अथ चतुष्पञ्चाशः पटलः ।
हरनारायणस्याथ प्रतिष्ठाद्यं निगद्यते । मन्त्रश्च वान्तो
बिन्द्वन्तो ब्रह्माथाग्निश्च पञ्चमात् ॥ १ ॥ अन्तो दीर्घः
सदीर्घोऽग्निर्वायुस्तादिश्च दीर्घयुक् । नमोन्तस्तु दशार्णः
स्यात् तारशक्तिरवादिकः ॥ २ ॥
त्रयोदशाक्षरो ह्यस्यच्छन्दोऽतिजगती मतो । ऋषिर्ब्रह्मास्य
दैवं तु देवो हरेहरिः स्वयम् ॥ ३ ॥
दीर्घस्वरैः शक्तिबीजं नामजातियुतं च तत् । हृदाद्यङ्गानि
षट् तेन शस्त्रान्तानि तु कल्पयेत् ॥ ४ ॥
तान्यङ्गुलीषु शैवोक्तक्रमाद् विन्यस्य मूलतः । व्यापकं च
हृदादीनि स्वे स्वे स्थाने क्रमान्न्यसेत् ॥ ५ ॥
तारं च शङ्करायाथ विद्महे तदनन्तरम् । नारायणाय
तस्यान्ते धीमहे तच्च नःपदम् ॥ ६ ॥
पुरुषश्च ततः प्रेति चोदयात्पदमन्ततः । हरनारायणस्यैवं
गायत्री यजनोचिता ॥ ७ ॥
शक्तिश्रीकामबीजानि मूलस्यादौ नियोज्य तु । सर्वभूतात्मने
चान्ते नमः स्याद् यजने मनुः ॥ ८ ॥
ईशादिकानि ब्रह्माणि मूर्धाद्यङ्घ्र्यन्तकं न्यसेत् । स्वे स्वे
स्थाने हरार्धे च वासुदेवं तथान्यतः ॥ ९ ॥
सङ्कर्षणं च प्रद्युम्नमनिरुद्धं च केशवम् ।
मूर्धास्यहृत्सुगुह्याङ्घ्र्योर्हरेरर्धं न्यसेत् क्रमात् ॥ १० ॥
शैवोक्तं तु क्रियाचक्रमत्रापि प्रायशः समम् । विशेषः
कथ्यते तत्राप्यधिवासनमण्डपम् ॥ ११ ॥
प्रागादितोरणाः पूज्याः शैववैष्णवनामभिः ।
शान्तिभूतिबलारोग्यास्तोरणे दक्षिणार्धगाः ॥ १२ ॥
सुशोभनः सुभ्रद्रश्च सुपूर्णः पूर्ण एव च । तोरणानां तु
वामार्धे पूजनीयाः स्वनामभिः ॥ १३ ॥
प्रतिद्वारं तु कुम्भस्थाश्चत्वारो द्वारपालकाः । प्राच्यां
नन्दीशपूर्णौ च महाकालश्च पुष्करः ॥ १४ ॥
भृङ्गीशनन्दनौ याम्ये विघ्नेशो नन्दनस्तथा । पश्चाद् वृषो
वीरसेनः षण्मुखश्च सुषेणकः ॥ १५ ॥
दूर्गा च सम्भवश्चोदक् चण्डश्च प्रभवस्तथा ।
विकिरक्षेपपूर्वं तु कुम्भे हरहरिं यजेत् ॥ १६ ॥
शूलं चक्रं च वर्धन्यामिष्ट्वा स्वीकृत्य मण्डपम् ।
मध्यकुण्डानलं प्राग्वन्नवधा संविभज्य तु ॥ १७ ॥
पूर्वद्रव्यैः स्वमूलाङ्गैर्जुहुयुर्गुरुमूर्तिपाः ।
मन्त्रसन्तर्पणं कृत्वा कुर्याच्चाकारशोधनम् ॥ १८ ॥
नेत्रमोक्षं जलेवासं तथा ग्रामप्रदक्षिणम् । स्नपनं च
यथा पूर्वं मण्डपे शयनं तथा ॥ १९ ॥
वेद्यां कुम्भास्त्रविद्येशसाष्टमूर्तिघटान् यजेत् ।
तद्यथा -
सानन्तां पृथिवीं सूक्ष्मयुक्ताम्भश्च शिवोत्तमम् ॥ २० ॥
साग्निं चैकाक्षवायू च ततः खं च शिखण्डिनम् ।
श्रीकण्ठं च मनोयुक्तं त्रीमूर्तिं बुद्धिसंयुतम् ॥ २१ ।
एकरुद्रमहङ्कारयुक्तं शैवोदितक्रमात् । इत्थमभ्यर्च्य
कुम्भांस्तु न्यसेत् तत्त्वादिकं ततः ॥ २२ ॥
आत्मादीनि त्रितत्त्वानि जानुकण्ठशिरोवधि । ब्रह्मादीनपि
तत्त्वेशान् मूर्तीः पृथ्व्यादिका रविम् ॥ २३ ॥
सोमं च यजमानं च मनश्चाहङ्कृतिं धियम् । प्रकृतिं चेति
भागेषु मूर्तिद्वादशकं न्यसेत् ॥ २४ ॥
शर्वादींश्चाष्टमूर्तीशान् वासुदेवादिकानपि । विद्येश्वरीं
शिवां सूक्ष्मां शाङ्करीं हरिवल्लभाम् ॥ २५ ॥
वैष्णवीं च महालक्ष्मीं क्षमां नारायणीं तथा ।
सामान्यशक्तयो ह्येता हरनरायणस्य याः ॥ २६ ॥
वामाद्या नवशक्तीश्च विमलाद्यास्तथा न्यसेत् । विमलोत्कर्षणी
ज्ञाना क्रिया योगा तथैव च ॥ २७ ॥
सत्या पृथ्वी तथेशानानुग्रहा नवमी स्मृता । विन्यस्यैवं तु
सम्पूज्य ध्यात्वा तु सकलं विभुम् ॥ २८ ॥
क्रियाशक्तिं तथा पीठे विनिधायाभिपूजयेत् । तत्रैव
धारिकाद्याश्च शक्तीरष्टौ यजेदपि ॥ २९ ॥
नवकुण्डेषु हुत्वैवं तत्त्वतत्त्वेश्वरादिभिः । मूलाङ्गैरपि
गायत्र्या शैवोक्तेन क्रमेण तु ॥ ३० ॥
मन्त्रसन्तर्पणं कृत्वा शान्तिकुम्भेषु पातयेत् । आचार्यो
मूर्तिपाश्चैव संस्पृशेयुः क्रमात् त्रिधा ॥ ३१ ॥
सर्वं शैवप्रतिष्ठावद् द्रव्यमन्त्रक्रियादिकम् । अत्रापि
तुल्यमूह्यं स्यादशेषेण तु देशिकैः ॥ ३२ ॥
अथ लग्ने प्रविश्यान्तः प्राग्वत् कूर्मशिलां न्यसेत् । तस्यां च
धारिणीं शक्तिं तत्त्वतत्त्वेश्वरादिभिः ॥ ३३ ॥
रत्नादिपञ्चवर्गांश्च तदूर्ध्वं तु यथापुरम् । विन्यस्य
पीठं तत्स्थां च क्रियाशक्तिं च शक्तिभिः ॥ ३४ ॥
लग्ने देवं प्रतिष्ठाप्य ज्ञानशक्त्यात्मकं विभुम् ।
मूलेनावाह्य तन्मूर्तिं मन्त्रदेहं च भावयेत् ॥ ३५ ॥
तथैव विमलं ज्योतिस्तस्यैव हृदयाम्बुजे । प्रोक्तत्रिबीजपुटितं
हंसं स्वहृदयाम्बुजात् ॥ ३६ ॥
नीत्वा व्योमाब्जचैतन्यं मूर्तिहृत्पङ्कजे न्यसेत् । ततः
प्रक्षाल्य संस्नाप्य वेदिकुम्भास्त्रवारिभिः ॥ ३७ ॥
अनन्ताद्यष्टकुम्भैश्च ततो न्यस्येत् षडध्वनः ।
स्वमूलाङ्गैः स्वगायत्र्या ब्रह्मभिः प्रणवादिभिः ॥ ३८ ॥
नमोभगवतेयुक्तैर्वासुदेवादिनामभिः । चतुर्थ्यन्तैस्तु निर्दिष्टो
मन्त्राध्वाथ पदैरपि ॥ ३९ ॥
गायत्र्यास्तु पदाध्वा स्याच्छेषाध्वानो यथापुरम् । ततः
स्थिरादिभिर्मन्त्रैर्हुत्वा स्पृष्ट्वाथ पूजयेत् ॥ ४० ॥
आसनादिक्रमेणोक्तैरुपचारैर्यथाक्रमम् ।
तद्यथा -
विद्येश्वरं गुरुं चेष्ट्वा सकलीकृत्य विग्रहम् ॥ ४१ ॥
सामान्यार्घ्यकरो द्वारस्योर्ध्वोदुम्बरपार्श्वयोः । विघ्नं
सरस्वतीं गङ्गां यमुनां मध्यतः श्रियम् ॥ ४२ ॥
नन्दीशं चैव चण्डं च द्वाःस्थौ द्वारोत्तरस्थितौ ।
महाकालं प्रचण्डं च यजेद् द्वारस्य दक्षिणे ॥ ४३ ॥
नाराचास्त्रं क्षिपेच्चान्तः प्रविश्यास्त्रं निधाय च ।
वास्त्वीशं वेधसं मध्ये तथानन्तासनं यजेत् ॥ ४४ ॥
पञ्चशुधीर्विधायाथ तिलकीपुष्पशेखरः ।
मूलाङ्गैरर्घ्यमापाद्य जलक्षीरकुशाक्षतैः ॥ ४५ ॥
यवचन्दनसिद्धार्थैः पुष्पैरपि च पूजयेत् ।
तत्प्रोक्षितात्मद्रव्यादिरस्त्रप्राकाररक्षितः ॥ ४६ ॥
आधारशक्तिं कूर्मं चाप्यनन्तासनमेव च ।
धर्मादीनप्यधर्मादीन् मायां विद्याअं गुणत्रयम् ॥ ४७ ॥
प[क्: पा]त्रादिव्याप्तसूर्यादिबिम्बाद्यष्टदलाम्बुजम् । द्वे द्वे
केसरयोः शक्तीर्वामाद्या विमलादिकाः ॥ ४८ ॥
ॐ वामाविमलाभ्यां नम इति पूर्वदलकेसरादिषु ।
पूर्वादिक्रमतो मध्ये मनोन्मन्यात्वनुग्रहात् (?) । तत्कर्णिकायां
तन्मूर्तिं विद्यामन्त्रतनुं तथा ॥ ४९ ॥
इष्ट्वा हृदम्बुजात् प्राग्वद् ब्रह्मज्योतिः शिवात्मकम् ।
आवाहनस्थापने च सान्निध्यं सन्निपातनम् ॥ ५० ॥
प्ररोचनामृतीकारौ कुर्यादप्यवगुण्ठनम् । तन्मूलाङ्गैश्च
गायत्र्यासकलीकृत्य तु क्रमात् ॥ ५१ ॥
ध्यायेच्चतुर्भुजं देवं हरनारायणं विभुम् । दक्षिणे
शूलटङ्कौ च शङ्खचक्रे च वामतः ॥ ५२ ॥
बिभ्राणं वा कपालं च शूलमब्जं सुदर्शनम् ।
दक्षिणेतरयोश्चर्म वैयाघ्रं पीतमम्बरम् ॥ ५३ ॥
वसानं नैकनागार्धहारिहारविराजितम् ।
तथाहिमकराकारकुण्डलं सुन्दराननम् ॥ ५४ ॥
सकपर्दकिरीटं सचन्द्रचूडामणिं विभुम् ।
सबिल्वदलनीलाब्जसरोजतुलसीस्रजम् ॥ ५५ ॥
नानाभुजङ्गरत्नाढ्यमुद्रिकाकङ्कणाङ्गदम् ।
अर्धनीलगलोल्लासिनैकाहिमणिभूषणम् ॥ ५६ ॥
साहिहेमोदराबद्धकटिसूत्राङ्घ्रिभूषणम् ।
भस्माङ्गरागोल्लसितं हरिचन्दनचर्चितम् ॥ ५७ ॥
रौद्ररम्याकृतिं सर्वशोभातेजोनिधिं विभुम् ।
दक्षिणेतरपार्श्वस्थपार्वतीश्रीविराजितम् ॥ ५८ ॥
एवंरूपं हरहरिमुपचारैर्यजेत् क्रमात् । अङ्गैश्च
शक्तिभिश्चाष्टमूर्तीशैर्द्वारपालकैः ॥ ५९ ॥
प्रागुक्तैरथ लोकेशैरिष्ट्वावरणपञ्चकम् । सम्पूज्यैवं
हरहरिं हुत्वा च समिदादिभिः ॥ ६० ॥
जुहुयुश्च द्वितीयेऽह्नि तृतीये त्र्यम्बकेन च । विष्णोर्नुकादिना
चापि मूलाङ्गाद्यैर्यथाक्रमम् ॥ ६१ ॥
प्रायश्चित्तं चतुर्थेऽह्नि हुत्वाघोरास्त्रमन्त्रतः । सुदर्शनेन
पालाशसमिदाज्यैर्यथाक्रमम् ॥ ६२ ॥
चण्डसेनं यथापूर्वं समाराध्य जयादिभिः ।
प्रायश्चित्तैस्तथा हुत्वा पूर्णां स्विष्टकृतं तथा ॥ ६३ ॥
अग्नीनात्महृदम्भोजे समारोप्य विसृज्य तु ।
तोरणध्वजलोकेशद्वारकुम्भस्थदेवताः ॥ ६४ ॥
ततस्त्वष्टोत्तरशतैः कलशैः स्नपयेदपि । सम्पूज्य
सविशेषं तु दक्षिणाद्यं प्रदाय तु ॥ ६५ ॥
रात्रौ भूतबलिं दत्वा नित्यपूजादिसिद्धये । सङ्कल्प्य विभवं
भक्त्या यथेष्टं लभते फलम् ॥ ६६ ॥
शङ्करनारायणप्रतिष्ठाधिकारः ।
नित्योत्सवे तु प्राग्द्वारे नन्दीशश्चण्ड एव च । महाकालः
प्रचण्डश्च भृङ्गी विघ्नश्च दक्षिणे ॥ ६७ ॥
पश्चिमे वृषभानन्तौ चण्डसेनावथोत्तरे (?) । स्वाशासु
लोकपालेभ्यः स्वैः स्वैर्मन्त्रैर्बलिं क्षिपेत् ॥ ६८ ॥
तत्रायं विशेषः -
इन्द्राय सुराधिपतये सायुधसवाहनपरिवाराय
शङ्करनारायणपार्षदे नमः । तत्पार्षदेभ्यो नमः । इति
दिक्षु सर्वत्र शङ्करनारायणपार्षच्छब्दयुक्तैरेव
मन्त्रैर्बलिं विकिरेन्नित्योत्सवे । महोत्सवे तु
दैत्यदर्पविनाशायेत्यादिभिश्च ये भूताः पुरस्सद
इत्यादिभिश्च शैवमहोत्सवोदितैः शङ्करनारायणस्य भगवत
इत्यादिभिस्तत्र बलिं क्षिपेत् ।
इष्ट्वा वृषार्धगरुडं मण्डपस्थं बलिं क्षिपेत् ।
गणेशं वीरभद्रं च मातॄः शास्तारमेव च ॥ ६९ ॥
दुर्गां च सोमं स्वाशासु चण्डसेनं च पूजयेत् ।
सशूलचक्रवरदाभीतिमिष्ट्वा बलिं क्षिपेत् ॥ ७० ॥
मृगास्यं पाञ्चजन्यं च तीक्ष्णनेत्रं सुदर्शनम् । चतुरो
गोपुरद्वारि सम्पूज्यैषां बलिं क्षिपेत् ॥ ७१ ॥
बलिपीठात् स्थितः प्राच्यामनेनावाहयेद् गणान् ।
ॐ
आयान्तु पार्षदाः सर्वे शाङ्करा वैष्णवाश्च ये ॥ ७२ ॥
स्थिताः सर्वं जगद् व्याप्य गृह्णन्तु बलिमुत्तमम् । ततस्तु
नन्दीशादिभ्यः कुमुदादिभ्य एव च ॥ ७३ ॥
द्वयोर्द्वयोः प्रतिदिशं मण्डलेषु बलिं क्षिपेत् ।
तद्यथा -
नन्दीशश्च महाकालो भूतनाथो महीधरः ॥ ७४ ॥
पर्वतेशो गुहेशश्च कालपाशकपालिनौ । कुमुदः कुमुदाक्षश्च
पुण्डरीकोऽथ वामनः ॥ ७५ ॥
शङ्कुकर्णः शङ्कुनेत्रः सुमुखः सुप्रतिष्ठितः ।
ॐ नन्दीशकुमुदाभ्यां शङ्करनारायणपार्षदाभ्यां नम
इति पूर्वस्याम् । इत्याग्नेयादिदिक्ष्वपि बलिं विकिरेत् ।
ततस्तु बलिपीठे तु भूतिदादिभ्य एव च ॥ ७६ ॥
शङ्खिने चक्रिणे चापि गदिने शार्ङ्गिणे तथा । पद्मिनेऽथो
मुसलिने पाशिनेऽङ्कुशिने तथा ॥ ७७ ॥
कुमुदोर्ध्वे नन्दकिने नमोहरिहरादिकम् । सेनायेति च
पीठाब्जकर्णिकायां बलिं क्षिपेत् ॥ ७८ ॥
अत्रापि पूर्ववद् दिक्षु द्वाभ्यां द्वाभ्यां बलिं क्षिपेत् ।
ॐ भूतिदचक्रिभ्यां शङ्करनारायणपार्षदाभ्यां नम
इत्यादिद्वन्द्वशब्दः ।
नित्योत्सवविधिस्त्वेष तुल्यश्चापि महोत्सवे ॥ ७९ ॥
विशेषः कथ्यते लेख्यो वृषार्धगरुडः पटे । पूज्यश्च स्यात्
स्वनाम्नैव बलिं च विकिरेत् ततः ॥ ८० ॥
मन्त्रैस्तृतीयहारायां विविधानां स्वनामभिः ।
भूतेशानां शाङ्कराणां वैष्णवानां च दिक्क्रमात् ॥ ८१
॥
शैवा विंशतिसङ्ख्याः स्युः पञ्चाशद् दिक्षु वैष्णवाः ।
तद्यथा -
महाकालो विधाता च वज्रपाणिः क्रतु(ः?) प्रभुः ॥ ८२ ॥
दक्षः शतक्रतुस्तद्वदप्रमेयोऽथ वीर्यवान् । नित्यो
विद्युत्प्रभश्चैव शूलहस्तस्त्रिलोचनः ॥ ८३ ॥
स्वाङ्गदीपस्तमोघ्नश्च सृष्टिकृच्चोरुविक्रमः । मान्धाता च
महावीर्यो नित्ययोगः प्रसादनः ॥ ८४ ॥
उत्कूटः प्रकटश्चैव उन्मुखो द्विमुखो हरिः ।
अश्वग्रीवोऽश्ववदनो ह्यश्वजिह्वोऽश्वलोचनः ॥ ८५ ॥
केशवो वामनश्चैव नरो नारक एव च । मन्दरो मन्ददृष्टिश्च
कन्दः कन्दुकलोचनः ॥ ८६ ॥
पटहाक्षो विशालाक्षः क्षामकः क्षमकस्तथा । पाण्डरः
पाण्डुपृष्ठश्च दुर्दिनः सुदिनस्तथा ॥ ८७ ॥
वामदेवो महादेवो मोहनो मधुसूदनः । कलनः कालनश्चैव
भावनो भगवान् भवः ॥ ८८ ॥
हनूमान् भागधेयश्च भास्करो भासुरस्तथा । विश्वेशो
विश्वसेनश्च विष्वक्सेनो विसारणः ॥ ८९ ॥
विस्तारो विस्तरश्चैव विदण्डी दण्ड एव च ।
कामुकोऽकामुकश्चैव कामहृत् कामनाशनः ॥ ९० ॥
सप्ततिस्तु गणाः प्राच्यां हरनारायणस्य तु ।
अग्निरग्निसमानश्च ज्वालामाली च विश्वभुक् ॥ ९१ ॥
हुताशो मूर्तिमान् व्यापी कपिलो रक्तलोचनः । उग्रो
रक्तवपूर्धूम्रः सप्तार्चिर्विश्वभेषजः ॥ ९२ ॥
सुतपा वेगवांश्चाथ भस्मच्छन्नो मरुत्सखः [ख्: रुद्रणः] ।
योगप्रियो दारुजश्चाप्याग्नेयो निधनस्तथा ॥ ९३ ॥
अग्निजिह्वो हुताशश्चाप्यग्निरूपोऽग्निकेतनः ।
अग्निवर्णोऽग्निरग्न्यास्यो महासेनो महोदरः ॥ ९४ ॥ प्। ५३४)
महानासः करालश्च कालजिह्वो विवर्तकः ।
मण्डूर्मण्डूककाकास्यौ देवो देवलकस्तथा ॥ ९५ ॥
शमकश्चमकश्चैव शङ्कुः शङ्कुश्रवास्तथा । मारीचो
द्रोणमारीचो महिषो भीषणस्तथा ॥ ९६ ॥
कुम्भनासो विनासश्च कुम्भकर्णोऽथ कुम्भकः । विसरी विक्रमी
चैव मत्सरी मस्करस्तथा ॥ ९७ ॥
सूकरः सूकरास्यश्च शशः शशमुखस्तथा । सिंहः
सिंहमुखश्चैव नारसिंहो नरस्तथा ॥ ९८ ॥
कालहृत् कालसूत्रश्च सूत्रकः सूत एव च । विनाली
नालकर्णश्चेत्याग्नेय्यां दिशि सप्ततिः ॥ ९९ ॥
यमो विवस्वतो घाता दैत्यघाती प्रजान्तकः । मृत्युः
प्रेताधिपो धर्मः कृष्णः कृष्णाक्ष एव च ॥ १०० ॥
नित्ययोगी च कालश्च आशुकारी परेतपः । मायारूपी
कृतान्तश्च सत्यः सत्यप्रियः सुहृत् ॥ १०१ ॥
पितृनाथश्च कीनाशो धर्मो धर्मरतस्तथा । धर्म्यश्च
धर्मजश्चापि धन्वी च प्रश्रयो नयः ॥ १०२ ॥
कुणकः कुणिवाहश्च निःश्रेयो नीरिणोऽलसः । निष्कोपो
निरनुक्रोशः कुब्जः पांसुविमर्दनः ॥ १०३ ॥
आहो उताहो आहुश्च निर्मलो निवहो वहः । एकलव्यश्च पलल ऊहुः
संरक्षणस्तथा ॥ १०४ ॥
शङ्खी चक्री च धन्वी च कङ्कटः कटुको विटः । वसुदेवः
सुभद्रश्च शार्ङ्गी शार्ङ्गधरस्तथा ॥ १०५ ॥
चित्राङ्गदश्चित्ररथः केतुमान् केतुदः क्षमी । वल्लको
वल्लकीहस्तो द्विरदो विग्रहोऽम्बरः ॥ १०६ ॥
आर्जम्बो दुन्दुभिः श्वेतश्चैते याम्यां दिशि स्थिताः ।
राक्षसश्चासुरः क्रव्याद् वीरहा निर्-ऋतिस्तथा ॥ १०७ ॥
तीक्ष्णनेत्रो यातुधानो यज्ञहन्ता निशाचरः । महामूर्तिः
कैकसेयः क्रूरः क्रूरवपुस्तथा ॥ १०८ ॥
दक्षः कोणपको धूम्रो धूम्राक्षो भीषणस्तथा ।
वीरूपाक्षोऽथ भस्माङ्गः सुकृतिर्विकृतिस्तथा ॥ १०९ ॥
दारुणो दमनश्चैव नैर्-ऋतिः प्रकृतिस्ततः । मांसपो
मांसकश्चिव राक्षसो रक्षकस्तथा ॥ ११० ॥
प्रलम्बो लम्बकश्चैव निष्ठुरः खरभाषणः ।
वीरसेनोऽक्षराशश्च प्राणदः प्रणवस्तथा ॥ १११ ॥
कामदश्च विभाषी च रक्ताक्षो लोहिताक्षकः । विद्युत्केशो
विशालाक्षो रक्तजिह्वो विजिह्मकः ॥ ११२ ॥
अक्षरः प्रक्षरश्चैव वीक्षको निरहङ्कृतः । सर्वगः
सर्वविद् गौरः कामरूपी विरूपवान् ॥ ११३ ॥
वैकर्तनो विकर्ता च सम्प्लवः सम्भवस्तथा । विमदो
मदनश्चैव वारुणो वसुरेव च ॥ ११४ ॥
नन्दकी नन्दकश्चैव कपर्दिवृषभावपि । शोणः पिनाकी
वरुण इत्येते नैर्-ऋते स्थिताः ॥ ११५ ॥
वरुणः शबलोऽम्भोधिः प्रचेता निम्नगापतिः । यादोनाथः
पाशपाणिरानन्दोऽम्बुपतिः शिवः ॥ ११६ ॥
कपर्दी प्राणदः श्वेतः श्यामनेत्रः सनातनः ।
प्रत्यङ्निवासो जलदो जीवनो नक्रवाहनः ॥ ११७ ॥
पयोधिनिलयश्चैव वारुणो वारणस्तथा । क्षेपणः
क्षोभणश्चैव पाशी पाशधरो गुरुः ॥ ११८ ॥
सन्नाहो नाहनो हंसो नारदः पर्वतो रविः । भानुमान् वसुमान्
भद्रो वैकुण्ठः परमः परः ॥ ११९ ॥
महाकर्णो विकर्णश्च विद्रवः प्रद्रवस्तथा ।
वानरस्तारकश्चैव शशकः शाकलः शलः ॥ १२० ॥
चक्रभृच्छङ्खभृद् वज्री कर्णी कर्णस्तथांशुमान् । कुररः
[ख्: वः] कुरवश्चैव वज्रनाभो विनायकः ॥ १२१ ॥
दुर्गन्धः पूतिगन्धश्च दक्षिणोऽदक्षिणः सुहृत् । विरोधो
रोधनो रोधस्तार्क्ष्यो गरुड एव च ॥ १२२ ॥
अङ्गदी कङ्कणी चेति वारुण्यां गणसप्ततिः ।
वायुर्गन्धवहः सूक्ष्मः स्पर्शनश्च प्रभञ्जनः ॥ १२३ ॥
प्राणोऽपानस्तथा व्यान उदानश्च समानकः । नागः
कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥ १२४ ॥
ध्वजपाणिश्च पवनः श्वसनो मारुतोऽनिलः । विद्वान्
मरुन्मारुतश्च वातो वह्निसखो हरिः ॥ १२५ ॥
अलर्को वर्तकः कङ्को मार्गणः प्रङ्कणो बलः । अबलो
बलधिर्वीरो द्विधीरो रोधकोऽपि च ॥ १२६ ॥
सविधिः सुविधिश्चैव सङ्गरो विकटस्तथा । माली मानी
सुधीश्चैव समर्थः साहसो धरः ॥ १२७ ॥
कुकुटः कुटकश्चैव गन्धो गन्धवहस्तथा । सक्तगोऽसक्तगो
रागी सेचनोऽसेचनः [ग्: सेचनस्वनः] स्वनः ॥ १२८ ॥
औषधं भेषजं जीवो रोगी रोगो भगः सुखी । कारणं
करणं कर्ता पराधीनो बलोऽबलः ॥ १२९ ॥
इत्येते सप्ततिगणा वायव्यां दिशिसंस्थिताः । यक्षेशो रयिमान्
सोमो माणिभद्रोऽथ गुह्यकः ॥ १३० ॥
चेली [ख्: ल] माली कुबेरश्च जम्भलः शिबिकुण्डली ।
किन्नरेशश्चैलबिलिर्धनदश्च धनाधिपः ॥ १३१ ॥
राजराजस्तथा श्रीदो ज्येष्ठो मालाधरो धनी ।
उत्तराशानिवासश्च ततः स्यादेककुण्डलः ॥ १३२ ॥
सोमः सोमकलः सौम्यः सोमवित् सोमवर्धनः । सुधासुधाता
भङ्गीरः सुराष्ट्रः काष्ठलिः कलिः ॥ १३३ ॥
कालवान् कालचक्रश्च कालकूटं विषज्वरः । अमृतं
चामृतेशोऽम्भः केयुरी केवली वली ॥ १३४ ॥
विष्णुः कृष्णः पिशङ्गी च रेखा लेखेश्वरः परः ।
नलकः शुनकः क्राथः श्येनः श्येनमुखोऽरुणः ॥ १३५ ॥
मार्जारो वल्गुमाक्षी च गुल्मः कणवकः कणः । शेबो विशेषो
विश्लेषः कर्दमः पूतिविग्रहः ॥ १३६ ॥
साम्बः संवत्सरः सम्भुर्वेगी वेगधरोऽमरः ।
उत्तराशास्थिता ह्येते गणा हरहरौ स्मृताः ॥ १३७ ॥
ईशान ईश्वरः शम्भुः शूलहस्तस्त्रिलोचनः । अनादिनिधनो
धाता कपिलः पिङ्गलोचनः ॥ १३८ ॥
रुद्रो रुद्रगणाधीशो विश्वो [क्: श्व] भर्ता दिगम्बरः ।
नीलग्रीवः कपर्दी च वृषवाहो वृषध्वजः ॥ १३९ ॥
हरः शर्वो विश्वभुज ईशो व्यापी त्रिशूलधृक् । वीरो भर्गो
वशी शम्भुर्विवासा व्यसनो बुधः ॥ १४० ॥
वृक्षः क्षमा क्षान्तिपरः शकुनिः शकुनो वटः । ब्रह्मण्यो
ब्रह्मविद् ब्रह्मो मारीचो हरिपिङ्गलः ॥ १४१ ॥
वेदी वेदविदुद्बन्धो ब्रह्मी च ब्रह्मसाधनः । धीमान्
सुदृष्टिरष्टात्मा शङ्करः शाङ्करस्तथा ॥ १४२ ॥
विनेता विकचो वादी शिष्टात्मा शिष्टकर्मकृत् । एकदृक्
सर्वभुक् सर्वो विनोदी दीपकम्पकः ॥ १४३ ॥
गोविन्दो गोपतिर्गोप्ता सर्वभागी सनातनः । दण्डी मुण्डी
शिखण्डी चेत्यैशान्यां सप्ततिर्गणाः ॥ १४४ ॥
एवमेषां बलिं क्षिप्त्वा बलिपीठे बलिं क्षिपेत् । ततो देवं
प्रवेश्यान्तः स्नात्वा प्राग्वद् यजेदपि ॥ १४५ ॥
उत्सवान्ते यथापूर्वं मुख्यस्नानं विधाय तु । अवरोप्य ध्वजं
प्राग्वद् गणान् सर्वान् विसृज्य च ॥ १४६ ॥
यथोपपत्त्या स्नपयेत् सविशेषं च पूजयेत् । दत्त्वा च
देशिकादिभ्यो दक्षिणास्तदनन्तरम् ॥ १४७ ॥
प्रदेयानि यथायोग्यमर्थिभ्यः प्रतिपादयेत् ।
बृहति महति तन्त्रे यच्च देवोद्भवाख्ये निगदितमवलोक्य
स्थापनाद्युत्सवान्तम् । इति हरहरितन्त्रं सम्यगुक्तं समासात्
तदिह सकलमूह्यं कर्म शैवानुसारात् ॥ १४८-१।२ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
क्रियापादे शङ्करनारायणतन्त्रपटलः चतुष्पञ्चाशः ॥