६१

अथैकषष्टितमः पटलः ।

अथौषधीषु पक्वासु श्रावणेऽश्वयुजे तथा । पौषे वा
फाल्गुने मासे नवनैवेद्यमिष्यते ॥ १ ॥

तत्तद्दैवतनक्षत्रे [क्: त्र] ग्रामकर्ता महीभृताम् ।
अनुकूलर्क्षलग्नादावङ्कुरार्पणपूर्वकम् ॥ २ ॥

लवनार्थं सुलग्नादावस्त्रयात्रापुरस्सरम् ।
तूर्यगीतादिनिर्घोषैः स्नातैः कर्मकरैर्गुरुः ॥ ३ ॥

लवित्रपाणिभिः शुक्लवसनैः सह लग्नके । क्षेत्रं
प्रदक्षिणीकृत्य दध्यन्नेन बलिं क्षिपेत् ॥ ४ ॥

सोमाय चौषधीभ्यश्च पृथिव्यै क्षेत्रपाय च । लवित्रमिष्ट्वा
शस्त्रेण प्राङ्मुखो वाप्युदङ्मुखः ॥ ५ ॥

प्रथमं लवनं कृत्वा शाल्यादीनामनन्तरम् ।
मुद्गमाषादिकं चैव मुष्टिग्राह्यं समाहरेत् ॥ ६ ॥

ओषधीनां ततो भारान् फलानि व्यञ्जनान्यपि । इक्षुमूलानि
चान्यानि वहेयुः कर्मचारिणः ॥ ७ ॥

कुर्याद् गीतादिनिर्घोषैर्ग्रामादेस्तु प्रदक्षिणम् । आलयस्य च
नीत्वान्तः पठन्ति स्वस्ति सूक्तकम् ॥ ८ ॥

द्विजाः शकुनसूक्तं च किरेयुः कुसुमाक्षतान् । प्रागेव तु कृते
पिष्टैर्मण्डपे स्वस्तिकाम्बुजे ॥ ९ ॥

हैमाद्यन्यतमं कुम्भं तन्मध्ये विनिधाय तु । समापूर्य
जलैः पूज्यः सोमस्तत्रौषधीश्वरः ॥ १० ॥

मङ्गलाङ्कुरदीपाद्यैः परितः समलङ्कृते । तस्मिन्
कणिशपुञ्जं तु निधायेष्ट्वा यथाविधि ॥ ११ ॥

सुप्रभाख्यां श्रियं देवीं यजेत् सर्वौषधीश्वरीम् । ततस्तु
सुविलिप्ते तु कोष्ठागारे स्वलङ्कृते ॥ १२ ॥

धान्यसङ्ग्रहणं कुर्याज्जामित्रे देवमन्त्रिणः । मन्दोदये
तदंशे चाप्युद्वेले वरुणालये ॥ १३ ॥

ततस्तु शालिकणिशैः सबिल्वाश्वत्थपल्लवैः ।
सेन्द्रवल्लीलताबद्धैरलङ्कृत्यालयादिकम् ॥ १४ ॥

उलूखलं च मुसलं शूर्पप्रस्थादिकं तथा ।
स्वलङ्कृताभिर्योषिद्भिः संसाध्यामान् सुतण्डुलान् ॥ १५ ॥

सङ्क्षाल्यास्त्रेण संस्कृत्य नैवेद्यं चरुपाकवत् ।
नवाक्षतांश्च प्रक्षाल्य धवलानस्त्रमन्त्रतः ॥ १६ ॥

गुलक्षीरमधून्मिश्रान् मूलाङ्गैरभिमन्त्रितान् । सुमुहूर्ते तु
सम्प्राप्ते तण्डुलांश्च नवं चरु ॥ १७ ॥

सूर्यविघ्नेशयोः पूर्वं देवायाथ निवेदयेत् ।
परिवारसुरेभ्यश्चाप्यग्नौ साज्यं जुहोति च ॥ १८ ॥

मूलेनाष्टोत्तरशतं मूर्त्यङ्गानां दशांशतः ।
तण्डुलैश्च नवान्नेन चौषधीभ्यः स्वनामतः ॥ १९ ॥

सोमाय सुप्रभायै च हुत्वा पूर्णां जुहोति च ।
तच्छेषतण्डुलान् दद्यान्नृपादिभ्यो यथाक्रमम् ॥ २० ॥

आचार्याय च शिष्येभ्यो विप्रेभ्योर्थिभ्य एव च । लिङ्गिभ्यः
परिवारेभ्यस्ततो भूतबलिं क्षिपेत् ॥ २१ ॥

नवनैवेद्याधिकारः ।

कार्त्तिक्यां पौर्णमास्यां तु कृत्तिकासु विशेषतः । कुर्याद्
दीपोत्सवं शम्भोरन्येषां चासुरद्विषाम् ॥ २२ ॥

तद्वदाश्वयुजे कृष्णपञ्चदश्यां तु फाल्गुने ।
प्रोक्तमुत्तरफल्गुन्यां विषुवे चायनद्वये ॥ २३ ॥

पौषे पुष्येऽथ चित्रायां चैत्रे चेन्द्राग्निदैवते । वैशाखे
चापि कुर्वीत महोत्सवदिनेष्वपि ॥ २४ ॥

सप्ताहाद् वाथ पञ्चाहात् पूर्वं कृत्वाङ्कुरार्पणम् ।
दीपवृक्षांस्तु परितः ससाराञ्च्छोभनानृजून् ॥ २५ ॥

प्रासादकण्ठतुल्योच्चान् द्वित्रहस्तान्तरस्थितीन् । उच्छ्रित्य
हाराबाह्ये तु तेषामग्रनिवेशितैः ॥ २६ ॥

वंशानुवंशबन्धाद्यैर्लुपोर्ध्वाच्छादनान्वितम् । कीलयेत् तेषु
किलांस्तु द्वादशाङ्गुलकान्तरान् ॥ २७ ॥

त्रिपञ्चका(दि? द्रि)जगतीरुद्रनन्दर्षिसम्मितान् ।
मुख्यामुख्यादीनि चान्तर्दीपमालावलम्बनात् ॥ २८ ॥

तावन्ति दीपमालानां तलानि स्युर्यथाक्रमम् । ध्वजस्थाने
प्रधानं तु दीपवृक्षं ध्वजोन्नतम् ॥ २९ ॥

उच्छ्रित्य तस्यामूलाग्रं दीपमालास्तु कारयेत् । तस्य
वह्न्यादिकोणेषु सप्तसप्तकरान्तरम् ॥ ३० ॥

कृत्वा कूटचतुष्कं तु तोरणाद्यैरलङ्कृतम् । तेषु कुण्डानि
कृत्वा तु पुण्याहं चैव कारयेत् ॥ ३१ ॥

पूर्वेद्युर्निशि देवाग्रे वालुकास्थण्डिलेऽनले । संस्कृते
पञ्चसंस्कारैः पलाशसमिधो घृतम् ॥ ३२ ॥

क्षीरं चरुं च मूलाङ्गब्रह्मभिर्जुहुयात् क्रमात् । पूर्णां च
हुत्वा गायत्त्र्या वह्नेः पूर्वोत्तरे ततः ॥ ३३ ॥

शालिस्थण्डिलपद्मे तु शरावाणि नव न्यसेत् । पृथक्
प्रस्थाज्यपूर्णानि सदशानि प्रदीपयेत् ॥ ३४ ॥

हृदयेन तु तद्वह्नौ वामादिनवशक्तिभिः । इष्ट्वा जयादिकं
हुत्वा प्रायश्चित्तैर्जुहोति च ॥ ३५ ॥

कृत्वा स्विष्टकृतं पश्चाद् दीपवृक्षस्य कौतुकम् । वध्नीयाद्
गीतनृत्तादितूर्यघोषपुरस्सरम् ॥ ३६ ॥

प्रातर्नित्यं समाप्याथ सविशेषं शिवं यजेत् । ततो
महाशरावं तु त्रिद्व्येकं शिवपूजितम् ॥ ३७ ॥

श्रेष्ठादिकं दीपवृक्षशिरस्यारोप्य पूरयेत् । घृतेन वाथ
तैलेन तस्मिन् वर्ति च निक्षिपेत् ॥ ३८ ॥

दशाष्टषट्पलैर्वस्त्रैर्नवैः श्रेष्ठादिकैः कृताम् ।
कोणमण्डपकुण्डेषु स्थण्डिलाग्निं विभज्य तु ॥ ३९ ॥

निधाय चानलाद्येषु ब्रह्मादीनीश्वरान्तकम् ।
पालाशवटशम्यर्कसमिधश्च घृतं चरुम् ॥ ४० ॥

हुत्वा दीपतरोर्मूले पूजयेत् तु सदाशिवम् । अलङ्कृत्य तु
वस्त्राद्यैर्दीपवृक्षस्य मूलतः ॥ ४१ ॥

तूर्यगीतादिनिर्घोषैर्दीपोज्ज्वलनकर्म तत् । निवेद्यं तु
शिवायाथ लब्धानुज्ञस्ततो गुरुः ॥ ४२ ॥

प्राग्ज्वालिताञ्छक्तिदीपानेकीकृत्य क्रमेण तु ।
मनोन्मनीशरावस्थान् नीत्वा दीपतरोरधः ॥ ४३ ॥

स्नातः शुक्लाम्बरः शुद्धः सुवेशः परिचारकः ।
शक्तिदीपं गृहीत्वोर्ध्वमारोहेद् दीपपादपम् ॥ ४४ ॥

तदग्रस्थमहावर्त्या शक्तिदीपं [ख्: बीजं नि] नियोजयेत् ।
ततः प्रारभ्य सर्वास्ता दीपमालाः समन्ततः ॥ ४५ ॥

प्रभूतस्निग्धवर्त्याढ्या ज्वालयेयुः क्षणादिव ।
प्रासादाङ्गेषु सर्वेषु परिवारालयेषु च ॥ ४६ ॥

मण्डपेषु च सालेषु प्रभूतस्नेहपूरितान् । दीपान् प्रज्वाल्य
सम्पूज्य गीतवाद्यादिमङ्गलैः ॥ ४७ ॥

उत्सवप्रतिमापूर्वयात्रां प्राग्वत् प्रवर्तयेत् । कृत्वा
प्रदक्षिणं सर्वदीपानामालयाद् बहिः ॥ ४८ ॥

ज्वलत्स्वेव प्रदीपेषु पञ्चकृत्वस्त्रिरेव वा । अन्तः प्रवेश्य
देवेशं ततो भूतबलिं क्षिपेत् ॥ ४९ ॥

इत्थं कृत्वैकरात्रं वा त्रिरात्रं पञ्चरात्रकम् ।
सप्तरात्रान्तकं नीचकनिष्ठाद्युत्तमोत्सवे ॥ ५० ॥

दिवा विशेषपूजां च कल्पयेत् प्रतिवासरम् । यात्रां चैव
यथापूर्वं ग्रामादेस्तु प्रदक्षिणम् ॥ ५१ ॥

ततस्तु तीर्थयात्रान्ते स्नपनं चोपपत्तितः । कृत्वा तु
दक्षिणां दद्यादन्नाद्यं चाप्यवारितम् ॥ ५२ ॥

एवं दीपोत्सवं भक्त्या ये वा पश्यन्ति मानवाः । तेऽपीह
भोगान् सम्प्राप्य स्वर्गं यान्ति (विरेप? निरेन)सः ॥ ५३ ॥

यदि वक्त्रसहस्राणां सहस्राणि भवन्त्विह । आयुश्च
ब्रह्मणस्तुल्यं वक्तृत्वं च बृहस्पतेः ॥ ५४ ॥

तथाप्येकप्रदीपस्य फलं वक्तुं न शक्यते । दीपोत्सवादौ
दीपानां फलं वक्तुं कुतः क्षमम् ॥ ५५ ॥

इति तन्त्रेषु तथैव चोदितो नवनैवेद्यविधिः प्रदर्शितः ।
प्रदीपकल्पोऽपि च कृत्तिकादिकः शिवस्य सर्वद्युसदां च
सम्मतः ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
क्रियापादे नवनैवेद्यकृत्तिकादिदीपपटलः एकषष्टितमः ॥