अथ पञ्चाशः पटलः ।
अथाल्पस्नपनं पूर्वं कनिष्ठत्रितयं ततः । मध्यस्नानानि
च त्रीणि श्रेष्ठं च स्नपनत्रयम् ॥ १ ॥
नवभिः पञ्चविंशत्या तदूर्ध्वं सप्तसप्तभिः ।
एकाशीत्याष्टयुक्तेन शतेन द्विशतेन च ॥ २ ॥
द्विपञ्चाशदुपेतेन कलशानां ततः परम् । त्रिभिः
शतैस्तथैवेषुशतैः सप्तशतैरपि ॥ ३ ॥
कृतिसङ्ख्याधिकैश्चाथ सहस्रकलशैरपि ।
अष्टोत्तरसहस्रैर्वा सहस्रकलशैस्ततः ॥ ४ ॥
विधिवत् पूरितैरुक्तं स्नपनं तूत्तमोत्तमम् ।
अष्टोत्तरशतादीनां * * * * * * परः ॥ ५ ॥
मध्ये तु ब्रह्मकलशः शिवेनाधिष्ठितो भवेत् ।
कलशैर्नवभिः पूर्वमल्पाख्यं स्नपनं स्मृतम् ॥ ६ ॥
अभिकृत्यादिकलशैः कनिष्ठस्नपनत्रयम् ।
अष्ठोत्तरशताद्यैस्तु * * * * * * * * ॥ ७ ॥
मण्डपात् पृथगेव हि ॥ ८ ॥
रामेषुमुनिनन्दैश्च रुद्रातिजगतीकराः ।
अतिशकरिकात्यष्टिकरैरतिधृतेर्मितैः ॥ ९ ॥
एकविंशतिहस्तैश्च दशधा स्नानमण्डपाः ।
सहस्रकलशस्याथ * * * * * माधमाः ॥ १० ॥
पञ्चविंशतिहस्तः स्यादेकोनत्रिंशता ततः । मध्यमः स्यात्
तु हस्तानां त्रयस्त्रिंशद्बिरुत्तमः ॥ ११ ॥
स्वस्वमण्डपहस्तानां सङ्ख्ययैकाधिकाः क्रमात् । स्तम्भाः
स्युः सुसमाः सर्वेऽप्येकजातितरूद्भवाः ॥ १२ ॥
नवतालोच्छ्रितास्त्वल्पे स्नपनेऽथाधमादिषु ।
रुद्रातिजगतीसङ्ख्यैश्चातिशक्वरिकामितैः ॥ १३ ॥
तालैः स्तम्भा भवन्त्युच्चात् क्रमात् तत्कुट्टिमोपरि ।
तन्नाहोऽर्काङ्गुलैरल्पे ततो द्वित्रिचतुर्गुणैः ॥ १४ ॥
अङ्गुलैः स्तम्भनाहाः स्युः कनिष्ठादिषु च त्रिषु ।
लुपावंशानुवंशाद्यमूर्ध्वप्रच्छादनं तथा ॥ १५ ॥
प्रशस्ततरुपूगाद्यैर्नालिकेरदलादिभिः । मण्डपानां
विधेयं स्याद् यथायुक्त्युपपत्तितः ॥ १६ ॥
चतुरश्राश्चतुर्द्वारा मध्यस्तम्भविवर्जिताः । प्रशस्तयोनयः
सर्वे कर्तव्या मण्डपाः क्रमात् ॥ १७ ॥
सूर्यवस्वृतुमात्रोच्चं श्रेष्ठाद्यं मण्डपस्थलम् ।
इष्टकादारुमृत्स्नाभिः परितो बद्धकुट्टिमम् ॥ १८ ॥
तत्र वास्तुबलिं दत्त्वा तक्षकर्म विसृज्य तु । पुण्याहं
वाचयित्वा तु वास्तुहोमं च कारयेत् ॥ १९ ॥
तत्तत्कलशसङ्ख्याकान् ब्राह्मणांस्तत्र भोजयेत् । असामर्थ्ये
तदर्धं वा ततोऽर्धं वा यथाविधि ॥ २० ॥
दर्भमालापरिवृतं सवितानं सतोरणम् । स्तम्भैः
सद्वसनच्छन्नैर्मुक्तादामावलम्बितम् ॥ २१ ॥
स्वालेपिततलं रम्यं धूपितं चन्दनोक्षितम् । सद्वारकलशं
नानाफलालम्बितनीप्रकम् ॥ २२ ॥
अलङ्कृत्य यथाशोभं शक्तितः स्नानमण्डपम् । सप्तमे
पञ्चमे वाह्नि सर्वं स्नपनवासरात् ॥ २३ ॥
कृत्वाङ्कुरार्पणं सम्यक् पुण्याहं वाचयेत् ततः । उपलिप्यैषु
गव्येन प्रोक्ष्य चा(वे? वो)क्षणादिभिः ॥ २४ ॥
संस्कृत्य धृतिसंस्कारैर्विकिरक्षेपपूर्वकम् ।
कुम्भास्त्रवर्धनीपूजाभ्रमणार्चनतः परम् ॥ २५ ॥
अस्त्ररक्षां च कृत्वा तु सूत्रैः पिष्टावरूषितैः । कुर्वीत
पदविन्यासं प्रागुदग्व्यायतैः समम् ॥ २६ ॥
पदानि चाधमादीनि रविमन्वङ्गुलानि च । विकारमानाङ्गुलैश्च
चतुरश्राणि कल्पयेत् ॥ २७ ॥
तद्यथा -
द्विकरे चतुरश्रे तु सूत्रैर्नवपदीकृतैः । तत्र मध्यपदे
कृत्वा तेनाल्पस्नपनं स्मृतम् ॥ २८ ॥
अल्पस्नपनपदाधिकारः ।
सप्तसप्तपुटे क्षेत्रे मध्ये नव पदानि तु । निधाय परितः
पङ्किमेकैकां दिक्षु मार्जयेत् ॥ २९ ॥
वीथ्यर्थं तत्र वीथ्योस्तु मध्ये कोष्ठत्रयं त्रयम् ।
कोणेष्वेकै * * * * * * * * * * * * ॥ ३० ॥
पञ्चत्रिंशतिकलशाधिकारः ।
एकादशपुटे क्षेत्रे मध्ये नवपदं भवेत् ॥ ३१ ॥
तन्मध्यकोष्ठे पद्मं स्यान्नवकस्य तु बाह्यतः । परितो
मार्जयेत् * * * * * * * * * * ॥ ३२ ॥
कोष्ठं च मार्जयेत् ॥ ३३ ॥
चतुर्दिक्ष्वथ कोणेषु लुम्पेदन्तश्चतुष्पदम् । कोणानि
व्यक्तकोटीनि सप्तसप्तपदं यथा ॥ ३४ ॥
॥ ३५ ॥
चतस्रो वीथयः पङ्क्तिलोपात् स्युः परितः स्फुटाः ।
अष्टदिक्ष्वष्टनवकं स्यान्मध्यनवकेऽम्बुजम् ॥ ३६ ॥
लिखेन्मध्यपदे त्वेवमेका * * * * * * । स्यान्मध्यपुटके क्षेत्रे
मध्यनन्दपदेऽम्बुजम् ॥ ३७ ॥
तद्बाह्यपङ्क्तयो लोप्याश्चतस्रः प्रागुदग्गताः । वीथीनां
बाह्यतः पङ्क्तिं निधाय तु चतुर्दिशम् ॥ ३८ ॥
वा * * * * * * * * * * * * * * * । * * स्थनवकेष्वन्तः
कोणैकपदलोपतः ॥ ३९ ॥
भवन्त्यष्टोत्तरशतं पदान्यब्जं च मध्यतः । पङ्क्तिं
निधाय तु चतुर्दिशं बाह्यैकपङ्क्तिकम् ॥ ४० ॥
परितो * * * * * कोणैकपदलोपतः । भवन्त्यष्टोत्तरशतं
पदान्यब्जं च मध्यतः ॥ ४१ ॥
अष्टोत्तरशतस्य । अपिच
त्रिपञ्चपुटके क्षेत्रे प्राग्वद् वीथीचतुष्टयम् । * * * * * * * *
पङ्क्तिं संस्थाप्य परितः पङ्क्तिमेकां विलोपयेत् ।
वीथ्योर्मध्ये चतुर्दिक्षु नवकानि प्रमार्जयेत् ॥ ४३ ॥
द्वारार्थमथ कोणेषु स्यात् पदानां त्रिसप्तकम् ।
शतस्यैव पुनश्च
प्राग्वत् त्रिपञ्चपुटके सप्तसप्तपदानि तु ॥ ४४ ॥
मध्ये निधाय परितो लिम्पेद् वीथीचतुष्टयम् । संस्थाप्य मध्ये
नवकं परितः पङ्क्तिलोपतः ॥ ४५ ॥
अ * * * * * * * * * * * * * * * । * * * * * कोष्ठानि प्राग्वदेवं
भवन्ति हि ॥ ४६ ॥
दिक्षु प्रकृतिकोष्ठानामन्तःकोणद्वये समम् । चतुष्पप्दं तद्
विमृजेन्मध्यकोष्ठं च लोपयेत् ॥ ४७ ॥
एवं द्वादश कोष्ठानि पृ * * * * * * * ।
त्रिविधाष्टोत्तरकलशाधिकारः ।
त्रिसप्तपुटके क्षेत्रे मध्ये नन्दपदेऽम्बुजम् ॥ ४८ ॥
तस्याथ परितो वीथ्यश्चतस्रः स्युरशेषगाः । तद्बाह्ये
नवकान्यष्टौ तद्बाह्ये * * * * * ॥ ४९ ॥
द्विपञ्चाशत्समधिकं पदानां द्वे शते स्फुटम् ॥ ५० ॥
द्विपञ्चाशदधिकशतद्वयकलशाधिकारः ।
कलशत्रिशतके
तद्बाह्ये पङ्क्त्यतिक्रमात् ॥ ५१ ॥
दिक्षु पङ्क्तिर्विलोप्या स्यात् तस्मात् कोष्ठत्रयाद् बहिः । परितो *
वीथीषट्कं स्वव्यायतं भवेत् ॥ ५३ ॥
कोणषोडशकोष्ठानामन्तःकोणचतुष्टयम् । * * * * * * * * * *
एवं पदानि त्रिशतं कलशत्रिशते स्मृतम् ।
मध्यब्रह्मपदाम्भोजे शिवाख्यः कलशोऽपि च ॥ ५५ ॥
त्रिशतकलशाधिकारः ।
एकत्रिंशत्पुटे * * * * * * * * * * । * * * * * परितो वीथ्यै
लुम्पेदशेषतः ॥ ५६ ॥
तद्बाह्यपङ्क्तेर्बाह्ये च पङ्क्तिं तद्वद् विलोपयेत् ।
ततस्त्रिकोष्ठात् परितस्त्रिपदाच्च परं ततः ॥ ५७ ॥
वीथी * * * * * * * * * * * * * * । * * * * * * दिशं
वीथयोऽष्टौ भवन्ति हि ॥ ५८ ॥
अष्टौ च चत्वारिंशच्च नवकान्यत्र सर्वतः ।
अष्टाविंशतिसङ्ख्यानि त्रिकान्यपि भवन्ति हि ॥ ५९ ॥
एककोष्ठचतुष्कं च मध्ये पद्मं च शोभनम् । * * * * * * * * *
कलशास्तेषु मध्ये शिवघटोऽधिकः ॥ ६१ ॥
एवं वेदाधिकानि स्युः पदपञ्चशतानि हि ।
चतुरधिकपञ्चशतकलशाधिकारः ।
एकशो मार्जयेत् पङ्क्तीः प्राचीनाश्चोदगायताः । एवं
प्रतिदिशं तत्र वीथयोष्टौ भवन्ति हि ॥ ६३ ॥
मध्ये चाष्टदिशास्वेवमेकाशीतिपदानि हि । पृथङ् नवैव
व्यूहाः स्युर्मध्यव्यूहे तु मध्यतः ॥ ६४ ॥
मार्जयेन्नवकं तस्मिन् पद्ममष्टदलं लिखेत् । एवं हि
विंशत्यधिकं पदसप्तशतं स्मृतम् ॥ ६५ ॥
मध्येऽब्जे चाधिकस्त्वेकः कलशः शिवसञ्ज्ञितः ।
विंशत्यधिकसप्तशतकलशाधिकारः ।
क्षेत्रे विभाजिते पञ्चचत्वारिंशत्पुटे समे ॥ ६६ ॥
पञ्चपञ्चपदैर्मध्ये पद्मे शिवघटो भवेत् । तद्बाह्यपङ्क्तिं
परितो वीथ्यै लुम्पेच्च तद्बहिः ॥ ६७ ॥
एकां तिस्रश्च पङ्क्ती द्वे निधायासां तु मध्यतः । क्रमेण
परितः पङ्क्तीर्विमृजेद् वीथिषु त्रिषु ॥ ६८ ॥
तद्बाह्ये वेदपङ्क्तीस्तु त्यक्त्वा पङ्क्तिं तु मार्जयेत् वीथ्यर्थं
परितः प्राग्वत् पुनः पङ्क्तिद्वयाद् बहिः ॥ ६९ ॥
पङ्क्त्या स्यात् परितो वीथीरथ पद्माच्चतुर्दिशम् ।
प्रतिपङ्क्तिद्वयं लुम्पेद् द्वारार्थं स्वदिगायतम् ॥ ७० ॥
महावीथीचतुष्कस्य सन्धिः षोडशकेष्वपि ।
विकारकुम्भन्यासार्थं रक्षेन्मध्यपदानि तु ॥ ७१ ॥
द्वारशोभोपशोभाः स्युः कोणानि च यथाक्रमम् । अन्तस्त्रीणि
बहिः पञ्च पदानि द्वारि मार्जयेत् ॥ ७२ ॥
शो(भाः? भा) स्वन्तस्त्रयं बाह्ये चैकं कोष्ठं विलोपयेत् ।
ततस्तु विपरीतेनाप्युपशोभा विमार्जयेत् ॥ ७३ ॥
एवं द्वाराणि चत्वारि शोभा द्वात्रिंशदेव हि । उपशोभाश्च
तावत्यः पञ्चावरणसञ्ज्ञिते ॥ ७४ ॥
सहस्रकलशे ज्ञेया यथावदभिसङ्ख्यया ।
पञ्चावरणे सहस्रकलशाधिकारः ।
क्षेत्रे त्वेकोनपञ्चाशत्पुटे मध्यगतैः पदैः ॥ ७५ ॥
नवभिः पद्ममालिख्य बाह्ये पङ्क्तिद्वयेन तु । वीथी स्यात् परितो
बाह्यपङ्क्तौ दिक्ष्वेककोष्ठकम् ॥ ७६ ॥
अन्तर्विमृज्य वीथ्यैक्यं नीत्वा तद्वेदकोणके । अन्तःस्थ
त्रिपदं लुम्पेत् ततो मध्याम्बुजाद् बहिः ॥ ७७ ॥
प्रागुद्ग्व्यायते प(ङ्क्तौ? ङ्क्ती) वाथ्यै लुम्पेदशेषतः ।
तद्बाह्ये चापि परितस्ततस्त्रित्रिपदान्तरम् ॥ ७८ ॥
प्रागुदग्व्यायता लोप्याः पृथग् द्वादशवीथयः । अत्र
स्युर्मध्यमे व्यूहे पञ्चकान्यथ च क्रमात् ॥ ७९ ॥
तद्बाह्ये नवकानि स्युर्द्वादशैवं चतुर्ष्वपि । चतुर्ष्वपि च
कोणेषु विकारनवकं पृथक् ॥ ८० ॥
एवं तु नवकानां स्याच्छतं हि द्वादशाधिकम् । अथैकं
बाह्यनवकं चतुर्दिक्षु विलोपयेत् ॥ ८१ ॥
द्वारार्थं * * * * * * न्त्यकोणैककोष्ठकम् । विलुम्पेत्
कोटिमध्यस्थमेवं पदसहस्रकम् ॥ ८२ ॥
अष्टोत्तरं हि भवति मध्ये चैकं सरोरुहम् । बाह्ये वीथ्यास्ततो
बाह्ये शिष्टपङ्क्तिद्वयेन तु ॥ ८३ ॥
द्वारशोभोपशोभार्थं * * * * * * * * । भवन्त्याकृतिस * न
कलशास्तत्पुटेषु वै ॥ ८४ ॥
अष्टोत्तरसहस्रं हि पद्मे शिवघटस्तथा ।
अष्टोत्तरसहस्रकलशाधिकारः ।
त्रिपञ्चाशत्पुटे क्षेत्रे मध्यस्थनवकेऽम्म्बुजम् ॥ ८५ ॥
तद्बाह्यपङ्क्त्या परितो * * * * * * बहिः । पङ्क्तौ
दिक्कोष्ठमेकैकं लुम्पेद् द्वारप्रसिद्धये ॥ ८६ ॥
चतुर्ष्वपि च कोणेषु पृथक् स्यात् कोष्ठपञ्चकम् । तद्बहिः
परितः पङ्क्तिं वीथ्यर्थं परिमार्जयेत् ॥ ८७ ॥
द्वारशोभादिसिद्ध्यर्थं * * * * द्वयं न्यसेत् । तदन्तरेका
परितो लोप्या पङ्क्तिस्तु वीथये ॥ ८८ ॥
अन्तर्वीथीं समारभ्य दिक्षु पङ्क्तित्रयं त्रयम् । विमृजेद्
द्वारवीथ्यर्थं बाह्ये वीथ्यां च योजयेत् ॥ ८९ ॥
बाह्यवीथ्यास्त्वथान्तःस्थपङ्क्तिषट्कादनन्तरम् ।
अन्तस्त्रिपङ्क्तीः परितो महावीथीस्तु मार्जयेत् ॥ ९० ॥
तत्राष्टदिक्षु मध्यस्थपङ्क्तौ मध्यपदानि तु ।
रक्षेदष्टदिशास्वष्टौ तेषु सन्धिघटान् न्यसेत् ॥ ९१ ॥
बहिर्वीथीमहावीथ्योर्मध्यषट्पङ्क्तिमध्यतः ।
तत्त्वकोष्ठानि संस्थाप्य लोप्यं पङ्क्तिद्वयं क्रमात् ॥ ९२ ॥
एवं कृते तु परितः षट्त्रिंशत्कोष्ठकानि तु ।
कृतिसङ्ख्यानि तन्नन्दपदान्यन्तर्विलोपयेत् ॥ ९३ ॥
कोणेष्विति यावत् ।
अथान्तः स्थचतुष्कोणव्यूहान्तर्व्यूहसिद्धये । त्यक्त्वा
पङ्क्तित्रयं बाह्ये पङ्क्तिमेकां विलोपयेत् ॥ ९४ ॥
तदन्तर्वेदकोणेषु पदाष्टशतकं भवेत् । तृतीयवीथेः
प्रारभ्य पङ्क्तिरेका यथाक्रमम् ॥ ९५ ॥
मध्ये लोप्या महावीथिर्यावत् तावद् विनिर्गता । ततस्तु
तत्त्वकोष्ठानां द्वादशात्र भवन्ति हि ॥ ९६ ॥
अन्तः कोणेषु तेषां च नन्दकोष्ठानि मार्जयेत् । (हन्तव्यूहे?
अन्तर्व्यूहे) कृतिघटा(न्?) द्वितीये साष्टकं शतम् ॥ ९७ ॥
तृतीये त्रिशतं चाथ ससङ्कृत्युत्तरं घटाः ।
सन्धिष्वष्टौ चतुर्थे तु चत्वारिंशद्घ्टादिकम् ॥ ९८ ॥
शतानि पञ्च कुम्भानामेवं कुम्भसहस्रकम् । चतुरावरणे
ज्ञेयं मध्ये शिवघटोऽधिकः ॥ ९९ ॥
बाह्यपङ्क्तिद्वये प्राग्वद् दिक्षु द्वारचतुष्टयम् । शोभा
द्विचत्वारिंशत् स्युरुभशोभाश्च तत्समाः ॥ १०० ॥
कोणानि मनुकोष्ठैः स्युः प्राग्वत् तान्यपि मार्जयेत् ।
लाङ्गलाकारकोणानि सर्वव्यूहे तु कल्पयेत् ॥ १०१ ॥
चतुरावरणे सहस्रकलशाधिकारः ।
क्षेत्रे तु सूत्रिते पञ्चपञ्चाशत्पुटके समे । एकाशीतिपदं
मध्ये संस्थाप्य नव सम्पुटान् ॥ १०२ ॥
प्राचीनाश्चाप्यूदीर्चीना लोप्याः षड् वीथयः पृथक् ।
एकाशीतिपदव्यूहास्त्वेवं स्युः पञ्चविंशतिः ॥ १०३ ॥
पर्यन्तवीथी बाह्यस्थपङ्क्तियुग्मेन पूर्ववत् । द्वाराणि दिक्षु
चत्वारि शोभाश्चैवोपशोभिकाः ॥ १०४ ॥
चत्वारिंशत् पृथक् कार्याः कोणानि मनुकोष्ठकैः ।
मध्यव्यूहस्य मध्यस्थनवकेनाम्बुजं लिखेत् ॥ १०५ ॥
तस्यापि परितः पङ्क्तिद्वयं वीथ्यै विलोपयेत् । तद्बाह्ये च
चतुर्दिक्षु द्वारार्थं त्रिपदानि तु ॥ १०६ ॥
विमृजेद् द्वारकोणेषु पृथक् स्यात् पदपञ्चकम् । मध्यव्यूहाद्
बहिर्दिक्षु व्यूहमेकं पृथक् पृथक् ॥ १०७ ॥
अशेषं विमृजेत् तेषु होमं कुर्याद् यथाविधि । तद्बाह्ये तु
कृतिव्यूहास्तेषां मध्यैककोष्ठकम् ॥ १०८ ॥
निधाय परितः पङ्क्तिद्वयं वीथ्यै विलोपयेत् । तद्भाह्येऽथ
चतुर्दिक्षु पङ्क्त्योरेकैककोष्ठकम् ॥ १०९ ॥
द्वारार्थं विमृजेत् तत्तद्बाह्यवीथिगतं तथा ।
एवमेकोनपञ्चाशत् कृतिव्यूहे पदानि वै ॥ ११० ॥
भवन्ति मध्यव्यूहे तु विंशतिश्चाम्बुजे घटः ।
इत्येकविंशतिव्यूहे सहस्रकलशाः स्मृताः ॥ १११ ॥
ब्रह्मस्थाने शिवाख्यस्तु कलशः पङ्कजेऽधिकः ।
एकविंशतिव्यूहसहस्रकलशाधिकारः ।
इत्थं पदानि विन्यस्य परितश्चोपलिप्य तु ॥ ११२ ॥
पदानि सितचूर्णेन समाच्छाद्य निरन्तरम् । शालीनामाढकं
वार्धं प्रस्थं पादेन निक्षिपेत् ॥ ११३ ॥
तदर्धं तण्डुलांस्तेभ्यस्तिलान् लाजान् क्रमेण तु । निक्षिप्य
स्थण्डिलं कुर्यात् केवल शालिभिस्तु वा ॥ ११४ ॥
तेषु प्रत्येकशो दर्भान् विष्टरार्थं निधाय तु । तेषूक्तान्
कलशान् सूत्रवेष्टितान् सविधानकान् ॥ ११५ ॥
क्षालितान् धूपितान् कूर्चपृष्ठान् संसादयेत् पृथक् ।
अथाचार्यः सशिष्यस्तु स्नातः शुक्लाम्बरादिभिः ॥ ११६ ॥
भूषितश्चाङ्गुलीयाद्यैः क्षालिताङ्घ्रिकरद्वयः ।
स्वाचान्तः सूपविष्टस्तु भूतशुद्धिं विधाय तु ॥ ११७ ॥
मण्डपाद् दक्षिणे सम्यग् विघ्नेशमभिपूज्य तु । समाचार्य (?)
यथापूर्वं सकलीकृतविग्रहम् ॥ ११८ ॥
प्राग्वच्छान्तिकलादीनि द्वाराणि कुसुमादिभिः ॥ ११९ ॥
इष्ट्वा क्षिप्त्वा च नाराचं प्राग्वदन्तः प्रविश्य तु । अस्त्रं
विन्यस्य देहल्यां वास्तुपा * * * * * ॥ १२० ॥
अभिपूज्यासनं च स्वं प्राङ्मुखो वाप्युदङ्मुखः । कलशांस्तु
यथोद्दिष्टानवोक्ष्यार्घ्यजलैः क्रमात् ॥ १२१ ॥
उदङ्मुखोकृत्योत्कूर्चान् (?) सदाशिवतनुः स्वयम् । आधारशक्तिं
कलशं * * * * * * * * ॥ १२२ ॥
द्वादशान्ताम्बुजेन्दूत्थममृतं तज्जलादिकम् । भावयन्
प्रणवं सृष्टिक्रमेणोच्चारयन् क्रमात् ॥ १२३ ॥
कलशान् पूरयित्वा तु प्रोक्तद्रव्यसमन्वितान् । सहेमगन्धकुसुमान्
सितवस्त्रावृतान् पृथक् ॥ १२४ ॥
स्रग्दामालङ्कृतानुक्तबिल्वाश्वत्थ * * यवान् ।
सशालितण्डुलापूर्णफलोपेतविधानकान् ॥ १२५ ॥
सम्प्रोक्ष्य तेषु विन्यस्य तत्तन्मन्त्रं च दैवतम् । इष्ट्वा
पञ्चोपचारैस्तान् होमं कुर्याद् यथोदितम् ॥ १२६ ॥
अल्पादिकानां स्नानानामष्टोत्तरशतावधि । एकाग्नावेव
होतव्यं प्राक्कुण्डे स्थण्डिलेऽपि वा ॥ १२७ ॥
ततः सप्तशतान्तानां चतुर्दिक्षु हुतं स्मृतम् ।
अथाष्टोत्तरसाहस्रे सहस्रकलशेऽपि च ॥ १२८ ॥
अष्टदिक्षु प्रतिष्ठोक्तकुण्डेष्वाधाय पूर्ववत् । सिवानलं तु
मध्याग्नेर्विभज्य तु? यथाविधि ॥ १२९ ॥
स्वदिक्षु ब्रह्मभिश्चाङ्गैर्जुहुयुर्गुरुमूर्तिपाः ।
व्यूहैकविंशतिर्यत्र सहस्रकलशे स्मृता ॥ १३० ॥
तत्र दिक्ष्वष्टकुण्डेषु तथैवान्तश्चतुर्दिशम् । व्यूहेषु
मार्जितेष्वग्निं जुहुयाद् ब्रह्मभिः क्रमात् ॥ १३१ ॥
समिदाज्यचरून् लाजान् सिद्धार्थांश्च तिलान् यवान् ।
तत्तत्कलशसङ्ख्यातमर्धं पादमथापि वा ॥ १३२ ॥
मूलेन हुत्वा मूर्त्यङ्गैर्जुहुयुस्तद्दशांशतः ।
तत्सम्पातघृतं सर्वमेकीकृत्य कुशाग्रतः ॥ १३३ ॥
कलशेषु क्षिपेत् किञ्चिन्निवेद्यान्तं यजेत् पुनः । सर्वं कर्मेति
सामान्यं स्नपनानामुदीरितम् ॥ १३४ ॥
साधारणकर्माधिकारः ।
द्रव्यदैवतमन्त्रास्तु स्नपनानां यथाक्रमम् । लिख्यन्ते
नवकादीनां शैवतन्त्रप्रचोदिताः ॥ १३५ ॥
माणिक्यं मौक्तिकं वज्रं प्रवालं च हरिन्मणिः ।
पुष्यरागश्च वैडूर्यं नीलं गोमेदकं क्रमात् ॥ १३६ ॥
मध्येन्द्रयाम्याप्यसौम्यवह्निरक्षोनिलेशगान् । कलशान्
मणिभिश्चोक्तैर्गन्धपुष्पकुशाम्बुभिः ॥ १३७ ॥
ईशादिब्रह्मभिश्चाङ्गैरभिपूर्याभिषेचयेत् । मध्यादिपूरणे
त्वैन्द्रान्मध्यान्तस्नपने क्रमः ॥ १३८ ॥
अस्त्रं चैवास्त्रवर्धन्यां शिवकुम्भान्तिके यजेत् ।
पुष्पाम्बुधूपान्तरितं चतुष्कानन्तरं यथा ॥ १३९ ॥
आपोराजानमाद्याद् वा मध्येन व्योमविद्यया ।
नवकस्य ।
पञ्चविंशतिकस्यापि पञ्चरत्नाम्बु मध्यतः ॥ १४० ॥
पूरयेद् ब्रह्मकलशे शिवेन समधिष्ठिते । पाद्यमाचमनं
चार्घ्यं पञ्चगव्यं दिशास्वथ ॥ १४१ ॥
आग्नेयादिपदेष्वाज्यं मधु क्षीरं तथा दधि । पूर्वत्रिके
चेक्षुरसकषायाम्बु फलाम्बु च ॥ १४२ ॥
चतुःक्षीरागबिल्वानां त्वग्भिः सिद्धं कषायकम् । लाजाम्बु
चैव गन्धाम्बु पुष्पाम्भश्चैव दक्षिणे ॥ १४३ ॥
हेमाम्भः पद्मरागाम्भो मुक्ताम्भः पश्चिमे त्रिके । यवोदकं
प्रवालाम्बु तिलाम्भश्चोत्तरत्रिके ॥ १४४ ॥
दूर्वोत्पलकुशाम्भांसि शाल्यम्भश्चानलादिषु । मूलं
ब्रह्माणि चाङ्गानि मध्ये मन्त्राश्च दैवतम् ॥ १४५ ॥
पूर्वादित्रिकमध्यस्थकोणस्थकलशेषु च । क्ष्माद्यष्टमूर्तयो
दैवं मन्त्राश्चान्ते नमोन्विताः ॥ १४६ ॥
प्रागादिपार्श्वकुम्भानां दैवमङ्गुष्ठमात्रकम् । भुवनेशान
ईशान एकपिङ्गेक्षणस्तथा ॥ १४७ ॥
उद्भवश्च भवश्चाथ महादेवो महाद्युतिः । त्रिकं
मध्यघटादाप्यकुम्भाद्यं पूरणादिषु ॥ १४८ ॥
पाद्यस्येदंविष्णुरिति चापोहिष्ठेत्यनन्तरम् । आपः
पुनन्त्वित्यर्घ्येण चाग्निमीलेति गव्यतः ॥ १४९ ॥
इषेत्वेति घृतेनाथ मधुना मधुवाततः । आप्यायस्वेति दुग्धेन
दधिक्राव्णेति वै दधि ॥ १५० ॥
अथ पूर्वत्रिके
उपत्वाग्न इतीक्ष्वद्भिर्मानस्तोकात् फलाम्भसा ।
अश्वावत्या कषायेण
अथ दक्षिणत्रिके
गन्धाम्भसाग्न-आयाहि पुष्पवत्या तु पुष्पकान् । हिरण्यवर्णाः
शुचयो ब्रह्मजज्ञानमित्यपि ॥ १५२ ॥
अ(था?थो) समुद्रज्येष्ठाद्यात् पश्चिमत्रितयेन तु । रक्षोहणं
वास्तोष्पते शन्नोदेव्यादिनापि च ॥ १५३ ॥
यवाम्भोविद्रुमाम्भोभिस्तिलाम्भोभिस्तथोत्तरे ।
दूर्वाम्भसायनेतेति श्रियो जातेति चोत्पलान् ॥ १५४ ॥
त्रिष्टुभाथ कुशाम्भोभिरथ शाल्युदकं पुनः ।
आशुःशिशान-आद्येन स्नपयेत् पार्वतीपतिम् ॥ १५५ ॥
मध्यस्थनवकुम्भेन महत्या व्योमविद्यया । अथवा
ब्रह्मभिश्चाङ्गैर्गायत्र्या शिवसञ्ज्ञया ॥ १५६ ॥
सावित्र्या मूर्तिमन्त्रैश्च स्नपयेद् व्योमविद्यया ।
पञ्चविंशतेः ।
अथ त्वेकोनपञ्चाशत्कलशानां तु मध्यतः ॥ १५७ ॥
हिरण्यरत्नगन्धैस्तु मध्यकुम्भं प्रपूरयेत् ।
पाद्याचामार्घ्यगव्याज्यमधुक्षीरदधीनि च ॥ १५८ ॥
मध्याष्टकस्य तूक्तानि पूरणेऽथैन्द्रपञ्चके ।
चन्दनागरुकर्पूरकुङ्कुमोशीरवारिभिः ॥ १५९ ॥
आग्नेये पञ्चके शस्तं पञ्चधान्यैश्च नैर्-ऋते ।
कुसुमोत्पलकल्हारपद्मश्वेतोत्पलैरपि ॥ १६० ॥
वायव्यपञ्चकेऽथैशे मल्लिकाजातिचम्पकैः । पाटलैः
करवीरैश्च पञ्चकं पूरयेत् क्रमात् ॥ १६१ ॥
शिवब्रह्माङ्गमन्त्रेशमध्यमं नवकं स्मृतम् ।
ऐन्द्रादिकाष्टदिङ्मध्य * * * * * मूर्तयः ॥ १६२ ॥
मध्याद् दक्षिणतोऽष्टानां वामाद्याः शक्तयो यथा ।
मध्यादुत्तरकोष्ठानां शर्वाद्यं मूर्तिपाष्टकम् ॥ १६३ ॥
तदनन्तरकोष्ठानां वामभीमादिकाष्टकम् ।
शिष्टानामष्टकोष्ठानां विद्येशाः स्युः क्रमाधिपाः ॥
१६४ ॥
तन्मन्त्रास्तारहृ * * * * * * * * तकम् । ब्रह्माङ्गैरेव
मध्यस्थेनाष्टकेनाभिषेचयेत् ॥ १६५ ॥
प्रागादिदिक्पञ्चकैस्तु चमकैः स्नपयेच्छिवम् ।
पावमानीहिरण्यादिचतुष्कोणस्थपञ्चकैः ॥ १६६ ॥
मध्ये शिवघटेनापि स्नपयेद् व्योमविद्यया ।
एकोनपञ्चाशतः ।
अथैकाशीतिके मध्यकलशे रत्नपञ्चकम् ॥ १६७ ॥
हेम चोक्तं सतीर्थाम्भस्तद्बाह्यकलशाष्टके ।
पाद्याचामार्घ्यगव्याज्यमधुदुग्धदधीन्यपि ॥ १६८ ॥
प्राच्यां तु नवके मध्ये चन्दनं रोचनामरु । कर्पूरकुङ्कुमं
कुष्ठं मांसीग्रन्थिमुरं तथा ॥ १६९ ॥
दक्षिणे वृषशृङ्गेभदन्तक्षेत्रनदीमृदः ।
तटाकगिरिवल्मीककूलीरह्रदमृत्तिकाः ॥ १७० ॥
चतुःक्षीरागविल्वाम्रमधूकाशोकजम्बुजाः । शुभास्त्वचध
वारुण्यां नवके क्रमशः स्मृताः ॥ १७१ ॥
कदलीपनसाम्राणि मातुलुङ्गं च डाडिमम् । जम्बीरं लिकुचं
चाथ नालिकेरं च जाम्बवम् ॥ १७२ ॥
फलान्युदीच्यनवके त्वथाग्नेय्यां समुद्रजम् । नादेयमथ
ताटाकं हृदाम्भः शुभकूपजम् ॥ १७३ ॥
हरिद्रालाजभसितकुसुम्भाम्भांसि वै नव ।
नीवारमुद्गमाषाश्च सिद्धार्थयवशालयः ॥ १७४ ॥
तिलप्रियङ्गुश्यामाका नैर्-ऋत्यां नवके स्मृताः । लक्ष्मीर्देवी
हरिक्रान्ता मुसली भृङ्गराजकः ॥ १७५ ॥
सदाभद्रा शक्रवल्ली भीता चैकदलाम्बुजम् । वायव्यनवके
द्रव्याण्येतानि स्युर्यथाक्रमम् ॥ १७६ ॥
पद्मद्वयं च कुमुदद्वयं चैवोत्पलत्रयम् । इन्दीवरं च
कह्लारमैशान्यां नवके क्षिपेत् ॥ १७७ ॥
पाद्यादिकैस्तु ब्रह्माङ्गैरिदंविष्ण्वादिभिस्तथा ।
तद्यथा -
इदं विष्णुर्विचक्रम आपो हि ष्ठा मयोभुवः ॥ १७८ ॥
अग्निमीले पुरोहितमिषेत्वेत्यादिना तथा । घृतं मिमिक्षेत्याद्येन
मधुवाता-ऋतायते ॥ १७९ ॥
आप्यायस्व समे तु ते दधिक्राव्णो अकारिषम् । प्राच्येन
नवकेनापोराजानमिति सूक्ततः ॥ १८० ॥
याम्यां पुरुषसूक्तेन कद्रुद्राद्येन पश्चिमे । इमाँ रुद्राय
तपस इत्युदङ्नवकेन तु ॥ १८१ ॥
आग्नेयनवकेनेमाँ रुद्राय स्थिरधन्वने । हिरण्यवर्णाः
शुचयः पावकाद्यनुवाकतः ॥ १८२ ॥
नैर्-ऋत्यां नवकेनाथ वायव्यां नवकेन तु ।
हिरण्यशृङ्गमित्याद्येनानुवाकान्ततः क्रमात् ॥ १८३ ॥
ऐशान्यां शन्न-इन्द्राद्यान्नवकेनाभिषिच्य तु ।
मध्यस्थशिवकुम्भेन महत्या व्योमविद्यया ॥ १८४ ॥
एकाशीतेः ।
अष्टोत्तरशते मध्ये रत्नहेमकुशाम्बुभिः । शिवकुम्भं
समापूर्य तद्बाह्यांशत्रिकेष्वपि ॥ १८५ ॥
न्यग्रोधोदुम्बराश्वत्थैः प्लक्षजम्बुपलाशजैः ।
शिरीषबिल्वमधुकैः सप्तपर्णासनार्जुनैः ॥ १८६ ॥
अग्न्यादिष्वैक्षवं क्षौद्रं तिलं गव्यं तु पञ्चकम् ।
मध्यादिपूर्वनवके कुशमूलाष्टमृत्तिकाः ॥ १८७ ॥
शाकप्रियङ्गुमाषाश्च यवगोधूमसर्षपाः । मुद्गास्तिलाश्च
निष्पावा याम्ये मध्यादितो नव ॥ १८८ ॥
चम्पकोन्मत्तकद्रोणैरशोककुमुदोत्पलैः । करवीराब्जजातीभिः
पूरयेत् पश्चिमे नव ॥ १८९ ॥
बिल्वाम्रबदरीपूगनालिकेराणि डाडिमम् । रम्भापनसजम्बूनि
कौबेर्यां पूरयेन्नव ॥ १९० ॥
नदीह्रदतटाकाब्धिशुभकूपाम्बुकुङ्कुमम् । रजनीशालिपिष्टं
च भस्म चाप्यनलाष्टके ॥ १९१ ॥
लक्ष्मी देवी हरिक्रान्ता सहा चैकदलाम्बुजम् । शक्रवल्ली
सदाभद्रा मुसली नैर्-ऋताष्टके ॥ १९२ ॥
द्वे तुलस्यायपामार्गो भृङ्गराडपराजिता । भीता दमनकं
दूर्वेत्युक्तं स्यान्मारुताष्टके ॥ १९३ ॥
ऐशाष्टकं त्वष्टगन्धैश्चन्दनाद्यैस्तु पूरयेत् । अथ
त्रिकेषु श्रीपर्णी शमी च खदिरं ततः ॥ १९४ ॥
स्प्तच्छदं च ककुभमसनं च कदम्बकम् । रक्तचन्दनलोघ्रे च
सरलं सर्जमेव च ॥ १९५ ॥
बकुलं कर्णिकारं च पाटलाररवथे तथा । तमालबिल्वौ
धात्री च चतुःक्षीरनगा अपि ॥ १९६ ॥
रुद्राक्षं पुत्रजीवं च त्रिकेप्वापूरयेत् क्रमात् । मध्ये
चतुस्त्रिकाणां तु पूर्वादिक्रमयोगतः ॥ १९७ ॥
मूलं ब्रह्माणि चाङ्गानि मन्त्राः स्युर्दैवतानि च ।
कोणकोष्ठचतुष्कस्य क्ष्मादिमूर्तिचतुष्टयम् ॥ १९८ ॥
दैवतं चापि नामानि मन्त्रास्तेषां नमोन्तकाः ।
आपोराजानमाद्यात् प्राग् याम्ये पुरुषसूक्ततः ॥ १९९ ॥
कद्रुद्राद्येन वारुण्यामिमाँ रुद्राय चोत्तरे । नवकानां तु
मन्त्राः स्युरापो विष्णुश्च पूर्वयोः ॥ २०० ॥
सूक्तयोर्दैवतं चाथ रुद्रः स्याच्छिष्टयोरपि ।
आग्नेयस्याष्टकस्येमाँ रुद्राय स्थिरधन्वने ॥ २०१ ॥
हिरण्यवर्णाःशुचयः इत्याद्यं नैर्-ऋताष्टके ।
हिरण्यशृङ्गमित्याद्याद् वायव्याष्टघटैरपि ॥ २०२ ॥
शन्न इन्द्रादिकं सूक्तमैशान्यामष्टकस्य तु । रुद्रश्चापो
वरुणश्चेन्द्राग्नी दैवतं क्रमात् ॥ २०३ ॥
एतैर्देवमभिषेचयेदिति यावत् ।
त्रिकाणामथ चाष्टानामिन्द्राग्न्योरन्तरत्रिकान् ।
प्रारभ्याङ्गुष्ठमात्रश्च भुवनेश्वरसञ्ज्ञकः ॥ २०४ ॥
ईशानश्चैकपिङ्गाक्ष उद्भवश्च भवस्तथा । महादेवो
महातेजा मन्त्रास्तद्देवताश्च ते ॥ २०५ ॥
तारादिनमोन्तानि तत्तन्नामधेयानि मन्त्रा इति यावत् । इदं
विष्ण्वादिक चाथ दधिक्राव्णादिकत्रयम् ॥ २०६ ॥
अग्निमीलेतिपूर्वा ऋगिषेत्वेत्यादिकं तथा । घृतं
मिमिक्षेत्याद्यं च मधुवाता ऋतायते ॥ २०७ ॥
मन्त्राः स्युर्देवताश्चासामाद्याया विष्णुरुच्यते ।
दध्यादित्रितयस्याप ऋग्वेदादेस्तु पावकः ॥ २०८ ॥
इषेत्वाद्यस्य सविता घृतादेरपि चानलः । मध्वादेः पितरो
दैवमाप्यायस्वादिके शशी ॥ २०९ ॥
आकाशोऽर्कश्च सोमश्च यजमानश्च दैवतम् । मन्त्राः पुरोवत्
पङ्क्त्यर्णव्योमव्यापिषडर्णकौ ॥ २१० ॥
अघोरास्त्रं तथास्त्रं च मन्त्रास्तद्देवता शिवः ।
एभिर्यथाक्रममभिषेचयेदिति यावत् ।
मध्येन शिवकुम्भेन महत्या व्योमविद्यया ॥ २११ ॥
अभिषिञ्चेन्महादेवं देवतास्य शिवः स्वयम् ।
अष्टोत्तरशतस्य ।
द्विपञ्चाशत्समधिकद्विशतस्नपनस्य तु ॥ २१२ ॥
मध्यकुम्भं यथापूर्वं हेमरत्नकुशाम्बुभिः । पूरयेदथ
दिक्ष्वष्टनवकान्यपि तद्बहिः ॥ २१३ ॥
चतुष्कोणस्थनवकान्यपीत्यष्टोत्तरं शतम् ।
अष्टोत्तरशतोक्तैस्तु द्रव्यैरेवाभिपूरयेत् ॥ २१४ ॥
तैरेव देवतामन्त्रैरथ द्वादशकान्यपि । चतुर्दिक्षु
क्रमादेभिर्द्रव्यैरद्भिश्च पूरयेत् ॥ २१५ ॥
नन्द्यावर्तं च धुर्धूरं कपित्थं च कदम्बकम् ।
माल्यङ्गश्चैव भद्रा च तद्वद् द्रावणबिल्वकम् ॥ २१६ ॥
मरुकं पद्मतुलसी मुण्डी कुरवकार्जके । मध्यद्वादशके
प्राच्यां सोमकर्पूरवल्लिके ॥ २१७ ॥
कुब्जकं शतपत्रं च कर्णिकारं बकं तथा ।
श्वेतार्कमरुणागस्तिकुसुमं काञ्चनारकम् ॥ २१८ ॥
मल्लिकायुगलं रक्तकरवीरं च दक्षिणे । तमालं माधवी
श्वेतमन्दारं पाटलद्वयम् ॥ २१९ ॥
गोक्षुरं भूकदम्बं चाध्यङ्कोलस्य च पल्लवः । बीजपूरस्य
कुसुमं लवङ्कस्य च पल्लवः ॥ २२० ॥
राजार्कः स्वर्णयूथी च प्रत्यग् द्वादशकस्य तु ।
श्वेतपल्लवपुष्पे द्वे श्वेतदूर्वा महामरी ॥ २२१ ॥
कच्चोरोशीरमुस्ताश्च पलाशकुसुमं ततः । सितासितोन्मत्तपुष्पे
शेफाली बृहती तथा ॥ २२२ ॥
मध्यदादशके सौम्ये द्रव्याणि स्युर्यथाक्रमम् ।
पार्श्वद्वादशकान्यष्टावापूर्य स्वच्छवारिभिः ॥ २२३ ॥
सचन्दनं हिरण्यं च पुष्पाण्यप्येषु निक्षिपेत् ।
अष्टोत्तरशतप्रोक्तैमस्त्रैस्तैर्नवकैः क्रमात् ॥ २२४ ॥
एकादसानुवाकैस्तु रौद्रद्वादशकैः शिवम् । ऐन्द्रादिकैस्तु
संस्नाप्य शिष्टद्वादशकेन तु ॥ २२५ ॥
ब्रह्मभिर्मध्यमं कुम्भं महत्या व्योमविद्यया ।
द्विपञ्चाशदधिकद्विशतस्य ।
कलशत्रिशतस्यापि हेमरत्नकुशाम्बुभिः ॥ २२६ ॥
मध्यकुम्भं समापूर्य तद्बाह्यकलशाष्टकम् । रत्नाष्टकेन
तीर्थाद्भिः समापूर्यास्य बाह्यतः ॥ २२७ ॥
अष्टोत्तरशतद्रव्यैस्तथैवापूर्य मन्त्रतः । तत्कोणे
नवकान्तः स्थपदानां तु चतुष्टयम् ॥ २२८ ॥
शुद्धाद्भिः पूरयेत् तस्माद् बाह्यलाङ्गलकोणगात् ।
द्विपञ्चाशद्द्विशतवद् द्रव्यैर्मन्त्रैश्च दैवतैः ॥ २२९ ॥
पूरयित्वा तु तन्मध्यनवकानि त्रिकाणि च ।
द्वादशाष्टप्रसङ्ख्यानि हेमाम्भोभिः प्रपूरयेत् ॥ २३० ॥
त्रिशतस्य ।
अष्टाधिकपञ्चशते मध्यकुम्भं तु पूर्ववत् ।
सपञ्चरत्नहेमाद्भिः समापूर्य यथाविधि ॥ २३१ ॥
बाह्ये विकारकुम्भांश्च तद्बाह्यनवकाष्टके ।
मध्यत्रिकाष्टके चैव सद्वादशश(तान्?तं) घटान् ॥ २३२ ॥
अष्टोत्तरशतद्रव्यैश्चतुर्भिश्चैव पूरयेत् । तद्बाह्यतस्तु
परितो नवकावरणद्वये ॥ २३३ ॥
चत्वारिंशत्प्रसङ्ख्यानि नवकानि भवन्ति हि । तेषां तु
मध्यकुम्भेषु तावद्द्रव्याणि निक्षिपेत् ॥ २३४ ॥
शिष्टद्रव्यचतुष्केण कोणकुम्भांस्तु पूरयेत् । शिष्टांस्तु
कलशान् सर्वाञ् शुद्धाम्भोमिः प्रपूरयेत् ॥ २३५ ॥
सहेमगन्धकुसुमान् मूलेन तु यथाविधि । मध्यावरणकुम्भैस्तु
रुद्रेणैवाभिषेचयेत् ॥ २३६ ॥
तद्बाह्ये नवकैः सर्वैः क्रमान्नारायणोदितैः । अध्य(?)गथ
वल्लीभिरभिषिच्य क्रमेण तु ॥ २३७ ॥
मध्यस्थनवकुम्भेन स्नपयेद् व्योमविद्यया । अथवा सर्वकुम्भैश्च
संहितामनुभिः क्रमात् ॥ २३८ ॥
ब्रह्मभिः शिवगायत्र्या सावित्र्या व्योमविद्यया । अभिषिञ्चेद्
गुरुर्देवं तत्तत्सूक्तान्यनुक्रमात् ॥ २३९ ॥
अष्टौ मूर्त्तिधरा विप्रा जपेयुः परितः स्थिताः ।
कुशकूर्चैस्तु कलशान् संस्पृशन्तस्तथा शिवम् ॥ २४० ॥
अष्टाधिकपञ्चशतस्य ।
अथ सप्तशते विंशत्यधिके मध्यमं घटम् । हेमरत्नैश्च
शुद्धाद्भिः पूरयेत् संहिताजपात् ॥ २४१ ॥
द्वासप्ततिं तु कलशांस्तद्बाह्ये नवकाष्टके । तावद्द्रव्यैः
क्रमान्मन्त्रैरष्टोत्तरशतोदितैः ॥ २४२ ॥
बाह्ये द्वासप्ततिव्यूहान् क्रमादावरणत्रये । तेषां
नवकमध्यस्थ कुम्भास्तावन्त एव हि ॥ २४३ ॥
तेषु द्रव्याणि तावन्ति क्रमात् तान्येकशः क्षिपेत् ।
द्रव्यद्वादशकं शिष्टं कोणेष्वावरणत्रये ॥ २४४ ॥
क्रमाद् द्वादशकुम्भेषु शार्वाशान्तं विनिक्षिपेत् ।
मध्यादिकेषु व्यूहेष्वप्येकाशीतिप्रसङ्ग्यया ॥ २४५ ॥
व्योमव्यापिपदान्येषु क्रमात् तावन्ति विन्यसेत् ।
तत्तदुद्दिष्टमध्वानं षड्विधं चैषु योजयेत् ॥ २४६ ॥
सम्पूज्य च विधानेन महत्या व्योमविद्यया । अभिषिञ्चेद्
गुरुर्देवं रुद्रेण ब्रह्मभिस्तथा ॥ २४७ ॥
प्राग्वन्मूर्तिधरा विप्राः कद्रुद्रं पौरुषं ततः ।
श्रीसुक्तं पवमानं च जपेयुः कूर्चपाणयः ॥ २४८ ॥
विंशत्यधिकसप्तशतस्य ।
पञ्चावरणयुक्तस्य सहस्रकलशस्य तु । गन्धकाञ्चनरत्नैश्च
कुशतीर्थजलैर्घटम् ॥ २४९ ॥
शिवाख्यं पूरयेन्मध्ये तद्भाह्यघटविंशतेः ।
अग्न्यादिकोणकुम्भांस्तु पाद्याचामार्घ्यगव्यकैः ॥ २५० ॥
शिष्टान् दुग्धघृतक्षौद्रदधीक्षुफलवारिभिः ।
कषायतोयगोमूत्रपुष्पगोमयकाञ्चनैः ॥ २५१ ॥
पृथग् बिल्वस्य पञ्चाङ्गैः सहाम्भोभिः प्रपूरयेत् ।
प्रथमावरणस्य ।
अथ द्वितीयावरणे दूर्वायवतिलाम्बुभिः ॥ २५२ ॥
शाल्युत्पलत्रयाम्भोभिश्चतुःक्षीरनगाङ्कुरैः ।
जम्बूशिरीषपालाशसप्तपर्णासनार्जुनैः ॥ २५३ ॥
प्रियङ्गुमाषगोधुममुद्गसर्षपवैणवैः ।
निष्पावकमहाव्रीहिश्यामाकाणुगवीथुकैः ॥ २५४ ॥
मसूरककुलस्थैश्चाप्याढकीभिश्च जर्तिलैः । सिद्धार्थैरपि
नीवारैः पूरयेत् तु यथाविधि ॥ २५५ ॥
ततो विशुद्धदेशस्थनदीवल्मीकतीर्थजाः । वृ(षभे?
षेभ)गिरिशृङ्गेभ्यः कुली(रे? र)क्षेत्रयोर्मृदः ॥ २५६ ॥
पलाशकुशबिल्वानां क्षीरागानां च मूलतः । वेद्या
वराहकृ(ष्टै?ष्टा)श्च मृदो देवगृहस्य च ॥ २५७ ॥
कुमुदोत्पलपद्मानां मूलेभ्यो मृत्तिकाः पृथक् ।
चम्पकद्वयमुन्मत्तत्रयं वै पाटलं यवम् ॥ २५८ ॥
अशोकद्रोणकुसुमकरवीरचतुष्टयम् । पद्मद्वयं च कुमुदद्वयं
वै तुलदीद्वयम् ॥ २५९ ॥
शतपत्रं कुब्जकं च माधवी मल्लिकाद्वयम् । सप्तकालं च
नारं च पुष्पे पुन्नागनागयोः ॥ २६० ॥
राजार्कं धवलार्कं च कल्हारेन्दीवरे तथा । सितारुणे च
मन्दारे कर्णिकारं महामरी ॥ २६१ ॥
आर्तिं कुसुम्भकुसुमं सितकृष्णापराजिते । पलाशपुष्पं
बकुलं नन्द्यावर्तं कदम्बकम् ॥ २६२ ॥
दमनं पद्मतुलसी मुण्डी कुरवकं तथा । हीरिबेरं
मरुवकं मुस्ता ग्र(न्थी? न्थि)रुशीरकम् ॥ २६३ ॥
बृहत्यारग्वधौ जम्बूपल्लवं चूतपल्लवम् ।
अरुणागस्तिकुसुममाम्रपुष्पं च चोरकम् ॥ २६४ ॥
शेफालीकुसुमं लक्ष्मी सहदेवी कृताञ्जलिः । भीतेन्द्रवल्ली
मुसलीभद्रे दूर्वाद्वयं तथा ॥ २६५ ॥
हरिक्रान्ता भृङ्गराजद्वयं चैकदलाम्बुजम् । भूकदम्ब
इतीमानि द्वात्रिंशदधिकं शतम् ॥ २६६ ॥
द्वितीयावरणस्य ।
तृतीयेऽपि च माल्यङ्गं शमीपुष्पं च तद्दलम् । अपामार्गः
शङ्खपुष्पं तापिञ्छं च तमालकम् ॥ २६७ ॥
ब्राह्मी रुद्रजटा सूर्यवर्तिनी च सुवर्चला । वनमाला तथा
श्यामा पट्टी रावणबिल्वकम् ॥ २६८ ॥
कर्पूरवल्लिका सोमवल्ली धात्र्यङ्कुरं तथा ।
दूर्वासनप्रसूने द्वे बकपुष्पं तथार्जकम् ॥ २६९ ॥
कुटजं सरलं कुष्ठं चन्दनं रक्तचन्दनम् । कुङ्कुमं च
मुरं भांसी कर्पूरं चागरुद्वयम् ॥ २७० ॥
जातीफलं च मञ्जिष्ठा देवदारुश्च रोचना । खषं
चषालपद्माक्षौ गन्धामलकगन्धकाः ॥ २७१ ॥
एलालवङ्गतक्कोलहरितालमनश्शिलाः । गैरिकं माक्षिकं
काक्षी सिन्दूरं दरदं शिखा ॥ २७२ ॥
अयस्तीक्ष्णमयस्कान्तस्ताम्रं त्रपु च पित्तलम् । सीसकं रजतं
स्वर्णं वैक्रान्तं चाभ्रकत्रयम् ॥ २७३ ॥
(सौ? सू)र्येन्दुकान्तौ स्फटिकं लोहं तुत्थं च कांस्यकम् ।
नालिकेराम्रपनसरम्भालिकुचडाडिमाः ॥ २७४ ॥
मातुलुङ्गं च जम्बीरं बैल्वमातुण्डिकाफलम् । पूगं च
बदरं द्राक्षा नारङ्गामलकीफले ॥ २७५ ॥
मधूकब्रह्मवृक्षौ च श्रीपर्णीखदिरावपि । पद्मकं
सर्जलोध्रौ च रौहीतकविकङ्कतौ ॥ २७६ ॥
बिल्वारग्वधशाकाश्च धात्री चैव हरीतकी । जम्बूश्च
साराण्येतेषां रत्नानि च पृथङ् नव ॥ २७७ ॥
वज्रादिकानि क्रमशो हैमान्यस्त्राण्यथो दश ।
हरिद्रायवगोधूमशालीचूर्णानि भस्म च ॥ २७८ ॥
मुद्गमाषकुलस्थानां चूर्णान्यपि च सक्तवः । धानाः
करम्बाश्चोडुम्बा बला चातिबला तथा ॥ २७९ ॥
समुद्रसिन्धुतीर्थाम्भो वापीकूपतटाकजम् । ह्रदनिर्झरतोयं
च रुद्राक्षं च यथाक्रमम् ॥ २८० ॥
इत्थं तृतीयावरणे कलशानां चतुष्टयम् । शतं च
चत्वारिंशच्च द्रव्यैरुक्तैः प्रपूरयेत् ॥ २८१ ॥
तृतीयावरणस्य ।
चतुर्थावरणे चाथ * * * कलशोत्तरम् । चतुश्शतं हि कलशान्
हेमकर्पूरकुङ्कुमैः ॥ २८२ ॥
नादेयैः पूरयेत् तोयैर्गायत्र्या शिवसञ्ज्ञया ।
चतुर्थावरणस्य ।
पञ्चमावरणे तद्वद् द्वासप्ततिशतद्वयम् ॥ २८३ ॥
कुम्भाः स्युस्तान् सकर्पूरचन्दनागरुवारिभिः ।
पूरयेच्छिवसावित्र्या प्रादक्षिण्याद् यथाविधि ॥ २८४ ॥
ततः सन्धिस्थकुम्भांस्तु तीर्थतोयेन पूरयेत् । त्रियम्बकेन
गन्धं च हिरण्यं चैव निक्षिपेत् ॥ २८५ ॥
सर्वत्रावृतिकुम्भानां पूरणे पूजने तथा । प्रागादिकं
स्यादीशान्तं क्रमोऽयं स्नपनेऽपि च ॥ २८३ ॥
व्यूहानां नवकादीनां प्राग्याम्याप्यैन्दवान्तकम् ।
अग्निरक्षोनीलेशान्तं पूरयेत् स्नपयेदपि ॥ २८७ ॥
ईशानाद्यास्तु सद्यान्तं मध्याद्यावरणेश्वराः ।
सदाशिवादयश्चापि शान्त्यतीतादिकाः कलाः ॥ २८८ ॥
अध्वानोऽपि पुनश्चैषु मध्याद्येषु स्थिताः क्रमात् । मध्यमे
शिवकुम्भे तु सर्वेषु कलशेष्वपि ॥ २८९ ॥
स्मर्तव्याः स्युः षडध्वानः समष्टिव्यष्टिमार्गतः ।
सर्वत्रापि च कुम्भेषु स्वर्णं माषमितं क्षिपेत् ॥ २९० ॥
तदर्धं वाप्यतोऽर्धं वा श्रेष्ठमध्याधमक्रमात् ।
त्रिद्व्येकनिष्कं श्रेष्ठाद्यं मध्ये शिवघटे क्षिपेत् ॥ २९१ ॥
सामान्यं सर्वकुम्भानां गव्यमध्वैक्षवं विना । पूरणं
शुद्धतोयेन वस्त्रं कूर्चं च काञ्चनम् ॥ २९२ ॥
पल्लवानि पिधानं च गव्यादीनां च तत् समम् ।
पञ्चावरणसहस्रकलशाधिकारः ।
अष्टोत्तरसहस्रस्य प्राग्वच्छिवघटं जलैः ॥ २९३ ॥
सरत्नहेमगन्धैस्तु समापूर्य यथाविधि । पूर्वादिदिक्पञ्चकेषु
द्रव्यैर्विंशतिभिः क्रमात् ॥ २९४ ॥
पूर्ववत् पूरयेन्मन्त्रैः पञ्चकान्यानलादिषु । शुद्धाम्भोभिः
सकर्पूरैः पूरयेत् कुसुमान्वितैः ॥ २९५ ॥
मध्यमव्यूहस्य ।
बाह्ये द्वितीयव्यूहे तु विकारनवकानि तु ।
तृतीयावरणप्रोक्तैर्माल्यङ्गाद्यैः प्रपूरयेत् ॥ २९६ ॥
द्वितीयव्यूहस्य ।
अथ तृतीयव्यूहे तु चतुर्दिङ्नवकानि तु । दूर्वादिनीवारान्तैस्तु
द्वितीयावरणोदितैः ॥ २९७ ॥
पद्माक्षरुद्राक्षाभ्यां च तत्त्वद्रव्यैस्तु पूरयेत् ।
शिष्टाशीतिप्रसङ्ख्यानां नवकानां यथाक्रमम् ॥ २९८ ॥
मध्यकुम्भांस्तु तावद्भिर्द्वितीयावरणोदितैः ।
नदीमृदादिकैर्द्रव्यैः पूरयेद् व्योमविद्यया ॥ २९९ ॥
अष्टद्रव्यैस्ततः शिष्टैर्द्वारकुम्भान् यथापुरम् । आपूरयेत्
तु मूर्त्तिशमन्त्रैरष्टाभिरेव तु । ३०० ॥
अष्टोत्तरसहस्रकलशानाम् ।
चतुर्व्यूहेऽपि मध्यस्थकुम्भं प्राग्वत् प्रपूरयेत् ।
ततस्त्रयाणां व्यूहानां दिक्कोणान्तांस्तु दिक्स्थितान् ॥ ३०१ ॥
व्यूहेषु लाङ्गलाभेषु कलशान् पूर्ववत् क्रमात् ।
पूर्वोक्तद्रव्यमन्त्रैश्च सन्धिस्थानपि पूरयेत् ॥ ३०२ ॥
पञ्चावरणवत् सर्वं देवताध्वादिकं स्मृतम् ।
चतुरावरणसहस्रकलशाधिकारः ।
एकविंशतिके व्यूहे मध्यकुम्भं च तद्बहिः ॥ ३०३ ॥
विंशतिं मध्यमव्यूहे प्राग्वद् द्रव्यैस्तु पूरयेत् ।
तद्बाह्यविंशतिव्यूहमध्यस्थकलशांस्ततः ॥ ३०४ ॥
दूर्वादिविंशतिद्रव्यैर्गोधूमान्तैः प्रपूरयेत् ।
ततोऽष्टदिक्षु व्यूहानां बाह्यावरणगान् घटान् ॥ ३०५ ॥
अष्टाविंशतिसङ्ख्यांस्तु प्रतिव्यूहं क्रमेण तु ।
मुद्गादिभिस्तु तावद्भिरुक्तैर्द्रव्यैः प्रपूरयेत् ॥ ३०६ ॥
अन्तर्व्यूहचतुष्कस्थकुम्भान् कुङ्कुमवारिभिः । सहरण्यैः
समापूर्य पार्श्वव्यूहाष्टकं बहिः ॥ ३०७ ॥
गोमूत्रगोमयक्षीरदध्याज्यैक्षवमाक्षिकैः ।
नालिकेरपयोभिश्च क्रमेणैवाभिपूरयेत् ॥ ३०८ ॥
अथाष्टदिक्षु व्यूहानामन्तरा प्रतिविंशतेः ।
चतुष्कोणस्थकलशाञ् शिष्टैर्द्रव्यैस्तु पूरयेत् ॥ ३०९ ॥
एकविंशतिव्यूहस्य ।
सहस्रकलशानां तु पृथगावरणक्रमात् । दैवतानि च
मन्त्राश्च कथ्यन्ते क्रमशोऽधुना ॥ ३१० ॥
नवव्यूहादिकानां च व्यूहैरावरणानि तु । पञ्चधा
पृथगूह्यानि पञ्चावरणवत् क्रमात् ॥ ३११ ॥
मध्यस्थशिवकुम्भस्य दैवतं हि सदाशिवः । ब्रह्माङ्गानि च
मूलं च मन्त्राः स्युर्व्योमविद्यया ॥ ३१२ ॥
गर्भावरणकस्याथ देवतास्त्वष्टमूर्तयः ।
द्वितीयावरणस्यापि वामाद्याः शक्तयः स्मृताः ॥ ३१३ ॥
तृतीयस्य तु मूर्तीशाः शर्वाद्या देवताः स्मृताः ।
चतुर्थावरणस्याथ दैवमङ्गुष्ठमात्रकम् ॥ ३१४ ॥
भुवनेशान ईशान एकपिङ्गेक्षणस्तथा । उद्भवश्च
भवश्चाथ महादेवो महाद्युतिः ॥ ३१५ ॥
पञ्चमावरणस्याथ शतरुद्रदशादिगाः ।
कपालीशोऽग्निरुद्रश्च याम्यो निर्-ऋतिसण्ज्ञकः ॥ ३१६ ॥
बलः शीघ्रो निधीशश्च विद्याधिपतिरष्टमः ।
एतेष्टदिक्स्थव्यूहानामधिदेवाः क्रमात् स्मृताः ॥ ३१७ ॥
द्वारशोभोपशोभादौ विद्येशा रक्षकाः स्थिताः ।
पाद्येनेदंविष्णुराद्यादापोहिष्ठेत्यनन्तरम् ॥ ३१८ ॥
आपः पुनन्त्वित्यर्घ्येण चाग्निमीलेति गव्यतः । इषेत्वेति
घृतेनापि मधुना मधुवाततः ॥ ३१९ ॥
आप्यायस्वेति दुग्धेन दधिक्राव्णादिना दधि ।
उपत्वाग्नेतीक्षुरसान्मानस्तोकात् करम्भकैः ॥ ३२० ॥
अश्वावत्या कषायाद्भिः सुमित्रानेति लाजकान् । अग्न आयाहि
धानाभिः पुष्पावत्या तु पुष्पकैः ॥ ३२१ ॥
समुद्रज्येष्ठतश्चापि ब्रह्मजज्ञानतोऽपि च । हरिद्राद्भिश्च
सक्त्वद्भिरभिषिञ्चेन्महेश्वरम् ॥ ३२२ ॥
रक्षोहणेन सिद्धार्थैः शन्नोदेव्या तिलाम्भसा ।
वास्तोष्पतेतिशाल्यद्भिर्दूर्वाद्भिश्चायनेति वै ॥ ३२३ ॥
पद्माम्भोभिः श्रियैजातात् त्रिष्टुभा चोत्पलाम्बुभिः ।
आशुश्शिशान-आद्येन स्नपयेन्मृत्तिकाम्बुभिः ॥ ३२४ ॥
श्रीसूक्ताद् गन्धतोयैस्तु कद्रुद्रेण फलाम्बुभिः । चमकेन तु
धान्याद्भिः साराद्भिः पौरुषेण तु ॥ ३२५ ॥
आपोराजानमाद्येन स्नपयेद् रत्नवारिभिः । त्रैयम्बकेन
भस्माद्भिरिमां रुद्राय कूप (पै?जैः) ॥ ३२६ ॥
कनिक्रदाद्याल्लोहाद्भिरीशानान्निर्झराम्बुभिः । पुरुषेण
तटाकाद्भिरघोरेण समुद्रगात् ॥ ३२७ ॥
वामदेवेन नद्यद्भिरजातेन ह्रदाम्बुभिः । तीर्थैरिमं मे
गङ्गेति गन्धद्वारेति गोमयात् ॥ ३२८ ॥
ओषध्यद्भिस्तु रुद्रेण स्वस्त्याद्येनाङ्कुराम्बुभिः । पवमानैः
कुङ्कुमाद्भिः सावित्र्या घनसारकैः ॥ ३२९ ॥
हिरण्यवर्णाः शुचय इत्याद्येन कुशाम्भसा । यासा राजेति
मन्त्रेण बिल्वपञ्चाङ्गवारिभिः ॥ ३३० ॥
यासां देवेति मन्त्रेणगोमूत्रेणाभिषेचयेत् । शिवेन मा
चक्षुषेति स्नपयेत् पल्लवाम्बुभिः ॥ ३३१ ॥
स्नपयेद् धातुसलिलैः पवमानःसुवर्जनात् ।
जातवेदःपवित्राद्यैरनुवाकान्ततः क्रमात् ॥ ३३२ ॥
यवमाषादिभिश्चूर्णैः स्नपयेद् घर्षयेत् तथा । अम्भस्यपार
इत्याद्याद्धैमास्त्रसलिलैरपि ॥ ३३३ ॥
तरत्समन्दीत्याद्येन रुद्राक्षसलिलैस्ततः ।
अभिषिञ्चेन्महादेवं पुष्पधूपजलान्तरम् ॥ ३३४ ॥
प्रारभ्य गर्भावरणादाबाह्यावरणान्तकम् । क्रमेण
दिग्विदिग्योगात् कलशैः स्नपयेच्छिवम् ॥ ३३५ ॥
एकैकावरणव्यूहनवकस्नपनादनु । स्नपयेच्छिवगायत्र्या
सपुष्पैःशीतवारिभिः ॥ ३३६ ॥
पुष्पधूपार्चितं कृत्वा स्नपयेच्च पुनः पुनः । आसमाप्तेस्तु
कुम्भानां स्नपयित्वोदितक्रमात् ॥ ३३७ ॥
मार्जयेन्मार्जनद्रव्यैरीशानेन तु चोदितैः । ब्राह्मीं च
वैष्णवीं रौद्रीं विमलां च कृताञ्जलिम् ॥ ३३८ ॥
रजनीं सहदेवीं च शिरीषं सूर्यवर्तिनीम् । सदाभद्रां
कुशाग्राणि मिलित्वा मार्जयेच्छिवम् ॥ ३३९ ॥
पञ्चाशद्दर्भकूर्चेन शन्न-इन्द्रादिना ततः । सम्प्रोक्ष्य
स्नपयेच्चाद्भिः कुर्यान्नीराजनं ततः ॥ ३४० ॥
शालिपिष्टादिविहितैर्हेमामत्रादिषु क्रमात् ।
देवाष्टमङ्गलैश्चान्यैर्लोकपालायुधैरपि ॥ ३४१ ॥
उच्चैः पिष्टप्रदीपैश्च दूर्वासिधार्थपङ्कजैः ।
दध्यक्षतैश्च सुन्यस्तैः पुंसा नीराजयेद् विभुम् ॥ ३४२ ॥
सङ्गीतनृत्तवादित्रैः शङ्खकाहलगोमुखैः ।
तिमिलानकभेर्याद्यैर्निनदद्भिरनारतम् ॥ ३४३ ॥
वेदघोषैश्च मूर्च्छद्भिर्जयशब्दादिमङ्गलैः । नीराज्य तद्वत्
स्नपयेत् ततो मध्यघटेन तु ॥ ३४४ ॥
अभिषिच्याथ शुद्धेन वाससा परिमार्जयेत् । ततः
सुसूक्ष्मैरहतैरौ(क्ष्णैः? र्णैः) कार्पासिकैरपि ॥ ३४५ ॥
परिधाप्य च मूलेन पाद्यं दद्यादथेशतः । हृदयेन
मुखेष्वर्घ्यं नेत्रेणाचमनं तथा ॥ ३४६ ॥
दत्त्वा विभूषणैर्हेमैर्नानारत्नविचित्रितैः ।
मकुटाद्यैर्यथाशोभं पिण्डिकाभूषणान्तकैः ॥ ३४७ ॥
आभूषयेत् तु वक्त्रेण रूपिणाचामयेदपि (?) । चन्दनेन
सुपिष्टेन सकर्पूरहिमाम्भसा ॥ ३४८ ॥
कुङ्कुमागरुमिश्रेण लिम्पेद् गन्धेन वामतः । पुष्पैरपि च
मालाभिरलङ्कुर्यादजाततः ॥ ३४९ ॥
असितागरुकर्पूरपूरैस्तु सितयान्वितैः । धूपयेच्छिखया
शम्भुं दीपं दद्याच्च वर्मतः ॥ ३५० ॥
सकर्पूरदशैर्दीपैः सुगन्धाद्यैः प्रदीपितैः ।
आरात्रिकमथास्त्रेण भ्रमयित्वावतारयेत् ॥ ३५१ ॥
नैवेद्यमथ सुस्वादु सिद्धं कलशसम्मितैः ।
शालिजैस्तण्डुलप्रस्थैस्ततोऽर्धैर्वाप्यतोऽर्धतः ॥ ३५२ ॥
श्रेष्ठादिकं निवेद्यं स्यात् तद्युक्ताज्याधिकप्लुतम् । पायसं
चाथ दध्यन्न सहरिद्रं सुसाधितम् ॥ ३५३ ॥
कृसरान्नं गुलान्नं च मुद्गान्नं च यथाक्रमम् ।
ईशानादिमुखाग्रेषु प्राज्याज्याक्तं निवेदयेत् ॥ ३५४ ॥
सर्वत्र दधिमध्वाज्यसितोपलरसोत्तरम् । ससूपं
सूपदंशाढ्यं समूलफलमोदकम् ॥ ३५५ ॥
निवेदयीत शर्वाय तोयं शीतं सुगन्धि च ।
लवङ्गजातितक्कोलकर्पूरैलान्वितं जलम् ॥ ३५६ ॥
हस्तावसेचनं दत्त्वा प्रदायाचमनं तथा ।
सजातिफलतक्कोलकर्पूरक्रमुकान्वितम् ॥ ३५७ ॥
ताम्बूलं विनिवेद्याथ स्तुत्वा नत्वा च भक्तितः । शिवं
प्रदक्षिणीकृत्य चाग्निं संरुध्य वै क्रमात् ॥ ३५८ ॥
वह्निस्थं च शिवं कुम्भे कुम्भस्थं हृदि योजयेत् । विसृज्य
द्वारकोकेशान् भोजयेद् गुरुमूर्तिपान् ॥ ३५९ ॥
अध्येतॄन् परिचारांश्च ब्राह्मणान् लिङ्गिनस्तथा ।
दीनान्धकृपणादींश्चाप्यन्यानन्नार्थिनो जनान् ॥ ३६० ॥
मृष्टान्नाज्यैस्तु सन्तोष्य प्रतिष्ठोक्तक्रमेण तु । तोषयेद्
दक्षिणाभिश्च वसनाभरणादिभिः ॥ ३६१ ॥
गोभिर्ग्रामैर्गजाश्वाद्यैः सन्तर्प्याथ प्रसन्नधीः ।
यजमानः सहाचार्यः क्षालिताङ्घ्रिकराननः ॥ ३६२ ॥
स्वाचान्तोऽन्तः प्रविश्येशं नमस्कृत्य प्रसाद्य च ।
सगन्धदूर्वाकुसुमं जलं सङ्गृह्य पाणिना ॥ ३६३ ॥
स्नपनार्चनदानादेः फलं निरवशेषतः । निवेदयीत शर्वाय
श्लोकेनानेन पादयोः ॥ ३६४ ॥
ॐ
वित्तशाठ्यविहीनेन भक्त्या शक्त्यनुरूपतः । स्नपितः
पूजितश्च त्वं दत्तं देयं च यन्मया ॥ ३६५ ॥
तत् सर्वं मम देवेश! प्रसन्नस्त्वं सहाम्बया । प्रतिगृह्णीष्व
तच्चेदं ममास्तु फलसाधकम् ॥ ३६६ ॥
इत्यर्पयेद् बुभुक्षुश्चेन्मुमुक्षुरपि तत् तथा । त्वत्प्रसादेन
कर्मेदं मास्तु मे नाथ! बन्धकम् ॥ ३६७ ॥
इति देवस्य पादाब्जद्वये कर्म समर्पयेत् ।
इति ह निगदितोऽयं शैवसिद्धान्तसिद्धो
दशशतकलशादिर्नन्दकुम्भावसानः । स्नपनविधिरुदारः
श्रीमतश्चन्द्रमौले- रभिमतपुरुषार्थप्रार्थनाकल्पवृक्षः
॥ ३६८ १।२ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे क्रियापादे
स्नपनपटलः पञ्चाशत्तमः ।