अथ त्रिपञ्चाशः पटलः ।
अथ स्कन्दप्रतिष्ठादौ कर्म शैवसमं स्मृतम् । विशेषाश्चापि
ये तत्र लिख्यन्ते तन्त्र[ख्: त्र]चोदिताः ॥ १ ॥
कनिष्ठदशतालेन स्कन्दस्य प्रतिमा स्मृता ।
प्राग्वच्चित्रादिभेदेन शैली लोहमयी तथा ॥ २ ॥
मृन्मयी रत्नजा तस्य स्थितासीना तथा भवेत् । मयूरवाहना
वा स्यात् षण्मुखी षण्मुखस्य तु ॥ ३ ॥
सनत्कुमारस्कन्दादीनेकवक्त्रांस्तु कारयेत् । चतुर्भुजान् वा
द्विभुजान् द्विनेत्रानेव कारयेत् ॥ ४ ॥
षण्मुखो द्वादशभुजो द्वादशाक्षः स्वलङ्कृतः । षड्भुजो
वा चतुर्हस्तो मयूरस्थः स्थितोऽथवा ॥ ५ ॥
अभयं शक्तिशूलेषुकुलिशं चाङ्कुशं करैः । दक्षिणे
धारयंस्तद्वत् कटिस्पर्शिवरप्रदम् ॥ ६ ॥
दण्डं च तोमरं चापं घण्टां पाशं च वामतः ।
अधोहस्तात् प्रभृत्यूर्ध्वं स्याद् द्वादशभुजो विभुः ॥ ७ ॥
अभयं पङ्कजं शक्तिं दक्षिणे वरतोमरे । कुलिशं षड्भुजो
बिभ्रत् कर्तव्यः षण्मुखो विभुः ॥ ८ ॥
दक्षिणे पङ्कजं शक्तिं मातुलुङ्गं च वामतः । पाशं च
बिभ्रत् षड्वक्त्रस्त्वेकास्यो वा चतुर्भुजः ॥ ९ ॥
द्विभुजश्चेद् गुहः शक्तिकटिस्पृग्वरदान्वितः । शक्तिवज्रधरो
वा स्याद् दण्डशक्तिधरोऽथवा ॥ १० ॥
प्रसन्नवदना रक्ता रक्ताकल्पविभूषिताः ।
मौलिकुण्डलहाराद्यैर्युक्ताः स्युः स्कन्दमूर्तयः ॥ ११ ॥
एका मूर्तिस्त्वेकबेरे प्रतिष्ठाप्या भवेद् यदा । बहुबेरे
प्रतिष्ठाप्याः षड् वा द्वादश मूर्तयः ॥ १२ ॥
वरदश्च यशोदश्च पुष्टिदः श्रीप्रदः क्रमात् । प्रागादि
तोरणानि स्युर्लोकेसास्त्राङ्किता ध्वजाः ॥ १३ ॥
वीरसेनमहासेनौ भद्रसेनसुषेणकौ । चारुसेनश्च सेनानीः
पूर्णसेनस्ततः परम् ॥ १४ ॥
चित्रसेनश्च कुम्भस्था द्वौ द्वौ द्वाःस्थास्तु पूर्वतः ।
प्रतिद्वारं लाजकुम्भौ बीजाङ्कुरघटावपि ॥ १५ ॥
निधाय विकिरक्षेपात् कुम्भास्त्रे पूजयेदपि ।
दूर्वाकुशाग्रमाषाश्च व्रीहयस्तण्डुलास्तिलाः ॥ १६ ॥
सिद्धार्थास्तुलसी चेति स्कन्दस्य विकिराः स्मृताः । कुम्भे
स्कन्दं मयूरस्थं कुक्कुटेऽस्त्रं च वर्धनीम् ॥ १७ ॥
इष्ट्वा प्राग्वत् परिभ्रम्य प्राग्वत् स्वीकृत्य मण्डपम् । विशोध्य
त्वाकरं नेत्रमोक्षं तोयाधिवासनम् ॥ १८ ॥
ग्रामभ्रमं च स्नपनं शयनं च विधाय तु । वेद्यां
कुमारकुम्भास्त्रे मूर्तिकुम्भांश्च षण् न्यसेत् ॥ १९ ॥
निद्राकुम्भं चोपधाने सम्पूज्याथाधिवासयेत् ।
आत्मादितत्त्वभागेषु ब्रह्मादींस्त्रिगुणान्वितान् ॥ २० ॥
क्ष्माद्याः पञ्चाप्यहङ्कारो मूर्तयः षड् गुहस्य तु ।
सनत्कुमारः स्कन्दश्च विशाखः षण्मुखस्तथा ॥ २१ ॥
नैगमेषो हेमचूडः षडेते मूर्तिपाः स्मृताः । देवसेना
देवयानी षष्ठी विद्या च कुक्कुटा ॥ २२ ॥
विजया चेति मूर्तीनां शक्तयः षड् यथाक्रमात् ।
मूर्तिमूर्तीशशक्तीस्तु त्रिभागेष्वपि विन्यसेत् ॥ २३ ॥
मध्ये च षट्सु कुण्डेषु गुरुर्मूर्तिधरास्तथा ।
मूलाङ्गमूर्तिमन्त्रैश्च जुहुयुः शक्तिभिस्ततः ॥ २४ ॥
पक्वं तु स्कन्दगायत्र्या मूलाङ्गैश्च शतं पृथक् ।
मन्त्रोद्धारे पूर्वमेव मूलमन्त्रः प्रदर्शितः ॥ २५ ॥
अङ्गानि चापि तेनैव गायत्री कथ्यतेऽधुना ।
महासेनश्चतुर्थ्यन्तो विद्महेतिपदं ततः ॥ २६ ॥
शक्तिहस्तश्चतुर्थ्यन्तो धीमहीति च तत्पदम् । नः स्कन्दश्च
प्रकारान्ते चोदयात् तारपूर्विका ॥ २७ ॥
शक्तिभिर्मूर्तिभिश्चापि ततो द्वादशमूर्तिभिः । बाणः शाखो
भद्रसेनः सेनानीश्च भवात्मजः ॥ २८ ॥
सुब्रह्मण्यः कार्त्तिकेयो गुहो वै कुक्कुटध्वजः ।
मयूरवाहनश्चैव गाङ्गेयश्च ततः परम् ॥ २९ ॥
देवसेनापतिश्चेति प्रोक्ता द्वादश मूर्तयः । तारादिभिस्तु
स्वाख्याभिस्तन्मन्त्राः स्युर्नमोन्तकाः ॥ ३० ॥
स्वाहान्तैरेव जुहुयाच्चतुर्थ्यन्तं तु सर्वदा ।
मायूरखादिराश्वत्थप्लाक्षौदुम्बररौहिणाः ॥ ३१ ॥
समिधः स्युः षडग्नीनां पलाशा मध्यमे स्मृताः । आज्यं
चरुं यवान् व्रीहील्लाँजसिद्धार्थसर्षपान् ॥ ३२ ॥
मायूरसमिधश्चापि सर्वत्र जुहुयुः क्रमात् । होमसम्पातिताज्येन
शान्तिकुम्भाम्भसा तथा ॥ ३३ ॥
सिञ्चेयुः स्कन्दगायत्र्या भागेषु गुरुमूर्तिपाः । बाह्येऽथ
मण्डपाद् दिक्षु मन्त्रैर्लोकेशदैवतैः ॥ ३४ ॥
समिदाज्यतिलाल्लाँजांश्चरुं च जुहुयुः पृथक् । नैर्-ऋत्यां
चापि वायव्यां बिल्वकार्ष्मरिसम्भवाः ॥ ३५ ॥
समिधो जुहुयाच्चास्त्राच्चरुं चाष्टोत्तरं शतम् । बेरस्य
वामतः पीठे क्रियाशक्तिं निधाय तु ॥ ३६ ॥
अधिवास्य ततः प्रातः कृतनित्यक्रियो गुरुः । गर्भागारं
प्रविश्याथ लग्ने कूर्मशिलां न्यसेत् ॥ ३७ ॥
तत्रेष्ट्वाधारशक्तिं तु रत्नाद्यं वर्गपञ्चकम् । तस्यां
विन्यस्य गर्तेषु मध्ये प्रागादिदिक्ष्वपि ॥ ३८ ॥
हैमं गजं मयूरं च शक्तिं वज्रं च कुक्कुटम् । पद्मं
रसं च माणिक्यं मध्याद् बाह्ये क्रमान्न्यसेत् ॥ ३९ ॥
ऊर्ध्वं तस्यास्तथा पीठे क्रियाशक्तिं च विन्यसेत् । युवं
वस्त्रादिनाच्छाद्य बहिर्निर्गत्य देशिकः ॥ ४० ॥
बेरं प्रवेश्य लग्ने तु गुरुर्मूर्तिधरैर्युतः । ध्रुवाद्यौरादिना
पीठे प्रतिष्ठाप्य स्थिरं यथा ॥ ४१ ॥
ज्ञानशक्त्यात्मकं ध्यात्वा मूर्तिं विन्यस्य षण्मुखीम् ।
तस्यामावाहयेद् देवं मन्त्रैरेभिरनुक्रमात् ॥ ४२ ॥
ॐ
आयाहि स्कन्द! भद्रं ते कुमार! शिवसम्भव! । मयूरवाहन!
विभो इह वारणवाहन ! ॥ ४३ ॥
सुब्रह्मण्य! नमस्तेऽस्तु कार्त्तिकेय! सुरेश्वर! । देवसेनापते
देव! असुरेन्द्रविमर्दन! ॥ ४४ ॥
शक्तिवज्रायुधधर ! धृतदण्डवराङ्कुश! । सचक्रतोमर!
विभो! असुरेन्द्रविमर्दन! ॥ ४५ ॥
आवाहयामि त्वां देवेत्यन्ते मूलाङ्गसंयुतम् । उच्चार्य
स्वहृदम्भोजात् परं तेजो गुहात्मकम् ॥ ४६ ॥
नीत्वा व्योमाब्जमध्यस्थतेजस्यैक्यं ततोऽपि च । गृहीत्वा
निष्कलान्तं तु मूलं हंसं च कीर्तयेत् ॥ ४७ ॥
आनीय नाडीमार्गेण मूर्तौ हृत्पङ्कजे न्यसेत् । व्योमाम्बुजं
सुधाम्भोभिराप्लाव्याथ सचेतनाम् ॥ ४८ ॥
मूर्तिं ध्यात्वा हृदब्जेऽस्य मन्त्राध्वानं तु विन्यसेत् ।
मूलाङ्गानि च गायत्री मूर्तिमन्त्राश्च स स्मृतः ॥ ४९ ॥
पदानि स्कन्दगायत्र्याः पदाध्वान्ये तु पूर्ववत् । हृदि वक्त्रे
तथा मूर्ध्नि नाभौ गुह्ये च पादयोः ॥ ५० ॥
षडध्वनो न्यसेत् सम्यग् विभाव्य तु यथाक्रमम् ।
मूर्तीशनिद्राकुम्भास्त्रैः स्नपयित्व तु पूजयेत् ॥ ५१ ॥
तद्यथा -
स्नातस्तु सकलीकृत्य विघ्नं द्वारं च पूजयेत् । अस्त्रं
क्षिप्त्वा प्रविश्यान्तर्देहल्यां तन्निधाय च ॥ ५२ ॥
वास्तुब्रह्मासनानीष्ट्वा तूपविश्याङ्गमूर्तिभिः । सकलीकृत्य
कृत्वार्घ्यं शुद्धीः पञ्च विधाय तु ॥ ५३ ॥
सत्रिपुण्ड्रः सतिलकः सपुष्पकृतशेखरः ।
आधारशक्त्यनन्ताख्यमयूरासनगात्रगान् ॥ ५४ ॥
धर्मादीन् सूर्यबिम्बादिमण्डलेशांश्च कादिकान् । केसरेषु च
विद्यायाः शक्तीर्मध्ये च पूजयेत् ॥ ५५ ॥
विद्या शान्तिः स्मृतिर्मेधा प्रज्ञा कान्तिर्द्युतिर्धृतिः ।
व्यापिनी चेति पूर्वादिक्रमाल्ललितविग्रहाः ॥ ५६ ॥
देवसेना देवयानी देव्यौ दक्षिणवामयोः । दाडिमीकुसुमप्रख्ये
यजेद् दिव्याम्बरादिकैः ॥ ५७ ॥
आसनं स्कन्दमूर्तिं च मन्त्रदेहं ततो गुहम् । क्रमादावाह्य
मूर्त्यङ्गैः शक्तिभिः सकलीकृतम् ॥ ५८ ॥
अर्घ्याद्यैस्तु निवेद्यान्तैरुपचारैस्तु पूजयेत् । पत्रेष्वावरणं
स्वाङ्गैः पत्राग्रे [ख्: ग्रैर्मू] मूर्तिमूर्तिपैः ॥ ५९ ॥
पीठप्रान्ते द्वादशभिर्मूर्तिभिः स्यात् तृतीयकम् ।
द्वाःस्थैश्चतुर्थं लोकेशैः पञ्चमं तु तदायुधैः ॥ ६० ॥
षष्ठमावरणं चैव यजेत् पञ्चोपचारकम् । ततः
स्थिरादिभिः सप्तमन्त्रैर्हुत्वा स्पृशेद् गुहम् ॥ ६१ ॥
दिनत्रयं यथापूर्वं सम्पूज्याग्निं जुहोति च ।
चतुर्थदिवसेऽभ्यर्च्य धूर्तसेनं तु बेरगम् ॥ ६२ ॥
प्रतिष्ठाप्यैशकोणे तु शक्तिटङ्ककरं विभुम् । रक्ताकल्पं
रक्तवर्णं निर्माल्यैरभिपूजयेत् ॥ ६३ ॥
प्रायश्चित्तं तु मूलाङ्गमूर्तिमन्त्रैश्च शक्तिभिः । हुत्वा तु
स्कन्दगायत्र्या तिलाज्ये जुहुयात् पृथक् ॥ ६४ ॥
सहस्रमर्धं तु शतं हुत्वा चैव जयादिभिः । प्रायश्चित्तं
स्विष्टकृतं हुत्वाग्नीन् हृदि संहरेत् ॥ ६५ ॥
विशेषस्नपनेनाथ श्रेष्ठाद्यन्यतमेन तु । यथोपपत्ति
स्नपयेन्मन्त्रैः शैवोदितैः क्रमात् ॥ ६६ ॥
विधाय च महापूजां दद्याद् भूतबलिं निशि । दक्षिणाश्च
प्रदेयानि दत्त्वा शक्त्या तु पूर्ववत् ॥ ६७ ॥
नित्यपूजामविच्छिन्नां ग्रामक्षेत्रधनादिभिः । सङ्कल्प्य कर्ता
पूर्वोक्तं पुष्कलं लभते फलम् ॥ ६८ ॥
स्कन्दप्रतिष्ठाधिकारः ।
स्कन्दनित्योत्सवे द्वाःस्थौ वज्रशक्तिधरौ पुरः ।
विघ्नविश्वेश्वरौ चाथ वीरसेनसुषेणकौ ॥ ६९ ॥
वज्रसेनश्च सेनानीर्द्वाःस्थौ पूर्वादितः क्रमात् ।
स्कन्दपारिषदान्ताः स्युर्लोकेशाः स्वस्वदिग्गताः ॥ ७० ॥
मयूरं मण्डपे मातॄंः स्वस्थाने त्वर्गले विधुम् ।
धूर्तसेनं तथैशान्यां सम्पूज्यैषां बलिं हरेत् ॥ ७१ ॥
गोपुरद्वार्यग्निकेतुं सूर्यकेतुं च पूजयेत् । ततो निष्क्रम्य बाह्ये
तु बलिपीठाग्रतः स्थितः ॥ ७२ ॥
ॐ
ये समस्तं जगद् व्याप्य तिष्ठन्ति बलिकाङ्क्षिणः । * * * * * *
सर्वे गृह्णन्तु बलिमुत्तमम् ॥ ७३ ॥
अनेन तु स्कन्दगणान् सर्वानावाहयेदपि । ततस्तु
बाह्यहारायामुन्माथादीन् गणेश्वरान् ॥ ७४ ॥
कोटिकोटिगणाध्यक्षानिष्ट्वा तेषां बलिं क्षिपेत् ।
उन्माथश्च प्रमाथश्च सुभासो भास्वरो मणिः ॥ ७५ ॥
सुमणिश्च तथा ज्योतिर्ज्वालाजिह्वस्तथाष्टमः । ततस्तु
दशमूर्तिभ्यो बलिपीठे बलिं क्षिपेत् ॥ ७६ ॥
परिघो विकटो भीम उत्क्रोशो वज्रवल्कलौ । दण्डहस्तौ
वर्धनश्च कुमुदो नन्दनस्तथा ॥ ७७ ॥
स्कन्दसेनोऽथ दशमः पीठे पद्मस्य मध्यतः । नित्योत्सवे
विधिश्चैष तुल्यश्च स्यान्महोत्सवे ॥ ७८ ॥
विशेषः कथ्यते तत्र मयूरं तु ध्वजे यजेत् ।
ॐ मयूराय नमः । स्कन्दवाहनाय नमः ।
ततः स्कन्दगणान् सर्वान् प्राग्वदावाहयेत् गुरुः ॥ ७९ ॥
ॐ
य भूताः स्कन्दसेनाद्याः स्कन्दपारिषदेश्वराः । ते तृप्यन्तु
मुदं यान्तु तेभ्यस्ताभ्यो नमो नमः । ८० ॥
इत्यावाह्य स्कन्दगणान् प्रागाद्यष्टदिशास्वपि ।
कोटिकोटिगणेशाः स्युर्द्वात्रिंशत् स्युर्गणेश्वराः ॥ ८१ ॥
कुमुदः कुन्दरश्चाथ डम्बराडम्बरौ पुरः । वक्रोऽनुवक्रः
सुमुखः सुव्रतो वह्निदिग्गताः ॥ ८२ ॥
सत्यसन्धः सुप्रभश्च शुभकर्मा च लाङ्गली । याम्येऽथ
नैर्-ऋते कालो बलश्चातिबलोऽलसः ॥ ८३ ॥
सुवर्चाश्चातिवर्चाश्च काञ्चनातिघनावपि । पश्चिमे त्वथ
वायव्ये मेघमाली स्थिरस्तथा ॥ ८४ ॥
अतिस्थिरश्चोच्छ्रितश्च चतुर्थस्त्वतिथिप्रियः? । उदीच्यां
मेघनादश्च सङ्ग्रहोन्माथविग्रहाः ॥ ८५ ॥
ऐशान्यां पुष्पदन्तश्च शङ्कुकर्णजयावपि । महाजयश्च
चत्वारः कोटिकोटिगणेश्वराः ॥ ८६ ॥
एतेभ्यश्चाप्यथैतेषां परिषद्भ्यस्त्वनन्तरम् ।
स्कन्दपारिषदान्ते तु स्वाहान्तं तु बलिं क्षिपेत् ॥ ८७ ॥
उद्दिष्टदिवसान्ते तु कौतुकारम्भपूर्वकम् । तीर्थयात्रां च
कुर्वीत यथापूर्वं निमन्त्र्य तु ॥ ८८ ॥
ॐ
तीर्थयात्रा त्वया देव! श्वः कर्तव्या सुरेश्वर! । तत्र
प्रतिसरारम्भं त्वमनुज्ञातुमर्हसी ॥ ८९ ॥
इत्यामन्त्र्य गुहं देवं शैवोत्सवविधानतः । तीर्थयात्रां
स्वकैर्मन्त्रैः कृत्वा प्रतिनिवृत्य तु ॥ ९० ॥
अन्तः प्रवेश्य षड्वक्त्रं विशेषयजनादनु । निशि भूतबलिं
दत्त्वा मुख्यादिस्नपनेन तु ॥ ९१ ॥
यथोपपत्त्या स्नपयेच्छैवस्नपनचोदितैः । मन्त्रैर्यथावद्
विधिवन्महापूजां प्रवर्तयेत् ॥ ९२ ॥
पूर्वोक्तफलमाप्नोतीत्याह देवः स्वयं शिवः ।
इति प्रतिष्ठादिकमुत्सवान्तं षडास्यतन्त्रं तु यथावदुक्तम् ।
यथा बृहत्तन्त्रमुखेषु दृष्टं तदुक्तशैवानुगुणेन विद्यात्
॥ ९३ १।२ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
क्रियापादे स्कन्दतन्त्रपटलस्त्रिपञ्चाशः ॥