अथ द्विपञ्चाशः पटलः ।
अथ विघ्नेश्वरस्यापि बेरः स्यात् पञ्चतालतः । पूर्वोक्ता एव
मन्त्राः स्युः प्रतिष्ठाकर्म शैववत् ॥ १ ॥
सूर्यप्रतिष्ठाविहितं क्रियाचक्रं यदेव हि ।
विघ्नेशादिप्रतिष्ठासु प्रायशः सममेव तत् ॥ २ ॥
विशेषः कथ्यते सोऽयं विज्ञेयः स्यात् पृथक् पृथक् । तोरणा
द्वारपालाश्च मूर्तिमूर्तीशशक्तयः ॥ ३ ॥
मन्त्राश्च परिवाराश्चाप्यध्वानः पदमन्त्रयोः । सुपूर्णः
पूर्णभद्रश्च प्रशान्तो विजयस्तथा ॥ ४ ॥
पूर्वादि तोरणानि स्युर्लोकेशास्त्रैर्ध्वजाः स्मृताः । प्राचि
कुण्डोदरो द्वाःस्थस्तद्वत् कुम्भोदरोऽपि च ॥ ५ ॥
विकटो वामनो याम्ये जयश्च विजयोऽम्बुपे । पूज्यौ द्वारेऽथ
कौबेरे मेघनादमहोदरौ ॥ ६ ॥
कुम्भेषु पूजयेद् द्वाःस्थाल्लोँकपालांश्च कुम्भगान् ।
गणेशकुम्भं चैशान्यामस्त्रं चेष्ट्वा तयोर्भ्रमात् ॥ ७ ॥
अङ्कुशास्त्रं (गणेशस्युरस्त्रं?) स्त्रीविग्रहं यजेत् ।
अधिवासस्नपनयोः क्रमात् स्वीकृत्य मण्डपौ ॥ ८ ॥
कृत्वाथ करशुद्धिं च नेत्रमोक्षं ततो जले । अधिवास्य
पुरादेस्तु परिक्रम्य प्रदक्षिणम् ॥ ९ ॥
स्नपयेच्च प्रवेश्याथ शाययेच्चाधिवासयेत् । पृथ्व्याद्या
मूर्तयः पञ्च मनोहङ्कारबुद्धयः ॥ १० ॥
मूर्तयोऽष्टौ गणेशस्य विघ्नेशाद्यास्तदीश्वराः । विघ्नो
विनायको वीरः शूरो हस्तिमुखस्तथा ॥ ११ ॥ एकदन्तस्ततः
क्षिप्रप्रसादोऽथ गणेश्वरः । तीव्रा च ज्वालिनी नन्दा
भोगदा कामरूपिणी ॥ १२ ॥
उग्रा तेजोवती सन्ध्या नवमी विघ्ननाशनी । शक्तयः
क्ष्मादिमूर्त्तीनां त्रिभागे विन्यसेदिमाः ॥ १३ ॥
क्रियाशक्तिं च तत्पार्श्वे तत्पीठे विन्यसेद् यजेत् । वेद्यामैशे
तु कुम्भास्त्रे दिक्षु मूर्तीशकुम्भगान् ॥ १४ ॥
निद्राकुम्भं चोपधाने विन्यस्यैषां जुहोति च । गर्भागारं
प्रविश्याथ शक्तिं कूर्मशिलां न्यसेत् ॥ १५ ॥
रत्नादि पीठं बेरं च प्रतिष्ठाप्य तु मूर्तिमत् । चैतन्यं
सर्वगं सूक्ष्मं तद्बीजं हंससम्पूटम् ॥ १६ ॥
स्वहृद्व्योमाम्बुजानीतं विन्यसेत् तद्धृदञ्ञ्जे । तन्मूर्तिमन्त्रं
चाङ्गानि गणानान्त्वादिकं तदा ॥ १७ ॥
गायत्रीं च गणेशस्य मन्त्राध्वानं च विन्यसेत् ।
विनायकाय विद्महे गजवक्त्राय धीमहि । तन्नो दन्ती प्रचोदयात् ।
पदानि विघ्नगायत्र्याः पदाध्वान्ये तु पूर्ववत् ॥ १८ ॥
षडध्वभावनां कृत्वा प्राग्वत् संस्नाप्य पूजयेत् ।
मन्त्रपादोदिता ये तु मन्त्रा विघ्नेश्वरस्य तु ॥ १९ ॥
मूर्तयोऽपि च कल्पोक्तास्तत्तद्भक्तैर्यथाविधि । तथातथा
प्रतिष्ठाप्यास्तन्मन्त्रावरणादिभिः ॥ २० ॥
शक्तिकूर्मावनन्ताख्यपीठं धर्मादिकानपि ।
त्रिगुणार्कादिबिम्बेशब्रह्मविष्ण्वीशपङ्कजे ॥ २१ ॥
प्रथमावरणं स्वाङ्गैस्ततस्तीव्रादिशक्तिभिः । द्वितीयं
मूर्तिपैश्चापि तृतीयं तु चतुर्थकम् ॥ २२ ॥
स्वस्थैस्तु पञ्चमं चाथ लोकेशैश्चायुधादिभिः । तत्तन्नाम्ना
भवेदन्ते विघ्नपारिषदाय तु ॥ २३ ॥
तेषां पारिषदेभ्यश्च नमोन्तं विनियोजयेत् । सम्पूज्यैवं
गणाधीशं स्थिराद्यैरथ सप्तभिः ॥ २४ ॥
हुत्वा स्पृ(श्ये?शे)द् यथापूर्वं प्रायश्चित्तं तु मूलतः ।
अङ्गैर्गणेशगायत्र्या गणानान्त्वादिना ततः ॥ २५ ॥
मूर्तिलोकेशमन्त्रैश्च समिदाद्यैर्यथापुरम् । मध्याद्यग्निषु
सर्वत्र हुत्वा नीत्वा दिनत्रयम् ॥ २६ ॥
चतुर्थदिवसे प्राग्वद् गायत्र्या च जयादिभिः । प्रायश्चित्तं च
कृत्वा तु कर्म चापरिषेचनात् ॥ २७ ॥
गणचण्डं समाराध्य वह्नीन् संहृत्य चात्मनि । उद्वास्य
कुम्भलोकेशद्वारपांस्तोरणध्वजान् ॥ २८ ॥
गणेशं स्नपनेनेष्ट्वा दक्षिणाद्यं प्रदाय तु । बलिं
विकीर्य रात्रौ तु यथाविभवमर्चनम् ॥ २९ ॥
नित्यपूजां च सङ्कल्प्य कर्ताभीष्टं समश्नुते ।
गणेशप्रतिष्ठाधिकारः ।
नित्योत्सवे गणेशस्य द्वाःस्थाः कुण्डोदरादयः ॥ ३० ॥
लोकेशा वाहनं चाखुर्मातरश्च स्वदिग्गताः । भृङ्गीशः
पश्चिमे वायौ तारो नागे तु चण्डिका ॥ ३१ ॥
भल्लाटे तु गुहः सोमे श्रीदेव्यैशेऽङ्कुशी स्मृतः ।
गणचण्डश्च तत्रैतान् सम्पूज्य विकिरेद् बलिम् ॥ ३२ ॥
गोपुरद्वार्यधश्चण्डप्रचण्डौ दक्षिणोत्तरे । गङ्गा च यमुना
चोर्ध्वे द्वारश्रीर्मध्यगोपरि ॥ ३३ ॥
ता एता देवताः पूज्या बलिं चासां विनिक्षिपेत् । ततस्तु
मध्यहारायामष्टदिक्षु गणेश्वराः ॥ ३४ ॥
वज्रदन्तो गजास्यश्च भीमंश्च महिषाननः । मेघनादो
विरूपाक्षो विकटो बहुभक्ष्यभुक् ॥ ३५ ॥
एते कोटिगणाधीशाः सम्पूज्यैषां बलिं क्षिपेत् ।
अथ बलिपीठे
प्रागादि गजवक्त्रश्च विघ्नेशगणनायकौ ॥ ३६ ॥
चण्डविक्रमकृद् विघ्नकरो भुजगमेखलः । शूर्पकर्णो
नागदन्तो रुद्रवक्त्रो(द्)भवस्ततः ॥ ३७ ॥
गणसेनश्च दशमस्तेषां पीठे बलिं क्षिपेत् ।
ॐ नमः सर्वविघ्नपार्षदेभ्यस्तत्पार्षदेभ्यो नमः इति
मध्येऽन्नमशेषं जलपुष्पान्वितं पीठोपरि प्रक्षिपेत् ।
नित्योत्सवविधिस्तुल्यस्तुल्यश्चैष महोत्सवे ॥ ३८ ॥
विशेषस्तु ध्वजे पूज्यो मूषिकः स्यात् स्वमन्त्रतः ।
ॐ मूं मूषिकाय नमः इति ।
यथापूर्वं गणान् सर्वानावाह्य विकिरेद् बलिम् ॥ ३९ ॥
गणेशपरिषन्नाम्ना तदा पारिषदान्तकम् । वज्रदन्तादिकानां
च बाह्ये दशदिशास्वपि ॥ ४० ॥
ऐरावतं पुण्डरीकं कुमुदाञ्जनवामनान् । पुष्पदन्तं
सार्वभौमं सुप्रतीकं च दिक्क्रमात् ॥ ४१ ॥
तारादिभिर्नमोन्तैश्च नामभिः प्राग्वदर्चयेत् । ऐन्द्र्यां दिशि
गणा ये तु वज्रहस्ता महाबलाः ॥ ४२ ॥
इत्यादिभिः क्रमान्मन्त्रैर्विघ्नपारिषदान्तकैः । नमोन्तैर्विकिरेद्
रात्रौ भूतक्रूरेण वै बलिम् ॥ ४३ ॥
तीर्थस्नानं यथापूर्वं कारयेत् स्नपनं तथा । मन्त्रास्तु
स्नपने शैवकथिताः स्वाङ्गमूलतः ॥ ४४ ॥
गायत्र्या च गणानान्त्वेत्यादिना मध्यकुम्भतः । अभिषिञ्चेद्
गणाधीशमुपचारैर्यथोदितैः ॥ ४५ ॥
लभन्ते पूर्वकथितं यजमानादयः फलम् ।
एवं समासेन गणेशतन्त्रं तन्त्रान्तरोक्तं प्रविचार्य सम्यक् ।
प्रोक्तं प्रतिष्ठादिकमुत्सवान्तं शैवानुसारेण तु तद्विधेयम्
॥ ४६-१।२ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे क्रियापादे
गणेशतन्त्रपटलो द्विपञ्चाशः ॥