्त्रैस्तीर्थयात्रां प्रवर्तयेत् ।
ध्वजावरोहणे हीने पीडयेच्चण्डमारुतः ॥ १५ ॥
कृत्वा तु पूर्ववच्छान्तिं शिवमिष्ट्वावरोपयेत् ।
उत्सवावाहितानां तु गणानामविसर्जने ॥ १६ ॥
राष्ट्रक्षोभो भवेच्छान्त्यै शिवमिष्ट्वा जयाबलिम् । विकीर्य तु
गणान् सर्वानभिपूज्य विसर्जयेत् ॥ १७ ॥
नित्योत्सवे(न? तु) लिङ्गं वा बेरं वापि महोत्सवे । पतितं यदि
यानादे राजराष्ट्रादिनाशकृत् ॥ १८ ॥
प्रायश्चित्तं तु तत्रैव देवं विन्यस्य सर्वतः । तिरस्करिण्या
संवेष्ट्य समालिप्य च तत् स्थलम् ॥ १९ ॥
स्नात्वा कृत्वा तु पुण्याहमन्नलिङ्गमथापरम् । विधाय तच्च
बेरं च तत्रैव विधिनार्चयेत् ॥ २० ॥
नवकेनाभिषिच्याथ शाल्यन्नं घृतपायसम् ।
निवेद्यात्राग्निमाधाय प्राच्यां नामान्तसंस्कृते ॥ २१ ॥
घृतं चरुं च समिधो मधुक्षीरे च लाजकान् । ईशादिभिस्तु
सद्यान्तैर्गायत्त्र्या श्वेतसर्षपैः ॥ २२ ॥
तिलैरस्त्रेण मूलेन शालिभिश्च शतं शतम् ।
हुत्वाथाधारशक्त्यादिमन्त्रैश्चापि दिगीश्वरैः ॥ २३ ॥
दिशि यस्यां तु तल्लिङ्गं च्युतं तत्पालमन्त्रतः ।
तिलाज्याभ्यां शतं हुत्वा जयादिं निष्कृतिं तथा ॥ २४ ॥
कृत्वा स्विष्टकृतं दद्याद् दिक्पालोक्तां तु दक्षिणाम् । हैमो
गजो हिरण्यं च महिष्यो महिषान्विताः ॥ २५ ॥
हैमच्छागस्तथा हारः पित्तलं हेमसंयुतम् । पयस्विन्यश्च
रूप्यं च दक्षिणाः कथिताः क्रमात् ॥ २६ ॥
पुनः प्रवर्तयेद् यात्रां शिष्टं च विकिरेद् बलिम् । बेरं चेत्
पतितं भिन्नं तत्रोक्तात् तु चतुर्गुणम् ॥ २७ ॥
प्रायश्चित्तं दक्षिणा च स्यादन्नं चाप्यवारितम् । बेरमन्यं
प्रतिष्ठाप्य यात्राशेषं प्रवर्तयेत् ॥ २८ ॥
महास्नपनपूजां च मूललिङ्गे प्रवर्तयेत् । पूजाविच्छेदकालस्य
गौरवानुगुणेन तु ॥ २९ ॥
प्रायश्चित्तं प्रकुर्वीत तत्कालद्विगुणार्चनम् । होमं च
दक्षिणां चापि दत्त्वा पूजां प्रवर्तयेत् ॥ ३० ॥
आ द्वादशा [ख्: शात् पू]हात् पूजाया विच्छेदे निष्कृतिः स्मृता
। लिङ्गे तु मानुषे पश्चात् प्रतिष्ठामेव कारयेत् ॥ ३१ ॥
आर्षस्वयम्भुलिङ्गानां कृत्वा सम्प्रोक्षणं पुनः ।
जीर्णस्थापनमात्रेण स्नपयित्वा तु पूजयेत् ॥ ३२ ॥
शिवकुम्भास्त्रयोर्भङ्गे कर्तुर्मरणमादिशेत् । आज्याद्यैः
संहितामन्त्रैस्तत्र हुत्वा शतं शतम् ॥ ३३ ॥
तिलाज्यमस्त्रतश्चान्ये कुम्भास्त्रे तत्र पूजयेत् । पूजिते
स्नपनार्थं तु कलशे कलशेषु वा ॥ ३४ ॥
भिन्ने(खि? भि)न्नेषु वान्यांस्तु समापूर्यार्चयेत् तथा ।
अस्त्रेणाज्यशतं हुत्वा तेषु सम्पातयेद् घृतम् ॥ ३५ ॥
तद्वत् तावज्जपित्वा तु स्वर्णं दद्याच्च शान्तये । प्रासादे
प्राङ्गणे वापि मृते वा रुधिरक्षते ॥ ३६ ॥
मूत्रविष्ठादिसिक्ते वा श्वोदक्यासूतिकादिभिः । चण्डालैर्वा
सृगालैर्वा गृघ्रोलूकैश्च गर्दभैः ॥ ३७ ॥
प्रविष्टे च प्रसूते च प्रायश्चित्तं निगद्यते । तत्र तां तां
भुवं खात्वा द्विहस्तं परितोऽप्यथ ॥ ३८ ॥
उद्धृत्य तां मृदं त्यक्त्वा गोकरीषाग्नि[क्: दि]ना दहेत् । तद्
भस्म च परित्यज्य गोमूत्रेणाभिपूर्य तु ॥ ३९ ॥
विप्रपादाम्बुतीर्थाद्भिः पञ्चगव्येन च क्रमात् ।
गोभिराक्रामयेच्चाष्टमृद्भिरापूरयेदपि ॥ ४० ॥
प्रपां वा मण्डपं [पात् कृ] कृत्वा ब्राह्मणांस्तत्र भोजयेत्
। दक्षिणेऽर्धेन्दुकुण्डेऽग्नौ संस्कृते चाहिते शिवे ॥ ४१ ॥
औदुम्बरी चापा[ख्: प]मार्गसमिधं च घृतं चरुम् ।
सिद्धार्थांश्च क्रमादष्टसहस्रं तु पृथक् पृथक् ॥ ४२ ॥
ईशान्यैर्ब्रह्माभिर्हुत्वा पुनः शालींस्तिलान् यवान् । मुद्गान्
समधुरा दूर्वाः पायसं च(रवः? चरुं) क्रमात् ॥ ४३ ॥
ब्रह्मभिश्चैव मूलेन गायत्त्र्या जुहुयात् पुनः । अङ्गानां
तद्दशांशेन सर्वद्रव्यैर्जुहोति च ॥ ४४ ॥
अनिवारितमन्नाद्यं दत्त्वा क्षेप्यो बलिर्निशि ।
श्रेष्ठादिस्नपनेनापि स्नपयित्वो[त्वापवर्तितः]पपत्तितः ॥ ४५
॥
दक्षिणाश्च प्रदेयानि दत्त्वा पूजां प्रवर्तयेत् । लिङ्गे
पाषण्डिचण्डालश्वादिस्पृष्टेऽभिचारकैः ॥ ४६ ॥
मन्त्रैर्युक्ते च पूर्वोक्तं गोसञ्चारादि कर्म यत् । सर्वं
कृत्वाथ कोशं तु कृत्वा यज्ञतरूद्भवम् ॥ ४७ ॥
(घृ? कृ)तवार्यन्तसंस्थानं सुवृत्तं गोलकोपमम् । लिङ्गोपरि
च तालोच्चं कृत्वा नीरन्ध्रमाहितम् ॥ ४८ ॥
व्यस्तै[क्तै]र्गव्यैः समस्तैश्च त्रिदिनं त्रिदिनं क्रमात् ।
कषायैरष्टमृद्भिश्च गन्धतीर्थोदकैरपि ॥ ४९ ॥
व्योमव्यापिद्वयेशा[क्: ना]स्त्राद् ब्रह्मप्रासादतारकैः ।
मृत्युञ्जयेन मूलाङ्गै रुद्रैश्च पवमानकैः ॥ ५० ॥
आपूर्याथ जपेयुश्च एकविंशतिवासरान् । चतुर्दशा(हा)द्वा
सप्त दोषगौरवयुक्तितः ॥ ५१ ॥
अष्ट * * * * * * * * वा पतिते मृते । पञ्चगव्येन सम्प्रोक्ष्य
कृत्वा पुण्याहवाचनम् ॥ ५२ ॥
प्रोक्तमन्त्रादिभिः प्राग्वज्जुहोत्यप्सुमतेऽग्नये ।
गौरवानुगुणमाहुतिबाहुल्यं दक्षिणागौरवं चाप्यूह्यम् ।
तथा रजस्वलास्पर्शे जुहोत्यशुचयेऽग्नये ॥ ५३ ॥
स्नपने वा प्रतिष्ठादावसमाप्ते तु कर्मणि । यजमानो
मूर्तिधरो गुरुर्वा संस्थितो यदि ॥ ५४ ॥
तत्रापि गव्यपुण्याहकुम्भास्त्रयजनादनु । त्वण् नो
अग्न्यादितिसृभिः संहितास्त्रैश्च पूर्ववत् ॥ ५५ ॥
हुत्वाथ गोहिरण्याद्यं दत्त्वा कर्म प्रवर्तयेत् । अन्नाद्यं
ब्राह्मणादिभ्यः प्रदेयं स्यादवारितम् ॥ ५६ ॥
चतुर्थी(?) स्नपनादर्वाग् (भवने? भग्ने) वा तोरणध्वजे ।
उक्तहोमादिविच्छेदे तत्राप्युक्तप्रकारतः ॥ ५७ ॥
पञ्चगव्यादिहोमान्ते तत् तद् विन्यस्य पूजयेत् ।
अल्पप्रायश्चित्तम् ।
अथ प्रासादहारासु वल्मीकं वाथवा मधु ॥ ५८ ॥
जायेत रक्तकन्या वा गृध्रोलूककपिञ्जलाः । गर्भागारं
विशेयुर्वा विमाने वाशनिः पतेत् ॥ ५९ ॥
तत्रापि पूर्वकथितदोषशान्तिं तु कारयेत् । अथोत्पातेषु
जातेषु धूमकेतूद्गमादिषु ॥ ६० ॥
भूमिकम्पे दिशां दाहे चण्डवातेऽग्निविप्लवे । अवातवृक्षपाते
वा शक्रचापोद्गमे निशि ॥ ६१ ॥
अद्भुतेष्वथ चान्येषु तद्दोषप्रशमाय तु । अस्त्रयागं पुरा
कृत्वा सविशेषं शिवं यजेत् ॥ ६२ ॥
अद्यथा -
प्राच्यामैशेऽथवोदीर्च्या प्राग्वत् कृत्वा तु मण्डपम् ।
अलङ्कृत्य तु पुण्याहं विकिरक्षेपपूर्वकम् ॥ ६३ ॥
कुम्भास्त्रयजनाद् भ्रान्त्वा वेद्यां कृत्वा तु भद्रकम् ।
षडङ्गमूलेनाङ्गैश्च तद्वर्णविहितैः क्रमात् ॥ ६४ ॥
जातियुक्तै(स्तु? रपि) तथा सकलीकृतविग्रहः ।
विघ्नमिष्ट्वार्घ्यमापूर्य तिलकी पुष्पशेखरः ॥ ६५ ॥
शक्त्यनन्तासनादूर्ध्वं धर्मादिगुणपङ्कजैः ।
कल्पान्तार्कसतद्युतिर्दशभुजो दंष्टोग्रपञ्चाननः
पिङ्गश्मश्रुजटोद्भटस्त्रिणयनो मुण्डस्रजा मण्डितः
टङ्कं चर्म कपालचापभुजगाञ्छूलासिवह्नीन् शरं
बिभ्रद्भोगिविभूषणो डमरुकं व्याघ्राजि[क: द]नात्ताम्बरः
॥ ६६ ॥
एवं ध्यात्वा तु मूलाङ्गैः सकलीकृत्य पूजयेत् ॥ ६७ ॥
अर्घ्याद्यैरथ भोगानामाग्नेयच्छदनादिषु । विद्येश्वरांश्च
तद्दिक्षु तद्बाह्ये दशलोकपान् ॥ ६८ ॥
तच्छस्त्राण्यभितस्तेषां यथावदभिपूजयेत् ।
तद्वत् त्रिकोणकुण्डेऽग्नौ खादिराणां समिद्भिश्च सङ्क्षाल्य
क्षीरित्वक्पिष्टभस्मभिः (?) ।
लक्ष्मीदेवीसहादूर्वाक्रान्त्येकादशपङ्कजैः ॥ ६९ ॥
शक्रवल्लीसदाभद्रामुसलीमधुपाह्वयैः ।
रोचनागरुकर्पूरमांसीकुङ्कुमचन्दनैः ॥ ७० ॥
उशीरमुरुकुष्ठानां पिष्टैरपि च लेपयेत् । प्रक्षाल्य
तीर्थसलिलैर्बिल्वपत्रैश्च घर्षयेत् ॥ ७१ ॥
अमन्त्रं पूजयेत् प्राग्वदधिवासनमण्डपे । शय्यायां
हेमकुम्भेऽद्भिर्हेमरत्नादिपूरितैः ॥ ७२ ॥
प्राग्वत् त्रिभागतत्त्वादिमूर्त्याद्यैरधिवास्य तु । मूलाङ्गैः
शिवमावाह्य तस्मिन् सम्पूज्य लग्नके ॥ ७३ ॥
कुम्भस्थं तु शिवं लिङ्गे योजयन्नभिषेचयेत् । सम्पूज्य तु
यथापूर्वं मुख्यादिस्नपनेन तु ॥ ७४ ॥
उपपत्त्याभिषिच्येशं प्राग्वत् पूजां प्रवर्तयेत् ।
महादोषप्रायश्चित्तम् ।
अथ स्विन्ने सनिष्ठीवे लिङ्गे धूमोष्मपीडिते ॥ ७५॥
अदीक्षितैऽस्च विप्राद्यैः स्पृष्टे वाप्यन्यलिङ्गिभिः । प्राग्वद्
दारुमये कोशे पञ्चगव्यैः पृथक् क्रमात् ॥ ७६ ॥
समस्तैश्चावगाहं तु कारयित्वा षडाह्निकम् । मृद्भिश्च
चन्दनाद्यैरप्यवघृष्याभिषिच्य तु ॥ ७७ ॥
त्रिभागतत्त्वमूर्त्त्यादिषडध्वपरिभावनाः ।
विधायार्घ्यादिभिः सम्यगभ्यर्च्य तु सदाशिवम् ॥ ७८ ॥
अष्टोत्तरशतादीनां पञ्चविंशतिकान्ततः ।
स्नपनानामेकतमेनोपपत्त्याभिषेचयेत् ॥ ७९ ॥
महापूजां चाग्निकार्यं यथापूर्वं विधाय तु । बलिं
विकीर्य भूतेभ्यो दत्त्वान्नाद्यं च दक्षिणाः ॥ ८० ॥
प्रवर्तयेद् यथापूर्वं पू(ज? जा)यामुत्सवादिकम् ।
आवाहितशिवस्याग्नेर्निर्वाणे पूर्ववत् क्रमात् ॥ ८१ ॥
(आधोयिज्य?) जुहोत्याज्यं त्वन्नो अग्न्यादिना पुनः ।
समित्तिलचरूंश्चास्त्रात् कृष्णादष्टसहसकम् ॥ ८२ ॥
जयादिनिष्कृत्यन्तं तद् यथापूर्वं प्रकल्पयेत् ।
अनावाहितशिवे वोद्वासितशिवे वाग्नौ निर्वाणे
पूर्वोदितमन्त्रद्रव्यैः प्रत्येकमष्टोत्तरशतं हुत्वा
गुरुमूर्त्तिधरादिभ्यो हिरण्यं दक्षिणां दद्यात् ।
शिवेऽग्नि * * नं स्पृष्ट्वा यदि स्युः शिववह्नयः ॥ ८३ ॥
जुहोति पूर्वमन्त्राद्यैः क्रमाद् विविचयेऽग्नये ।
लौकिकाग्नेर्दवाग्नेर्वा संसर्गे शुचयेऽग्नये ॥ ८४ ॥
पूर्वद्रव्यमन्त्रैर्जुहोतीति यावत् ।
शावसूतकिशूद्राद्यैः स्पृष्टेऽग्नौ च प्रमादतः ।
अशुद्धद्रव्यसम्पर्के * * जन्तौ सहस्रकम् ॥ ८५ ॥
समिधां जुहुयात् साज्यं पायसं च तिलांस्ततः ।
सिद्धार्थांश्च चरून् दूर्वाः प्रत्येकं तु शतं शतम् ॥ ८६
॥
मूलेनाङ्गैर्दशांशेन विद्येशेभ्यः सकृत् सकृत् । अस्त्रेभ्यश्च
तथा हुत्वा रक्तान्नेन बलिं निशि ॥ ८७ ॥
विकिरेदुक्तमार्गेण नृत्तगीतादिमङ्गलैः । एवं
कृत्वास्त्रयागं तु सविशेषं शिवं यजेत् ॥ ८८ ॥
सर्वशान्तिर्भवेत् तत्र तद्वत् सर्वत्र मङ्गलम् ।
अस्त्रयागाधिकारः ।
इत्थं हि सर्वदेवानां प्रायश्चित्तं पृथक् पृथक् ॥ ८९ ॥
शुद्धिं च दोषशान्तिं च स्वस्वतन्त्रैः समूहयेत् ।
स्वस्वतन्त्रोदितैश्चापि समित्प्रभृतिभिस्तथा ॥ ९० ॥
जुहुयाद् दोषशान्त्यर्थं स्वस्वमस्त्रं च पूजयेत् । स्नपनं च
यथापूर्वं कृत्वा सम्पद् विवर्धते ॥ ९१॥
सान्निध्यं चाप्यवच्छेदात् तत्तद्देवस्य जायते । शान्त्यर्थं
चापि दोषाणां कामानां चाप्यवाप्तये ॥ ९१ ॥
जयाबलिं च विकिरेत् तत्प्रकारोऽपि कथ्यते ।
उत्तरायणसंस्थेऽर्केऽप्यथवा दोषसम्भवे ॥ ९२ ॥
अष्टम्योश्च चतुर्दश्योः पक्षयोः शुक्लकृष्णयोः । आर्द्रायां
चैव महतीं शम्भोः पूजां प्रवर्तयेत् ॥ ९३ ॥
स्नपयित्वा पञ्चगव्यैस्तथा पञ्चामृतैरपि । त्रिकालं वा
चतुष्कालं नित्यादष्टगुणाधिकम् ॥ ९४ ॥
साग्निकार्यं सवादित्रगीतनृत्तोपशोभितम् । निशासु
प्रकृतिप्रस्थतण्डुलैः साधितेन तु ॥ ९५ ॥
भूतक्रूरेण तूक्तेन भूतेभ्यो विकिरेद् बलिम् । महोत्सवोदितैः
सर्वैर्बलिमन्त्रैर्यथाक्रमम् ॥ ९६ ॥
शुद्धोदनेन देवेभ्यो भूतेभ्यो भूतकूरतः । महोत्सवोदितेभ्यस्तु
गणेभ्यो बलिमादरात् ॥ ९७ ॥
विकिरेद् भोजयेच्चापि ब्राह्मणान् लिङ्गिनस्तथा । अन्येभ्योऽपि च
मृष्टान्नं प्रदद्यादनिवाअरितम् ॥ ९८ ॥
तदन्तेस्नपनेनेशमुपपत्त्याभिषेचयेत् । सर्वशान्तिकरो ह्येष
सुतारोरयजयप्रदः ॥ ९९ ॥
उपसर्गग्रहप्रेतभूतपीडादिनाशकृत् ।
आयुश्श्रीवर्धनश्चास्मात् कर्तव्यो भूतये नृभिः ॥ १०० ॥
प्रायश्चित्तविधिश्चनित्यविष्यो नैमित्तिकानां तथा दोषाणामपि
शान्तये निगदितो यः शैवतन्त्रोदितः । उत्पातप्रशमश्च
विऽस्वदुरितक्लेशान्विहन्त्री नृणां पूजास्रस्य जयाबलिश्च
विजयश्रीवर्धनः कीर्तितः ॥ १०१ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
क्रियापादे प्रायश्चित्तादिपटलस्त्रिषष्टितमः ॥