५८

अथाष्टपञ्चाशः पटलः ।

अथ शास्तुः प्रतिष्ठाद्यं कथ्यते तन्त्रचोदितम् ।
मन्त्रश्चाप्यन्तनादौ तु नवमस्वरभूषितौ ॥ १ ॥

बिन्दुनादसमोपेतौ नमश्शब्दस्ततो भवेत् । षष्ठाद्यं च
सदीर्घोऽग्निर्वायुर्गोप्त्रेपदं ततः ॥ २ ॥

नमोन्तो मूलमन्त्रोऽयं रुद्रार्णस्तारपूर्वकः । तारं
षष्ठाच्चतुर्थं तु दीर्घोऽनुस्वारनादवान् ॥ ३ ॥

भूताधिपतयेशब्दो नमोन्तोऽस्यार्चने मनुः । रेवन्ताय ततः
शास्त्रे गोप्त्रे च प्रभवे तथा ॥ ४ ॥

दीप्त्रे चैव प्रशास्त्रे च षडिमे प्रणवादिकाः । नमोन्ता
जातियुक्ताः स्युः षडङ्गानि यथाक्रमम् ॥ ५ ॥

खड्गाय क्षुरिकायै च धनुषे च शराय च । हुं फडाद्या
नमोन्ताः स्युः शस्त्रमन्त्रा यथाक्रमम् ॥ ६ ॥

वामतोऽस्य प्रभा देवी दक्षिणे सत्यकः सुतः । स्कन्दो
गजाननश्चाथ शाम्बोऽथ मधुकस्तथा ॥ ७ ॥

पीठबाह्ये समासीनास्तन्मन्त्राः स्वस्वनामभिः । गोप्ता च
पिङ्गलाक्षश्च वीरसेनश्च शाम्भवः ॥ ८ ॥

त्रिनेत्रः शूलभृद् दक्षो भीमरूपस्तथाष्टमः ।
एतेऽष्टमूर्तयः शास्तुः पृथिव्यादिभिरन्विताः ॥ ९ ॥

तारादिका नमोन्ताः स्युस्तेषां मन्त्राः स्वनामभिः । आर्यः
शास्ता गुहासन्नः सेनानीर्भूतवल्लभः ॥ १० ॥

रुद्रजो रुद्रवान् कामी वरदो लोकपूजितः । नीलाश्वः
श्वेतमातङ्गः श्यामः पीतानुलेपनः ॥ ११ ॥

रक्तमालाध(रश? रः शू)रो मायी मातृगणप्रियः ।
कालवासा गणाध्यक्षः खड्गहस्तो धनुर्धरः ॥ १२ ॥

सहजायो जनावेशः साधुः संसाररक्षकः । मधुमान्
शम्बरश्चिते ह्यष्टाविंशतिनामभिः ॥ १३ ॥

मन्त्राः स्युर्भूतनाथस्य तारपूर्वनमोन्तकैः । जपेऽर्चायां
च नत्यन्ता होमे स्वाहान्तयोजिताः ॥ १४ ॥

महोत्सवबलावेभिरष्टाविंशतिनामभिः । भूतसेनाधिपतयो
बाह्ये योज्या भवन्ति हि ॥ १५ ॥

भूतनाथश्चतुर्थ्यन्तो विद्महेपदयोजितः ।
भवपुत्रस्तथास्यान्ते धीमहि तन्न इत्यपि ॥ १६ ॥

शास्ता प्रचोदयादेषा गायत्री तारपूर्विका ।

मन्त्रोद्धाराधिकारः ।

कनिष्ठदशतालेन शास्तुर्बेरं तु कारयेत् ॥ १७ ॥

प्रोक्तमानादिसंयुक्तं सौम्यवक्त्रं चतुर्भुजम् ।
प्रभूतसिंहासनाब्जे स्वासीनं वामपादतः ॥ १८ ॥

दक्षिणेन तु पादेन लम्बेनाक्रान्तपङ्कजम् । शरं च क्षुरिकां
चापं खड्गं बिभ्रच्चतुर्भुजम् ॥ १९ ॥

नवयौवनरम्याङ्गं नीलकुञ्चितमूर्धजम् ।
पद्मायतविशालाक्षं पूर्णेन्दुसदृशाजनम् ॥ २० ॥

रत्नजालोल्लसन्मौलीं सुमृष्टमणिकुण्डलम् ।
हारिहाराभिरामाङ्गमाबद्धोदरबन्धनम् ॥ २१ ॥

रत्नाङ्गुलीयकटकचारुकेयूरराजितम् ।
कटिसूत्रोल्लसद्रक्तवसनं चारुनूपुरम् ॥ २२ ॥

निबिडाबद्धनिस्त्रिंशं श्यामलं कोमलाकृतिम् । रक्ताकल्पं
सुलीनांसं दिव्यरूपं मनोरमम् ॥ २३ ॥

प्रभां च नवतालेन दिव्यरूपामलङ्कृताम् । उपविष्टा
दक्षिणेन लम्बमानाङ्घ्रिपङ्कजाम् ॥ २४ ॥

नीलोत्पलकरां शास्तुर्वामभागावलम्बिनीम् ।
अष्टवर्षार्भकप्रख्यं सत्यकं चाष्टतालतः ॥ २५ ॥

शास्तुर्दक्षिणपार्श्वस्थं दिव्याकारमलङ्कृतम् । एवं बेराणि
सम्पाद्यं प्रतिष्ठामथ कारयेत् ॥ २६ ॥

प्राग्वत् षोडशपादाढ्ये त्वधिवासनमण्डपे । क्षुरिकेशश्च
खड्गेशो धन्वे[क्: ने]शश्च शरेश्वरः ॥ २७ ॥

प्रागादितोरणाः पूज्याः चत्वारोष्टौ ध्वजास्तथा ।
ऐन्द्रश्चैव तथाग्नेयो याम्यो नैर्-ऋतवारुणौ ॥ २८ ॥

वायव्यश्चाथ कौबेरश्चैशानश्चास्त्रचिह्निताः । अर्घ्यादिभिस्तु
नत्यन्तं सर्वान् स्वाख्याभिरर्चयेत् ॥ २९ ॥

वीरबाहुं महावीर्यं विद्युज्जिह्वं विलासिनम् । तीक्ष्णं च
तीक्ष्णनेत्रं च काकाक्षं च भवोद्भवम् ॥ ३० ॥

द्वारेषु क्रमशो द्वौ द्वौ कुम्भस्थान् पूजयेदिमान् । अथ
पुण्याहविकिरक्षेपात् कुम्भायुधे यजेत् ॥ ३१ ॥

अश्वारूढं भूतनाथं कुम्भेऽस्त्रं गजवाहनम् ।
स्त्रीरूपं क्षुरिकास्त्रं तद् रक्ताकल्पं त्रिलोचनम् ॥ ३२ ॥

बद्धचण्डातकं पिङ्गज्वलितोर्ध्वशिरोरुहम् । अभ्यर्च्य
तद्भ्रमादूर्ध्वं नवकुण्डाहिताग्निषु ॥ ३३ ॥

शास्तुर्मूलाङ्गमूर्तीनामावाहनहुतादनु ।
प्राग्वदाकारशुद्धिं च नयनोन्मीलनं तथा ॥ ३४ ॥

जलाधिवासनं ग्रामभ्रमणं स्नपनं तथा ।
पूर्ववच्छयनं वेद्यां कुर्याच्छैवोक्तमार्गतः ॥ ३५ ॥

ततः कुम्भास्त्रनिद्राष्टमूर्तिकुम्भादिपूजनम् । पूर्वोक्ता
मूर्तयो ह्यष्टौ गोप्त्राद्याः शास्तृरूपिणः ॥ ३६ ॥

प्राग्वत् त्रितत्त्वतत्त्वेशमनून् न्यस्य पृथक् क्रमात् ।
पृथ्व्यादियुक्ता गोप्त्राद्यास्ततस्तु गुरुमूर्तिपाः ॥ ३७ ॥

एभिरेव यथापूर्वं हुत्वा सृष्ट्वाभिपूज्य च । बेरे
ज्ञानाह्वयां शक्तिं पीठे शक्तिं क्रियात्मिकाम् ॥ ३८ ॥

धारिकाद्याश्च विन्यस्य सम्पूज्य च यथाविधि । ततः प्रातः
कृतस्नानो गुरुर्मूर्तिधरैः सह ॥ ३९ ॥

कृतनित्यक्रियो लग्ने गर्भागारं प्रविश्य तु । मानुषे तु पदे
कूर्मशिलां विन्यस्य पूर्ववत् ॥ ४० ॥

रत्नादिपञ्चवर्गांस्तु न्यसेत् पीठं तथोपरि । प्रतिमां च
प्रतिष्ठाप्य कुम्भान् मूलं च तद्धृदि ॥४१ ॥

नियोज्य मूर्तिं तन्मन्त्रदेहं च क्षालयेत् ततः ।
आधारादुद्गतं ज्योतिर्हृत्पद्मस्थं सुषुम्नया ॥ ४२ ॥

नीत्वोर्ध्वं बिन्दुतो व्योम तदब्जेन्दुसमन्वितम् । पुष्पाञ्जलौ तु
सङ्क्रान्तं नादबिन्दूपबृंहितम् ॥ ४३ ॥

प्लुतान्तमुच्चरन् मन्त्रं न्यस्येन्मूर्तिहृदम्बुजे । स्थापनादीनि
कृत्वाङ्गैर्निद्रामूर्तिघटाम्बुभिः ॥ ४४ ॥

अभिषिच्य स्वमूलाङ्गैरध्वनः षड् विभावयेत् । मूलाङ्गैश्च
स्वगायत्र्या मन्त्राध्वास्य प्रकीर्तितः ॥ ४५ ॥

एतेषां तु पदैरेव पदाध्वानं च कल्पयेत् । शेषाध्वनो
यथापूर्वं परिभाव्यार्चयेत् ततः ॥ ४६ ॥ तद्यथा -

स्नात्वा तु सकलीकृत्य विघ्नं द्वारं च पूजयेत् ।
क्षुरिकाखड्गपाणी द्वौ द्वाःस्थावुभयतो यजेत् ॥ ४७ ॥

यक्षं विद्याधरं द्वारश्रियं चोपरि पूजयेत् । अस्त्रं
क्षिप्त्वा प्रविश्यान्तर्देहल्यां विनिधाय तत् ॥ ४८ ॥

वास्तुब्रह्मासनानीष्ट्वा मूलाङ्गैरर्घ्यमर्चयेत् ।
गन्धपुष्पकुशक्षीरतिलंसिद्धार्थकाक्षतैः ॥ ४९ ॥

अर्घ्यं स्याद् भूतनाथस्य तिलपुष्पाक्षताम्बुभिः । चन्दनं च
निशा पाद्यमथ पद्मं च चन्दनम् ॥ ५० ॥

लवङ्कं वारि चाचामं हृदा सर्वं समर्पयेत् ।
पञ्चशुद्धीर्विधायास्त्रप्राकारं चालयेद् बहिः ॥ ५१ ॥

तिलकी सशिखापुष्पः शक्तिपीठं धरात्मकम् ।
प्रभूतसिंहासनाय सर्वशक्तिमयाय च ॥ ५२ ॥

नम इत्यभिपूज्याङ्घ्रीन् धर्मादीन् सिंहविग्रहान् ।
तमःसत्त्वरजःपद्मं शक्तिं चाष्टौ दलाग्रगाः ॥ ५३ ॥

गोप्त्रीं च पिङ्गलाक्षीं च वीरसेनां च शाम्भवीम् ।
त्रिनेत्रां शूलिनीं दक्षां भीमरूपां च पूजयेत् ॥ ५४ ॥

नवमीं तु प्रभां वामे दक्षिणे सत्यकं तथा । ततो मूर्तिं
मन्त्रदेहं सङ्कल्प्यावाहयेद् विभुम् ॥ ५५ ॥

आधारा(द्यु? दु)द्गतं प्राग्वज्ज्योतिर्मात्रं चिदात्मकम् । आवाह्य
स्थापनाद्यैश्च निवेद्यान्तं तु पूजयेत् ॥ ५६ ॥

केसरेषु पुनः स्वाङ्गैर्दलाग्रेष्वष्टशक्तिभिः । विघ्नाद्यैः
पीठबाह्येऽथ स्थापयेत् परिवारकान् ॥ ५७ ॥

क्षुरिकाखड्गपाणी द्वौ स्थितौ विन्यस्य बाह्यतः । स्वाशासु
लोकपालानप्यश्वं तु मुखमण्डपे ॥ ५८ ॥

वीरं विघ्नं सप्तमातॄः सोमं स्वाशासु विन्यसेत् ।
बलिपीठं च विन्यस्य जुहुयुर्लोकपाह्वयैः ॥ ५९ ॥

द्वितीयेऽह्व्यपि पूर्वोक्तसमिदाज्यादिभिः क्रमात् । मूलाङ्गैरपि
गायत्र्या मूतिशक्त्यष्टकाह्वयैः ॥ ६० ॥

अष्टाविंशतिकृत्वस्तु जुहुयुः समिदादिभिः । तृतीयदिवसे
हेतिमन्त्रैरष्टोत्तरं शतम् ॥ ६१ ॥

हुत्वा जयादिभिश्चाथ प्रायश्चित्तैर्जुहोति च । चतुर्थदिवसे
वह्नीनायोज्यात्मनि देशिकः ॥ ६२ ॥

निर्माल्यधारिणं चैशे घोषवन्तं न्यसेद् यजेत् ।
एकाशीतिघटैरुक्तमार्गेण स्नपयेद् विभुम् ॥ ६३ ॥

दक्षिणाः पूर्ववद् दत्त्वा क्षिप्त्वा भूतबलिं निशि ।
नित्यपूजादिसिद्ध्यर्थं सङ्कल्प्य विभवादिकम् ॥ ६४ ॥

कर्ता कामानवाप्नोति दृष्टादृष्टफलोदयात् ।

भूतनाथप्रतिष्ठाधिकारः ।

नित्योत्सवे द्वारपालौ क्षुरिकाखड्गधारिणौ ॥ ६५ ॥

लोकेशा वाहनं चाश्वस्तेभ्यस्तु विकिरेद् बलिम् ।
शास्तृपारिषदेन्तं तु परिषद्भ्योऽथ तस्य च ॥ ६६ ॥

लोकेशाख्यादिनत्यन्तं निक्षिप्य बलिमादरात् ।

ॐ शास्तृवाहनाय नमः ॐ अश्वाय नमः इत्यश्वाय बलिं
क्षिपेत् ।

वीरविघ्नेशमातृभ्यः सोमघोषवतोस्ततः ॥ ६७ ॥

तीक्ष्णाय तीक्ष्णनेत्राय गोपुरद्वारि निक्षिपेत् । बलिपीठात्
पुरः स्थित्वा त्वनेनामन्त्रयेद् गणान् ॥ ६८ ॥

शाम्बादीनां गणा ये तु कोटिकोटिगुणोत्तराः । सर्वे
सुप्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् ॥ ६९ ॥

ततोऽष्टदिक्षु प्रागादिस्थिता गोप्त्रादिमूर्तयः । गोप्ता च
पिङ्गलाक्षश्च वीरसेनश्च शाम्भवः ॥ ७० ॥

त्रिनेत्रः शूलभृद् दक्षो भीमरूपस्तथाष्टमः । तेभ्यः
क्षेप्यो बलिश्चाथ बलिपीठाष्टदिक्स्थिताः ॥ ७१ ॥

वीरबाहुर्महावीर्यो विद्युज्जिह्वो विलासवान् ।
सुतीक्ष्णस्तीक्ष्णदंष्ट्रश्च ताराक्षश्च भवोद्भवः ॥ ७२

भूतेशाख्यः कुमुदके स्थितस्त्वेषां बलिं क्षिपेत् । स्याद्
भूतनाथसेनस्तु पीठे पङ्कजमध्यतः ॥ ७३ ॥

तस्मै क्षेप्यो बलिर्नाम्ना तारपूर्वं नमोन्तकम् । एष
नित्योत्सवविधिस्तुल्यश्चैव महोत्सवे ॥ ७४ ॥

विशेषः कथ्यते लेख्यो ध्वजेऽश्वः पूज्य एव च ।
शास्तृनामान्वितैर्मन्त्रैर्गणानावाहयेदपि ॥ ७५ ॥

लोकेशबलिदानान्ते

ॐ शास्तुर्भगवतो ये भूताः पुरस्सद इत्यादिभिः

सर्वेभ्योऽपि बलिं क्षिपेत् ।

तद्वत् तृतीयहारायामष्टाविंशतिमूर्तयः ॥ ७६ ॥

शास्तुरेव गणाध्यक्षाः स्थितास्तेभ्यो बलिं क्षिपेत् । आर्यः
शास्ता गुहासन्नः सेनानीश्चैन्द्रदिक्स्थिताः ॥ ७७ ॥

भूतवल्लभनामा च रुद्रतेजाश्च रूपवान् । एते
त्रयोऽग्निदिक्संस्थास्त्वथ कामी वरप्रदः ॥ ७८ ॥

लोकार्चितश्च नीलश्च चत्वारो दक्षिणे स्थिताः ।
श्वेतमातङ्गवान् श्यामी पीतालेपश्च नैर्-ऋते ॥ ७९ ॥

रक्तमालाधरः शूरो मायी मातृगणप्रियः । पश्चिमे त्वथ
वायव्ये कालवासा गणाग्रणीः ॥ ८० ॥

खड्गहस्तस्त्रयस्त्वेते तथोदीच्यां धनुर्धरः । सहजायो
जनावेशः साधुश्चैते व्यवस्थिताः ॥ ८१ ॥

संसाररक्षकस्तद्वन्मधुमान् शम्ब[क्: ज]रस्तथा । ऐशभागे
त्रयस्त्वेते भूतसेनाधिपाः स्थिताः ॥ ८२ ॥

विकीर्य बलिमेतेभ्यस्तद्बाह्येऽष्टदिशास्वपि ।

ऐन्द्र्यां दिशि गणा ये तु वज्रहस्ता महाबलाः ॥ ८३ ॥

इत्यादिभिः क्रमात् प्राग्वत् पूर्वोक्तं लभते फलम् ।

इति ह कथितमेतद् भूतनाथस्य तन्त्रं निगदितमपि बिम्बे यच्च
देवोद्भवाख्ये । तदखिलमवलोक्य स्थापनाद्युत्सवान्तं
विमलमतिभिरूह्यं शैवकृत्यानुसारात् ॥ ८४-१।२ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
क्रियापादे शास्तृतन्त्रपटलोऽष्टपञ्चाशः ॥