अथ षट्पञ्चाशः पटलः ।
अथ गौर्याः प्रतिष्ठाद्यं समासात् सम्यगुच्यत ।
तन्मूलबीजं प्रागेव शक्तिसञ्ज्ञं प्रदर्शितम् ॥ १ ॥
तारं च शक्तिबीजं च खान्तश्चौकारसंयुतः ।
ससूक्ष्मोऽग्निस्ततो रुद्रपदं च दयितेपदम् ॥ २ ॥
द्वादशान्तयुतो वायुः खान्तः [क्: न्तस्यैकादशस्वरः]
सैकादशाक्षरः । अष्टमाद्यो वकारस्थो वह्निः सूक्ष्मेण
संयुतः ॥ ३ ॥
हुम्फडग्निप्रियान्तोऽयं मन्त्रः सप्तदशाक्षरः ।
नेत्राश्विशरवेदाश्विनेत्रस्वार्णैः स्वजातिभिः ॥ ४ ॥
सदीर्घस्वरनादाद्यं षडङ्गान्यस्त्रमन्त्रतः । अष्टमस्य
तृतीयं तु पञ्चमस्वरसंयुतम् ॥ ५ ॥
षष्ठवर्गाच्चतुर्थं च गायै इत्यक्षरद्वयम् । विद्महे
कामशब्दौ च मालिन्यै चेति धीमहि ॥ ६ ॥
तन्न-अन्ते भवेद् गौरी प्रकारोऽन्ते च चोदयात् । एषा हि
गौरीगायत्री विनियोगोऽर्चनादिषु ॥ ७ ॥
मध्येन दशतालेन गौर्यास्तु प्रतिमा भवेत् । चतुर्भुजा सवरदा
सपाशा साभया?ङ्कुशा ॥ ८ ॥
पीनोत्तुङ्गस्तनी नीलधम्मिल्लमकुटोज्ज्वला । त्रिलोचना स्मितमुखी
मणिकुण्डलमण्डिता ॥ ९ ॥
ग्रैवेयकोल्लसद्धारिहारा सूदरबन्धना ।
हेमाङ्गदोल्लसद्रत्नवलयाङ्गुलिवेष्टना ॥ १० ॥
हेमकाञ्चीपरिलसत्कौशेयवसनोज्ज्वला ।
नखरत्नांशुविलसत्पदाब्जासक्तनूपुरा ॥ ११ ॥
सर्वलावण्यसौन्दर्यसौकुमार्यगुणास्पदा । एवं[ख्:
वंस्वरू]रूपा मनोन्मन्या गौर्यास्तु प्रतिमा भवेत् ॥ १२ ॥
शिलालोहादिविहिता प्रोक्तस्त्रीमानतः क्रमात् । प्रोक्ते विमाने
शैवोक्तमार्गेण स्थापयेच्छिवाम् ॥ १३ ॥
यो यो विशेषः पूर्वोक्तात् तं तमत्र वदाम्यतः ।
षोडशस्तम्भयुक्तः स्यादधिवासनमण्डपः ॥ १४ ॥
धर्मादयोऽन्तश्चत्वारःस्तम्भाः सूर्याश्च बाह्यतः ।
भद्रश्च विजयश्चैव विजृम्भो लोहितस्तथा ॥ १५ ॥
प्रागादितोरणा ज्ञेया जयाद्या द्वारकुम्भगाः । जया च विजया
प्राच्यामजिता चापराजिता ॥ १६ ॥
नित्या विलासिनी शौण्डीं चाघोरा दक्षिणादिषु । कुन्दां च
कुमुदां चैव विद्युन्मालां विभूषणाम् ॥ १७ ॥
कलूषां घोषणीं चैव करालीं विकृतां तथा । द्वे द्वे
द्वार्ध्वजयोर्दूत्यौ यजेत् कुम्भगते क्रमात् ॥ १८ ॥
पुण्याहविकिरक्षेपात् कुम्भास्त्रे प्राग्वदर्चयेत् । वृषारूढां
घटे गौरीं सिंहेऽस्त्रं वर्धनीगतम् ॥ १९ ॥
योषिद्रूपं चतुर्हस्तं शूलटङ्कवराभयैः ।
पीनोत्तुङ्गस्तनं श्यामं भूषितं सत्रिलोचनम् ॥ २० ॥
बद्धचण्डातकं रौद्रं सर्वासुरभयङ्करम् ।
पिङ्गोर्ध्वकेशं नानाहिभूषणं सौम्यभीषणम् ॥ २१ ॥
उमास्रमेवं स्त्रीरूपं तत्पूजाभ्रमणादनु ।
मध्यकुण्डस्थशैवाग्निं नवधा संविभज्य तु ॥ २२ ॥
प्राग्वन्नवसु कुण्डेषु क्षिप्त्वा तस्य हृदम्बुजे । गौरीमावाह्य
मूलाङ्गैर्जुहुयुर्गुरुमूर्तिपाः ॥ २३ ॥
विधायाकारशुद्धिं च प्राग्वन्नयनमोक्षणम् । जलाधिवासनं
ग्रामभ्रमणं स्नपनं तथा ॥ २४ ॥
मण्डपेऽथ ततो वेद्यां शयने पञ्चधास्तृते ।
पञ्चभूतात्मके देवीं शाययित्वाभीपूजयेत् ॥ २५ ॥
रक्तपीताम्बराच्छन्नां ततः कुम्भास्त्रकं न्यसेत् ।
गौरीकुम्भं शिरःस्थाने निद्राकुम्भं च विन्यसेत् ॥ २६ ॥
परितो मूर्तिकुम्भेषु वामाद्याभिस्तु संयुतान् । ब्रह्मादीन् पञ्च
गायत्रीं सावित्रीं च सरस्वतीम् ॥ २७ ॥
पीठे चैव क्रियाशक्तिं बेरे ज्ञानीं च विन्यसेत् ।
त्रिभागेष्वपि च न्यस्येत् तत्त्वं तत्त्वेश्वरान् क्रमात् ॥ २८ ॥
पृथ्व्याद्या मूर्तयः प्राग्वन्मूर्तीशा धारिकादिकाः । पृथक्
क्रमेण हुत्वैभ्यः स्पृशेयुर्गुरुमूर्तिपाः ॥ २९ ॥
ततः प्रातः कूर्मशिलां लग्ने न्यस्येद् यथापुरम् ।
रत्नादिपञ्चवर्गांश्च पीठं चाथ स्वमूलतः ॥ ३० ॥
प्रतिमां स्थापयेद् पीठे हृत्पद्मेऽस्यास्तु चिन्मयम् । कुम्भात्
तच्छक्तिबीजं तु विन्यस्य स्नपयेत् ततः ॥ ३१ ॥
रुद्रेण पवमानैश्च गौरी(रि? मि)त्यादिनापि च । ततो
मूलाङ्गगायत्र्या मन्त्राध्वा स्याच्च तत्पदैः ॥ ३२ ॥
पदाध्वा स्याद् यथापूर्वं शेषाध्वानो यथापुरम् । ततः
प्रधाननिद्राख्यमूर्तिकुम्भाभिषेचिताम् ॥ ३३ ॥
अर्घ्याद्यैस्तु यथापूर्वं पूजयेत् परमेश्वरीम् ।
तद्यथा -
स्नात्वा प्रक्षाल्य चरणावाचम्य सकलीकृत ॥ ३४ ॥
विघ्नं गुरुं च सम्पूज्य सामान्यार्घ्यकरो गुरुः । जया च
विजया द्वारि स्थिते वेत्रकरे भुवि ॥ ३५ ॥
गङ्गा च यमुना चोर्ध्वे द्वारश्रीर्मध्यगोपरि । ता इष्ट्वा
क्षिप्तनाराचः प्रविश्यास्त्रं निधाय च ॥ ३६ ॥
वास्तुब्रह्मासनादीष्ट्वा पञ्चशुद्धीर्विधाय तु ।
मूलाङ्गपूरितार्घ्यः सन् तिलकी पुष्पशेखरः ॥ ३७ ॥
कूर्माधो धारिणीं शक्तिं पीठे शक्त्यासनं तु तत् । हैमं
[हे] सिंहासनं ध्यात्वा पादान् धर्मादिकानपि ॥ ३८ ॥
सत्त्वादिकन्दनालाब्जं सूर्यबिम्बादि[क्: म्बो]कादिकान् [ख्: त्] ।
पत्रादिषु ततः शक्तीर्वामाद्याः केसराग्रगाः ॥ ३९ ॥
मनोन्मनी स्वयं साक्षान्मध्ये गौरी शिवा भवेत् । तन्मूर्तिं
मन्त्रदेहं च चिच्छक्तिं स्वाद्धृदम्बुजात् ॥ ४० ॥
द्वादशान्तगतां प्राग्वन्मूर्तिहृत्पङ्कजे न्यसेत् । स्थापनं
चैव सान्निध्यं सन्निरोधं प्ररोचनम् ॥ ४१ ॥
अमृतीकरणं चावकुण्ठनं हृदयादिभिः । ब्रह्माणि
चेशानादीनि कास्यहृद्दशनाङ्घ्रिषु ॥ ४२ ॥
विन्यसेत् पञ्च शक्तीश्च हृल्लेखां गगनां तथा । रक्तां
करालिकां चापि महोच्छुष्मां च कादिषु ॥ ४३ ॥
ब्रह्मादीन् पञ्च पादादि हृदये च सरस्वतीम् । गायत्रीमपि
सावित्रीं स्तनयोर्विन्यसेत् ततः ॥ ४४ ॥
क्रमादर्घ्यादिभिः सम्यगुपचारैर्यजेच्छिवाम् ।
पत्रेष्वङ्गावृतिं चेष्ट्वा बाह्ये दूत्यष्टकं यजेत् ॥ ४५ ॥
अनङ्गरूपा चानङ्गमदना मदनातुरा । तथा पवनवेगा च ततो
भुवनपालिका ॥ ४६ ॥
स्यात् सर्वशिशिरानङ्गवेदनानङ्गमेखला । इष्ट्वैता
गन्धपुष्पाद्यैर्द्वाःस्थाश्चापि जयादिकाः ॥ ४७ ॥
इन्द्रादील्लोँकपालांश्च वृषभं मुखमण्डपे । वीरं
विघ्नं ततो मातॄः शास्तृस्कन्दौ निशाकरम् ॥ ४८ ॥
निर्माल्यधारिणीमैशे स्थापयेत् सुभगाह्वयाम् । बलिपीठे च
संस्थाप्य दिक्पालेभ्यो जुहोति च ॥ ४९ ॥
द्वितीयेऽह्न्यथ मूलाङ्गैर्गायत्र्या समिदादिभिः ।
अष्टद्रव्यैः शतं मूलेनाङ्गनां तु दशांशतः ॥ ५० ॥
गायत्र्या च शतं गौरीमिमायेत्यादिनापि च । तृतीयेऽह्नि
तिलाज्याभ्यामघोरास्त्राच्छिवास्त्रतः ॥ ५१ ॥
हुत्वा पाशुपतास्त्रेण प्रायश्चित्तैर्जयादिभिः । चतुर्थदिवसे
प्राग्वदिष्ट्वा निर्माल्यधारिणीम् ॥ ५२ ॥
अग्नीनात्मनि संहृत्य स्नापयेत् कलशैः शतैः । दक्षिणाश्च
प्रदेयानि दत्त्वा भूतबलिं निशि ॥ ५३ ॥
विकिरेन्नित्यपूजार्थं विभवं चापि कल्पयेत् । फलं
शिवप्रतिष्ठोक्तं कर्ता सर्वं समश्नुते ॥ ५४ ॥
आवाहनी स्थापनी च निष्ठुरा क्षोभणी तथा । मोहनी
द्रावणी चैव कर्षणी सन्निधापनी ॥ ५५ ॥
वन्दनी च महामुद्रा गौरीमुद्रा दश स्मृताः । अञ्जलिः
पूर्णपुष्पो य उत्तानो द्वादशान्ततः ॥ ५६ ॥
आमूर्तिहृदयानीतो मुद्रा ह्यावाहनी स्मृता । सैव पुष्पं विना
मुद्रा स्मृता स्थापन्याधोमुखी ॥ ५७ ॥
निष्ठुरा चोच्छ्रिताङ्गुष्ठश्लिष्टमुष्टिकरद्वयात् ।
अन्योन्यसम्मुखौ हस्तौ संश्लिष्टौ मुक्ततर्जकौ ॥ ५८ ॥
मध्यमाङ्गुष्ठसंयोगात् क्षोभणी स्यात् प्ररोचनी ।
श्लिष्टाङ्गुष्ठतलौ हस्तौ प्रसृताङ्गुष्ठतर्जकौ ॥ ५९ ॥
कनिष्ठानामिकामध्यासंश्लेषान्मोहनी स्मृता ।
अमृतीकरणं देव्यामोहन्या तु प्रकल्पयेत् ॥ ६० ॥
तथैव श्लिष्टकरयोस्तर्जन्यौ सम्प्रसार्य तु ।
मध्यमाङ्गुष्ठसंयोगाद् द्रावण्यानन्ददायिनी ॥ ६१ ॥
सैव सुश्लिष्टकरयोर्वक्रतर्जाग्रयोगतः । कर्षणी स्यात् तया
देवीं प्रसन्नां परिभावयेत् ॥ ६२ ॥
सैव मध्याग्रतर्जाभ्यां ज्येष्ठिकाद्वयपीडनात् ।
सन्निधानकरी मुद्रा सान्निध्यं कल्पयेत् तया ॥ ६३ ॥
बद्धाञ्जलिपुटौ पाणी सरोजमुकुलोपमौ । वन्दनी नाम मुद्रा
स्यात् सा योज्या वन्दनादिषु ॥ ६४ ॥
अनामिके द्वे तर्जाभ्यामधः पाण्योर्निबद्ध्य तु ।
उत्तानपाणितलयोर्मध्यमे सकनिष्ठिके [न] ॥ ६५ ॥
पार्श्वाभ्यां संहताग्रे स्तामृज्वायतमवस्थिते ।
तदङ्गुष्ठाग्रयुग्मेन कनिष्ठामूलयोः स्पृशेत् ॥ ६६ ॥
एषा गौर्या महामुद्रा दशमी सर्वसिद्धिदा ।
गौरीप्रतिष्ठाधिकारः ।
गौरीनित्योत्सवे देवी स्यात् सुवर्णादिनिर्मिता ॥ ६७ ॥
गौर्यस्त्रमप्यमत्रस्थमावाह्येष्ट्वाग्रतो वहेत् । जयादिकाभ्यो
द्वाःस्थाभ्यो लोकेशेभ्यो वृषाय च ॥ ६८ ॥
गौरीपारिषदे(तन्तं? स्यश्च) सर्वेभ्योऽपि बलिं क्षिपेत् ।
वीरविघ्नेशमातृभ्यः शास्त्रे स्कन्दाय चेन्दवे ॥ ६९ ॥
सुभगायै बलिं क्षिप्त्वा गोपुरद्वारपार्श्वयोः । त्रिशूलिन्यै च
खड्गिन्यै क्षिप्त्वा निष्क्रम्य गोपुरात् ॥ ७० ॥
पीठोपान्ते स्थितोऽनेन मन्त्रेणामन्त्रयेद् गणान् ।
ये समस्तं जगद् व्याप्य चरन्ति बलिकाङ्क्षया ॥ ७१ ॥
गौरीपारिषदाः सर्वे गृह्णन्तूपहृतं बलिम् [क्: म् । त] । ततो
द्वियीयहारायामष्टौ स्युर्गणनायिकाः ॥ ७२ ॥
कराली विकराली चाप्युग्रा वाणी शची तथा । मोहनी चैव
माया च महालक्ष्मीस्तथाष्टमी ॥ ७३ ॥
आसां बलिं क्षिपेच्चाथ बलिपीठाष्टदिक्स्थिताः । ऋद्धिः
स्मृतिर्धृतिः श्रद्धा मेधा कान्तिर्मतिः श्रुतिः ॥ ७४ ॥
आर्या कुमुदके पीठे गौरीसेना च मध्यतः ।
स्वाख्याभिर्विकिरेदासां नमोन्तं बलिमादरात् ॥ ७५ ॥
नित्योत्सवविधिस्त्वेष तुल्यश्च स्यान्महोत्सवे ।
गौरीवाहनसञ्ज्ञस्तु वृषः पूज्यो ध्वजो भवेत् ॥ ७६ ॥
आवाहनं गणादीनां प्राग्वद् गौर्युत्सवे स्मृतम् ।
विशेषस्तु ये भूताःपुरस्सदो गौर्यादिभगवत्यादिभिः
प्रतिदिशं बलिं मण्डले विकीर्य तद्बाह्ये प्रतिदिशं
द्वादशसहस्रपर्षन्नायिकाभ्यो बलिं विकिरेत् । ताश्च
षण्णवतिसङ्ख्याः ।
यथा -
विद्या प्रज्ञा सिनीबाली कुहूर्ह्रीः पुष्टिरेव च ॥ ७७ ॥
रुद्रवीर्या प्रभा नन्दा पोषणी शुभदा क्षमा । इति
प्राच्यामथाग्नेय्यां कालरात्री कपर्दिनी ॥ ७८ ॥
भद्रकाली च विकृतिर्दण्डिनी च कपालिनी । मुसृण्ठिनी
सेन्दुखण्डा निसुम्भमथिनी ततः ॥ ७९ ॥
शिखण्डिनी तथेन्द्राणि रुद्राणी चेति संस्थिताः । नारी
नारायणी भद्रा शङ्करार्धशरीरिणी ॥ ८० ॥
विशालाक्षी समृद्धिश्चेति दक्षिणे ॥ ८१ ॥
बुद्धिर्वृद्धिः स्वधा स्वाहा मायाभिख्या वसुन्धरा ।
त्रिलोकधात्री जगती बृहती त्रिदशेश्वरी ॥ ८२ ॥
अरुणा चेति नैर्-ऋत्यां नायिका द्वादश स्थिताः । सुरुचा
बहुरूपा च स्कन्दसेना च वारुणी ॥ ८३ ॥
अमला विमला ख्यातिः प्रकृतिर्विकृतिः स्थितिः । सृष्टिः
सन्ध्या च वारुण्यां नायिका द्वादश स्थिताः ॥ ८४ ॥
संहृतिश्च जगन्माता सती चैव च हंसिनी । देवमाता
वज्रिणी च मर्दनी भगवत्यपि ॥ ८५ ॥
पद्मासना देवकी च त्रिमुखी च चतुर्मुखी । गौरीपारिषदा
मुख्या वायव्यां द्वादश स्थिताः ॥ ८६ ॥
सप्तानना चाष्टमुखी देवासुरविमर्दिनी । लम्बोष्ठी
लम्बकेशी चाप्यूर्ध्वकेशी महोदरी ॥ ८७ ॥
रेखा च शशरेखा च विश्वरूपा कृशोदरी । धनदा
चेतिर्कौबेर्यां नायिका द्वादश स्थिताः ॥ ८८ ॥ सुररक्षणिका
चार्या वागीशी * * * * * । * * व्रता वज्रवेगा वायुवेगा
महेश्वरी ॥ ८९ ॥
ऐशानी ज्वलिनीसञ्ज्ञा शाङ्करी चेति नायिकाः ।
द्वादशैताः स्युरैशान्यां गौरीपारिषदाः स्थिताः ॥ ९० ॥
एताः पृथक् परिषदां सहस्रैः परिवारिताः ।
जगत्संहृतिसम्भूतिस्थित्यनुग्रहहेतवः ॥ ९१ ॥
सर्वासामपि चैतासां शुक्लान्नगुलपायसैः ।
घृतक्षौद्रप्लुतैर्दद्याद् बलिं भक्त्या तु देशिकः ॥ ९२ ॥
ततः शैवोक्तमार्गेण तीर्थस्नानं समाचरेत् ।
मूलाङ्गैर्वैदिकैर्मन्त्रैर्यजेच्च सविशेषकम् ॥ ९३ ॥
स्नपयेच्च सहस्रादिकलशैरुपपत्तितः । शिवगौरी चैकगौरी
स्थिरगौरी द्विधा स्मृता ॥ ९४ ॥
पत्नीत्वेन शिवस्यैव स्थिरलिङ्गगतस्य या । प्रतिष्ठिता समीपे
तु शिवगौरी स्मृता हि सा ॥ ९५ ॥
गौरी सभूतैर्देवैर्वा मुनिभिर्वाथ मानवैः । स्थिरलिङ्गं
विना सा चेदेकगौरी प्रतिष्ठिता ॥ ९६ ॥
न पृथक्छिवगौर्यास्तु प्रशस्तः स्यान्महोत्सवः । शिवोत्सवे
महेशेन यात्रा तस्याः प्रशस्यते ॥ ९७ ॥
नित्योत्सवान्ता(पूजान्तात्?) पूजा स्याच्छिवगौर्या यथाविधि ।
एकगौर्याः स्वतन्त्रस्तु पृथक् कार्यो महोत्सवः ॥ ९८ ॥
इत्थं गौरीं प्रतिष्ठाप्य यथाविभवमादरात् ।
कल्पयन्त्युत्सवान्तां ये नित्यपूजां यथाविधि ॥ ९९ ॥
न तेषां शक्यते वक्तुं पुण्यं युगशतैरपि ।
यद्यदिष्टतमं लोके दृष्टादृष्टफलं महत् ॥ १०० ॥
तत् तत् सर्वमयत्नेन लभन्ते कर्तृपूर्वकाः ।
निगदितमिह गौर्यास्तन्त्रमेतत् समासा- ल्ललितमपि च बिम्बं
भानुतन्त्रं च दृष्ट्वा । विविधमिह विधिशैर्यत्
प्रतिष्ठादिकृत्यं सकलमपि तदूह्यं प्रोक्तशैवानुसारात् ॥
१०१-१।२ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
क्रियापादे गौरीतन्त्रपटलः षट्पञ्चाशः ॥