५५

अथ पञ्चपञ्चाशः पटलः ।

अथ दुर्गाप्रतिष्ठाद्यं कथ्यन्ते तन्त्रचोदितम् ।
शैवोदितक्रियाचक्रं प्रायस्तुल्यमिहापि हि ॥ १ ॥

दुर्गामूलाङ्ग[मूलं हि म]मन्त्रादेरुद्धारोऽपि च कथ्यते ।
तारं च शक्तिबीजं च [ख्: च दुर्गामन्त्रो नवाक्षरः]
पञ्चमस्य तृतीयकम् ॥ २ ॥

पञ्चमस्वरयुग् दण्डी ततस्तद्बिन्दुवर्जितम् । खान्तं
लिपिसदीर्घं [क्: रेपि] च द्वादशस्वरवान् मरुत् ॥ ३ ॥

नमश्च शक्तिबीजं च दूर्गामन्त्रो नवाक्षरः । दीर्घैः
स्वरैर्युतो नादः साग्निर्युक्तो हृदादिभिः ॥ ४ ॥

चतुर्थ्या जातियुक्तानि षडङ्गान्यस्त्रमन्त्रतः । तद्गायत्री तु
पूजायां शक्तितारद्वयादिका ॥ ५ ॥

तारं कात्यायनीशब्दश्चतुर्थ्यन्तश्च विद्महे ।
कन्याकुमार्यैशब्दान्ते धीमहीति पदं भवेत् ॥ ६ ॥

तन्नः पदद्वयान्ते स्याद् दुर्गा प्रेति च चोदयात् । एषा हि
दुर्गागायत्री पूजयेदनया शिवाम् ॥ ७ ॥

जातवेदस इत्याद्या ऋगाद्याथ ततः परम् ।
तामग्निवर्णामग्नेत्वंविश्वानीत्यादिका ततः ॥ ८ ॥

पृतनाजितमित्याद्या ऋग् दुर्गा पञ्चमी भवेत् । एवमुक्तस्तु
मन्त्राध्वा दुर्गायास्तन्त्रचोदितः ॥ ९ ॥

चतुर्भुजा वाष्टभुजा स्यात् षोदशभुजाथवा । सिंहासने वा
स्वासीना स्थिता वा महिषोपरि ॥ १० ॥

प्रतिष्ठाप्या भवेद् दुर्गा भीत्यादौ सिंहगाथवा ।
वरदाभयशङ्खारिहस्ता दुर्गा चतुर्भुजा ॥ ११ ॥

वामतस्तर्जनीचापचर्मशन्खांस्तु बिभ्रती ।
शूलेषुखड्गचक्राणि दक्षिणेऽष्टभुजा यदा ॥ १२ ॥

कपालं चाङ्कुशगदे शतघ्नीप्रासकौ धनुः । चर्म शङ्खं
तथा वामे बिभ्रतीमथ दक्षिणे ॥ १३ ॥

शूलपाशाग्निवज्राणि तोमरं शरमप्यसिम् । चक्रं
चाधःकराद्यं तु कुर्याद् द्व्यष्टभुजा यदा ॥ १४ ॥

मध्येन दशतालेन बेरं स्त्रीमानतो भवेत् । मण्डपे तोरणाः
कार्याः प्राग्वत् क्षीरतरूद्भवाः ॥ १५ ॥

प्रागाद्यासु चतुर्दिक्षु यज्ञेशश्च प्रभाकरः । मङ्गलश्च
सुभद्रश्च स्थाप्या वेदादिभिः क्रमात् ॥ १६ ॥

तोरणाभ्यन्तरे द्वौ द्वौ वा ध्वैजा? तद्दवता अपि ।? कुन्दा च
कुमुदा चैव विद्युन्माला च भीषणा ॥ १७ ॥

कलुषी घोषणी चैव कराली विकृतिस्तथा । पूज्याः
स्युस्तत्पताकासु शङ्खाद्य(त्रै? स्त्रै)स्तु चिह्नयेत् ॥ १८ ॥

सितारुणासितश्याम[मा]धूम्रपीताश्च कर्बुराः । मिश्रा[क्:
श्र]श्चाथ प्रतिद्वारं द्वे द्वे दूत्यौ क्रमेण तु ॥ १९ ॥

काली कराली विरजा मन्दरा विन्ध्यवासिनी । सुप्रभा
सिंहवक्त्रा चाप्यष्टमी दैत्यमर्दनी ॥ २० ॥

खड्गखेटधराः सर्वा भूषिताः कुम्भगा यजेत् । ततो
विकिरविक्षेपात् कुम्भे सिंहगतां शिवाम् ॥ २१ ॥

अस्त्रं चाभ्यर्च्य वर्धन्यां कृत्वा चाकारशोधनम् ।
नेत्रमोक्षं जले वासं प्राग्वद् ग्रामप्रदक्षिणम् ॥ २२ ॥

स्नपनं चाधिवासार्थं मण्डपे शयनक्रियाम् । वेद्यां
कुम्भास्त्रनिद्राख्यमूर्तिकुम्भाष्टकार्चनम् ॥ २३ ॥

आत्मादितत्त्वब्रह्मादिविभागेषु न्यसेदथ । मूर्तीश्च
क्ष्मादिकास्त्वष्टौ मूर्तीशा धारिकादिकाः ॥ २४ ॥

धारिका दीप्तिमत्युग्रा ज्योत्स्ना चिच्च बलोत्कटा । धात्री
विभुश्च ज्ञानीं तु मूर्तौ पीठे क्रियां न्यसेत् ॥ २५ ॥

प्राग्वन्नवसु कुण्डेषु मान्त्रिकेऽग्नौ विभाजिते । आवाह्य
दुर्गामूलाङ्गैरात्मतत्त्वादिभिः क्रमात् ॥ २६ ॥

प्राग्वद्धुत्वा संस्पृशेयुः साचार्या मूर्तिसाधकाः । अथ
प्रतिष्ठां लग्ने तु कुर्याद् युक्तपदे गुरुः ॥ २७ ॥

सप्तसप्तपदे गर्भे ब्रह्मादिषु पदेषु वै । शैलीं रत्नमयीं
लौहीं दुर्गां तु शिववन्न्यसेत् ॥ २८ ॥

मृन्मयीं दैविके तद्वद् दारवीमथ मानुषे ।
भित्तावालेख्यगां दुर्गां प्रतिष्ठाप्य स्थिरं यजेत् ॥ २९ ॥

लग्ने कूर्मशिलायां तु शक्तिमाधारसञ्ज्ञिताम् ।
रत्नादिपञ्चवर्गांश्च न्यसेत् पीठं तथोपरि ॥ ३० ॥

पीठमध्ये क्रियाशक्तिं पीठे बेरं च विन्यसेत् । बेरे
ज्ञानात्मिकां मूर्तिं हंसं बीजं च तद्धृदि ॥ ३१ ॥

स्वहृदम्भोजकुहरात् कुण्डलिन्या [गाम्] समुद्गताम् । उत्थाप्य
चिन्मयीं शक्तिं हंससम्पुटमध्यगम् [क्: त] ॥ ३२ ॥

शक्तिबीजं ब्रह्मनाडीपदेनोर्ध्वं खपङ्कजे ।
योजयेन्निष्कलान्तं तन्मन्त्रमुच्चारयन् सुधीः ॥ ३३ ॥

तस्माच्छाक्तं परं ज्योतिर्निष्कलान्तमुदीरयन् । आनीय
पुष्पाञ्जलिना मूर्तिहृत्पङ्कजे न्यसेत् ॥ ३४ ॥

इत्थमावाह्य संस्थाप्य स[क्: त]न्निरोध्य च मूलतः ।
सन्निधाप्यामृतीकृत्य चावकुण्ठ्य प्रचोच्य च ॥ ३५ ॥

स्वमूलाङ्गानि गायत्री पञ्च दुर्गाणवस्तथा । मन्त्राध्वा
स्यात् पदाध्वा च पञ्चदुर्गापदैर्मतः ॥ ३६ ॥

शेषाध्वानो यथापूर्वं सर्वांस्तांस्तत्र भावयेत् । ततः
प्रक्षाल्य सलिलैर्मूर्तिकुम्भास्त्रवारिभिः ॥ ३७ ॥

अभिषिच्य यथापूर्वमर्घ्याद्यैरभिपूजयेत् ।

तद्यथा -

स्नात्वा क्षालितपाण्यङ्घ्रिर्विघ्नेशमभिपूज्य तु ॥ ३८ ॥

आत्मशुद्धिं विधायाथ सकलीकृतविग्रहः । सामान्यार्घ्यकरो
द्वारि जयां च विजयामपि ॥ ३९ ॥

गङ्गां च यमुनां द्वारश्रियं चोपरि पूजयेत् ।
पार्ष्णिघातादिभिर्विघ्नान् भौमादीनपसार्य तु ॥ ४० ॥

नाराचास्त्रं क्षिपेदन्तः प्रविश्यास्त्रं निधाय च । बाह्ये तु
शस्त्रप्राकारं वर्मणा चावकुण्ठनम् ॥ ४१ ॥

विधाय मध्ये वास्त्वीशं ब्रह्माणं स्वासनं यजेत् । उपविष्टो
विशेषार्घ्यात् पञ्च शुद्धिर्विधाय च ॥ ४२ ॥

कृत्वा ललाटे तिलकं पुष्पालङ्कृतमस्तकः । अथो मध्ये
प्रकृत्यै (च) ततो वज्रासनाय च ॥ ४३ ॥

इति सिंहासनं हैमं नमोन्तमभिपूज्य तु । आर्यां च प्रलयां
चापि महाप्रलयकामपि ॥ ४४ ॥

सृष्टिं चाग्न्यादिपादांस्तु दिक्ष्वथैषां प्रपूजयेत् ।
अव्यक्तं नियतिं कालं कलां चैन्द्रादिषु क्रमात् ॥ ४५ ॥

त्रिगुणैः कन्दनालाब्जसूर्यसोमाग्निबिम्बकान् ।
ब्रह्मविष्णुहरव्याप्तपत्रकेसरकर्णिकाः ॥ ४६ ॥

प्रभां मायां जयां सूक्ष्मां विशुद्धां नन्दिनीमपि ।
सुप्रभां विजयां दिक्षु मध्यतः सर्वसिद्धिदाम् ॥ ४७ ॥

दीर्घस्वरादिस्वाख्याभिर्नमोन्तैस्तु क्रमाद् यजेत् ।

केसराग्रेषु मध्ये चेति यावत् ।

ततस्तु मूर्त्तिं दुर्गायाः शक्तिदेहं च मूलतः ॥ ४८ ॥

हृदयादिकमावाह्य ततो देवीं हृदम्बुजात् ।
व्योमाम्बुजसुधासा[क्: ध्रा]रचैतन्यपरिबृंहिताम् ॥ ४९ ॥

निष्कलान्तोक्तबीजेन मूर्तावावाह्य देशिकः ।
स्थापनाद्यैर्यथापूर्वममृतिकरणान्तकम् ॥ ५० ॥

कृत्वा यथोदितां ध्यात्वा तद्गायत्र्या हृदाद्यया ।
अर्घ्याद्यैरुपचारैस्तु यथापूर्वं यजेच्छिवाम् ॥ ५१ ॥

भोगार्थमङ्गान्यङ्गेभ्यः कोणेष्वस्त्रं चतुर्दिशम् ।
पीठप्रान्तेऽब्जबाह्ये तु शङ्खाद्यस्त्राण्यपि क्रमात् ॥ ५२ ॥

याद्यष्टार्णैस्तु बिन्द्वन्तैरादावायोज्य पूजयेत् । नैवेद्यान्तं
ततो दिक्षु मन्त्रैर्लोकेशदैवतैः ॥ ५३ ॥

हुत्वा द्वितीयदिवसे समिदाज्यचरूंस्तिलान् । लाजान् व्रीहींश्च
सिद्धार्थान् पायसं च पृथक् पृथक् ॥ ५४ ॥

अष्टोत्तरशतं हुत्वा मूलेनाङ्गैर्दशांशतः । तृतीयदिवसे
पञ्चदुर्गाभिर्जुहुयाद् घृतम् ॥ ५५ ॥

चतुर्थे सिंहगामैशे यजेन्निर्माल्यधारिणीम् । लोकपालांस्तथा
सिंहं मातॄः स्वाशासु विन्यसेत् ॥ ५६ ॥

बलिपीठं च तत्रस्थान् दैवतानभिपूज्य तु ।
अष्टोत्तरशतेनापि स्नपयित्वा तु पूर्ववत् ॥ ५७ ॥

मन्त्रैस्तु वैदिकैस्तैस्तैः शैवस्नपनचोदितैः । गायत्र्या
पञ्चदुर्गाभिर्मध्यमेनाभिषेचयेत् ॥ ५८ ॥

निशि भूतबलिं दत्त्वा दक्षिणाश्च प्रदाय तु । विभवं चापि
सङ्कल्प्य नित्यपूजादिसिद्धये ॥ ५९ ॥

फलं तु कर्ता पूर्वोक्तमिह चामुत्र विन्दति ।
त्रिष्टुप्प्रभृतिकान् दौर्गान् वनदुर्गादिकांस्तु वा ॥ ६० ॥

दुर्गामन्त्रान् साधयन्ति यथोक्तान् पूर्वपद्धतौ ।
तत्तद्विधानतस्त्वेवं प्रतिष्ठाप्य यजन्ति चेत् ॥ ६१ ॥

तत्तत्कल्पोदितां सिद्धि ते ते विन्दन्त्ययत्नतः ।

दुर्गाप्रतिष्ठाधिकारः ।

नित्योत्सवे तु दुर्गायाः पूर्वादिद्वारपालिकाः ॥ ६२ ॥

जया च विजया रौद्री भीषणी शूलिनी प्रभा । अपराजिता
जयन्ती च कन्या वेत्रासिधारिकाः ॥ ६३ ॥

ताभ्यः क्षिप्त्वा बलिं लोकपालेभ्यः स्वस्वगोचरे ।
दुर्गापारिषदे चेति सर्वत्रायोज्य निक्षिपेत् ॥ ६४ ॥

सिंहाय मण्डपे वज्रनखदंष्ट्रायुधाय ते । महासिंहाय
हूं स्वाहा नमश्चेति बलिं क्षिपेत् ॥ ६५ ॥

विघ्नेशवीरमातृभ्यः शास्त्रे स्कन्दाय चेन्दवे । स्वाशासु
निक्षिपेच्चैवं सिंहिकायै बलिं क्षिपेत् ॥ ६६ ॥

निर्माल्यधारिणी सिंहिकेति यावत् ।

ह्रादिन्यै चापि मादिन्यै द्वार्यन्तर्गोपुरस्य तु ॥ ६७ ॥

कात्यायन्यै च चण्डायै गोपुरद्वारि बाह्यतः । अथ
पीठाग्रतः स्थित्वा मन्त्रमेनमुदीरयेत् ॥ ६८ ॥

ये समस्तं जगद् व्याप्य चरन्ति बलिकाङ्क्षया ।
दुर्गापारिषदाः सर्वे गृह्णन्तूपहृतं बलिम् ॥ ६९ ॥

ततो द्वितीयहारायां दिक्ष्वष्टौ कालिकादिकाः । काली कराली
विरजा मन्दरा विन्ध्यवासिनी ॥ ७० ॥

सुप्रभा सिंहवक्त्रा चाप्यष्टमी दैत्यमर्दनी । ताभ्यो बलिं
विकीर्याथ बलिपीठेऽथ निक्षिपेत् ॥ ७१ ॥

ब्रह्मघोषा सुघोषा च कुमारी वरवर्णिनी । आर्या च
हेमवर्णा च कृत्तिका चाभयप्रदा ॥ ७२ ॥

प्रागाद्याशास्थिता ह्यष्टौ ब्राह्मी कुमुदके स्थिता । दुर्गासेना
पीठमध्ये चासां तस्यै बलिं क्षिपेत् ॥ ७३ ॥

नित्योत्सवे विधिस्त्वेष स्यात् तुल्यश्च महोत्सवे । विशेषस्तु ध्वजे
लेख्यः सिंहः पूज्यश्च मन्त्रतः ॥ ७४ ॥

तथा तृतीयहारायामष्टावष्टौ तु कन्यकाः । स्थिताः
प्रतिदिशं ताश्च सहस्रगणनायिकाः ॥ ७५ ॥

सौम्या भद्रा जया नन्दा कुन्दा च कुमुदा द्युतिः । विद्युन्माला च
पूर्वस्यामथाग्नेय्यां महाबला ॥ ७६ ॥

बला च सुबला वाला चाबला भीषणा रतिः । कलुषा चेत्यथो
याम्ये घोषणी नन्दनी स्मृतिः ॥ ७७ ॥

युद्धप्रिया देवसिद्धपूजिता विकृतिः कृतिः ।
सप्तैतास्त्वष्टमी चास्यां महासुरविमर्दनी ॥ ७८ ॥

विकराली पालिनी च शूलकात्यायनी ततः । महायोगेश्वरी
गौरी चण्डा चण्डी च खड्गिनी ॥ ७९ ॥

नैर्-ऋत्यामथ वारुण्यां ह्रादिनी क्षेमकारिका । आर्या भद्रा
भद्रकाली वारुणी चामृताम्बिका ॥ ८० ॥

अथ क्षेम्या वेदगर्भा चानन्ता सर्वनिष्कला । शान्तिश्च
भैरवी प्राणा चेतना वायुगोचरे ॥ ८१ ॥

ऋद्धिर्लक्ष्मीस्तथा तुष्टिः पुष्टिः कीर्तिर्घनेश्वरी ।
अद्भुता च मदा चाष्टौ कौबेर्यां दिशि नायिकाः ॥ ८२ ॥

श्रुतिः स्मृतिस्तथा नीतिर्भीमा च ब्रह्मचारिणी । नीलाम्बरा
शूलिनी चाप्यष्टमी स्यात् सरस्वती ॥ ८३ ॥

ऐशभागे स्थितास्त्वेताः सर्वासां विकिरेद् बलिम् । एतासां
बाह्यतो दिक्षु गणेभ्यः पूर्ववद् बलिम् ॥ ८४ ॥

ऐन्द्र्यां दिशि गणा ये तु वज्रहस्ता महाबलाः । इत्यादिभिः
क्रमान्मन्त्रैः पूर्वोक्तैर्विकिरेद् बलिम् ॥ ८५ ॥

शैवोत्सवोक्तं यत् कर्म तदत्रापि समूहयेत् । मन्त्राणां
दैवतानां च भेदः कश्चिद् भवेदिह ॥ ८६ ॥

तीर्थस्नानं यथापूर्वं सङ्कल्प्य तु समाचरेत् । चैत्रे मासे
तु चित्रा(तु? यां) वैशाखे च विशाखभे ॥ ८७ ॥

आषाढे पूर्वफल्गुन्यां श्रावणे कृत्तिकासु च ।
महानवम्यां शरदि पौर्णमास्यां च कार्त्तिके ॥ ८८ ॥

पुष्यमासस्य पुष्ये चाप्युत्तरायां च फाल्गुने । उत्सवश्च तदा
कार्यो दुर्गायास्तुष्टये नृभिः ॥ ८९ ॥

इत्थं दुर्गां प्रतिष्ठाप्य भक्त्या पूजयतां सताम् ।
दृष्टादृष्टफलं सर्वमभीष्टं सुलभं भवेत् ॥ ९० ॥

इतीदं हि दौर्गं समासेन तन्त्रं स्मृतं पावने यच्च
देवोद्भवोक्तम् । प्रतिष्ठादिकृत्यं क्रमादुत्सवान्तं समस्तं
तदुक्तं हि शैवानुसारात् ॥ ९१ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
क्रियापदे दुर्गातन्त्रपटलः पञ्चपञ्चाशः ॥