५७

अथ सप्तपञ्चाशः पटलः ।

प्रतिष्ठाथ सरस्वत्याः कथ्यते तन्त्रचोदिता । तारश्च नादो
बिन्द्वन्तस्तत्पूर्वोऽन्त्यस्वरान्वितः ॥ १ ॥

वीप्सितो (प? व)दशब्दश्च वाग्वादिनिपदं ततः ।
मरुत्सखप्रियान्तोऽयं जगत्यर्णो हि वाङ्मनुः ॥ २ ॥

तारादिः स्याद् द्विजातीनामन्येषां केवलः स्मृतः ।
साग्निर्नादस्तु तारादिर्दीर्घैर्युक्तः क्रमात् स्वरैः ॥ ३ ॥

ऋगादिवेदशब्दैश्च धर्मशास्त्रपदेन च ।
पुराणपदसंयुक्तैः षड्भिर्मन्त्रपदैः क्रमात् ॥ ४ ॥

स्वजातियुक्तान्यङ्गानि षडस्त्रान्तानि कल्पयेत् । वागीश्वरी
चतुर्थ्यन्ता विद्महेपदसंयुता ॥ ५ ॥

वाग्वादिनीपदस्यान्ते धीमहीति पदं भवेत् । तन्नः सरस्वती
प्रेति चोदयादिति योजिता ॥ ६ ॥

तारादिका सरस्वत्या गायत्री सर्वसिद्धिदा । मध्येन दशतालेन
प्रोक्तस्त्रीमानतः कृता ॥ ७ ॥

प्रतिमा स्यात् सरस्वत्याः शुक्लवर्णा चतुर्भुजा । सबरां
लेखनीं वामे कलशं चापि बिभ्रती ॥ ८ ॥

अभयं पुस्तकं तद्वदधश्चोर्ध्वं च दक्षिणे ।
शङ्खकुन्देन्दुधवला सकपर्देन्दुशेखरा ॥ ९ ॥

त्रिनेत्रा शुक्लवसना माल्यगन्धविभूषिता ।
हारिहारोल्लसत्तुङ्गपीवरस्तनमण्डला ॥ १० ॥

सुप्रसन्नमुखाम्भोजा सर्वाभरणभूषिता । पद्मासने(षू?
सू)पविष्टा नवयौवनमण्डिता ॥ ११ ॥

वागीश्वरीप्रतिष्ठायां कर्म शैवोक्तमार्गतः । विशेषो
दक्षिणद्वारे स्थाप्या स्याद् दक्षिणामुखी ॥ १२ ॥

उत्तराभिमुखी पूज्या चाधिवासनमण्डपे । पुष्करः
पूर्णभद्रश्चाप्यानन्दो नन्दनस्तथा ॥ १३ ॥

पूर्वादितोरणास्तद्वद् ध्वजौ द्वौ द्वौ यथाक्रमम् ।
प्राच्यामैन्द्रश्च वज्राङ्को याम्यो दण्डाङ्क एव च ॥ १४ ॥

वारुणश्चाथ पाशाङ्कः कौबेरश्च गदाङ्कितः । मेधा
प्रज्ञा प्रभा विद्या धीर्धृतिस्मृतिबुद्धयः ॥ १५ ॥

द्वारकुम्भस्थिता दूत्यः पूजनीयाः स्वनामभिः ।
मध्यस्तम्भेषु चत्वारोऽप्याग्नेयादिष्वृगादयः ॥ १६ ॥

वेदबाह्ये रविस्तम्भाः शीक्षा कल्पो निरुक्तकम् । छन्दो ज्योतिः
सूत्रपाठो मीमांसा न्यायविस्तरः ॥ १७ ॥

धर्मशास्त्रं पुराणं च दण्डनीतिश्च वै क्रमात् ।
विद्यात्मकं वितानं स्यात् स्थलं तु पृथिवी स्वयम् ॥ १८ ॥

सर्वत्रापि तारादिनमोन्तैः स्वाख्याभिर्यजेत् ।

ततः पुण्याहविकिरक्षेपात् कुम्भास्त्रपूजने । स्यात् कुम्भे
हंसगा वाणी तदस्त्रं सारसोपरि ॥ १९ ॥

रक्ताकल्पं रक्तवर्णं षड्भुजं सत्रिलोचनम् । स्त्रीरूपं
भूषितं वामे वरपुस्तकपाशधृक् ॥ २० ॥

दक्षिणे साभयं [क्: य] * (कं? [ख्: का]) लेखिनी चाङ्कुशं
दधत् । प्राग्वन्नवसु कुण्डेषु वह्निं मध्यादिभाजितम् ॥ २१ ॥

निक्षिप्यावाह्य वागीशीं मूलाङ्गैर्मध्यमे गुरुः ।
योगादिमूर्तिभिर्दिक्षु जुहुयुर्मूर्तिधारकाः ॥ २२ ॥

गायत्र्या चापि लोकेशमन्त्रैरपि यथाक्रमम् ।
समिदाज्यचरूल्ँलाजान् व्रीहिसिद्धार्थसर्षपान् ॥ २३ ॥

तिलांश्चाष्टोत्तरशतं जुहुयुस्ते पृथक् पृथक् ।
प्राग्वदाकारशुद्धिं च कुर्याच्चाक्षिविमोक्षणम् ॥ २४ ॥

जलाधिवासनं ग्रामभ्रमणं स्नपनं तथा । मूर्तीरथ
सरस्वत्या विद्याकुम्भाष्टके यजेत् ॥ २५ ॥

योगां सत्यां च विमलां ज्ञानां बुद्धिं क्रियां तथा ।
मेधां श्रद्धां च ताः सर्वाः सकमण्डलुपुस्तकाः ॥ २६ ॥

साक्षमालालेखनिकाः शुक्लाः शुक्लाम्बरादिकाः । ततो
बेरत्रिभागेषु जानुकण्ठशिरोवधि ॥ २७ ॥

आत्मादितत्त्वतत्त्वेशान् ब्रह्मादीन् विन्यसेत् क्रमात् । तेषु
पृथ्व्याद्यष्टमूर्तीस्तच्छक्तीर्धारिकादिकाः ॥ २८ ॥

न्यसेज्ज्ञानीतनौ देव्याः पीठे शक्तिं क्रियाह्वयाम् । हुत्वा
हुत्वा च तन्मन्त्रैः संस्पृशेयुर्यथापुरम् ॥ २९ ॥

अथ प्रातः कृतस्नानो गुरुर्मूर्तिधरैः सह ।
कृतसन्ध्याविधिर्लग्ने लिङ्ग? कूर्माह्वयां न्यसेत् ॥ ३० ॥

रत्नादिपञ्चवर्गांश्च तस्यां पीठं च पूर्ववत् । पीठे च
प्रतिमां न्यस्येत् कुर्याद् बन्धेन सुस्थिरम् ॥ ३१ ॥

प्रक्षाल्य किञ्चिदिष्ट्वा च मूर्तिं विद्यातनुं न्यसेत् ।
कुम्भस्थां मूलतो वाणीमूर्तिहृत्पङ्कजे न्यसेत् ॥ ३२ ॥ ततो
मूलाङ्गगायत्री मातृकोक्ताक्षराणि च ।

उक्ताक्षराणि नामशक्तिवाग्भवानीति यावत् । मन्त्राध्वानात्
पदैरेव पदाध्वान्ये च पूर्ववत् ॥ ३३ ॥

अथापूर्याञ्जलिं पुष्पैः कुण्डलिन्यादितः स्वतः । ध्यायन्
सूक्ष्मां च पश्यन्तीं मध्यमां वैखरीमपि ॥ ३४ ॥

ऊर्ध्वामुत्क्षिप्य तां वाचं विद्युल्लेखानुकारिणीम् ।
द्वादशान्ते समायोज्य तच्चैतन्योपबृंहिताम् ॥ ३५ ॥

पुष्पाञ्जलौ सुसङ्क्रान्तां हंसमुच्चारयन् प्लुतम् । आनीय
ब्रह्मनाड्या तां मूर्तिहृत्पङ्कजे न्यसेत् ॥ ३६ ॥

स्थापनं सन्निरोधं च रोचनं चावकुण्ठनम् । अमृतीकरणं
चाङ्गैर्विधायार्घ्यं प्रदाय तु ॥ ३७ ॥

षडध्वभावनां कृत्वा विद्याकुम्भेऽष्टकेन च ।
निद्रास्त्राभ्यां चाभिषिच्य यजेदर्घ्यादिभिः क्रमात् ॥ ३८ ॥

तद्यथा -

स्नात्वा गणेशमभ्यर्च्य सकलीकृतविग्रहः । सामान्यार्घ्येण
तद्द्वाःस्थौ विघ्नक्षेत्रपती यजेत् ॥ ३९ ॥

गङ्गां च यमुनां प्राग्वद् द्वारलक्ष्मीं तथोपरि । अस्त्रं
क्षिप्त्वा प्रविश्यान्तर्देहल्यां विनिधाय तत् ॥ ४० ॥

वास्तुब्रह्मासनादीष्ट्वा सूपविष्टोऽर्घ्यमर्चयेत् । शुद्धीः
पञ्च विधायाथ तिलकी पुष्पशेखरः ॥ ४१ ॥

आधारशक्तिं पृथिवीं विद्यां सिंहासनाकृतिम् ।
कृतत्रेतादिकान् पादान् सिंहाकारान् विदिग्गतान् ॥ ४२ ॥

रजस्तमश्च सत्त्वं च कन्दं नालं च पङ्कजम् ।
सूर्यादिमण्डलाधीशान् ब्रह्मादीञ् छदनादिषु ॥ ४३ ॥

मेरुं तत्कर्णिकायां च पत्रद्वादशके गिरीन् । दिक्ष्वेकैकं च
कोणेषु पूजयेत् केसराह्वयान् ॥ ४४ ॥

प्राग्दले मन्दरगिरिर्दक्षिणे गन्धमादनः । विपुलः पश्चिमदले
सुपार्श्वश्चोत्तरच्छदे ॥ ४५ ॥

हिमवान् हेमकूटश्च निषधो माल्यवांस्तथा । कैलासश्चैव
नीलश्च श्वेतशृङ्गी च तान् यजेत् ॥ ४६ ॥

प्रोक्तमार्गेण वाङ्मूर्तिं विद्यादेहं यथापुरम् । देवीं
चावाह्य मूलाङ्गैः स्थापनाद्यं विधाय तु ॥ ४७ ॥

अर्घ्याद्यैस्तु निवेद्यान्तैरुपचारैर्यजेत् क्रमात् । अङ्गानि
केसरेष्विष्ट्वा शक्तिद्वादशकं ततः ॥ ४८ ॥

ऋद्धिं रतिं तथा प्रीतिं शान्तिं दिग्दलगां यजेत् । योगां
सत्यादिके द्वे द्वे कोणच्छदयुगेष्वपि ॥ ४९ ॥

चन्द्रार्कौ भासयन्तौ द्वावूर्ध्वगौ दक्षिणोत्तरे । ब्रह्मा च
दक्षिणे देव्या विष्णुर्वामे शिवोऽग्रतः ॥ ५० ॥

पश्चिमे मुनयश्चैतान् भित्तिष्वालेख्यगान् यजेत् ।
मेधाप्रज्ञादिके द्वे द्वे द्वाःस्थे द्वारचतुष्टये ॥ ५१ ॥

स्वाशासु लोकपालांश्च हंसं च मुखमण्डपे । वीरं
विघ्नं तथा मातॄः शास्तारं चण्डिकामपि ॥ ५२ ॥

सोमं च क्षेत्रपालं च स्थापयेत् स्वदिशास्विमान् । बलिपीठं
च संस्थाप्य पूजयेत् प्रथमेऽहनि ॥ ५३॥

द्वितीयेऽह्नि स्वमूलाङ्गैर्मूर्तिलोकेशदैवतैः । तृतीये
व्याहृतीभिश्च गायत्र्या च जयादिभिः ॥ ५४ ॥

प्रायश्चित्तैश्च हुत्वाथ चतुर्थदिवसे ततः । प्राग्वत्
संस्नाप्य तु यजेन्मतिं निर्माल्यधारिणीम् ॥ ५५ ॥

पूर्णां स्विष्टकृतं चापि हुत्वाग्नीन् स्वहृदम्बुजे । योजयेद्
द्वादशान्ते वा स्नपयेच्च शताधिकैः ॥ ५६ ॥

सविशेषमथाराध्य दत्त्वाचार्यादिदक्षिणाः । निशि
भूतबलिं दत्त्वा नित्यपूजां च कल्पयेत् ॥ ५७ ॥

प्राग्वद् वित्तानुसारेण प्रोक्तं कर्ताश्नुते फलम् ।

सरस्वतीप्रतिष्ठाधिकारः ॥

नित्योत्सवे सरस्वत्या मेधाद्या द्वारपालिकाः ॥ ५८ ॥

ताभ्यो विकीर्य तु बलिं लोकेशेभ्यो यथापुरम् ।

तत्रायं विशेषः -

सरस्वतीपार्षदे नमः तत्पार्षदेभ्यो नमः इति
तत्तल्लोकपालनाम्ना बलिं क्षिपेत् ।

सरस्वतीवाहनाय हंसायेत्यग्रमण्डपे ॥ ५९ ॥

विघ्नाय वीरभद्राय मातृभ्यः शास्त्र एव च ।
चण्डिकेन्दुक्षेत्रपेभ्यो मत्यै च प्रक्षिपेद् बलिम् ॥ ६० ॥

कृत्यै च प्रतिभायै च गोपुरद्वारि निक्षिपेत् । सम्प्राप्य
बलिपीठाग्रं गणानामन्त्रयेत् ततः ॥ ६१ ॥

ये समस्तं जगद् व्याप्य चरन्ति बलिकाङ्क्षया ।
सरस्वतीपारिषदा गृह्णन्तूपहृतं बलिम् ॥ ६२ ॥

इति ।

ततो द्वितीयहारायामष्टदिक्षु स्थिताः क्रमात् । दिग्गजास्तु
बलिं तेभ्यः स्वाख्याभिः प्रक्षिपेदपि ॥ ६३ ॥

ऐरावतः पुण्डरीकः कुमुदाञ्जनवामनाः । पुष्पदन्तः
सार्वभौमः सुप्रतीकस्तथाष्टमः ॥ ६४ ॥

बलीपीठेऽथ विश्वेभ्यो दशभ्यः प्रक्षिपेद् बलिम् ।
क्रतुर्दशः सुवस्तव्यः का * * मो ध्वनिस्तथा ॥ ६५ ॥

कुरुमानष्टमस्ते तु पीठस्याष्टदिशि स्थिताः । मध्यमान्वै
कुमुदकैः स्थितस्तेषां बलिं क्षिपेत् ॥ ६६ ॥

सरस्वतीसेनाया रोचमानाय नमः इति पीठोर्ध्वतो मध्ये
रोचमानाय निक्षिपेत् ।

नित्योत्सवे बलि * * * * * * * * * * ॥ ६७ ॥

भूताः पुरःसदः ॥ ६८ ॥

भगवत्याः सरस्वत्या इत्याद्यैः प्रक्षिपेद् बलिम् । तद्वत्
तृतीयहारायां गणास्त्वष्टदिशं स्थिताः ॥ ६९ ॥

तद्यथा -

वसवश्चाश्विनौ रुद्राः पित्रादित्यगणा अपि । तार्क्ष्यः
सप्तर्षिपूर्वाश्च प्रजानां पतयस्ततः ॥ ७० ॥

ते च -

धरो ध्रुवश्च सोमश्चाप्यापश्चैवानिलोऽनलः । प्रत्यूषश्च
प्रभासश्च वसवोऽष्टौ तु पूर्वगाः ॥ ७१ ॥

नासत्यदस्रावाग्नेय्यमश्विनौ तु व्यवस्थितौ ।
अजैकपादहिबुध्निर्विरूपाक्षोऽथ रैवतः ॥ ७२ ॥

पिनाकी चेश्वरः स्थाणुः कपाली च त्रियम्बकः । बहुरूपो
भवश्चेति रुद्रास्त्वेकादश क्रमात् ॥ ७३ ॥

एते दक्षिणे स्थिताः ।

सोमश्च पितृमांस्तद्वद् यमः पितृगणेश्वरः ।
अङ्गिरस्वांस्तथा चाग्निः सप्तमः कव्यवाहनः ॥ ७४ ॥

पितरः पितामहाख्यास्तथैव प्रपितामहाः । दशैते पितरः
ख्याताः स्थिता निर्-ऋतिगोचरे ॥ ७५ ॥

धातार्यमा च मित्रश्च वरुणश्च भगस्तथा । इन्द्रो विवस्वान्
पूषा च पर्जन्यो दशमः स्मृतः ॥ ७६ ॥

त्वष्टा च विष्णुरित्येते आदित्या द्वादसाम्बुपे ।
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चारुणस्तथा ॥ ७७ ॥

अरुणिः क्रथनः क्राथः सुपर्णः सप्त मारुते । गौतमश्च
भरद्वाजो विश्वामित्रोऽथ कश्यपः ॥ ७८ ॥

जमदग्निस्तथैवात्रिर्वसिष्ठश्चाप्यरुन्धती । ध्रुवश्च
शिंशुमारश्चेत्येते तूत्तरतः स्थिताः ॥ ७९ ॥

भृगुर्दक्षो मरीचिश्चाप्यङ्गिराः पुलहः क्रतुः ।
पुलस्त्योऽत्रिर्वसिष्ठश्च प्रजानां पतयः स्थिताः ॥ ८० ॥

ऐश इति यावत् ।

ततश्चतुर्थहारायां गन्धर्वाश्चाप्सरोगणाः । सिद्धाः
साध्यास्तथा नागा विद्याधरगणास्तथा ॥ ८१ ॥

यक्षाः सराक्षसा दैत्याः क्रमाद् दिक्ष्वष्टसु स्थिताः ।
एषां तारादिसञ्ज्ञाभिर्नमोन्तं निक्षिपेद् बलिम् ॥ ८२ ॥

ततस्त्वैन्द्र्यां दिशि गणा वज्रहस्ता महाबलाः ।
इत्यादिमन्त्रैर्विकिरेद् बलिं दशदिशास्वपि ॥ ८३ ॥

उद्दिष्टदिवसान्ते तु गणानुत्सृज्य पूर्ववत् । तीर्थयात्रां
विधाग्राथ सविशेषं यजेद् गिरम् ॥ ८४ ॥

अवतार्य ध्वजं चाथ सहस्रकलशादिभिः । कलशैरुपपत्त्या
तु स्नपयित्वाभिपूज्य च ॥ ८५ ॥

दक्षिणाश्च प्रदेयानि दत्त्वा प्राग्वद् यथाविधि । पूर्वोक्तं
फलमाप्नोति वागीश्वर्याः प्रसादतः ॥ ८६ ॥

इत्थं प्रोक्तं यद् बृहत्तन्त्रगीतं दृष्टं बिम्बे यच्च
देवोद्भवाख्ये । वागीश्वर्यास्तन्त्रमेतत् समासादत्रैवोह्यं तच्च
शैवानुसारात् ॥ ८७ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
क्रियापादे वागीश्वरीतन्त्रपटलः सप्तपञ्चाशः ॥