अथ द्विषष्टितमः पटलः ।
साधकाचार्ययोश्चापि दीक्षितानां द्विजन्मनाम् । संस्थितानां
तु सर्वेषामन्त्येष्टिः कथ्यतेऽधुना ॥ १ ॥
मरिष्यतो वा मृतस्य जपेत् कर्णेऽथ दक्षिणे । आयुषः
प्राणमित्यादीन् मूलेन ग्रथितान् क्रमात् ॥ २ ॥
परेयिवांसमित्याज्यं हुत्वा तत्स्वीकृतानले । केशान् विमुच्य
स्नपयेच्छिष्यः पत्न्यथवा सुतः ॥ ३ ॥
आस्ये हिरण्यं प्रक्षिप्य समाच्छाद्याहताम्बरैः ।
इदन्त्वा वस्त्रेणेति यावत् ।
दर्भेणाङ्गुष्ठयोर्बद्ध्वा घृतदध्यक्षतांस्तिलान् ॥ ४ ॥
उदकुम्भं हिरण्यं च पूषात्वेत्यग्रतो नयेत् ।
वंशदार्वादिरचितां सुदृढां शिबिकां नवाम् ॥ ५ ॥
आच्छाद्य रक्तवासोभिर्ध्वजमालाद्यलङ्कृताम् ।
दर्भमालापरिक्षिप्तां स्वास्तीर्णामधिरोप्य तु ॥ ६ ॥
अत्र शिष्यादयः स्नाताः प्राचीनावीतिनस्तु ते ।
आर्द्रैकवसनाः सर्वे वहेयुः शस्त्रजापिनः ॥ ७ ॥
ज्वलन्तमग्निं पात्रेऽन्यो गृहीत्वा पुरतो व्रजेत् ।
ग्रामादेर्बाह्यतो दुरे नद्यादेस्तु समीपतः ॥ ८ ॥
त्रिभाग(नेन? याने) मार्गस्य शिबिकामवतार्य तु ।
दर्भैरास्तीर्य परितो वामास्ते पान्तु मन्त्रतः ॥ ९ ॥
सद्येन चापि वामेन प(र्य? री)युस्तत्सुतादयः । अप नः
शोशुचदयात्स्वसिद्भिर्वादयन्तु च ॥ १० ॥
नीयमानं पुनस्त्वायुर्विश्वाद्यादवलोक्य तु । गच्छेयुर्वाहकाः
सौम्यास्तान् [न्ता] निर्वार्य पुनर्नयेत् ॥ ११ ॥
शुद्धायामवनौ शावीं शिबिकामवतार्य तु । चितां
याम्योत्तरायामां खात्वा वस्ववटं भुवि ॥ १२ ॥
द्विचतुष्करंविस्तारिदी (क्षां? र्घां) दक्षिणतः प्लवाम् ।
उदक्चिताया वेदाश्रं कुण्डं कृत्वैकमेखलम् ॥ १३ ॥
तन्मृदा [ता] तस्य वायव्ये वेदाश्रं स्थण्डिलं तु तत् ।
हस्तमात्रं षडंशोच्चं सुलिप्तं तत्त्रयं भवेत् ॥ १४ ॥
तत्सुतो वाथ शिष्यो वा स्नातः संस्कर[ख्: स्त](णे? णो)चितम् ।
प्रादक्षिण्यं ततो गत्वा सचिवे स्थण्डिलस्य तु ॥ १५ ॥
उदङ्मुखस्तूपविश्य संहारन्यस्तविग्रहः । सकलीकृत्य
चात्मानं सा(ध? द)यित्वास्त्रवर्धनी ॥ १६ ॥
तत्तोयैः प्रोक्ष्य तत्सर्वं चितेरैशे तु मण्डले । अस्त्रं
पाशुपतं तत्र वर्धन्यां विकिरोपरि ॥ १७ ॥
कृत्वाभिकृतिकोष्ठानि चितायां पञ्चकोष्ठकैः ।
पृथ्व्यादीनां तु तन्मध्ये पार्थिवे पञ्चकोष्ठके ॥ १८ ॥
ब्रह्माणं पूजयेत् पश्चादप्तेजोनि(खिला? लखा)नि तु । पृथक्
कोष्ठचतुष्केषु मरुद्रक्षोग्निशूलिनाम् ॥ १९ ॥
विष्ण्वाद्यांश्चतुरश्चेष्ट्वा स्वाशाकोष्ठेषु लोकपान् ।
तदस्त्राणि चतुर्दिक्षु व्युत्क्रमेणाभिपूज्य तु ॥ २० ॥
स्थण्डिले तु विलोमेन धर्मवामादिका यजेत् । तस्मिंस्तु सतिलं
भस्मविकीर्य शिवमर्चयेत् ॥ २१ ॥
कुण्डे तदग्नौ सशिवे हुत्वा पूर्णां जुहोति च ।
काष्ठकीलानधोवक्त्रान् रक्तसूत्रनिवेष्टितान् ॥ २२ ॥
अप्रदक्षिणमस्त्रेण वह्निकोणादिषु न्यसेत् । एधोभिर्गर्तमापूर्य
कुशपुष्पतिलाक्षतैः ॥ २३ ॥
विकीर्यास्त्रेण सम्पूज्य विपरीताम्बरावृतम् । मृद्गोमयजलैः
पूतं स्थापयेद् भस्मनापि च ॥ २४ ॥
आच्छाद्याहतवासोभिः कुण्डोपान्ते निविश्य तु । तद्देहे
धारणाशुद्धे संहारिण्या तु मुद्रया ॥ २५ ॥
तच्चैतन्यं तु युञ्जीत तन्नामानं नमोन्तकम् । विद्यादेहं
निरूप्यास्य कास्यहृन्नाभिगुह्यकाः ॥ २६ ॥
अतीताद्याः कलाः पश्चाद् विद्यातत्त्वं च विन्यसेत् । शक्तिं
शिवं च विन्यस्य चैतन्यस्थितये ततः ॥ २७ ॥
मूलेनाज्यं शतं हुत्वा निवृत्त्यादिकलाः क्रमात् । वह्नौ
नियोज्य सम्पूज्य शिवाद्यावाहनादिकम् ॥ २८ ॥
ताडनं चैव विश्लेषं चैतन्याकर्षणादिकम् ।
जन्माधिकारभोगान्तां स्नातशुद्धिं च निष्कृतिम् ॥ २९ ॥
तिरोधानं पाशभेदं मर्दनं वर्तुलीकृतिम् । देहं
कारणपादान(?)मधिकारार्पणं तथा ॥ ३० ॥
चैतन्यस्य शिवे योगं कृत्वा कर्म समाप्य तु । चितौ
याम्यशिरस्कं तमारोप्याच्छाद्य चेन्धनैः ॥ ३१ ॥
सपत्नीकस्य तत्पत्नीमियं नारीति शाययेत् । द्वारेषु हेम
प्रक्षिप्य मैनमग्न्यादिमन्त्रतः ॥ ३२ ॥
सन्दीपयेत् तु संसृष्टिकुण्डस्थेनैव वह्निना । ज्वलत्यग्नौ
शिरस्यस्य पूर्णां चानेन पातयेत् ॥ ३३ ॥
ॐ
त्वमग्ने दक्षिण[णं]कलः कालेनैवोपपातिताम् । गृहाण
मन्त्रसम्पूतां शाव्यामेनां महाहुतिम् ॥ ३४ ॥
इति ।
मैनमग्न्यादिना वीवृक्षे दृक्षेदृतयत्पूर्वकेण च ।
सूर्यं ते चक्षुरित्याद्याः षडृचः प्रजपेदपि ॥ ३५ ॥
होता य एतस्य पथ आज्यैर्हुत्वा नवा[ख्: चा]हुतीः । स्रुक्स्रुवौ
तावधोवक्त्रौ वह्नौ निक्षिप्य कर्करीम् ॥ ३६ ॥
सास्रावामंसनिहितां भ्रामयन्नप्रदक्षिणम् । सिक्त्वा
तत्सलिलैः स्नातः पूर्वस्थाने विनिक्षिपेत् ॥ ३७ ॥
शरीरे भस्मसाद्भूते पृष्ठतोऽनवलोकयन् । गत्वा
धातापुनात्वा(द्याः द्यैः)स्नात्वा तीरे कुशास्तृते ॥ ३८ ॥
सव्यजानुं निधायार्घ्यमेतत् ते इति नामतः । उदकस्याञ्जलिं
दद्यान्मन्त्रैरेभिस्त्रिभिः क्रमात् ॥ ३९ ॥
ॐ हां शुद्धात्मन् ईशो भव स्वाहा । ॐ हां शुद्धात्मन्
सदाशिवो (भव) स्वाहा । ॐ हां शुद्धात्मन् शान्तो भव
स्वाहा ।
इत्युक्तमन्त्रनामान्तैः कुर्युस्तत्रोदकक्रियाम् । ततः
स्नात्वोद्वयाद्येन समुपस्थाय भास्करम् ॥ ४० ॥
स्थले विलिप्ते दर्भेषु बलिं तु स्वाख्यया क्षिपेत् ।
संस्कर्तृपूर्वकाः शिष्यपुत्रपत्न्यादयोऽपि च ॥ ४१ ॥
उपवासं प्रकुर्युस्ते भूमौ च शयनं निशि । आदशाहं
तदाशौचं सकृद्भक्तं दिवैव तु ॥ ४२ ॥
अनभ्यङ्गं चाङ्गरागताम्बूलादिविवर्जनम् । अ(न्न?
नु)यानादिकं कृत्वा स्पर्शं वास्य गुरोर्यदि ॥ ४३ ॥
स्नानमात्राद् विशुद्धः स्याद् वाहकाद्यास्त्रिवासरात् । दिनैस्तु
दशभिर्मातृ(पितृ)भ्रातृसुतादयः ॥ ४४ ॥
शिष्याश्चापि विशुध्येयुः स्नानमात्रात् परो जनः । चतुर्थे
पञ्चमे वाह्नि नवमैकादशाहयोः ॥ ४५ ॥
दीयमानं तु यच्छाद्धं नवश्राद्धं प्रचक्षते । पूजादिकं
तदर्थं तु कुर्युः सर्वेऽस्य बान्धवाः ॥ ४६ ॥
अस्थ्नां सञ्चयनार्थं तु तृतीयेऽह्न्यथ कर्करीम् । आपूर्य
पयसा चाद्भिस्तस्मिन्नस्थीनि निक्षिपेत् ॥ ४७ ॥
तद् गङ्गादिषु तीर्थेषु निखनेद् वाथ निक्षिपेत् ।
नैवौर्ध्वदेहिकापेक्षा मुमुक्षोरिह विद्यते ॥ ४८ ॥
बुभुक्षुश्चेन्मृतस्तस्य संस्कारोर्ध्वक्रियोच्यते । आ दशाहात्
प्रतिदिनमेकोत्तरविवृद्धितः ॥ ४९ ॥
तन्नामयुक्तमूलेन देयं स्यात् सतिलं जलम् । अन्तर्दशाहं
श्राद्धीनि द[स]त्त्वाथैकादशे दिने ॥ ५० ॥
उपलिप्य मठान्यन्तः स्नात्वा संसाध्य चौदनम् । विशिष्टं
ब्राह्मणं त्वेकं वरयित्व शिवा(स्त्र? ज्ञ)या[यम्] ॥ ५१ ॥
निमित्तायेति सङ्कल्प्य पादशौचादिपूर्वकम् । उत्तराभिमुखं
दर्भेषूपवेश्याभिपूज्य च ॥ ५२ ॥
स्थण्डिले लौकिके वह्नौ विपरीतं परिस्तृते ।
अपूपव्यञ्जनान्नाद्यं न्यसेत् परिधिबाह्यतः ॥ ५३ ॥
प्रणीतान्तं कर्म कृत्वा याम्येऽग्नेर्मण्डले कुशान् । निक्षिप्य
दक्षिणाग्रांस्तु तेषु पात्रं तु सादयेत् ॥ ५४ ॥
तस्मिन्नापूर्य सलिलैः कूर्चमन्तर्निधाय तु । आम आगच्छतु
प्रेत इत्याद्यात् स्यात् स्वधाग्रहः ॥ ५५ ॥
इमां स्वधां ते प्रेताय गृह्णामीत्यन्तकं वदेत् । स्त्रियां
निमित्तभूतायां स्त्रीशब्दान्तमुदीरयेत् ॥ ५६ ॥
सर्वत्र तु यथाप्रे(ता? ते)प्रेतायै चैवमादिकम् । तिलोऽसि
सोमदेवत्यात् तिलांश्च मधुवाततः ॥ ५७ ॥
मधु च प्रक्षिपेच्चाथ सोमस्यत्विंषिरादितः । सर्वाङ्गुलीभिः
संशोध्य यत्किञ्चिच्चैतदुद्धरेत् ॥ ५८ ॥
अवेष्टादन्दशूकाद्यैर्नेराद्यान्तर्निधाय तु (?) । शन्नोदेवी[ख्:
वीरभीष्टय इति]रिति स्पृष्ट्वा सम्पूज्याच्छादयत् कुशैः ॥
५९ ॥
आयाहि प्रेत इत्याद्याद् दक्षिणाभिमुखस्तु तम् । ददद् रयिं मयि
पोषोक्त्यास्मिन्नावाहयेद् द्विजैः ॥ ६० ॥
ओमेकोद्दिष्टकश्राद्धे प्रेताय क्रियतां क्षणः । इत्थं
सदर्भपाणिभ्यां तद्दक्षिणकरं स्पृशेत् ॥ ६१ ॥
क्षणं कुर्याम् ॐ तमिति स च ब्रूयात् ततो वदेत् । प्राप्नोत्विदं
भवांश्चेति प्राप्नवानीति सोऽपि च ॥ ६२ ॥
ततः सदर्भे हस्तेऽस्य दत्वाम्भोऽथ स्वधामपि । उद्धृत्य
दद्यात् प्रेताय स्वधानम-इति ब्रुवन् ॥ ६३ ॥
जलं चाथार्चयेच्चैनं ततः ससिकतांस्तिलान् । किरेदपहता
आद्याद् रक्षायै सर्वतोऽपि च ॥ ६४ ॥
उदीर्तामवराद्येन प्रोक्ष्य भोजनभाजनम् । तत्रैकवचनान्तः
स्यान्मन्त्रः स्त्र्यन्तो भवेत् स्त्रियाः ॥ ६५ ॥
तदनु उद्धृत्याग्नौ करिष्यामीत्युक्तः काममुद्ध्रियतां
काममग्नौ च क्रियतामिति वदेत् अथाग्निमुखा(त्? न्तं) कृत्वा
पक्वादिकान्युद्घाट्यास्त्रेणावोक्ष्य दर्भैरभिद्योत्याभिधार्य
तेषु तिलान् विकीर्यावोक्ष्य ततोऽग्नावाज्यं व्याहृतिभिर्हुत्वा
दर्व्यामुपस्तीर्य सर्वस्मात् सकृत् सकृदादायाभिघार्य
(दीक्षितो? दक्षिणतो) भस्ममिश्रानङ्गारान् निरुह्य तेषु जुहोति
प्रेतायामुष्मै यमाय च स्वाहा । अग्नये कव्यवाहनाय
स्विष्टकृते स्वधा नमः शिवाय स्वाहेति स्विष्टकृद्धोमः ।
तथैव व्याहृतिभिर्हुत्वा परिषिञ्चतु
धूपदीपा(दि?)भिश्रावणनमस्कारान् विना (आपश्शु?
अपूपशु)द्धान्नदधिक्षीरफलबहुलं निमित्तबुद्ध्या ब्राह्मणं
भोजयित्वा तद्भुक्तशेषेण अग्नेर्दक्षिणतो दक्षिणाग्रेषु
दर्भेषु तिलमध्वाज्यप्लुतं पिण्डमनेन दद्यात् । ॐ अयमोदनः
कामदुघोऽस्त्वनन्धोऽक्षीयमाणः सुरभिः सर्वकामी स
त्वोपतिष्ठत्वजरो नित्यपूतः स्वधां दुहानस्त्वमृतान्
नस्तर्पयतु अमुष्मै प्रेताय पिण्डमुपतिष्ठत्त्विति ।
ऊर्जं वहन्तीराद्येन सेचयेत् स्वधयाख्यया । कृतहस्तावसेकाय
तस्मै दद्यात् तु दक्षिणाम् ॥ ६६ ॥
यद् यत् तदुपयोगि स्यात् गृहक्षेत्रधनादिकम् । भूषणाद्यं च
तत् सर्वममुष्मै सम्प्रदाय तु ॥ ६७ ॥
क्षिप्त्वा पिण्डं तु नद्यां वा स्नात्वा पुण्याहमाचरेत् ।
अवारितं तदन्नाद्यं दत्त्वा चोपवसेत् स्वयम् ॥ ६८ ॥
संस्कृत्य चैकोद्दिष्टान्ते तथा संवत्सरेऽपि च । त्रिषु
चोपवसेत् कर्ता भुञ्जीयाच्चापरेऽहनि ॥ ६९ ॥
एकोद्दिष्टं विधायैवं सोदकुम्भं तु भोजनम् ।
एकोद्दिष्टविधानेन दद्याच्च प्रतिवासरम् ॥ ७० ॥
मा(से? स्ये)कं मासिकं तद्वत् त्रैपक्षं च त्रिपक्षके ।
प्रतिमासं तथा श्राद्धं पिण्डानपि च निर्वपेत् ॥ ७१ ॥
न्यूनषाण्मासिकं चाथ न्यूनसंवत्सरं तथा । मासिकान्
द्वादश श्राद्धैः * * पिण्डांश्च षोडश ॥ ७२ ॥
दद्यात् संवत्सरान्ते तु सपिण्डीकरणं स्मृतम् । तत्र
सङ्कल्प्य पूर्वेद्युर्विशिष्टान् वरयेद् द्विजान् ॥ ७३ ॥
स्नात्वान्यस्मिन्दिने भक्तं सापूपव्यञ्जनादिकम् । संसाध्य
शुचिभिः स्नातैः ब्राह्मणैश्चरुपाकवत् ॥ ७४ ॥
दक्षिणोत्तरयोः कृत्वा स्थण्डिले गोमयाम्बुभिः । स्वाग्निं
दक्षिणतस्तद्वदुत्तरे लौकिकानलम् ॥ ७५ ॥
आदाय विश्वेदेवार्थं ब्राह्मणौ प्राङ् निमन्त्र्य तु ।
पादशौचादिकं कृत्वा प्राङ्मुखावुपवेशयेत् ॥ ७६ ॥
क्षणं कृत्वा सदर्भेषु क्षिप्त्वाम्भस्तत्करेष्वथ ।
यवाम्बुनार्घ्ये सम्पाद्य सुधां स्मृत्वा तु निक्षिपेत् ॥ ७७ ॥
विश्वेभ्यो देवेभ्यः स्वधा नमः स्वाहेति । तदनु
निमित्तार्थं द्विजं योग्यं वरयित्वा तु पूर्ववत् । पित्रे
पितामहायाथ तत्पित्रे च द्विजास्त्रयः ॥ ७८ ॥
स्त्री चेन्मात्रे च तन्मात्रे तन्मात्रे च द्विजत्रयम् । सर्वे
वंशश्रुताचारसम्पन्नाः शिवतत्पराः ॥ ७९ ॥
तान् सम्पूज्य तदन्नाद्यं द्विधा सर्वं विभज्य तु ।
देवांशकल्पितं यत् तत् पात्रे क्षिप्त्वाभिधार्य तु ॥ ८० ॥
अनखाङ्गुष्ठतस्ताभ्यां विश्वेदेवेभ्य इत्यपि । स्वाहान्तं
दर्शयेच्चाथ प्राचीनावीतमुद्वहन् ॥ ८१ ॥
तथै(व नि? वाप)हताद्येन किरेत् ससिकतांस्तिलान् ।
उदीरतामवरतः पितरश्शब्दसंयुतान् ॥ ८२ ॥
प्राग्वत् स्थानान्यवोक्ष्याथ लौकिकाग्नेस्तु दक्षिणे ।
दक्षिणाग्रेषु दर्भेषु पृथक् पात्राणि सादयेत् ॥ ८३ ॥
सर्वं पक्वमुदङ् न्यस्येत् पर्यग्निकरणं चरेत् । सादितेष्वथ
पात्रेषु पित्रादिभ्यः स्वधां क्रमात् ॥ ८४ ॥
कृत्वा तिलोऽसीत्याद्येन तिलान् प्रक्षिप्य पूर्ववत् । मधुवातेति च
मधु सोमस्य त्विषिरादितः ॥ ८५ ॥
पिष्ट्वावेषो दन्दशूकान् त्यक्त्वा (?) पूर्वं यथोदितम् । आम
आगच्छन्तु पूर्वेण पित्राद्याख्यापुरस्सरम् ॥ ८६ ॥
स्वधाकृत्वा चाभिम(न्त्र्येत्? न्त्र्य)शन्नो देवीरिति स्पृशेत् ।
सम्पूज्य दर्भैराच्छाद्य धौतपादान् द्विजांस्तु तान् ॥ ८७ ॥
पित्राद्यर्थान् दक्षिणतः प्रेतार्थमपि चोत्तरे ।
दर्भासनेषूपवेश्य सर्वांस्तानुत्तरामुखान् ॥ ८८ ॥
प्राग्वदग्नौ करिष्यामीत्युक्तैरुक्तस्तथेति च । परिधानाग्नि
याम्ये[ख्: म्येन वि]ऽग्नाविद्धेत्वाग्निमुखान्तरम् ॥ ८९ ॥
पञ्चावत्तं स्रुवेणाज्यं मन्त्रैरेभिर्जुहोति च ।
याः प्राची सम्भवन्तीत्यादिः प्रथमः । अन्तर्दधे
पर्वतैरित्यादिर्द्वितीयः । अन्तर्दधे ऋतुभिरित्यादिस्तृतीयः ।
यन्मे मातेत्यादिश्चतुर्थः । यद्वस्तप्यादमित्यादिः पञ्चमः ।
अपूपमष्टधा कृत्वा सोमायेत्यादिनांशतः ॥ ९० ॥
अङ्गिरस्वन्तमूतये यदग्ने कव्यवाहन । त्रि(भि)र्हुत्वा
त्रिखण्डानि स्रुचमादाय वै ततः ॥ ९१ ॥
चरुमन्नं यवागूं च हुतशेषाज्यमिश्रितम् । दर्व्योपघातं
जुहुयात् पितृतर्पणपूर्वकैः ॥ ९२ ॥
अथाग्नये कव्यवाहनायेति दक्षिणार्धपूर्वार्धे । (प्रेम?
प्रो)क्षणप्रहरणान्तं कर्म कृत्वा पृथिवी ते
पात्रमित्यभिमृश्योत्तराग्निं परिषिच्य दर्व्यामुपस्तीर्य
सर्वस्मात् सकृत् सकृदवदायाभिधार्य
दक्षिणतोभस्ममिश्रानङ्गारान् निरुह्य तेषु ॐ प्रेतायामुष्मै
यमाय च स्वाहा । अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः
स्वाहेति जुहुयात् । तथैव परिषिच्य विश्वेदेवार्थं प्राग्वत्
संस्कृतमन्नाद्यं -
पात्रयोः प्रक्षिप्य पृथिवी ते
पात्रमित्यभिमृश्येदंविष्ण्वादिना अनखाङ्गुष्ठेनान्नाद्यं
स्पर्शयित्वा पित्रादीनां कृतक्षणानां सपवित्रेषु हस्तेषु
प्राग्वच्छुद्धजलं स्वधानामभिश्च प्रक्षिप्य
तत्पात्रेष्वन्नाद्यं च स्पर्शयित्वा तेषां हस्तेष्वपामशनं
च दत्त्वैवं निमित्तस्य च तत्र प्राणे निविष्टोऽमृतं
जुहोमीत्याद्यान् प्राणाहुतिमन्त्रान् क्रमेण स्वयं जपति । ते च
स्वस्वमुखेषु जुहुयुः । स्वयं चाभिश्रावणान् श्रावयति
कृणुष्वपाजादिं राक्षोघ्नप्रकारेण प्रत्यृचं
दहाशसाद्यन्तम् ऋचां प्रा(ची)तिसूक्तं त्रिणाचिकेतं
त्रिसुपर्णमीशानं च जपति ।
अथ भुक्तवत्सु मेकणनान्नं (?) दर्शयन् तृप्ताःस्थेति ब्रूयात्
। ते च तृप्ताःस्म इति ब्रूयुः । तदन्नं सजलं प्रादक्षिण्येन
भूमावनेन किरति ।
ये अग्निदग्धान्युतजीवात्वदग्धाः कुले मम । भूमौ दत्तेन
तृप्यन्तु तृप्ता यान्तु परां गतिमिति ।
अथ दक्षिणाभिराच्छादनैश्च परितोष्य पित्रादीन्
क्रमेणोत्थाप्य तदनु निमित्तं च शेषान्नाद्यमनुज्ञाप्य
उत्तराग्नौ व्याहृतिभिर्हुत्वा शेषं कृत्वा तमग्निं विसृज्य
प्रेतपात्रस्थजलं पित्रादिस्वधापात्रेषु क्रमान्मधुवाता
ऋतायते इति तिसृभिः सङ्गच्छध्वमिति द्वाभ्यां नियोज्य
दक्षिणस्माद् दक्षिणतोऽग्नेर्दर्भान् संस्तीर्य
पितृतर्पणमन्त्रैः पिण्डान् दत्त्वाभ्यर्च्य दर्भैराच्छाद्य
प्रेतपिण्डं पितृपिण्डेषु त्रिधा नियोजयति । समानो मन्त्रः
सप्तितिरित्यादिना समानी व आकूतिरिति द्वाभ्यां
पित्रादिपिण्डानेकीकृत्याथ ये समाना ये सजाता इति
द्वाभ्यामेनानुपतिष्ठेत् । तेन स्वधापात्रजलान्येकीकृत्य
पिण्डं परिषिञ्चति । ततो यज्ञोपवीती जयादिप्रायश्चित्तान्तं
हुत्वा आघेनुवरप्रदानान्तं कर्म कृत्वा पित्रादीन्
देवांश्चोद्वास्याद्वारादनुज्ञातो द्विजेभ्यो लिङ्गिभ्योऽर्थिभ्यः
स्वजनेभ्येश्चानिवारितमन्नाद्यं दक्षिणाश्च शिवार्पणबुद्ध्या
दत्त्वा तदुद्देशेन शिवपूजां विदधीत । शक्तश्चेल्लिङ्गं च
तदर्थं प्रतिष्ठाप्य यथाविभवं पूजादिकं कल्पयेत् ।
निमित्तं चाभिमतस्वर्गादिभोगैः संयोज्य
स्वयमप्यैहिकामुष्मिकान् कामानाप्नोति ।
सपिण्डीकरणाधिकारः ।
मातापित्रोस्तथा भ्रातुर्मातुलाचार्ययोरपि । अन्येषामपि
बन्धूनां वर्षे वर्षे तु तद्दिने ॥ ९३ ॥
कुर्यात् संवत्सरश्राद्धं तांस्तान् वोद्दिश्य शक्तितः ।
अथाष्टकाश्राद्धविधिः कथ्यतेऽत्र समाहितः ॥ ९४ ॥
उक्तं च पुराणादिषु -
नभस्यमासस्य तु कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे ।
उपप्लवे चन्द्रमसश्च [मसो रवेश्च त्रिष्वष्टकास्वप्ययनद्वये च
इति विष्णुपुराणे पाठो दृश्यते]
भानोस्तिस्रोऽष्टकायामयनद्वये च ॥
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात् पितृभ्यः प्रयतो मनुष्यः
। (तत्तज्ज? दत्तं ज)लान्नं प्रददाति तृप्तिं वर्षायुतं
तत्कुलजैर्मनुष्यैः ॥
इति । अपिच ।
अमावास्यासु सर्वासु त्रयोदश्यष्टमीषु च । कृष्णपक्षे
विशेषेण व्यतीपाते क्षयेषु च ॥
विषुवे चैव पञ्चम्यां नवधान्यादिसम्भवे ।
क्षेत्रतीर्था(दि)गमने श्रोत्रिये च गृहागते ॥
स्वप्ने वा स्वपितॄन् दृष्ट्वा श्राद्धं कुर्वीत भक्तितः ।
कुलशीलश्रुताचारसम्पन्नांस्तु द्विजोत्तमान् ॥
शिवभक्तान् विशेषेण पूर्वेद्युर्वरयेन्निशि । चरुपाकोक्तमार्गेण
चुल्लीषु शुचयोः द्विजाः ॥
स्नाताः शुक्लाम्बरधराः साधयेयुश्च तद्धविः । श्राद्धे
शस्तानि धान्यानि ग्राम्यारण्यानि सर्वशः ॥
वर्जयित्वा कुलस्थानि चणकांश्चैव कोद्रवान् । पुलाकांश्चैव
कङ्गूंश्च निष्पावांश्च विशेषतः ॥
फलेष्वपि च विख्यानि ककुभाब्धमलाम्बुकम् (?) । बिम्बं च
त्रापुषं चाथ मूलेषु लशुनं तथा ॥
प्रलाण्डुमूलकं चापि शाकाद्यपि च वर्जयेत् । वर्ज्यं हि
लवणं श्राद्धे हिङ्गुश्च मरिचानि च ॥
कुस्तुम्बुरूणि पिण्याकं (चै? तै)लं चाभ्यञ्जनं विना ।
शस्तं क्षीरं च दध्याज्यं गव्यं श्रेष्ठं च माहिषम् ॥
मध्यं चाजाविकं नीचं वर्ज्ये मथितकाञ्चिके ।
(विश्वेदेवा द्विजाः प्रीताः?)
सुमुखान् सुव्रतान् स्नाताननूचानान् विशेषतः । भोजयेदागतान्
सम्यक् पादशौचादिपूर्वकम् ॥
अत्र स्मृतिः -
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः । त्रीणि चात्र
प्रशंसन्ति शौचमक्रोधमत्वरम् ॥
दिवसस्याष्टमे भागे मन्दीभवति भास्करे । स कालः
कुतपस्तस्मिन् पितॄणां दत्तमक्षयम् ॥
पयसा मासिकी तृप्तिः पायसेन तु वार्षिकी ।
मध्वाज्यपायसैस्तृप्तिर्भवेद् द्वादशवार्षिकी ॥
पितॄणामिति ।
वर्ज्यः कालेषु पूर्वा(ह्ने? ह्णः) सन्ध्ये नन्दा चतुर्दशी ।
शुक्रज्ञजीववारा(श्च) पू(र्णाः ? र्वाः) कर्तुश्च जन्मभम् ॥
अथ प्राङ्गणे गोमयेन चतुरश्रं हस्तविस्तीर्णं
मण्डलमुपलिप्य प्रागग्रान् दर्भान् सयवानक्षतानास्तीर्य
तस्मिन् युग्मान् विश्वेदेवबुद्ध्या ब्राह्मणान् पादयोः सयवमर्घ्यं
दत्त्वा मृज्जलैः प्रक्षालिताङ्घ्रीन् स्वाचान्तानन्तः प्रवेश्य
सदर्भासनेषु प्राङमुखानुपवेश्य तदनु पश्चिमतः
सयाम्याग्रदर्भे वृत्तमण्डले पितृपितामहप्रपितामहानयुजो
द्विजान् सतिलजलार्घ्यपूर्वं क्षालितचरणान् स्वाचान्तानन्तः
प्रवेश्योदङ्मुखान् सदर्भविष्टरेषूपवेश्य पुनश्च
पितृमण्डलाद् दक्षिणतः सदक्षिणाग्रदर्भे मण्डले
मातृपितामहीप्रपितामहीभ्यः प्राग्वद् ब्राह्मणान्
कृतपादसौचाननन्तरं तत्र प्रवेश्य तदनन्तरं
मातामहमातुःपितामहमातुःप्रपितामहेभ्यः सपत्नीकेभ्यो
ब्राह्मणान् प्राग्वन्निवेश्य आयन्तु पितर इत्यादिना क्षणं
कृत्वा पित्रादिभ्यो मात्रादिभ्यो मातामहादिभ्यश्च पात्रत्रये
प्राग्वन्मन्त्रैः स्वधां कृत्वा अपहता असुरादिनास्त्रेण च
ससिकतांस्तिलान् विकीर्य तेषां सदर्भहस्तेषु शुद्धजलं
स्वधाजलं च प्राग्वन्मन्त्रतः पृथक् क्रमेण दत्त्वा(तादिकं?)
पितॄन् विलोमतोऽभिपूज्य प्राग्वत् संस्कृतं (चा? च)र्वादिकं
सपिण्डीकर(णं? णवद्) जुहुयात् । विशेषस्त्वपूपहोमानन्तरम्
इयमेव सायात्प्रथमा व्यौच्छदिति पञ्चदशकं युष्टये
इत्येकां संवत्सरस्य प्रतिमासिकाम् ॐ अग्नये कव्यवाहनाय
स्वधा नमः शिवाय स्वाहा इत्यादि सोमाय पितृमये यमाय
अर्यम्णे अङ्गिरसे अग्निष्वात्तेभ्यो बर्हिषद्भ्यः सोमपेभ्य
ऊष्मपेभ्यश्च जुहुयात् । आज्यं (प्राकाग्र?) -
स्त्वेकैकशस्तच्छेषान्नं पित्रादीनां पात्रेषु प्रक्षिप्याज्यं
तिलैरुपस्तृणाति । अथ
शुद्धोदनपायसघृतगुलापूषफलभूयिष्ठमन्ना(ज्य? द्यं)
त्रिधा विभज्य (पा? भा)गेन पूर्वं देवेभ्यः प्रक्षिप्याथ
पुरुषेण प्रोक्ष्याभिमन्त्र्य पित्रादिभोज्येषु तिलान्
विकीर्याघोरेण परिषिच्य वामदेवेन स्वोत्तानकरेण
तस्यानुत्तानकरं हविषः प्रदक्षिणं नीत्वा
तत्तदङ्गुष्ठाग्रेण इदं विष्ण्वादिना विष्णो हव्यं
रक्षस्वेति भोज्यानि स्पर्शयित्वा स्वकरे जलं गृहीत्वा
अमुष्मिञ्च्छ्राद्धे विश्वेभ्यो देवेभ्य इदमन्नं दत्तं दास्यमानं
चातृप्तेस्तत् सर्वं न ममामृतायेत्यशनं
पुरुषेणामृतोपस्तरणमसीति दद्यात् । पित्रादिभ्यश्चैवमेव ।
विशेषस्तु विष्णो कव्यं रक्षस्वेति स्पर्शयेत् अमुष्मिञ्च्छ्राद्धे
पितृभ्य इत्यादिना च । पित्रादिभ्योऽप्यपामशनं पूर्ववद्
दद्यात् । ते च ता अपो यथापूर्वं पीबेयुः ।
तत्प्राणाहुतिमन्त्रान्प्राणे निविष्टो अमृतं जुहोमीत्यादीन्
यजमान एव पठति । तेच ता आहुतीः स्वयमेव जुहुयुः । तदनु
[ख्: विरजामध्य] जानुमध्यस्थवामकरेण पात्रस्पर्शस्तथैव
दक्षिणेन यथाजोषं मौनिनः प्रभुञ्जीरन् ।
यजमानोऽप्युत्तराभिमुखम् ईशानसम्पुटं रक्षोघ्नान्
कृणुष्वम्पाञ्जादीनृचां प्राचीत्यादींश्च त्रिनाचिकेतं
त्रिसुपर्णान् जपंस्तिष्ठेत् (ज्येष्ठ[क्:सा]सामानिव?) तस्मिन्
काले यद्यागच्छेदतिथिः तमपीश्वरबुद्ध्याअ मृष्टं
शिष्टाना(न्? नि)भोजयेत् । अथ तृप्तेषु दर्व्यान्नमादाय
सर्वेभ्यस्तृप्ताः स्थेति दर्शयेत् । ते च तृप्ताःस्म इति ब्रूयुः ।
तच्च भूमौ विकिरेत् ये अग्निदग्धा जाता जीवा येत्वदग्धाः कुले
मम भुमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिमित्यादिना
प्राग्वद् विकीर्यामृतापिधानमसीति चुलुकं च दद्यात् ते तत्
पीत्वा कृतहस्तावसेचनास्तथैवासीरन् । तत्रैव मण्डले
सद्येन दर्भान् वामेन तिलान् विकीर्य भुक्तशेषादादाय पिण्डान्
सतिलाज्यदधिमधूनीशपुरुषाघोरैः एतत् ते
पितरित्यादिभिर्मूलान्तैः पित्रादिभ्यो निर्वपेत् । तद्यथा - एतत् ते
पितासौ ये ते मातामहा ये त आचार्या ये ते गुरवो ये ते सखायो
ये ते ज्ञातयो ये तेऽमात्या योन्तेऽन्तेवासिनस्तेभ्यश्च
पत्नयस्तेभ्यस्ताभ्यश्च स्वधा नम इति । एतत्ते पितामहा
इत्यादिना च । एवम् एतत्ते प्रपितामहा इत्यादिना च । तथा च
तद्वन्मात्रादिभ्यो(यु? मा) तामहादिभ्यश्च पिण्डांस्त्रींस्त्रीन्
प्रदायाथ भूमौ दर्भेष्वन्नशेषं
विकीर्यात्राल्पमेभिर्निर्मार्ष्टि । येन पतिता गर्भा असृग्भाज
उपासते तेभ्यः स्वजाः स्वधा नमस्तृप्नुवन्तु मदन्तु च । ये
आमा ये च पक्वा ये च दुष्टाः पतन्ति नः ।
तेभ्यः स्वजाः स्वधा नमस्तृप्नुवन्तु मदन्तु च । ये कुमारा ये
स्त्रियोऽविज्ञाताः पतन्ति नः ।
तेभ्यः स्वजाः स्वधा नमस्तृप्नुवन्तु मदन्तु च । अथैनान्
सङ्क्षालनेन ये समाना ये सजाता इति द्वाभ्यां त्रि[क्:
त्रिभिर](रवसलं? रपसव्यं) वामेनाप्यूर्जं वहन्तीरित्यादिना
च मूलान्तं परिषिच्य वसनाभरणहिरण्यादिकां दक्षिणां
दत्त्वा स्वधापात्रमुत्तानयेत् । अथ पुरुषादिना
वाजेवाजेत्यादिना करे गृहीत्वा द्विजानुत्थाप्य तान्
प्रदक्षिणीकृत्य यजमानः प्रणमति । ते च ब्राह्मणाः
सम्पितृर इत्यादिनाशिषः प्रयुँजीरन् । अन्नशेषैः किं
क्रियतामिति यजमानेन पृष्टैरिष्टैः
सहोपभुज्यतामित्यभिधाय गन्तव्यम् । स च तानाद्वारादनुव्रजेत्
। ततः पितृतर्पणमन्त्रैश्चतुर्विंशतिपिण्डान्
स्वाहाविवर्जितैः प्रक्षिप्य प्राग्वदूर्जंवहन्तीरिति परिषिच्य
जयादिप्रायश्चित्तान्तमाधेनुवरप्रदानात् कर्म कृत्वा
प्रणीतोत्सेचनान्तमग्निं विसृजेत् । तदनु पुत्रकामा या पत्नी
मध्यमं पिण्डमाधत्त पितर इत्यादिना प्राश्नाति । अथ
ब्राह्मणानन्यांश्च भोजयित्वा पुत्रमित्रभृत्यादिभिः सहितः
पितृशेषमश्नन्नैहिकामुष्मिकानपि सर्वान् कामान् प्राप्नोति ।
इतीदमन्त्येष्टिविधानमीरितं पृथङ् नवश्राद्धविधिं च
षोडशैः । ततः सपिण्डीकरणं तथाष्टका निरूप्य
तन्त्रेषु यथोदितं विधिम् ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
क्रियापादे अन्त्येष्टिपटलो द्विषष्टितमः ॥