५९

अथ एकोनषष्टितमः पटलः ।

अथ मातृप्रतिष्ठाद्यं लिख्यते शुद्धपक्षतः ।
स्वच्छन्दादिषु यत् प्रोक्तं मातृतन्त्रेषु चैव हि ॥ १ ॥

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च
तथेन्द्राणी चामुण्डी सप्तमी स्मृता ॥ २ ॥

तासां पूर्वापरासीनौ वीरभद्रश्च विघ्नराट् ।
याद्यक्षराणि हान्तानि शकरीस्वरयोगतः ॥ ३ ॥

बिन्दुमन्त्यष्ट बीजानि खान्तं लम्बोदरस्य हि । तारं बीजं
नमश्शब्दस्ततो भगवतीत्यपि ॥ ४ ॥

सम्बुद्ध्यन्तं स्वना(म्ना? मा)पि मातृमन्त्रादितो भवेत् ।
तदूर्ध्वतः क्रमान्मन्त्रा लिख्येन्तेऽत्र पृथक् पृथक् ॥ ५ ॥

ऋग्यजुस्सामाथर्वकमण्डलुकूर्चधारिणि ! नमोनम इति
ब्रह्माणीमन्त्रः । देवि ! परशुधारिणि ! श्वेतरूपिणि !
महेश्वरि ! नमोनमः इति माहेश्वर्याः । शक्तिधारिणि !
मयूरवाहिनि ! कुक्कुटध्वजिनि ! कुङ्कुमवर्णिनि ! कौमारि !
नमोनमः कौमार्याः । शङ्खचक्रधारिणि ! गरुडवाहिनि !
वैष्णवि ! नमोनमः वैष्णव्याः । हलमुसलधारिणि !
दंष्ट्रिणि ! सूकरान(नि? ने!) सिंहवाहिनि ! वाराहि !
नमोनमः वाराह्याः । वज्रधारिणि ! गजवाहिनि ! श्यामवर्णिनि
। नमोनमः इन्द्राण्याः । कपालधारिणि ! नीलाम्बुवर्णिनि !
प्रेतवाहिनि ! हुङ्कारिणि ! नमोनमः चामुण्ड्याः ।

वीरभद्रस्य तारं च स्वबीजं लकुलीश्वरः । पुरुषश्च
चतुर्थ्यन्तः पक्षसूत्राग्निधारिणे ॥ ६ ॥

ध्रुवाय पतये योगरूपायेति पदत्रयम् । व्यापिने सर्वपूर्वं तु
वीरभद्रपदं ततः ॥ ७ ॥

चतुर्थ्यन्तं नमोयुक्तं वीरभद्रमनुः स्मृतः । तारं
स्वबीजं चादौ स्याद् विघ्नेश्वरपदं तथा ॥ ८ ॥

गणाधिपतिशब्दश्च हस्तिवक्त्रपदं ततः । एते गणपतिः सर्वे
चतुर्थ्यन्तो [ख्: न्ता] नमो मनुः ॥ ९ ॥

गणपतेर्मूलमन्त्रः ।

बहुबेरप्रतिष्ठायामेते मन्त्राः क्रमोदिताः । एकबेरे तु तारं
च नादः षष्ठस्वरान्वितः ॥ १० ॥

बिन्दुनादान्वितो बीजं नमो भगवतीत्यपि ।

त्रिनेत्रे ! कालि ! कालवर्णिनि ! अष्टभुजे ! शूलकपालधारिणि
! प्रेतवाहिनि ! सुरुधिरस्नेहसम्पूर्णवक्त्रे ! चामुण्डि ! नमोनम
इति ।

स्वस्वबीजानि दीर्घैस्तु स्वरैर्युक्तान्यनुक्रमात् ॥ ११ ॥

अस्त्रान्तानि षडङ्गानि सर्वमन्त्रेषु कल्पयेत् । हंसो वृषो
मयूरश्च गरुडः सिंहवारणौ ॥ १२ ॥

प्रेतश्च सप्तमातॄणां वृषाखू वीरविघ्नयोः । वाहनानि
ध्वजाश्च स्युर्ब्राह्म्यादीनां नव क्रमात् ॥ १३ ॥

कूर्चं शूलं शक्तिचक्रे हलं वज्रं कपालकम् । अक्षसूत्रं
चाङ्कुशं च नवैतान्यायुधान्यपि ॥ १४ ॥

वाहनाद्यध्वजायै च विद्महेऽथायुधाभिधा । हस्तायै
धीमहीत्युक्त्वा तन्नः स्वाख्या प्रचोदयात् ॥ १५ ॥

इति क्रमेण गायत्र्यो ब्राह्म्यादीनां भवन्ति हि । तारं बीजं
च लकुली ईश्वरायाथ विद्महे ॥ १६ ॥

अक्षमालाधरायेति धीमहे तन्न इत्यपि । वीरभद्रः प्रकारश्च
चोदयादिति योजिता ॥ १७ ॥

वीरभद्रगायत्री ।

तारं बीजं चैकदन्तश्चतुर्थ्यन्तोऽथ विद्महे । हस्तिवक्त्रः
चतुर्थ्यन्तो धीमहे तन्न इत्यपि ॥ १८ ॥

ततो गणपतिः प्रान्ते चोदयादिति चोदिताः ।

विघ्नेश्वरगायत्री ।

मन्त्रोद्धारः ।

स्वदेवसदृशाकारभुजास्यनयनायुधाः ॥ १९ ॥

स्त्रीरूपास्तत्समाकल्पाः षण्मात्रप्रतिमाः स्मृताः । बहुबेरे
तु चामुण्डा कृष्णवर्णा चतुर्भुजा ॥ २० ॥

तुङ्गस्तननिबद्धाहिर्वृत्तपिङ्गत्रिलोचना । वामे कपालं पाशं
च दक्षिणे शूलमप्यसिम् ॥ २१ ॥

बिभ्राणा वा डमरुकं ज्वलत्कपिलमूर्धजा ।
सर्पकुण्डलकेयूरकटकोदरबन्धना ॥ २२ ॥

नानाहिहारग्रैवेयकटिसूत्राङ्घ्रिभूषणा ।
दंष्ट्रोज्ज्वलमुखी रक्तमाल्यगन्धाम्बरादिका ॥ २३ ॥

रौद्रसाम्याकृतिः स्यादप्येकबेरे तु कथ्यते ।
करालकालमेघाभा वृत्तपिङ्गत्रिलोचना ॥ २४ ॥

ज्वलदग्निशिखाकारकपिशोर्ध्वंशिरोरुहा । दंष्ट्रोत्कटमुखी
तुङ्गपीनवृत्तपयोधरा ॥ २५ ॥

रक्तकञ्चुकिनी कृष्णभुजगस्तनबन्धना । नतमध्या
सुपुष्टाङ्गी दिव्या नानाहिभूषणा ॥ २६ ॥

वामेऽहिकुण्डलान्यत्र परेतशिशुकर्णिका ।
नानाभटशिरोमाला किङ्किणीजालभीषणा ॥ २७ ॥

कपालखेटघण्टाहिपाशान् वामैस्तु दक्षिणैः । शूलखड्गौ
च वेतालं ध्वनड्डमरुकं तथा ॥ २८ ॥

बिभ्राणाष्टभुजा भीमा प्रेतसिंहासनं पदा । दक्षिणेन
समाक्रम्य निविष्टा कुञ्चितेन तु ॥ २९ ॥

आलम्बितेन वामेन पादेनाक्रान्तदारुका । भूतप्रेतपिशाचाद्यैः
शाकिनीडाकिनीगणैः ॥ ३० ॥

परीता योगिनीभिश्च वीररौद्रौद्भटाकृतिः । चामुण्ड्याः
प्रतिमा त्वेवं भवेच्छैलादिनिर्मिता ॥ ३१ ॥

दक्षिणामूर्तिसदृशी वीरभद्रतनुर्भवेत् । गणेशस्यापि
पूर्वोक्तलक्षणा प्रतिमा भवेत् ॥ ३२ ॥

प्राग्द्वारं वोत्तरद्वारं विमानं तिर्यगायतम् । मातॄणां तु
भवेत् तद्वदेकबेरेऽपि सम्मतम् ॥ ३३ ॥

कृत्वा विमानं बेरं च प्रतिष्ठामथ कारयेत् ।
कृत्वाधिवासनायोक्तं मण्डपं षोडशाङ्घ्रिकम् ॥ ३४ ॥

अलङ्कृत्य वितानाद्यैर्विन्यसेद् द्वारतोरणान् ।
प्रमोदन्यभयाशान्तिशुभदाख्याश्च तोरणाः ॥ ३५ ॥

तद्देवताः क्रमात् कुम्भी निकुम्भी वज्रभीषणा । मङ्गिणी
चेत्यथैतेषां मूलयोर्द्वारकुम्भगाः ॥ ३६ ॥

दूतिका पालिना चाथ दण्डिनी भवहस्तका । पाशिनी वारुणी
चैव शङ्खिनी पद्मिनी च ताः ॥ ३७ ॥

ध्वजाश्च हंसवृषभबर्हितार्क्ष्यमृगाधिपैः ।
गृध्रपैशाचवृषभैर्मूषिकेन च चिह्निताः ॥ ३८ ॥

बहुबेरे त्वेकबेरे पिशाचाङ्को भवेद् ध्वजः ।
पुण्याहविकिरक्षेपात् कुम्भास्त्रावभिपूजयेत् ॥ ३९ ॥

कुम्भे यजेत् तु चामुण्डां पिशाचारूढविग्रहाम् । वर्धन्यां
सिंहगं त्वस्रं कृष्णं स्त्रीरूपभीषणम् ॥ ४० ॥

त्रिशूलाङ्कशिरस्कं तत् कपालासिकरं यजेत् ।
तत्परिभ्रमणादूर्ध्वं नवकुण्डेषु पूर्ववत् ॥ ४१ ॥

अग्निं विभज्य संस्थाप्य चामुण्डां मध्यकुण्डके ।
ब्रह्माण्याद्यास्तु पूर्वादिकुण्डेष्विष्ट्वा जुहोति च ॥ ४२ ॥

तत्तन्मन्त्रैस्तु समिधो घृतं चैवं चरूंस्तिलान् ।
सर्षपाञ्छाइसिद्धार्थान् सक्तूंश्च जुहुयात् क्रमात् ॥ ४३ ॥

ब्राह्म्यादीनां तु समिधः पलाशप्लक्षसम्भवाः ।
औदुम्बर्यस्तथा बैल्वाः करञ्जेन्द्रतरूद्भवाः ॥ ४४ ॥

रक्तश्वेतवटौ चाथ पैप्पलाश्च क्रमान्नव । अभावे समिधां
यासां ग्राह्यास्तत्र पलाशजाः ॥ ४५ ॥

तत्तन्मन्त्रैः समिद्भिश्च घृतं हुत्वा शतं शतम् ।
कुर्यादाकारशुद्धिं च नेत्रोन्मीलनकर्म च ॥ ४६ ॥

जलाधिवासनं ग्रामभ्रमणं कारयेत् ततः । कृत्वा तु
पूर्ववद् वेदिं शालिभिस्तण्डुलैरपि ॥ ४७ ॥

मध्यादीशानपर्यन्तं शय्याः कृत्वा पृथक् पृथक् । एककबर
शय्या स्यात् पञ्चाङ्गी वेदिमध्यतः ॥ ४८ ॥

चामुण्डीं शाययेन्मध्ये ब्राह्म्याद्याः पूर्वतः क्रमात् ।
प्रत्येकं कुम्भमेकैकं बेरा[रेद्विन्य]दीन् न्यस्य तूत्तरे ॥ ४९ ॥

तत्तद्वाहनशस्त्राणि तेषु हैमानि निक्षिपेत् । चामुण्डाद्यास्तु
मध्यादिक्रमात् कुम्भेषु विन्यसेत् ॥ ५० ॥

वीरभद्रमुदक्कुम्भे त्वैशकुम्भे विनायकम् ।
पिघानकूर्चवस्त्राद्यैः प्राग्वदाभूष्य पूजयेत् ॥ ५१ ॥

गायत्रीभिः समालभ्य गन्धाद्यैरम्भीपूजयेत् । अथ वेद्या
बहिर्दिक्षु परिवारघटाष्टकम् ॥ ५२ ॥

विन्यस्यावाह्य च यजेच्छक्तीरैन्द्र्यादिकाः क्रमात् । ऐन्द्र्याग्नेयी
च याम्या च नैर्-ऋती वारुणी तथा ॥ ५३ ॥

वायव्या चैव कौबेरी तथैशान्यष्टमी स्मृता ।
चतुर्भुजास्त्रिणेत्रास्ताः शूलपाशोर्ध्वपाणयः ॥ ५४ ॥

कृताञ्जलिद्वयकरा वर्णैर्दिक्पतिभिः समाः । बलिपीठे [ख्:
ठ] प्रतिष्ठार्थं पूतमन्यं घटं न्यसेत् ॥ ५५ ॥

उग्रसेनां घटे तस्मिञ् श्यामां दंष्ट्रोत्कटाननाम् ।
खड्गं दक्षिणहस्तेन वामेन स्वकटिस्पृशम् ॥ ५६ ॥

भूषितां द्विभुजां भीमामावाह्याभ्यर्चयेत् ततः ।
आत्मादितत्त्वतत्त्वेशान् मूर्तिमूर्तीश्वरानपि ॥ ५७ ॥

धारिकाद्यास्त्रिभागेषु प्राग्वज्जान्वादिषु न्यसेत् ।
तत्त्वतत्त्वेशपृथ्व्याद्याः शर्वाद्याश्च यथापुरम् ॥ ५८ ॥

वीरविघ्नेशयोर्बेरे प्रत्यङ्गं क्रमशो न्यसेत् । प्राग्वद्धुत्वा तु
तन्मन्त्रैर्गुरुर्मूर्तिधरास्तथा ॥ ५९ ॥

स्पृशेयुस्त्रिषु भागेषु सिञ्चेयुः कुम्भवारिभिः । बेरे ज्ञानीं
क्रियाशक्तिं पीठे प्राग्वद् विभावयेत् ॥ ६० ॥

पूजयेच्च निवेद्यान्तं जुहुयाद् वासवादिषु । * * * * * षान्येन
[क्: षान्यनेन] ब्रह्मजज्ञानमन्त्रतः ॥ ६१ ॥

त्रैयम्बकायं[क्: ककुमार्या तथा]कुमारात् तथा यत्तेयमादिना
। इदंविष्ण्वादिना स्वस्तिन-इन्द्राद्यात् तथेशतः ॥ ६२ ॥

गणानान्त्वादिना चाज्यं चर्वाद्यैः स्वस्वमूलतः । बहुबेरे
भवेदेवमेकबेरे तु पूर्ववत् ॥ ६३ ॥

चामुण्ड्याः परितः कुम्भानष्टौ विन्यस्य तेष्वपि । भवानीं
चैव शर्वाणीमुग्रां पाशुपतामपि ॥ ६४ ॥

शाङ्करीं शशिनीं भीमां रुद्राणीं च न्यसेद् यजेत् ।
मध्ये कुण्डे तु चामुण्डामावाह्य जुहुयुस्तथा ॥ ६५ ॥

तथैव पुरुषाघोरवामसद्यैर्दिशास्वपि । अङ्गैरपि च गायत्र्या
कोणेषु जुहुयात् क्रमात् ॥ ६६ ॥

अजामांसप्रतिनिधिं माषापूपं जुहोति च ।
क्षुतनिष्ठीवनादौ च मौनभङ्गादिके तथा ॥ ६७ ॥

आचम्य जुहुयादाज्यं व्याहृतीभिरनुक्रमात् । पूर्णां हुत्वा
स्विष्टकृतं भूतेभ्यो विकिरेद् बलिम् ॥ ६८ ॥

तिलान्नेन गुलाज्याभ्यां दध्ना रक्तौदनेन च । मांसस्य
प्रतिरूपेण मिश्रितेन क्षिपेद् बलिम् ॥ ६९ ॥

प्राच्यां तु क्षेत्रपालश्च पिशाचपितृराक्षसाः ।
नागाश्चैवासुरा यक्षा गन्धर्वाश्च व्यवस्थिताः ॥ ७० ॥

ऊर्ध्वायां दिशि भूतानि चाधो भूम्यम्बुवासिनः । तेभ्यः
स्वनामधेयैस्तु नमोन्तैर्विकिरेद् बलिम् ॥ ७१ ॥

ततः कन्यासप्तकं च ब्राह्मणं च तथापरम् । भोजयेद्
पायसाज्याद्यैर्विप्रानन्यांश्च लिङ्गिनः ॥ ७२ ॥

स्त्रियश्च मातृभक्ता यास्ताश्च भक्तांश्च भोजयेत् । तथैव
नृत्तगीताद्यैः कृत्वा जागरणं निशि ॥ ७३ ॥

प्रातः स्नात्वा मूर्तिधरैः सह सन्ध्यां समाप्य च । गुरुः
सम्पूज्य बेराणि बेरं वा किञ्चिदर्चयेत् ॥ ७४ ॥

गर्भगेहे तु पैशाचे पदे पुण्याहवाचिते । पीठानि वैकं
पीठं वा न्यसेत् कूर्मशिलोपरि ॥ ७५ ॥

रत्नादिपञ्चवर्गांश्च वाहनान्यायुधानि च । हैमानि
तत्तद्गर्तेषु बीजैस्तैस्तैर्विनिक्षिपेत् ॥ ७६ ॥

ततस्तु लग्ने सम्प्राप्ते सरण्यास्त्राम्बुशुद्धया ।
मङ्गलाङ्कुरदीपादिवाद्यगीतसमन्वितम् ॥ ७७ ॥

वेदघोषैश्च बेराणि रथादावधिरोप्य तु ।
घृतदूर्वाक्षतदधिपुष्पमारोप्य मस्तके ॥ ७८ ॥

प्रदक्षिणं परिक्रम्य गर्भागारं प्रवेशयेत् । लग्ने
स्वबीजमन्त्रैस्तु स्थापयेत् प्रतिमाः क्रमात् ॥ ७९ ॥

पूर्वादिपश्चिमान्तं तु ब्राह्म्यादीरेकसूत्रगाः ।
प्रतिष्ठाप्योत्तरास्यास्ता अन्योन्यं द्व्यङ्गुलान्तरम् ॥ ८० ॥

ब्रह्माण्याश्चैव चामुण्ड्याः पार्श्वसूत्रद्वयोत्तरे ।
प्राक्प्रतीच्योर्वीरभद्रः स्थाप्यो विघ्नाधिपस्तथा ॥ ८१ ॥

प्रत्यङ्मुखो वीरभद्रः प्राङ्मुखः स्याद् विनायकः । एकबेरे तु
मध्ये स्यात् प्राङ्मुखी वाप्युदङ्मुखी ॥ ८२ ॥

ततः प्रक्षाल्य बेराणि तत्तद्धृदयपङ्कजे । तत्तद्बीजानि
विन्यस्य स्नपयेत् स्वस्वकुम्भतः ॥ ८३ ॥

स्वस्वमन्त्रैः स्वगायत्र्या मन्त्राध्वानं तु विन्यसेत् ।
तत्तत्पदैः पदाध्वानं शेषान् पूर्ववदध्वनः ॥ ८४ ॥

ततो गुरुः स्वमूलाब्जकुण्डलिन्याः समुद्गताम् । परां शक्तिं
सूक्ष्मरूपां विद्युल्लेखानुकारिणीम् ॥ ८५ ॥

नाडीमार्गेण नीत्वोर्ध्वं हृद्बिन्दुद्वादशान्तगाम् ।
तद्व्योमपद्ममध्येन्दुकलामृतरसाप्लुताम् ॥ ८६ ॥

चिन्मात्रया तु तच्छक्त्या नीत्वैक्यं बीजमुच्चरन् ।
हंससम्पुटमध्यस्थां नादान्तस्वरभूषिताम् ॥ ८७ ॥

पुष्पाञ्जलौ सुसङ्क्रान्तां * * * * * * * * ।
गुणातीतामनौपम्यां वेदवेद्यां निरञ्जनाम् ॥ ८८ ॥

आनीय नाडीमार्गेण देव्या हृत्पङ्कजे न्यसेत् । स्थापनं चाथ
सान्निध्यं सन्निरोधावकुण्ठनम् ॥ ८९ ॥

प्ररोचनामृतीकारौ तद्गायत्र्या समाचरेत् । आलयस्याथ
परितंः परिवाराष्टङ्कं न्यसेत् ॥ ९० ॥

कुम्भैरैन्द्र्यादिसंयुक्तैरभिषिच्य नियोजयेत् । उग्रसेनीं
घटस्थां तां बलिपीठेऽभिषेकतः ॥ ९१ ॥

मध्ये नियोज्य संस्थाप्य ततो विधिवदर्चयेत् ।

तद्यथा -

स्नात्वा सन्ध्यामुपास्याथ सकलीकृतविग्रहः ॥ ९२ ॥

विघ्नराजं च सम्पूज्य सामान्यार्घ्यकरस्ततः । द्वाराणि
पावमानीभिः प्रोक्ष्यास्त्रेणार्घ्यवारिभिः ॥ ९३ ॥

कवाटोद्घाटनं कृत्वा द्वारपालांस्तु पूजयेत् । रक्षोहणं
वलगहनं पूर्वद्वारे तु पूजयेत् ॥ ९४ ॥

सुमुखः कालदण्डश्चाप्यतिथिर्मुदितस्तथा । सकलः
शुक्तिकर्णश्च याम्यादिद्वारपाः स्मृताः ॥ ९५ ॥

प्रागादिद्वारनामानि प्रमोदन्यभया तथा । शान्तिः शुभकरी
चैताः पूजयेत् स्वस्वनामभिः ॥ ९६ ॥

करालीं कामुकां चैव सुभगां दाहनीमपि । गगनां
ह्लादनीं चाथ कौबे(रीं? र्यां) विष्फुलिङ्गिनीम् ॥ ९७ ॥

विरूपाक्षीं च पूर्वादिद्वारेषु द्वन्द्वशो यजेत् । नाराचमन्तः
क्षिप्त्वान्तः प्रविश्यास्त्रं निधाय तु ॥ ९८ ॥

वास्तुब्रह्मासनानीष्ट्वा सूपविष्टोऽर्घ्यमर्चयेत् ।
पञ्चशुद्धीर्विधायाथ तिलकी पुष्पशेखरः ॥ ९९ ॥

आधारशक्तिं च ततः परेतासनपङ्कजे ।
सगुणत्रयसूर्यादिबिम्बबिम्बाधिपान् यजेत् ॥ १०० ॥

सुन्दर्याद्यास्तु योगिन्यः प्रागाद्यब्जदलाग्रगाः । सुन्दरी
शाखिनी चाथ विषकण्ठी वसुन्धरा ॥ १०१ ॥

योगिन्यमृतपूर्वा च घातकी च ततः परम् । वेताली मातृसेना
चेत्येताः पूज्याः स्वनामभिः ॥ १०२ ॥

अथ मूर्तिं मन्त्रदेहं विन्यस्यावाहयेत् ततः । प्राग्वद देवीं
परां शक्तिं मूलाङ्गैः स्थापनादिभिः ॥ १०३ ॥

सकलीकृत्य चाज्याद्यैः [र्या] पूजयेत् तु पृथक् पृथक् ।
बहुबेरे त्वेकबेरे चामुण्डामेवमर्चयेत् ॥ १०४ ॥

एतन्मन्त्रैश्च नवभिः पूर्वोक्तैरपि पूजयेत् । हारिद्रं शबलं
रक्तं पीतं नीलं शुकच्छवि ॥ १०५ ॥

अतिरक्तं सितं रक्तं वासो ब्राह्म्यादिसम्मतम् । श्रीकण्ठं
कुङ्कुमं यक्षकर्दमं ग्रन्थिरेव च ॥ १०६ ॥

कृष्णागरुस्तमालं च मृगनाभिश्च चन्दनम् । रक्तं च
चन्दनं ब्राह्मीप्रभृतीनां क्रमान्मतम् ॥ १०७ ॥

गन्धा इति यावत् ।

पलाशकार्ककुमुदतुलस्यश्च कदम्बकम् । मल्लिका च जपा
नीलमुत्पलं करवीरकम् ॥ १०८ ॥

ब्राह्म्यादीनामभीष्टानि पुष्पाणीमानि वै नव ।
सितासितागरुक्षौद्रमाज्यं सर्जरसः पुरः ॥ १०९ ॥

श्रीकण्ठमिन्दुश्चोशीरं धूपद्रव्याण्यपि क्रमात् । पायसं
चाथ दध्यन्नं मुद्गान्नं च गुलौदनम् ॥ ११० ॥

माषान्नं कृसरं चान्नं रक्तं शुद्धान्नमेव च । फलान्नं
[ख्: प] च निवेद्यानि ब्राह्म्यादीनां नव क्रमात् ॥ १११ ॥

एवमिष्ट्वा निवेद्यान्तमुपचारैर्यथोदितैः । निर्माल्येनैशकोणे
तु चण्डसेनां प्रपूजयेत् ॥ ११२ ॥

अग्निष्वपि तथाग्नौ वा हुत्वोक्तान्यैर्यथाक्रमम् ।
स्वमूलाङ्गैश्च गायत्र्या श्रौतैर्मन्त्रैश्च चोदितैः ॥ ११३ ॥

जयादिभिः क्रमाद्धुत्वा पायश्चित्तैर्घृतेन तु । पूर्णां
स्विष्टकृतं चापि हुत्वाग्निं स्वहृदम्बुजे ॥ ११४ ॥

नियोज्य तोरणादिस्था देवताश्च विसर्जयेत् ।
एकाशीतिघटैरुक्तैः प्रत्येकं नवकेन तु ॥ ११५ ॥

स्नपयेद् बहुबेरेऽथ सर्वैस्तैरेकबेरके । बलिं च विकिरेद् रात्रौ
दत्त्वाचार्यादिदक्षिणाः ॥ ११६ ॥

दत्त्वा देयानि विप्रेभ्यो लिङ्गिभ्योऽन्येभ्य एव च ।
विशेषान्मातृभक्ता ये तेभ्यस्ताभ्यः प्रदाय तु ॥ ११७ ॥

अवारितं तदन्ना(द्यैः? द्यं) सर्वेभ्योऽपि प्रदापयेत् ।
नित्यपूजादिसिद्ध्यर्थं विभवन्न् तूपपत्तितः ॥ ११८ ॥

सङ्कल्प्य कर्ता लभते दृष्टादृष्टेप्सितं फलम् ।

मातृप्रतिष्ठाधिकारः ।

नित्योत्सवे तु मातॄणां मातुर्वामत्रके शुभे ॥ ११९ ॥

हैमाद्येकतले [क्: लं] लिङ्गं प्रातः पुष्पमयं भवेत् ।
अन्नलिङ्गं तु मध्याह्ने सायं लिङ्गं तथाक्षतैः ॥ १२० ॥

बहुबेरे तु तत्पात्रे पद्मे कॢप्तेऽत्र पत्रके । चामुण्डा
कर्णिकायां स्याद् ब्राह्म्याद्याः प्राग्दलादिषु ॥ १२१॥

आवाह्याभ्यर्च्य तद्बीजैरारोप्य परिचारकैः ।
बलिबेरसमायुक्तं छत्रादिविभवान्वितम् ॥ १२२ ॥

शङ्खभेर्यादिनिर्घोषैः स्त्रीसङ्गीताद्यलङ्कृतम् । अन्तर्बलिं
क्षिपेद् योगी योगिनीभ्योऽष्टदिक्ष्वपि ॥ १२३ ॥

सुन्दरीप्रमुखाभ्यस्तु कराल्याद्याभ्य एव च । ततो
रक्षोहणादिभ्यो द्वाःस्थेभ्योऽपि क्षिपेद् बलिम् ॥ १२४ ॥

लोकाधिपानां स्थानेषु चेन्द्रादिभ्योऽष्टदिक्ष्वपि । पुरतो
वाहनेभ्यश्च वाहनायाथवा क्षिपेत् ॥ १२५ ॥

क्षिप्त्वाथ चण्डसेनायै ततः सम्प्राप्य गोपुरम् । कुम्भिन्यै च
निकुम्भिन्यै बलिं कृत्वा बहिर्गतः ॥ १२६ ॥

बलिपीठस्य पुरतो मन्त्रेणामन्त्रयेद् गणान् । याः समस्तं
जगद् व्याप्य मातृपारिषदाः स्थिताः ॥ १२७॥

योगिन्योऽपि च शाकिन्यः प्रेताश्च कटपूतनाः । डाकिन्यश्च
पिशाचाश्च वेतालाः प्रमथास्तथा ॥ १२८ ॥

पाताले भुवि चाकाशे याश्च ये वा वसन्ति ताः । ते च
सुप्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् ॥ १२९ ॥

इति ।

ततोऽष्टदिक्षु प्रोक्तेभ्यो गणेभ्यो विकिरेद् बलिम् । योगिनीभ्यस्तु
पूर्वस्यां शाकिनीभ्यस्तथानले ॥ १३०॥

प्रेतेभ्यो दक्षिणे तद्वत् पूतनाभ्यश्च नैर्-ऋते । डाकिनीभ्यस्तु
वारुण्यां पिशाचेभ्यस्तु मारुते ॥ १३१॥

वेतालेभ्यश्च कौबेर्यां भूतेभ्यश्चेशगोचरे । विकीर्य तु बलिं
पश्चाद् बलिपीठमुपेत्य तु ॥ १३२ ॥

उग्रसेनां तु सगणां ध्यात्वाभ्यर्च्य निजाख्यया । अन्नशेषेण
सर्वेण तस्यै पीठे क्षिपेद् बलिम् ॥ १३३॥

परिभ्रम्य यथापूर्वं प्रविश्यान्तः समाहितः । अभ्यर्च्य
देवीं लिङ्गस्थां मन्त्रान् वा मन्त्रमेव वा … १३४॥

मातॄर्वा मातरं मूलबेरे स्वे स्वे नियोजयेत् ।

नित्योत्सवाधिकारः ।

अथोच्यते महाशान्तिर्देशराजहितावहा ॥ १३५ ॥

रोगोपसर्गमारीणामुत्पातानां च शान्तये ।
माघफाल्गुनचैत्रेषु वैशाखज्येष्ठयोरपि ॥ १३६ ॥

आषाढे श्रावणे प्रोष्ठपदे चाश्वयुजेऽपि च । कार्त्तिक्यां
मार्गशीर्षे च पुष्ये चापि विधीयते ॥ १३७ ॥

कृष्णे पक्षेऽथ शुक्ले च राष्ट्रादेरनुकूलभे । अष्टम्यन्तं
द्वितीयादि यत् सप्तदिवसं भवेत् ॥ १३८ ॥

तच्च भौमार्कवारान्तं महाशान्तिर्विधीयते । तेषां
दिनानां नामानि ब्राह्म्यादीनां तु नामभिः ॥ १३९ ॥

त्रिद्व्येकसप्ततिदिनैः श्रेष्ठाद्या शान्तिरुच्यते । पुरे राष्ट्रे
तथा ग्रामे वने वा पर्वतेऽपि वा ॥ १४० ॥

यत्र स्यान्मातृसान्निध्यं तत्र शान्तिं प्रकारयेत् ।
श्रेष्ठादिशान्तिं निश्चित्य प्राग्वत् कृत्वाङ्कुरार्पणम् ॥ १४१

ध्वजमारोपयेत् तस्मिन् पिशाचीं विलिखेत् पटे । ऊर्ध्वकेशीं
प्रवृत्ताक्षीं निर्मांसास्थिशरीरिणीम् ॥ १४२ ॥

दीर्घघ्राणां प्रलम्बोष्ठीं द्विभुजां दीर्घकन्धराम् ।
कपालवेतालधरां तथैव विकृताननाम् ॥ १४३ ॥

अदीर्घकुक्षिहस्ताङ्घ्रिं गोशृङ्गसदृशस्तनीम् ।
निबद्धकिङ्किणीमाला नानासर्पविभूषणाम् ॥ १४४ ॥

एकबेरे भवेदेवं बहुबेरं यदा तदा । पिशाचीं परितोऽन्यानि
वाहनान्यष्ट चालिखेत् ॥ १४५ ॥

प्रासादाग्रे सभाग्रे वा ग्राममध्ये च चत्वरे ।
दशहस्तप्रमाणं तु स्यान्मुद्रामण्डपं शुभम् ॥ १४६ ॥

तन्मध्ये चतुरश्रं तु पीठं स्याद् बलिपीठवत् । ततो
ग्रामपुरादेस्तु दिक्षु सन्धिष्वपि क्रमात् ॥ १४७ ॥

मण्डलानि सुलिप्तानि बल्यर्थं परिकल्पयेत् ।
ततस्तूर्यादिनिर्घोषैर्गेयनृत्तादिमङ्गलैः ॥ १४८ ॥

शूलास्त्रयात्रासहितं बलिं दिक्षु च निक्षिपेत् । शाल्योदनं
सदध्याज्यं मांसप्रतिनिधिप्लुतम् ॥ १४९ ॥

सरक्तगन्धकुसुमं तत्तन्मन्त्रैर्बलिं क्षिपेत् । मध्ये तु ब्रह्मणे
दिक्षु लोकेशेभ्यो यथापुरम् ॥ १५० ॥

सर्वदेवालयाग्रेषु ग्रामद्वारसभासु च । चत्वरेषु च चैत्येषु
राजमुख्यालयेषु च ॥ १५१ ॥

गोगजाश्वादिशालेषु मुख्यवृक्षनदीषु च ।
कूपारामतटाकेषु वने पितृवनेषु च ॥ १५२ ॥

निधिस्थानेषु चान्येषु सम्प्रोक्ष्य विकिरेद् बलिम् । त्रिसन्ध्यं
विकिरेच्चैव बलिदानादनन्तरम् ॥ १५३ ॥

प्रविश्य मण्डपं पीठे न्यसेदस्त्रं च पूर्ववत् । सम्पूजयेच्च
तत् तत्र यात्रां देव्याः प्रवर्तयेत् ॥ १५४ ॥

नरयानेन वाद्येन गीतनृत्तादिमङ्गलैः ।
शङ्खभेर्यादिनिर्घोषैर्वितानच्छत्रचामरैः ॥ १५५ ॥

भूषिताभिः सुरूपाभिर्गणिकाभिरलङ्कृतम् । सुस्नातैः
सुभटैर्वीरैर्भूषितैः खड्गपाणिभिः ॥ १५६ ॥

अन्यैरपि जनैर्जुष्टं जनकोलाहलेन तु । प्रतिरात्रं
पिष्टपशून् विशस्य विनिवेदयेत् ॥ १५७ ॥

प्रातः सायं पारशवो मुद्रानृत्तविशारदः । नृत्येत्
सङ्गीतरम्यं तन्मण्डपेऽस्त्रस्य सन्निधौ ॥ १५८ ॥

ध्वजावरोपणे प्रोक्तं यथा शैवमहोत्सवे । अर्धरात्रे
प्रतिनिशं तथा मौनबलिं क्षिपेत् ॥ १५९ ॥

अथ षष्ठदिने रात्रौ कौतुकं तु महापशोः । वध्नीयात् स च
विप्रस्य हरिणो नृपतेर्गजः ॥ १६० ॥

वैश्यस्य महिषोऽन्यस्य च्छागोऽपि स्यान्महापशुः । अलाभे
त्वथ सर्वेषां महिषो वा पशुर्भवेत् ॥ १६१ ॥

सप्तमेऽह्न्यपराह्णे तु विशस्योपपशुं त्वजम् ।
यूपबद्धमलङ्कृत्य ततश्छिन्द्यान्महापशुम् ॥ १६२ ॥

तद्रक्तमथ मातृभ्यो मात्रे वा विनिवेदयेत् ।
तद्रक्तपललोन्मिश्रैरन्नैर्दिक्षु बलिं क्षिपेत् ॥ १६३ ॥

अष्टमेऽह्नि ततः प्राग्वच्चूर्णोत्सवपुरस्सरम् ।
शैवोत्सवविधानेन तीर्थयात्रां समापयेत् ॥ १६४ ॥

प्राग्वद् गणान् विसृज्याथ ध्वजं चाप्यवरोपयेत् ।
एकाशीतिघटैः प्राग्वत् स्नपयेत् पूजयेदपि ॥ १६५ ॥

दक्षिणाश्च प्रदेयानि दत्त्वा कर्ताश्नुते फलम् ।
तथैवाङ्गारवारेषु सायं पूर्वोक्तमार्गतः ॥ १६६ ॥

बलियात्रां विधायेष्टान् सर्वान् कामानवाप्नुयात् । अष्टम्योश्च
चतुर्दश्योरारार्कदिवसेषु च ॥ १६७ ॥

प्राप्तये सर्वकामानां बलिं पूजां च कारयेत् ।

एवं विशुद्धं खलु मातृतन्त्रं प्रोक्तं प्रतिष्ठादिकमन्न
सम्यक् । पूजामहाशान्त्यवसानमेतन्निर्दिष्टशैवानुगुणं
विधेयम् ॥ १६८ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
क्रियापादे मातृतन्त्रपटलो नामैकोनषष्टितमः ॥