५१

अथैकपञ्चाशः पटलः ।

अथ सूर्यादिदेवानां प्रतिष्ठा पूर्वमेव हि ।
शिवलिङ्गप्रतिष्ठायां समासात् सम्प्रदर्शिता ॥ १ ॥

कर्षणाद्युत्सवान्तं यत् प्रोक्तं कर्मात्र तत् समम् ।
तत्त्वमूर्त्यादिविन्यासक्रमः सर्वत्र वै समः ॥ २ ॥

सूर्यविघ्नेश्वरस्कन्दा हरनारायणस्तथा ।
दुर्गागौरीसरस्वत्यः शास्ता काली च मातरः ॥ ३ ॥

धामसु क्षेत्रपालश्च शिवाङ्गत्वेन वा पृथक् । एते सर्वे
प्रतिष्ठाप्याः पूज्याश्चैव पृथक् पृथक् ॥ ४ ॥

एतेषां मूर्तिमूर्तीशमन्त्रावरणभेदतः । प्रतिष्ठाद्यं
समासेन यथावदथ कथ्यते ॥ ५ ॥

सूर्यस्य मन्त्राः पूजा च प्रागेव समुदाहृताः ।
तत्प्रतिष्ठाविधौ बेरं स्यान्मुख्यं दशतालतः ॥ ६ ॥

प्रतिमालक्षणोक्तैस्तु मानोन्मानादिभिर्युतम् । चित्रादिकं
तद्धेमादिलोहरत्नशिलामयम् ॥ ७ ॥

तस्याधिवासने प्राग्वन्मण्डपे तोरणानि तु । विभूतिर्विमलस्तार
आराध्यश्चेति पूर्वतः ॥ ८ ॥

प्रत्यूषश्च प्रभासश्च प्रद्योतो द्योतनस्तथा । दण्डी च
पिङ्गलश्चण्डस्तीव्रश्च द्वारपालकाः ॥ ९ ॥

प्राग्याम्याप्यैन्दवद्वार्षु द्वौ दौ कलशगौ यजेत् ।
लोकेशास्त्राङ्किताः पूज्या ध्वजास्तदधिदेवताः ॥ १० ॥

ततो विकिरविक्षेपात् सूर्यकुम्भास्त्रयोर्भ्रमात् । मण्डपं
परिगृह्याथ लोकेशान् कुम्भगान् यजेत् ॥ ११ ॥

प्राग्वदाकारशुद्धिं च कृत्वा नयनमोक्षणम् ।
स्वमूलाङ्गैस्ततः कुर्याज्जले चाप्यधिवासनम् ॥ १२ ॥

ग्रामप्रदक्षिणादूर्ध्वं प्राग्वद् भावनमण्डपे । कलशैः
स्नपयेत् प्राग्वत् पूरितैः सप्तसप्तकैः ॥ १३ ॥

अघमर्षणसूक्तेन चासत्येनादिना ततः । उद्यन्नद्यादिना चापि
पवमानैस्तथा क्रमात् ॥ १४ ॥

ततः खषोक्तिमूलाङ्गैः सावित्र्याष्टाक्षरेण च ।
दशप्रणवगायत्र्या मध्येन त्वभिषेचयेत् ॥ १५ ॥

इष्ट्वा प्रवेशयेद् देवमधिवासनमण्डपे । शयने शाययेत्
प्राग्वन्निद्राकुम्भं च विन्यसेत् ॥ १६ ॥

ऐशान्यां सूर्यकुम्भास्त्रे देवकुम्भांश्चतुर्दिशम् ।
न्यसेच्चात्मादितत्त्वानि जानुकण्ठशिरोवधि ॥ १७ ॥

ब्रह्मादिभागेष्वृग्वेदयजुस्सामगुणान्वितम् । मण्डलं पुरुषं
चापि रश्मीन् भागत्रये क्रमात् ॥ १८ ॥

मूर्तिद्वादशकं चापि त्रिषु भागेषु विन्यसेत् ।

तद्यथा -

भूम्यप्तेजोमरुद्व्योममनोहङ्कारबुद्धयः ॥ १९ ॥

प्रकृतिः पुरुषः कालः परमात्मा च मूर्तयः । धातार्यमा
च मित्रश्च वरुणोऽशो भगस्तथा ॥ २० ॥

पूषा विवस्वान् पर्जन्यः सविता चेन्द्र एव च । विष्णुश्च
मूर्तिपास्त्वेते द्वादशैवाथ शक्तयः ॥ २१ ॥

दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा । अमोघा
विद्युता चैव कथिता सर्वतोमुखी ॥ २२ ॥

प्रभा सन्ध्या च सञ्ज्ञा च शक्तयस्ताश्च विन्यसेत् ।
स्वाङ्गमूलखषोत्कैश्च सावित्र्या मूर्तिमूर्तिपैः ॥ २३ ॥

शक्तिभिश्चापि जुहुयुः प्राग्वत् कुण्डेषु मूर्तिपाः ।
पालाशार्कसमित्सर्पिश्चरुलाजतिलाक्षतैः ॥ २४ ॥

सिद्धार्थैः सर्वधान्यैश्च हुत्वाज्येन पुनः शतम् । हुत्वा
सम्पातिताज्येन शान्तिकुम्भजलैरपि ॥ २५ ॥

संसिच्य त्रिषु भागेषु स्पृशेयुर्गुरुमूर्तिपाः । पीठे चापि
क्रियाशक्तिं संस्मृत्य विनियोजयेत् ॥ २६ ॥

अनुक्तं च यथापूर्वं कर्म कृत्वाधिवास्य तु । प्रातः
स्नानादिकं कृत्वा गर्भागारं प्रविश्य तु ॥ २७ ॥

लग्ने कूर्मशिलां न्यस्येत् तस्याः पूर्वक्रमेण तु ।
रत्नादिपञ्चवर्गांस्तु विन्यस्येष्ट्वाभिमन्त्रयेत् ॥ २८ ॥

ॐ नमो व्यापिनीत्यादिमन्त्रमन्तर्जपन् गुरुः ।
आधारशक्तिमावाह्य सम्पूज्य विधिना ततः ॥ २९ ॥

क्रियाशक्त्यात्मकं पीठं तस्यास्तूपरि विन्यसेत् । ततो मुहूर्ते
सम्प्राप्ते स्थापको मूर्तिपैः सह ॥ ३० ॥

प्रणवेन क्रियाशक्तौ पीठे बेरं ततो रवेः ।
ज्ञानशक्त्यात्मकं ध्यायन् स्थापयेत् प्रणवाणुना ॥ ३१ ॥

साङ्गमूलं खषोत्कं तु हंसं तद्धृदि विन्यसेत् ।
दशप्रणवगायत्र्या सावित्र्या चाभिमन्त्रयेत् ॥ ३२ ॥

स्थिरीकृत्याष्टबन्धेन बेरं प्रक्षाल्य वारिभिः ।
निद्राकुम्भेनाभिषिञ्चेत् किञ्चिच्छान्त्युदकैरपि ॥ ३३ ॥

अर्घ्यपञ्चामृतैश्चापि जलधूपान्तरैः क्रमात् । प्रक्षाल्य
यवचूर्णाद्यैः कुम्भास्त्रसलिलैस्ततः ॥ ३४ ॥

वेदकुम्भैश्चाभिषिञ्चेच्छान्तिकुम्भं न्यसेदपि । शेषं कर्म
यथापूर्वं स्वमन्त्रेण समापयेत् ॥ ३५ ॥

आत्मतत्त्वादि विन्यस्य मूर्तौ प्राग्वद् विधाय तु । स्यात्
प्रभुतासनं पीठं विभूतिविमलादिकाः ॥ ३६ ॥

पीठस्य पादाश्चत्वारो मध्ये ध्येया प्रबोधिनी ।
दीप्तादिशक्तीश्चाराध्य मण्डले पुरुषं रविम् ॥ ३७ ॥

ध्यात्वा मूलाङ्गविन्यासं कृत्वा न्यस्येत् तथाध्वनः ।
मूलोऽङ्गानि खषोत्कश्च तथा सदशतारका ॥ ३८ ॥

गायत्री चैव सावित्री मन्त्राध्वा कथितो रवेः ।
दशप्रणवगायत्र्यास्तत्त्वसङ्ख्यापदानि तु ॥ ३९ ॥

पदाध्वा तस्य निर्दिष्टः शेषाध्वानो यथापुरम् ।
विभाव्यैवं तु तन्मूर्तौ हृदि हंसं सतारकम् ॥ ४० ॥

विन्यस्यार्घ्यादिभिर्देवमुपचारैस्तु पूजयेत् । अथाचार्यः
[चारस्य कु] स्वकुण्डेऽग्नावमीभिर्जुहुयाद् घृतम् ॥ ४१ ॥

स्थिरोऽथ व्यापकस्तद्वदप्रमेयस्ततः परम् । अनादिबुद्धो
नित्यश्च ततः स्यादपि निश्चरः ॥ ४२ ॥

नित्यतृप्तश्च सप्तान्ते भवस्वाहेति योजिताः । मन्त्राः
स्युरेभिर्हुत्वाज्यमेभिर्देवं ततः स्पृशेत् ॥ ४३ ॥

सहस्रं वा तदर्धं वा शतं वा जुहुयाद् घृतम् ।
अङ्गमूलखषोत्काद्यैर्मन्त्रैर्व्याहृतिभिस्तथा ॥ ४४ ॥

हुत्वा पूर्णां च सम्पूज्य लोकपालायुधादिभिः । नीराज्य
स्नपयेत् प्राग्वन्निवेद्यान्तं यजेदपि ॥ ४५ ॥

विभाव्य देवं तन्मूर्तौ सान्निध्यं प्रार्थ्य मन्त्रतः । निशि
भूतबलिं दत्त्वा यथापूर्वं दिनत्रयम् ॥ ४६ ॥

नीत्वा चतुर्थदिवसे हुत्वाग्नीनस्य मन्त्रतः । सावित्र्या चैव
गायत्र्या पृथगष्टोत्तरं शतम् ॥ ४७ ॥

हुत्वा जयादीनाज्येन प्रायश्चित्ताहुतीरपि ।

पूर्णां च हव्यवाहाद्यात्

हव्यवाहमित्यनूच्य स्विष्टमग्न इति याज्यया जुहोतीति यावत् ।

नियोज्य [ख्: नण्विज्य] तेजश्चण्डं तु निर्माल्यैरीशगोचरे ।
यजेत् त्रिनेत्रं पिङ्गाक्षं रक्तं रक्ताम्बरादिकम् ॥ ४९ ॥

चतुर्भुजं घृताम्भोजं यजेत् सवरदाभयम् । ततस्तु
कलशैर्देवमभिषिच्योक्तमार्गतः ॥ ५० ॥

दक्षिणाश्च प्रदेयानि दत्वा पूर्वोदितक्रमात् । ततो
नित्यविधानेन विभवानुगुणेन तु ॥ ५१ ॥

पूजां प्रवर्तयेत् सम्यक् त्रिसन्ध्यं सोपचारकम् ॥ ५२ ॥

सूर्यप्रतिष्ठाधिकारः ।

नित्योत्सवे तु सूर्यस्य द्वारस्थौ चण्डपिङ्गलौ ॥ ५२ ॥

लोकेशस्थानगास्त्वष्टौ ग्रहाः सोमादयः क्रमात् ।
मातरश्चैव दुर्गा च तेजश्चण्डश्च दिग्गताः ॥ ५३ ॥

अरुणो मण्डपस्याग्रे सप्तच्छन्दस्तुरङ्गमाः । स्वाख्याभिस्ते च
पूज्याः स्युर्गायत्र्युष्णिगनुष्टुभः ॥ ५४ ॥

बृहती पङ्क्तिस्त्रिष्टुब्जगती च यथाक्रमम् (?) । अन्तःस्थौ
गोपुरद्वाःस्थौ पक्षौ शुक्लासितौ यजेत् ॥ ५५ ॥

तथैव तद्बहिष्ठावप्ययने दक्षिणोत्तरे । निक्षिप्यैषां
बलिं दत्त्वा बलिपीठाद् बहिः स्थितः [ख्: तिः (?)] ॥ ५६ ॥

आवाहयेद् बलिभुजः सर्वान् सूर्यगणान् गुरुः । ये समस्तं जगद्
व्याप्य तिष्ठन्ति बलिकाङ्क्षिणः ॥ ५७ ॥

सूर्यपारिषदाः सर्वे गृह्णन्तु बलिमुत्तमम् ।

इति ।

ततो द्वादशराशिभ्यो यथास्थानं प्रदक्षिणम् ॥ ५८ ॥

मेषादिभ्यो बलिं दद्यान्मासेभ्यश्चापि तैः सह ।
मधुमाधवशुक्रेभ्यः शुचये नभसे तथा ॥ ५९ ॥

नभस्याय तथेषोर्जसहोभ्यश्च ततः परम् । सहस्यायाथ तपसे
तपस्याय बलिं क्षिपेत् ॥ ६० ॥

तत तु बलिपीठस्य परितोऽष्टदिशास्वपि । क्षिपेद्
गणानामष्टानां स्वाख्यागणनमोन्तकम् ॥ ६१ ॥

गन्धर्वाश्चासुरगणाः पितृरक्षोगणास्ततः । नागा
मरुद्गणास्तद्वद् यक्षभूतगणास्तथा ॥ ६२ ॥

पद्मपत्रे ऋषिगणाः स्थिताः * * * * * * । स्वाख्याभिरेतान्
सम्पूज्य बलिं चैषां विनिक्षिपेत् ॥ ६३ ॥

नित्योत्सवविधिः ॥

महोत्सवे तु शैवोक्तमार्गेणारोपयेद् ध्वजम् । पताकां
चारुणाश्वाङ्कां गणांश्चावाह्य पूर्ववत् ॥ ६४ ॥

सन्धिस्थांश्च तथा देवानङ्कुरार्पणपूर्वकम् । उत्सवं
कारयेत् प्राग्वदुत्तमादिक्रमेण तु ॥ ६५ ॥

बलिप्रक्षेपमन्त्रैस्तु सूर्यपारिषदान्तकैः ।
येभूताद्यैर्यथापूर्वमिष्ट्वा तेभ्यो बलिं क्षिपेत् ॥ ६६ ॥

नित्योत्सवोक्तविधिना पक्षिप्य परितो बलिम् । वैशेषिके [क्: का] (च?
ण) विधिना राशिबाह्ये क्षिपेद् बलिम् ॥ ६७ ॥

इन्द्रादिलोकपालेभ्यस्तदस्त्रेभ्यश्च बाह्यतः । ऐन्द्र्यां दिशि
गणा ये तु वज्रहस्ता महाबलाः ॥ ६८ ॥

इत्यादिभिस्तु दिङ्मन्त्रैः परितो विकिरेद् बलिम् । ततस्तु
बलिपीठस्थगणेभ्यः पूर्ववद् बलिम् ॥ ६९ ॥

क्षिप्त्वा स्नात्वा यथापूर्वमन्तर्देवं प्रवेशयेत् । कृत्वा
कौतुकबन्धाद्यं तीर्थयात्रां च पूर्ववत् ॥ ७० ॥

स्वमन्त्रैर्विधिवत् कृत्वा स्नपनान्तं समापयेत् ।

इत्थं समासादिह सूर्यतन्त्रप्रोक्तं प्रतिष्ठादिकमुत्सवान्तम् ।
बिम्बादितन्त्रेषु यथोदितं तच्छैवोक्तमार्गेण समस्तमूह्यम् ॥
७१-१।२ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे क्रियापादे
सूर्यतन्त्रपटल एकपञ्चाशः ॥