६०

अथ षष्टितमः पटलः ।

अथातः क्षेत्रपालस्य प्रतिष्ठाद्यं निगद्यते ।
प्रोक्तशैवानुसारेण कर्मात्रापि समूहयेत् ॥ १ ॥

अन्त्यो मनुःस्वरोपेतो बिन्दुनादविभूषितः । तारादिरस्य बीजं
स्यात् क्षेत्रपालपदं ततः ॥ २ ॥

चतुर्थ्यन्तं नमोन्तोऽयं मूलमन्त्रो नवाक्षरः । होमे
स्यादग्निजायान्तो बीजं दीर्घैः स्वरैर्युतम् ॥ ३ ॥

जातियुक्तानि चाङ्गानि षडस्त्रान्तान्यनुक्रमात् । मालामन्त्रोऽपि
तस्यैव तारः शक्तिश्च याष्टमः ॥ ४ ॥

साग्निषट्कस्वरो दण्डी रेमुकावतरेति च ।
एकादशस्वरेणान्त्यं पञ्चमादिहुताशयुक् ॥ ५ ॥

ततः पालमहाशब्दौ बलेति कपिलद्वयम् । जटाभारभासुरोऽन्ते
ज्वालामुखपदं भवेत् ॥ ६ ॥

(गन्ध)पुष्पधूपदीपबलिपूजां गृहाण च । भैरवेति पदान्ते
स्याद् रूपेणेति पदं ततः ॥ ७ ॥

तरुशब्दो मुरुपदं खः फट्कारपदानि च ।
अट्टहासपदस्यान्ते डामराधिप इत्यपि ॥ ८ ॥

पञ्चमादिश्च येकारः स्वाहान्तो मन्त्र ईरितः । पूजामनेन
कुर्वीत जपादिः सिद्धिदो भवेत् ॥ ९ ॥

तारादिरथ तस्यैव बलिमन्त्रोऽपि कथ्यते । एहिशब्दो धुकारश्च
तुरुवज्रहनास्त्रयः ॥ १० ॥

विनाशब्दश्च वीप्सान्तं महारवपदं तथा । क्षेत्रपालपदं
गृह्ण गृह्णेत्युक्त्वाग्निजायया ॥ ११ ॥

बलिमन्त्रः ।

तारं शक्तिश्च वटुकश्चतुर्थ्यन्तस्ततः परम् ।
आपदुद्धारणं प्राग्वत् कुरुयुग्मं ततोऽपि च ॥ १२ ॥

वटुकः स्याच्चतुर्थ्यन्तः शक्तिबीजं च तन्मनुः ।
द्वाविंशत्यक्षरो मन्त्रो जपाद्यैरिष्टसिद्धिदः ॥ १३ ॥

कनिष्ठदशतालेन क्षेत्रपाल तु कारयेत् । अञ्जनाभं
विवृत्ताक्षं ज्वलितोर्ध्वसिरोरुहम् ॥ १४ ॥

युवानं सुमहाकायं रक्ताकल्पं दिगम्बरम् ।
स्पष्टदंष्ट्रोत्कटमुखं स्फुरन्नानाविभुषणम् ॥ १५ ॥

सौवर्णकिङ्किणीघण्टामालाबद्धकटीतटम् ।
शिञ्जत्कनकमञ्जीरभूषिताङ्घ्रिसरोरुहम् ॥ १६ ॥

ऋज्वाअयतस्थिराकारं हेमपीठाम्बुजे स्थितम् । चतुर्भुजं
वाष्टहस्तं द्विभुजं वापि कारयेत् ॥ १७ ॥

कपालं च त्रिशूलं च पाशं डमरुकं करैः ।
अधश्चोर्ध्वं च बिभ्राणं कुर्यादेवं चतुर्भुजम् ॥ १८ ॥

शूलं खड्गं च खट्वाङ्गं बिभ्रड्डमरुकं तथा ।
दक्षिणेऽथ कपालं च घण्टां च सशरं धनुः ॥ १९ ॥

पाशं चाष्टभुजः कार्यः प्रोक्तलक्षणलक्षितः । कपालं
च गदां बिभ्रद् द्विभुजो वामदक्षिणे ॥ २० ॥

अष्टवर्षार्भकप्रख्यो नीलकुञ्चितमूर्धजः ।
अलकालङ्कृतःस्पष्टदंष्ट्राङ्कुरमुखाम्बुजः ॥ २१ ॥

रक्तवर्णोऽथ वटुकनाथः क्षेत्राधिपो ह्ययम् ।

अथवा उक्तञ्चान्यैः -

व्यालम्बाभ्रजटाधरं त्रिणयनं नीलाञ्जनाद्रिप्रभं
दोर्द्वन्द्वात्तगदाकपालमरुणस्रग्गन्धभूषोज्ज्वलम् ।
घण्टामेखलघर्घराध्वनिमिलज्झाङ्कारभीमं विभुं वन्दे
चित्रभुजङ्गकुण्डलधरं तं क्षेत्रपालं सदा ॥ २२ ॥

प्राग्वत् षोडशपादः स्यादधिवासनमण्डपः ॥ २३ ॥

शमो विभूमिः सुबलश्चारोगस्तोरणाः क्रमात् ।
हेरुकस्त्रिपुरान्तश्चाप्यग्निर्वेताल एव च ॥ २४ ॥

अग्निजिह्वः करालश्चाप्येकदंष्ट्रस्तु सप्तमः ।
भीमरूपोऽष्टमस्त्वेतान् द्वारकुम्भेषु पूजयेत् ॥ २५ ॥

सारमेयध्वजाश्चाष्टावैन्द्राग्नेयादिनामभिः । पूज्याः
स्युरथ पुण्याहविकिरक्षेपपूर्वकम् ॥ २६ ॥

कुम्भे क्षेत्रपतिं प्रोक्तमूर्तिं कृष्णाश्ववाहनम् । वर्धन्यां
तच्च शुलास्त्रं स्त्रीरूपं सरमागतम् ॥ २७ ॥

इष्ट्वा तद्भ्रमणादूर्ध्वं मध्यकुण्डाहितानले । आवाह्य
क्षेत्रपं प्राग्वद्धुत्वा च समिदादिभिः ॥ २८ ॥

कुर्यादाकारशुद्धिं च तथा नयनमोक्षणम् । तथाब्धिवसनं
ग्रामभ्रमणं च प्रवेशनम् ॥ २९ ॥

मण्डपे शयनं वेद्यां मूलकुम्भास्त्रपूजनम् । निद्राकुम्भं
त्वथ न्यस्येद् दिक्षु मूर्तिघटानपि ॥ ३० ॥

अनलश्चाग्निकेशश्च कालो घण्टारवस्तथा । महाक्रोधः
पिङ्गलाक्षः सप्तमः पिशिताशनः ॥ ३१ ॥

ऊर्ध्वकेशोऽष्टमस्त्वेतान् स्वाख्याभिः कुम्भगान् यजेत् ।
आत्मादितत्त्वतत्त्वेशान् मूर्तीः पृथ्व्यादिकास्तथा ॥ ३२ ॥

मूर्तीशानसिताङ्गादींस्त्रिषु भागेषु विन्यसेत् । असिताङ्गो
रुरुश्चण्डः क्रोधश्चोन्मत्त एव च ॥ ३३ ॥

कपाली भीषणश्चैव संहारश्चाष्ट मूर्तिपाः । एते
भैरवशब्दान्ताश्चतुर्थ्या नमसान्विताः ॥ ३४ ॥

जानुकण्ठशिरोन्तेषु न्यस्याः स्युः प्रतिखण्डकम् ।
तत्तन्मन्त्रैर्घृतं हुत्वा स्पृशेत् सिञ्चेच्च कुम्भकैः ॥ ३५ ॥

ज्ञानशक्तिं न्यसेद् बेरे किर्यां पीठेऽर्चयेदपि ।
नृत्तगीतादिभिः श्यामामतिवाह्योदिते रवौ ॥ ३६ ॥

स्नात्वा निर्वर्त्य सन्ध्याद्यं लग्ने कूर्मशिलां न्यसेत् । मानुषे
तु पदे तस्यां वर्गान् रत्नादिकान् न्यसेत् ॥ ३७ ॥

पीठं च पीठे बेरं च मूलमन्त्रेण विन्यसेत् । दृढीकृत्य
तु सङ्क्षाल्य कुम्भाद् बीजं तु तद्धृदि ॥ ३८ ॥

विन्यस्य चाभिषिच्याथाप्यासनं मूर्तिमेव च । मन्त्रदेहं च
विन्यस्य स्वहृदम्भोरुहोदरात् ॥ ३९ ॥

नाडीमार्गेण चैतन्यं नीत्वा बिन्दुं ततोऽपि च ।
द्वादशान्ताब्जसोमस्थचिच्छक्तिज्योतिषा सह ॥ ४० ॥

पुष्पाञ्जलौ समायोज्य प्राग्वदानीय तद्धृदि ।
पद्ममध्यस्थतन्मन्त्रेणैकत्वमुपपादयेत् ॥ ४१ ॥

मन्त्राध्वा स्यात् स्वमूलाङ्गैः पदाध्वा तत्पदैः स्मृतः ।
शेषाध्वानो यथापूर्वं तद्विभाव्य न्यसेत् क्रमात् ॥ ४२ ॥

निद्रामूर्तिघटैः पश्चादभिषिच्य यथाविधि ।
प्रागुक्तमार्गेणार्घ्यार्द्यैः स्वाङ्गमूलैस्तु पूजयेत् ॥ ४३ ॥

तद्यथा -

स्नात्वा सपूज्य विघ्नेशं सकलीकृतविग्रहः । सामान्यार्घ्येण
तद्द्वारि शूलिनं च कपालिनम् ॥ ४४ ॥

इष्ट्वा द्वारश्रियं चोर्ध्वे क्षिप्तास्त्रोऽन्तः प्रविश्य तु ।
अस्त्रं विन्यस्य देहल्यां वास्तुब्रह्मासनार्चनात् ॥ ४५ ॥
कृतरक्षोऽस्त्रतः प्राग्वदुपविश्यार्घ्यमर्चयेत् । शुद्धीः
पञ्च विधायाथ तिलकी पुष्पशेखरः ॥ ४६ ॥

शक्तिं च पृथिवी पीठं सत्त्वादिगुणपङ्कजे । अष्टौ तु
परितः शक्तीस्त्र्यक्षं तन्मूर्तिनामभिः ॥ ४७ ॥

अर्घ्यादितः समभ्यर्च्य देवमावाह्य पूर्ववत् ।
हृदादीन्यनलाद्येषु नेत्रं च पुरतो यजेत् ॥ ४८ ॥

अस्त्रं दिक्ष्वत्र मध्येषु विन्यस्याभ्यर्च्य पूर्ववत् ।
अर्घ्यादिभिर्निवेद्यान्तं मूलाङ्गैर्जुहुयादपि ॥ ४९ ॥

क्षेत्रस्यपट-इत्याद्यादष्टोत्तरशताहुतीः । हुत्वाथ
परिवारांस्तु न्यसेद् द्वारि कपालिनम् ॥ ५० ॥

शूलिनं चाष्ट मूर्तीस्तु लोकेशस्थानगाः क्रमात् ।
लोकेशतुल्यरूपांस्ताननलाग्निचरादिकान् ॥ ५१ ॥

अग्ने तु वाहनं श्वानम्

ॐ सारमेयाय नमः ।

वीरविघ्नेश्वरावपि ।

मातॄश्च बलिपीठं च विन्यस्यात्र हुताशने ॥ ५२ ॥

क्षेत्रस्यपत-इत्याद्याज्जुहुयात् समिदादिकम् । अथ द्वितीयदिवसे
क्षेत्रचण्डं तु पूर्ववत् ॥ ५३ ॥

विन्यस्यैशे तु निर्माल्यैर्वटुकायं तमर्चयेत् । (तथैव)
गोपुरद्वाःस्थौ सौम्यमुग्रं च विन्यसेत् ॥ ५४ ॥

बलिपीठं च विन्यस्य मूलाग्रैर्जुहुयाद् घृतम् ।
जयादिभिस्ततः प्राग्वत् प्रायश्चित्तैश्च पूर्णया ॥ ५५ ॥

हुत्वा स्विष्टकृता चाग्निं विभज्यात्मनि योजयेत् । ध्वजांश्च
विसृजेत् प्राग्वद् दक्षिणाद्यं च दापयेत् ॥ ५६ ॥

विभवं कल्पयेत् कर्ता नित्यपूजादिसिद्धये । तिस्रो
रात्रीरतीत्याथ कलशैरुपपत्तितः ॥ ५७ ॥

अष्टोत्तरशतान्तैस्तमभिषिञ्चेद्ं यथापुरम् । क्षेत्रेशमेवं
संस्थाप्य दृष्टादृष्टफलोदयात् ॥ ५८ ॥

भोगाञ्च्छ्रियं यथायोग्यं जयं पुत्रांश्च विन्दति ।

क्षेत्रपालप्रतिष्ठाधिकारः ।

नित्योत्सवे क्षेत्रपतेः प्रातरन्नमयं स्मृतम् ॥ ५९ ॥

पिष्टलिङ्गं तु मध्याह्ने पुष्पलिङ्गं निशामुखे ।
हैमाद्यन्यतमा प्राग्वदुत्सवप्रतिमा भवेत् ॥ ६० ॥

वादित्रगीतनृत्ताद्यैर्बलियात्रां प्रकल्पयेत् ।
छत्राद्यैर्विभवैश्चाथ द्वाःस्थौ शूलिकपालिनौ ॥ ६१ ॥

चत्वारोऽत्र चतुर्दिक्षु निषादाकारभीषणाः ।
कृष्णाकल्पाः कृष्णवर्णाः पूज्याश्चापेषुपाणयः ॥ ६२ ॥

अर्घ्याद्यद्रिचरो राजा कपाली च महात्मना । अनलाद्या वाहनं
च वीरभद्रगणाधिपौ ॥ ६३ ॥

मातरः क्षेत्रचण्डश्च स्थितस्तेभ्यो बलिं क्षिपेत् । गोपुरद्वारि
सौम्याय चोग्राय च बलिं क्षिपेत् ॥ ६४ ॥

बहिर्निर्गत्य पीठाग्रे स्थित्वा त्वामन्त्रयेद् गणान् । ये समस्तं
जगद् व्याप्य तिष्ठन्ति बलिकाङ्क्षिणः ॥ ६५ ॥

क्षेत्रपालगणाः सर्वे गृह्णन्तु बलिमाहृतम् ।

इति ।

ततोऽष्टदिक्षु पूर्वोक्ता हेरुकाद्याः स्थिताः क्रमात् ॥ ६६ ॥

तेभ्यो निक्षिप्य तु बलिं पीठस्य परितः क्रमात् । स्थित्वा
षोडशं भूतेशाः क्षेत्रसेनश्च मध्यतः ॥ ६७ ॥

अपरोऽथापवश्चेन्द्रमूर्तिरीशान एव च ।
उग्रश्चाप्यूर्ध्वबाहुः स्यादृषभस्त्वृभवस्तथा ॥ ६८ ॥

पीठस्य परितस्त्वेतेऽतश्चोर्ध्वे पद्मपत्रगाः ।
असम्भवोथनूजन्मा एकदंष्ट्रस्ततः परः (?) ॥ ६९ ॥

ऐरावतो ह्योघबलश्चौषधेषो जनप्रभः ।
अस्सम्भवक्षेत्रेपालसेनसञ्ज्ञश्च मध्यमः ॥ ७० ॥

नित्योत्सवे विधिश्चैष तुल्यश्च स्यान्महोत्सवे । विशेषः
सारमेयाङ्कं ध्वजमुच्छ्रित्य पूजयेत् ॥ ७१ ॥

ॐ सारमेयाय नमः । ॐ कुक्कुराय नमः । ॐ
क्षेत्रपालवाहनाय नमः । इति ।

लोकेशस्थानमूर्तीनां बलिदानादनन्तरम् । ॐ प्राचि
क्षेत्रपालस्य येभूता वै पुरस्सदः ॥ ७२॥

इत्याद्यैः पूर्ववन्मन्त्रैस्तत्तद्दिक्षु बलिं क्षिपेत् ।
ततस्तृतीयहारायां हेरुकाद्या वृतेर्बहिः ॥ ७३ ॥

चत्वारस्तु प्रतिदिशं स्थितास्तेभ्यो बलिं क्षिपेत् । कम्बली च
खरो गन्धप्रियो घण्टारवस्तथा ॥ ७४ ॥

ङकारमूर्तिश्चण्डश्च छन्दचारी जटाधरः ।
झङ्कारमुखरो ञोङ्गष्टङ्कारी ठमयस्तथा ॥ ७५ ॥

डामरो ढङ्कृतिश्चैव णमयस्तत्त्वचित् तथा । अथ
मूर्तिर्दन्तुरश्चैव [क्: र्ति] धनपालश्च नन्दकः ॥ ७६ ॥

परान्तकश्च फट्कारी बर्बरो भवनन्दनः । महाबलश्च
यक्षेशो राक्षसो लम्बनस्तथा ॥ ७७ ॥

वनरक्षश्च शुम्भश्च षड्भुजः सदसस्पतिः । एतेषां तु
बलिं क्षिप्त्वाथोर्ध्वायां दिश्यधस्तथा ॥ ७८ ॥

हरसेनः स्थितः पूज्यस्ततश्च क्षणदाचरः । सर्वेषामपि
[ख्: विकारा] ताराद्यैश्चतुर्थ्यन्तैः स्वनामभिः ॥ ७९ ॥

नमोन्तमर्चनं तु स्याद् बलिदानं तथैव च । एते महाबलाः
सर्वे क्षेत्रेशाः क्षेत्रपोपमाः ॥ ८० ॥

पूजिताः सर्वकामांश्च दद्युरेकैकशोऽपि च । एतेषां च
बहिर्दिक्षु यथापूर्वमनुक्रमात् ॥ ८१ ॥

ऐन्द्र्यां दिशि गणा ये तु वज्रहस्ता महाबलाः ।
इत्यादिभिर्यथापूर्वं मन्त्रैस्तु विकिरेद् बलिम् ॥ ८२ ॥

अथोद्दिष्टदिनान्ते तु तीर्थयात्रां यथापुरम् । सङ्कल्प्य तत्
समाप्याथ स्नपयित्वोपपत्तितः ॥ ८३ ॥

विसृज्य तु गणान् सर्वान् सन्धिदेवांश्च पूर्ववत् ।
दक्षिणांश्च प्रदेयानि दत्त्वान्नाद्यं च पुष्कलम् ॥ ८४ ॥

दृष्टादृष्टफलं सर्वं विशिष्टं स्वेष्टमुच्यते ।

इति क्षेत्रपालस्य तन्त्रं यथावत् प्रतिष्ठादिकं यत्
क्रमादुत्सवान्तम् । निरूप्यागमानत्र सङ्क्षिप्य गीतं तदूह्यं
समस्तं च शैवानुसारात् ॥ ८५-१।२ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
क्रियापादे क्षेत्रपालतन्त्रपटलः षष्टितमः ॥