४९

अथ एकोनपञ्चाशः पटलः ।

महोत्सवं त्रिभिर्मासैश्चतुर्भिः षड्भिरेव वा । * * * * * * * *

चैत्रादिकेषु मासेषु मासा * सितपर्वसु । उत्सवावभृथस्नानं
सङ्कल्प्यास्मात् पुरैव तु ॥ २ ॥

यात्रां प्रवर्तयेच्छम्भोर्गणेभ्यो विकिरेद् बलिम् । कुर्याद्
विशेषपूजां चाप्यष्टा * * * * * * ॥ ३ ॥

रुद्रनन्दर्षिसङ्ख्यैः श्रेष्ठादिकोत्सवाः ॥ ४ ॥

उक्ताः पञ्चत्र्येकदिनैर्भवन्त्यल्पोत्सवास्त्रयः ।
ध्वजारोपणपूर्वं तु कुर्या * * * * * * ॥ ५ ॥

न ध्वजारोपणं शस्तं पञ्चाहादिष्विह त्रिषु ।
उत्तमाद्युत्सवानां तु त्रिद्व्येकगुणवासरात्(?) ॥ ६ ॥

पूर्वमेव शुभे लग्ने ध्वजारोपणमाचरेत् । तस्मिन्नेव दिने रात्रौ
भेरीसन्नादनं स्मृतम् ॥ ७ ॥

महोत्सवानां प्रत्येकमङ्कुरार्पणकत्रयम् । ध्वजाङ्कुरः स्यात्
प्रथमो द्वितीयश्चोत्सवाङ्कुरः ॥ ८ ॥

तृतीयोऽवभृथार्थः स्यात् सर्वे स्युः पूर्वमर्पिताः ।
ध्वजन्दण्डतरुः पूगस्त्वक्सारः शाक एव वा ॥ ९ ॥

सालो वा चम्पकः शस्तो रक्तसरोऽसनस्तथा । अकोटरो निर्व्रणः
स्याद् ऋजुर्ग्रन्थ्यादिवर्जितः ॥ १० ॥

सवल्कलौ वेणुपूगावन्ये सर्वेऽप्यवल्कलाः । मूलाग्रयोः
समच्छेदाः साधुवृत्ता मनोरमाः ॥ ११ ॥

ध्वजदण्डस्य तुङ्गं तु विज्ञेयं द्वारतुङ्गतः ।
पञ्चपञ्चगुणं श्रेष्ठं मध्यमत्यष्टिसम्मितैः ॥ १२ ॥

कनिष्ठ स्याद् दशगुणमथ स्तूपिसमोच्छ्रयः । मुख्यं
कण्ठमितं मध्यं नीचं वृषतलोच्छ्रितम् ॥ १३ ॥

त्रिद्व्येकगुणकं वा स्याद् विमानादिति केचन । चत्वारिंशच्च
षट्त्रिंशत् त्रिंशच्चैवाङ्गुलानि तु ॥ १४ ॥

श्रेष्ठादिध्वजदण्डानां नाहाः स्युस्त्रिविधाः क्रमात् ।
ध्वजदण्डसजातीयस्तूपदण्डतरुर्भवेत् ॥ १५ ॥

ध्वजदण्डचतुर्थांशात् पञ्चांशाद् वा षडंशतः ।
उपदण्डस्य तुङ्गं स्यात् तन्नाहोद्वादशाङ्गुलः ॥ १६ ॥

विकारमनुसूर्यांशैरायताः सार्धविस्तृताः ।
सच्छिद्राग्रास्त्रयस्कन्धाश्छिद्रप्रोतोपदण्डकाः ॥ १७ ॥

प्रविष्टा ध्वजदण्डाग्रे युक्त्या कार्याः समान्तराः ।
उपदण्डः केतुदण्डादग्रे तालाधिकायतः ॥ १८ ॥

तस्याग्राधस्तलामात्रे (?) वलयस्त्वायसो भवेत् ।
पताकाबन्धनीरज्जुस्तदन्तः संविशेद् यथा ॥ १९ ॥

कार्पासिकी यन्त्ररज्जुः स्थूला मध्यमया समा । द्विगुणा
ध्वजदण्डोच्चा क्षालिता सुविशोधिता ॥ २० ॥

ध्वजस्थानं वृषाग्रे वा बलिपीठाग्रतोऽपि वा । कुर्यात् तु
मध्यहारायां मर्यादामध्यमेऽथवा ॥ २१ ॥

द्वारतुङ्गाद् रविगुणं पुरोद्वाराद् विहाय तु । क्रमेण
नाभिकट्यूरुदघ्ने गर्त्ते विलेपिते ॥ २२ ॥

हेमकूर्मं निधायेष्ट्वा सुलग्नादौ दिवैव तु । ध्वजदण्डं
समुच्छ्रित्य दर्भमालान्द्यलङ्कृतम् ॥ २३ ॥

शङ्खतूर्यादिनिर्घोषैः स्थापयेयुर्मुदान्विताः ।
तन्मूलवेदिकां कुर्याद् द्व्येकहस्तततोच्छ्रयाम् ॥ २४ ॥

द्वारोच्चत्र्यंशतो द्व्यंशव्यासामेकांशमुन्नताम् ।
क्रमाच्छिलेष्टकामृद्भिः श्रेष्ठाद्या वेदिकाः स्मृताः ॥ २५

पताकायास्तथायामो नन्दाष्टमुनिकिष्कुभिः । तत्पञ्चांशेन
तद्व्यासो व्यासार्धाच्छिखरं भवेत् ॥ २६ ॥

पुच्छत्रयं द्वयं वा स्याद् व्यासाद् दीर्घं क्रमात् कृशम् ।
स्वायामपञ्चभागैकभागान्मध्ये वृषं लिखेत् ॥ २७ ॥

शुक्लो वृषो रक्तखुरो रक्तश्रवणशृङ्गवान् ।
सितासितविशालाक्षः सुग्रीवः सुमुखाकृतिः ॥ २८ ॥

सुवालधिः सुपादोरुः पीनोत्तुङ्गककुद् भवेत् । शयितो वा स्थितो
वा स्याद् यथोक्तवृषलक्षणः ॥ २९ ॥

ध्वजोच्छ्रयात् पूर्वदिने पूर्वरात्रेऽधिवासनम् । कुर्याद्
विशेषपूजां च शिवाय वृषभाय च ॥ ३० ॥

वृषभाय तु मुद्गान्नं निवेद्याभिप्रणम्य च । वृषाग्रे
स्थण्डिलं कृत्वा शालिभिस्तण्डुलैरपि ॥ ३१ ॥

तस्मिन् नवपदं कृत्वा कलशान् नव विन्यसेत् । आपूर्य
शुद्धसलिलैः कूर्चहेमाम्ब्ररान्वितम् ॥ ३२ ॥

अलङ्कृत्य वृषं मध्ये परितोऽष्टौ च दिक्पतीन् । आवाह्य
सम्यग् गन्धाद्यैरभिपूज्य यथाविधि ॥ ३३ ॥

तारादिवृषमन्त्रेण स्वगायत्र्या वृषं यजेत् ।

ॐ वृषभाय नमः । ॐ महाबलाय नमः । ॐ हरवाहनाय
नमः । ॐ सौरभेयाय नमः । ॐ तीक्ष्णशृङ्गाय विद्महे
वेदपादाय [ख्: महादेवाय धी] धीमहि । तन्नो वृषभः
प्रचोदयात् ।

स्वैर्मन्त्रैरष्टलोकेशांस्तदग्रे स्थण्डिले पुनः ॥ ३४ ॥

पताकां विन्यसेत् तस्मिन् वृषमन्त्रेण तां यजेत् ।
तस्माद्धस्तद्वये कृत्वा मण्डलं चतुरश्रकम् ॥ ३५ ॥

तत्राग्निं सम्यगाधाय कृत्वा कर्म शिवानले । पलाशसमिधो
हुत्वा वृषमन्त्रेण देशिकः ॥ ३६ ॥

तिलानाज्यं चरुं चापि पृथगष्टोत्तरं शतम् । पूर्णां
स्विष्टकृतं चापि हुत्वा वह्निं विसर्जयेत् ॥ ३७ ॥

सुव्युष्टायां रजन्यां तु कृतनित्यक्रियो गुरुः । पूर्वाह्ने
वाथ मध्याह्ने पूर्वरात्रे सुलग्नके ॥ ३८ ॥

शुश्रूषुभिर्द्विजैः शुद्धैः सोष्णीषैः सोत्तरीयकैः ।
ध्वजमुद्धृत्य यन्त्रेण वाहयेच्छिरसाथवा ॥ ३९ ॥

शङ्खभेर्यादिनिर्घोषैः कृत्वा ग्रामप्रदक्षिणम् । अन्तः
प्रविश्य निर्दिष्टे ध्वजस्थाने तु विन्यसेत् ॥ ४० ॥

पुण्याहं वाचयित्वाथ तज्जलैः क्षालयेद् ध्वजम् । दण्डस्य
मूले मध्येऽग्रे वृषषण्मुखमारुतान् ॥ ४१ ॥

तत्तन्मन्त्रेण सम्पूज्य गीतवाद्यादिमङ्गलैः । वृषकुम्भं
समानीय ध्वजोपान्ते तु विन्यसेत् ॥ ४२ ॥

कुम्भस्थान् वृषमन्त्रांस्तु ध्वजे वृषहृदि न्यसेत् ।
मङ्गलाङ्कुरदीपाद्यैरलङ्कृत्य यथाविधि ॥ ४३ ॥

रज्ज्वा पताकासङ्गिन्या गायत्र्या वृषभस्य तु । ध्वजमारोपयेत्
सम्यग् रज्ज्वा दण्डं च वेष्टयेत् ॥ ४४ ॥

लोकपालास्थितैः कुम्भैः ध्वजमूलेऽभिषेचयेत् । तन्मूले
ध्वजमाराध्य निवेद्यान्तं यथाविधि ॥ ४५ ॥

नमस्तेऽस्तु त्रिणेत्राय ध्वजाधिपतये नमः । नमोऽस्तु नन्दिने
तुभ्यमुत्सवस्य प्रसिद्धये ॥ ४६ ॥

अथ ध्वजस्य पुरतः स्थण्डिले शालितण्डुलैः । विहिते विन्यसेद्
भेरी वाससा समलङ्कृताम् ॥ ४७ ॥

रुद्रं दक्षिणतो भेर्या वामस्तु जनार्दनम् । मध्ये
ब्रह्माणमाराध्य कोणदण्डे गुहं यजेत् ॥ ४८ ॥

तदग्रे स्थण्डिले पद्मं विलिख्य शुभकर्णिकम् । तत्र शूलं
प्रतिष्ठाप्य यथावदभिपूजयेत् ॥ ४९ ॥

ततस्त्रियम्बकाद्येन मन्त्रेण प्रथमं गुरुः । कोणेन ताडयेद्
भेरीमिदंविष्ण्वादिना ततः ॥ ५० ॥

तृतीयं ब्रह्मजज्ञानमन्त्रेणैव तु ताडयेत् । वाद्यकारं
ततः स्नातं शुक्लवस्त्राद्यलङ्कृतम् ॥ ५१ ॥

आहूय वादयेत् तेन त्रिमार्गपरिवर्तनात् । ततोऽन्नलिङ्गमुत्थाप्य
शङ्खभेर्यादिनिःस्वनैः ॥ ५२ ॥

गीतनृत्तरवैश्चैवच्छत्रचामरमङ्गलैः । ग्रामप्रदक्षिणं
कुर्वन् ब्रह्मेन्द्रादीन् दिगीश्वरान् ॥ ५३ ॥

दिक्षु सन्धिषु सम्पूज्य मन्त्रैः श्लोकैर्निजैः स्तवैः ।
आवाह्य चा * भिष्टूय शुद्धान्नेन बलिं क्षिपेत् ॥ ५४ ॥

भो भो ब्रह्मंस्त्वयेत्याद्यैः शिवाज्ञां श्रावयेदपि । ततो
देवालयं गत्वा ध्वजस्य पुरतः स्थितः ॥ ५५ ॥

रुद्रादित्यान् वसून् सोममश्विनौ च मरुद्गणान् । पितॄनृषीश्च
गन्धर्वयक्षविद्याधरासुरान् ॥ ५६ ॥

नागकिन्नररक्षांसि पिशाचान् भूतनायकान् । अब्धीनप्सरसः
सिद्धान् नदीः शैलान् वनस्पतीन् ॥ ५७ ॥

आवाह्योत्सवसेवार्थं स्वैः स्वैस्तारादिनामभिः । आगच्छन्त्विति
च ब्रूयाच्छिवाज्ञां श्रावयेच्च तान् ॥ ५८ ॥

भो भो रुद्रगणाः स्वैः स्वैः परिबर्हैर्गणैः सह ।
सेव्योऽयमुत्सवः शम्भोः सुसन्तुष्टैः शिवोज्ञया ॥ ५९ ॥

इत्यादिभिस्तु देवादीञ्च्छ्रावयेत् स्वस्वनामभिः । रात्रौ बलिं च
विकिरेच्छङ्खभेर्यादिनिस्वनैः ॥ ६० ॥

समालिप्य प्रतिदिनं निवेद्यान्तं यजेद् ध्वजम् ।

ध्वजोच्छ्रयाधिकारः ।

अथोत्सवदिने प्राप्ते वीथीस्तु परिशोधयेत् ॥ ६१ ॥

शिवालयग्रामपुरपत्तनादिषु सर्वतः ।

अत्र मञ्जर्यां -

सम्मार्ज्य ग्रामवीथीः प्रतिदिशमभितः सेचयेद् गन्धतोयै-
रुत्फुल्लैर्दिव्यगन्धैः प्रतिनवकुसुमैः संस्तरेत् तासु भूयः ।
कुर्यात् पीठान् यथाशास्वपि बलिविधये ग्रामपर्यन्तदेशे
ग्रामान्तश्चत्वरेषु प्रतिसुरनिलयं द्वारि चैत्येषु मूले ॥

द्वारगोपुरवप्रान्तर्वीथीष्वपि च सर्वतः ॥ ६२ ॥

नालिकेरेक्षुकदलीपूगान् पुष्पद्रुमानपि । प्रागेवारोपयेन्नोचेत्
तद्दिनेषूपपत्तितः ॥ ६३ ॥

समूलकदलीपूगैरम्लायद्भिर्विभूषयेत् । तोरणैश्च
ध्वजैश्चित्रैः पुष्पमालावलम्बितैः ॥ ६४ ॥

दीपप्रासादवृक्षाद्यैर्यथास्थानं निवेशितैः ।
डोलावितानयन्त्राद्यैरलङ्कृत्य यथाविधि ॥ ६५ ॥

उत्सवाहस्सु कुर्वीत शम्भोर्नैमित्तिकार्चनम् । यथाविभवसारं
तु वित्तशाठ्यविवर्जितः ॥ ६६ ॥

पञ्चामृतैश्च विधिवत् पञ्चगव्येन चाम्भसा । गन्धोदकेन
शीतेन चाभिषिञ्चेन्महेश्वरम् ॥ ६७ ॥

सशङ्खभेरितिमिलापणवानकवेणुषु । नदत्सु
पिष्टदीपाद्यैर्नीराज्यं तु यथाविधि ॥ ६८ ॥

ब्रह्मभिः पावमानीभिः कद्रुद्रायादिना तथा ।
रुद्रश्रीपौरुषैः सूक्तैः स्नापयित्वा यथाक्रमम् ॥ ६९ ॥

सुसूक्ष्मैर्वसनैः शुक्लैर्नानावर्णैर्दुकूलकैः ।
चन्दनागरुकर्पूरश्लक्ष्णपिष्टैः सकुङ्कुमैः ॥ ७० ॥

लिङ्गपीठं समालिप्य सुवर्णकुसुमादिभिः । मुक्तपुष्पैश्च
मालाभिर्हेमपट्टैश्च भूषणैः ॥ ७१ ॥

अलङ्कृत्यालयं चापि चित्रैः कुसुममण्डपम् ।
चन्दनागरुकर्पूरपुष्पधूपैश्च पूरयेत् ॥ ७२ ॥

सकर्पूरदशैदीपैः सुगन्धस्नेहपूरितैः ।
आलयान्तर्बहिश्चापि निवेद्यान्तं यजेच्छिवम् ॥ ७३ ॥

चतुस्त्रिद्विगुणं नित्यनिवेद्यात् प्रतिवासरम् । श्रेष्ठादिकं
यथाशक्ति नैवेद्यं विनिवेदयेत् ॥ ७४ ॥

उपचारोक्तमार्गेण ससूपं सोपदंशकम् । सापूपलड्डुकफलं
तदन्नं षड्विधं शुचि ॥ ७५ ॥

पायसं कृसरं प्रातर्मध्याह्ने सगुलौदनम् । शुद्धान्नं
त्वथ दध्यन्नं सहरिद्रं निशामुखे ॥ ७६ ॥

मुद्गौदनं त्वर्धरात्रे सर्वं मधुघृतोत्तरम् । अथवा
सर्वसन्ध्यासु पायसादीन्यनुक्रमात् ॥ ७७ ॥

ईशानादिषु वक्त्रेषु दद्याच्छुद्धौदनं पुनः । निशासु
यन्त्रलिङ्गाद्यैः पत्रच्छेदादिभिस्तथा ॥ ७८ ॥

इन्धा[क्: ण्डा]दिभिर्विचित्राभिः प्रेक्षार्हाभिर्यजेच्छिवम् ।
पूर्वमध्यापराह्णेषु यात्रा रात्रौ च शस्यते ॥ ७९ ॥

श्रेष्ठोत्सवे चतुष्कालं त्रिद्विकालं तथान्ययोः । रथेन
रङ्गेण तथा शिबिकाभिश्च वै क्रमात् ॥ ८० ॥

श्रेष्ठादिकासु यात्रा स्यात् सर्वैर्यानैस्तु सम्भवे । अलङ्कृते
समाच्छन्ने हेमपट्टाम्बरादिभिः ॥ ८१ ॥

सुवर्णरत्नमालाभिः पताकाभिश्च शोभिते । आस्तीर्णे
चित्रवसनैः कुसुमोत्करमण्डिते ॥ ८२ ॥

याने हैमादिकं देवं श्रेष्ठादिक्रमयोगतः । आरोप्य तस्मिन्
सुदृढं विदध्यात् पीठरक्षणम् ॥ ८३ ॥

अत्र संहिताटीकायां

नित्योत्सवादियात्रासु हैमाद्या प्रतिमोचिता । चन्द्रशेखरमूर्त्तिः
स्यात् सा च नित्यं सुपूजिता ॥

इति ।

अथवा द्व्यष्टमूर्त्तीनां मूत्तिं भिक्षाटनी विना ।
विनैवोमार्धहर्यर्धे कङ्कालं च विनैव तु ॥ ८४ ॥

या मूर्त्तयो द्वादशोक्तास्ताभिर्वा स्यान्महोत्सवः । मूर्त्ति
सम्यगलङ्कृत्य स्रगम्बरविभूषणैः ॥ ८५ ॥

आवाहितशिवामिष्ट्वा गन्धाद्यैर्भक्तिनम्रधीः । यात्रां
प्रवर्तयेद् वाद्यगीतनृत्तादिमङ्गलैः ॥ ८६ ॥

अत्र मञ्जर्यां -

भेरीवृषेभव्यजनानि सिंहकुम्भौ पताकाश्च तथैव दीपाः ।
एतानि सङ्गृह्य सुलोहकॢप्तान्यष्टौ प्रयादादथ मङ्गलानि ॥

अथ वेदविदो विप्राः स्वस्तिसूक्तादिपाठकाः । आशिषो
वाचयित्वाग्रे पठेयुः स्वस्तये स्तुतिम् ॥ ८७ ॥

स्वस्तयेऽस्तु सदा विष्णुः स्वस्तयेऽस्तु चतुर्मुखः । स्वस्तयेऽस्तु
सदा रुद्रः स्वस्तयेऽस्तु शतक्रतुः ॥ ८८ ॥

स्वस्तयेऽस्तु सदा वह्निः स्वस्तयेऽस्तु यमस्त्विह । स्वस्तये
निर्-ऋतिश्चास्तु स्वस्तये वरुणस्त्विह ॥ ८९ ॥

स्वस्तयेऽस्तु सदा वायुः स्वस्तयेऽस्तु धनेश्वरः । स्वस्तयेऽस्तु
सदेशानः स्वस्तयेऽस्तु मरुद्गणः ॥ ९० ॥

स्वस्तये सन्तु वसवो रुद्राः स्युः स्वस्तये तथा । आदित्याः
स्वस्तये सन्तु स्वस्तये सन्तु किन्नराः ॥ ९१॥

स्वस्तये सन्तु नागाश्च स्वस्तये सन्तु पन्नगाः । स्वस्तये सन्तु
विद्येशाः स्वस्तयेऽप्सरसस्त्विह ॥ ९२ ॥

स्वस्तये सन्तु नद्यश्च गन्धर्वाः सरितस्तथा । सागराः
स्वस्तये सन्तु शैलाश्च स्वस्तये तथा ॥ ९३ ॥

स्वस्तये मातरः सन्तु पितरः स्वस्तये सदा । देवपारिषदाः
सर्वे स्वस्तये सन्तु नः सदा ॥ ९४ ॥

स्वस्ति राज्ञे प्रजाभ्यश्च स्वस्ति राष्ट्राय सर्वदा । स्वस्ति
गोब्राह्मणेभ्योऽस्तु वैश्येभ्यः स्वस्तिवर्धताम् ॥ ९५ ॥

स्त्रीशूद्रेभ्योऽपि च स्वस्ति भूतेभ्यः स्वस्ति वर्धताम् ।
स्वस्त्यस्तु जङ्गमेभ्यश्च स्थावरेभ्यस्तथैव च ॥ ९६ ॥

स्वस्ति चास्तु च मन्त्रेभ्यः कर्मणे स्वस्ति वर्धताम् । स्वस्त्यस्तु
सर्वदेवेभ्यः पितृभ्यः स्वस्ति सर्वदा ॥ ९७ ॥

ऋषिभ्यः स्वस्ति भवतु भौमेभ्यः स्वस्ति वर्धताम् । स्वस्ति
पातालवासिभ्यो दिव्येभ्यः स्वस्ति सर्वदा ॥ ९८ ॥

स्वस्त्यस्तु चान्तरिक्षेभ्यः सर्वेभ्यः स्वस्ति वर्धताम् ।
उत्सवेऽस्मिन् महेशस्य बलिभिः स्वस्ति वर्धताम् ॥ ९९ ॥

इति ।

अथ द्वारपलोकेशवृषभाणां यथाक्रमम् । विघ्नस्य
वीरभद्रस्य मातॄणां शास्तुरेव च ॥ १०० ॥

षण्मुखस्य च दुर्गायाः कुबेरहरिणाङ्कयो ।
चण्डक्षेत्रेशयोश्चापि तीक्ष्णनेत्रमृगास्ययोः ॥ १०१ ॥

बहिर्मध्यमहारायां नन्दीशप्रभृति क्रमात् । गणेश्वराणां
पीठस्थभूतेशानां तथैव च ॥ १०२ ॥

दिक्षु विंशतिसङ्ख्यानां गणेशानां पृथक् पृथक् ।
बलिमन्त्रास्तु लिख्यन्ते तेषामेवेह तुष्टये ॥ १०३ ॥

ॐ स्फुर स्फोटय हूं त्रिणेत्राय स्वाहा । ॐ हीं प्रों
कपालिन् हं नमः ।

नमस्ते द्वारि युक्ताय शूलहस्ताय धीमते । दृष्ट्या
निहतदैत्याय नन्दीशाय नमो नमः ॥ १०४ ॥

नमस्ते द्वारियुक्ताय परशुव्यग्रपाणये । दृष्ट्या
निहतदैत्याय महाकालाय ते नमः ॥ १०५ ॥

आभ्यां नन्दिमहाकालावुपतिष्ठेत । ॐ भीं भृङ्गीशाय
नमः । ॐ गं गणपतये नमः ।

नमस्ते द्वारियुक्ताय भृङ्गीशाय कृशात्मने । दृष्ट्या
निहतदैत्याय शाङ्कराय नमो नमः ॥ १०६ ॥

नमस्ते द्वारियुक्ताय गजवक्त्राय खात्मने । दृष्ट्या
निहतदैत्याय शाङ्कराय नमो नमः ॥ १०७ ॥

आभ्यां भृङ्गीशविनायकावुपतिष्ठेत । एवं
सर्वत्राप्युपस्थानमन्त्रैरुपतिष्ठेत् । ॐ वृं वृषभाय
नमः । ॐ सुं सुब्रह्मण्याय नमः ।

नमस्ते द्वारियुक्ताय धर्माय वृषभात्मने । दृष्ट्या
निहतदैत्याय सौरभेयाय ते नमः ॥ १०८ ॥

नमस्ते द्वारियुक्ताय षण्मुखाय शिवात्मने । दृष्ट्या
निहतदैत्याय शाङ्कराय नमो नमः ॥ १०९ ॥

ॐ दुं दुर्गायै नमः । ॐ धुं चण्डेश्वराय नमः ।

नमस्ते द्वारियुक्तायै दुर्गायै शङ्करालये । दृष्ट्या
निहतदैत्यायै तुभ्यं देव्यै नमो नमः ॥ ११० ॥

नमस्ते द्वारियुक्ताय चण्डेशाय महात्मने । दृष्ट्या
निहतदैत्याय शाङ्कराय नमो नमः ॥ १११ ॥

इन्द्राय सुराधिपतये सायुधवाहनपरिवाराय रुद्रपार्षदे
नमः । तत्पार्षदेभ्यो नमः ।

दैत्यदर्पविनाशाय सहस्राक्षाय धीमते । कुलिशव्यग्रहस्ताय
नमस्तेऽस्तु शतक्रतो ! ॥ ११२ ॥

ॐ नमो भूतेभ्योऽरिष्टकृद्भ्यः सद्भ्योऽसद्भ्यः सर्वगणेभ्यो
नमोनमः स्वाहा । ॐ पूर्वस्यां दिशि शिवस्य भगवतो ये गणा
वज्रपाणयः श्वेताः श्वेताक्षाः श्वेतलोहिताः
दिव्यान्तरिक्षभौमाश्च पातालनिवासिनश्च तेभ्यस्ताभ्यो
नमोनमः स्वाहा ।

ॐ ये भूताः पुरःसदो निशाचरा रौद्राः सदसन्तो विरूपा
विश्वरूपा महारूपा घोररूपा मृगास्या विहगाननाः
पुष्टिकृतोऽपुष्टिकृतः कामदा बलिमिच्छन्ति तेषां बलिं
हरामि । महद्भ्यो रुद्रकेभ्यः सर्वेभ्यस्तेभ्यो नमोनमः स्वाहा ।

ॐ अग्नये तेजोधिपतये सायुधवाहनपरिवाराय रुद्रपर्षदे
नमः ।

मुखं यः सर्वदेवानां येन हव्यं च नीयते । येन प्रवर्तते
सर्वं नमस्तस्मै हविर्भुजे ॥ ११३ ॥

ॐ आग्नेय्यां दिशि शिवस्य भगवतो ये गणाः शक्तिपाणयो
रक्ता रक्ताक्षा रक्तलोहिता दिव्यान्तरिक्षभौमाः
पातालतलवासिनस्तेभ्यस्ताभ्यो नमोनमः स्वाहा ।

ॐ यमाय प्रेताधिपतये सायुधवाहनाय रुद्रपार्षदे नमः ।

तत्पार्षदेभ्यो नमः ।

येन संह्रियते सर्वं येन सर्वं च रक्ष्यते । यस्माद् विभेति
लोकोऽयं प्रेतनाथ ! नमोऽस्तु ते ॥ ११४ ॥

ॐ नमो भूतेभ्योऽरिष्टकृद्भ्य इत्यादिना च ।

ॐ याम्यां दिशि शिवस्य भगवतो ये गणा दण्डपाणयः
कृष्णा कृष्णाक्षाश्च कृष्णलोहिता दिव्यान्तरिक्षभौमाः
पातालनिवासिनस्तेभ्यस्ताभ्यो नमो नमः स्वाहा । ये भूता
दक्षिणसद इत्यादिना च ।

ॐ निर्-ऋतये रक्षोधिपतये सायुधवाहनपरिवाराय
रुद्रपार्षदे नमः । तत्पार्षदेभ्यो नमः ।

रक्षसां यातुधानानां पिशाचानां च यः पतिः । तस्मै
निर्-ऋतये नित्यं रक्षसां पतये नमः ॥ ११५ ॥

ॐ नमो भूतेभ्योऽरिष्टकृद्भ्य इत्यादिना च ।

ॐ नैर्-ऋत्यां दिशि शिवस्य भगवतो ये गणाः खड्गहस्ताः
श्यामाः श्यामाक्षाः श्यामलोहिता दिव्यान्तरिक्षभौमाः
पातालनिवासिनस्तेभ्यस्ताभ्यो नमो नमः स्वाहा ।

ॐ वरुणाय जलाधिपतये सायुधवाहनपरिवाराय रुद्रपार्षदे
नमः । तत्पार्षदेभ्यो नमः ।

येन प्रसूयते सर्वं यस्मिन् सर्वं प्रलीयते । वरुणाय
जलेशाय पाशहस्ताय ते नमः ॥ ११६ ॥

ॐ नमो भूतेभ्योऽरिष्टकृद्भ्य इत्यादिना च ।

ॐ वारुण्यां दिशि शिवस्य भगवतो ये गणाः पाशपाणयः
शबलाः शबलाक्षाः शबललोहिताः दिव्यान्तरिक्षभौमाः
पातालनिवासिनः तेभ्यस्ताभ्यो नमो नमः स्वाहा । ॐ ये
भूताः पशिमसदः इत्यादिना च ।

ॐ वायवे प्राणाधिपतये सायुधवाहनपरिवाराय रुद्रपार्षदे
नमः । तत्पार्षदेभ्यो नमः ।

आपूर्यन्ते प्रवर्तन्ते येन प्राणादिवायवः । भूतानामिह
सर्वेषां नमस्तस्मै नभस्वते ॥ ११७॥

ॐ नमो भूतेभ्योऽरिष्टकृद्भ्य इत्यादिना च ।

ॐ वायव्यां दिशि शिवस्य भगवतो ये गणा अङ्कुशपाणयः
पीताः पीताक्षाः पीतलोहिताः दिव्यान्तरिक्षभौमाः
पातालनिवासिनस्तेभ्यस्ताभ्यो नमो नमः स्वाहा ।

ॐ कुबेराय यक्षाधिपतये सायुधवाहनपरिवाराय
रुद्रपार्षदे नमः । तत्पार्षदेभ्यो नमः ।

यत्प्रसादाज्जगत् सर्वं धनेन परिपूर्यते । तस्मै
गुह्यकनाथाय धनेशाय नमोऽस्तु ते ॥ ११८ ॥

ॐ सोमाय नक्षत्राधिपतये सायुधवाहनपरिवाराय
रुद्रपार्षदे नमः । तत्पार्षदेभ्यो नमः ।

ज्योत्स्नापते! नमस्तुभ्यं नमस्ते ज्योतिषां पते । नमस्ते
रोहिणीकान्त! सुधाकुम्भ! नमोऽस्तु ते ॥ ११९ ॥

ॐ नमो भूतेभ्योऽरिष्टकृद्भ्य इत्यादिना च ।

ॐ कौबेर्यां दिशि शिवस्य भगवतो ये गणा दण्डपाणयः
सिताः सिताक्षाः सितलोहिताः दिव्यान्तरिक्षभौमाः
पातालनिवासिनश्च तेभ्यस्ताभ्यो नमो नमः स्वाहा ।

ॐ ये भूता उत्तरसदः इत्यादिना च ।

ॐ ईशानाय विद्याधिपतये सायुधवाहनपरिवाराय
रुद्रपार्षदे नमः । तत्पार्षदेभ्यो नमः ।

नमस्त्रिशूलहस्ताय लोकसंरक्षणाय ते । विद्यानां पतये
तुभ्यमीशानाय नमो नमः ॥ १२० ॥

ॐ नमो भूतेभ्योऽरिष्टकृद्भ्य इत्यादिना च ।

ॐ ऐशान्यां दिशि शिवस्य भगवतो ये गणाः शूलपाणयः
कपिलाः कपिलाक्षाः कपिललोहिता दिव्यान्तरिक्षभौमाः
पातालनिवासिनश्च तेभ्यस्ताभ्यो नमो नमः स्वाहा ।

ॐ ब्रह्मणे सर्वलोकाधिपतये सायुधवाहनपरिवाराय
रुद्रपार्षदे नमः । तत्पार्षदेभ्यो नमः ।

ब्रह्मणे सर्वलोकानां पतये सृष्टिहेतवे । यज्ञाध्यक्षाय
विधये चतुर्वक्त्राय ते नमः ॥ १२१ ॥

ॐ तत्पुरुषाय विद्महे पितामहाय धीमहि तन्नो ब्रह्मा
प्रचोदयात् ।

ॐ नमो भूतेभ्योऽरिष्टकृद्भ्य इत्यादिना च ।

ॐ ऊर्ध्वायां दिशि शिवस्य भगवतो ये गणाः पद्मपाणयः
सूक्ष्माः सूक्ष्माक्षाः सूक्ष्मलोहिता दिव्यान्तरिक्षभौमाः
पातालवासिनस्तेभ्यस्ताभ्यो नमो नमः स्वाहा ।

ॐ ये भूता अरिष्टदा इत्यादिना च । ॐ अनन्ताय
पातालाधिपतये सायुधवाहनपरिवाराय रुद्रपार्षदे नमः ।
तत्पार्षदेभ्यो नमः ।

नमः सहस्रशिरसे बिभ्रते शिरसा महीम् । अधोलोकाधिपतये
अनन्ताय नमोऽस्तु ते ॥ १२२ ॥

ॐ नमो भूतेभ्योऽरिष्टकृद्भ्य इत्यादिना च ।

ॐ अधस्ताद् दिशि शिवस्य भगवतो ये गणाश्चक्रपाणयो धूम्रा
धूम्राक्षा धूम्रलोहिता दिव्यान्तरिक्षभौमाः
पातालनिवासिनस्तेभ्यस्ताभ्यो नमो नमः स्वाहा ।

ॐ ये भूता अधस्सद इत्यादिना च । ॐ वृषभाय नमः । ॐ
हरवाहनाय नमः । ॐ महाबलाय नमः । ॐ सौरभेयाय
नमः ।

वाहनाय नमः शम्भोः क्षुब्धार्णवघनस्वन ! । वृषभाय
नमस्तुभ्यमुत्सवस्येह वृद्धये ॥ १२३ ॥

ॐ वीं वीरभद्राय नमः । ॐ वीरभद्राय विद्महे
गणेश्वराय धीमहि । तन्नः शान्तः प्रचोदयात् । ॐ गं
गणपतये नमः ।

ॐ एकदंष्ट्राय विद्महे भवपुत्राय धीमहि । तन्नो दन्ती
प्रचोदयात् । ॐ व्यों ब्रह्माण्यै नमः ।

ॐ ब्रह्मात्मिकायै विद्महे कुशहस्तायै धीमहि । तन्नो ब्रह्माणी
प्रचोदयात् ।

ॐ मां माहेश्वर्यै नमः । ॐ रुद्रात्मिकायै विद्महे
शूलहस्तायै धीमहि तन्नो माहेश्वरी प्रचोदयात् ।

ॐ मां कौमार्यै नमः । ॐ स्कन्दात्मिकायै विद्महे
शक्तिहस्तायै धीमहि । तन्नः कौमारी प्रचोदयात् ।

ॐ हैं वैष्णव्यै नमः । ॐ विष्ण्वात्मिकायै विद्महे
चक्रहस्तायै धीमहि । तन्नो वैष्णवी प्रचोदयात् ।

ॐ हैं वाराह्यै नमः । ॐ प्राजापत्यायै विद्महे
गदाहस्तायै धीमहि । तन्नो वाराही प्रचोदयात् ।

ॐ होम् इन्द्राण्यै नमः । ॐ इन्द्रात्मिकायै विद्महे वज्रहस्तायै
धीमहि । तन्न इन्द्राणी प्रचोदयात् ।

ॐ हौं महाकाल्यै नमः । ॐ रुद्रात्मिकायै विद्महे
शूलहस्तायै धीमहि । तन्नश्चामुण्डी प्रचोदयात् ।

अथवा

दीर्घस्वरैः क्रमाद् भिन्नः सान्तस्वाख्यादिभिः स्थितः ।
बीजानीहाष्टमातॄणां सप्तपक्षे तु सप्त वै ॥

इति स्वच्छन्दे ।

ॐ मातृभ्यो नमः । ॐ सर्वलोकमातृभ्यो नमः । ॐ
सर्वकोकमातृगणेभ्यो नमः ।

ॐ नानारूपा मातरः प्रतिदिशं व्यवस्थिता
दिव्यान्तरिक्षभौमाः पातालवासिन्यस्ता इहायान्तु शिवाज्ञया
अस्माननुगृह्णन्तु (प्रतिगृह्णन्तु) पूजां
सौम्यरूपधारिण्यस्ताभ्यो मातृभ्यो नमो नमः स्वाहा । ॐ
शां शास्त्रे नमः । ॐ प्रशास्त्रे नमः । ॐ महाशास्त्रे
नमः । ॐ शां हुं कुमाराय नमः । ॐ हस्त्यश्ववाहनाय
नमः । ॐ रुद्रपुत्राय नमः ।

ॐ भूतनाथाय विद्महे (भवपुत्राय) धीमहि । तन्नः शास्ता
प्रचोदयात् । ॐ प्रभायै नमः । इति शास्तुर्वामतस्तद्देव्यै ।
ॐ सत्यकाय नमः इति शास्तुर्दक्षिणतस्तत्पुत्राय ।

शाम्बादीनां गणा ये तु कोटिकोटिगणाधिपाः । भवन्तु सर्वे
सम्प्रीतास्तेभ्यस्ताभ्यो नमो नमः ॥ १२४ ॥

शास्तुः पश्चिमतोऽनेन शाम्बादिभ्यो बलिं हरेत् । वचत्पदं तु
तारादि नमोन्तं च भुवेपदम् ॥ १२५ ॥

स्कन्दमन्त्रौ बलौ जप्ये होमः स्वाहान्त एव हि ।

ॐ कार्त्तिकेयाय नमः । ॐ देवसेनायै नमः । इति तद्वामतो
देव्यै । ॐ षण्मुखाय विद्महे महासेनाय धीमहि । तन्नः
स्कन्दः प्रचोदयात् ।

धनौ शराग्निस्वरगौ चण्डशब्दस्ततः परम् ॥ १२६ ॥

तारादिहुम्फडन्तोऽयं चण्डेश्वरमनुःस्मृतः ।

ॐ चण्डाय नमः । ॐ चण्डेश्वराय नमः । ॐ
चण्डेश्वराय विद्महे महासेनाय धीमहि । तन्नश्चण्डः
प्रचोदयात् । ॐ क्षां क्षीं क्षूं क्षेत्रपालाय नमः । ॐ
वटुकनाथाय नमः ।

विश्वक्षेत्राधिपतये विश्वसिद्धिप्रदायिने ॥ १२७ ॥

विश्वरक्षणशीलाय क्षेत्रपालाय ते नमः ।
ततोऽन्तर्गोपुरद्वारि तीक्ष्णनेत्रमृगास्ययोः ॥ १२८ ॥

ॐ तीक्ष्णनेत्राय नमः । ॐ मृगास्याय नमः ।

निष्क्रम्य गोपुराद् बाह्ये बलिपीठस्य पूर्वतः । स्थित्वा तु
पार्षदान् सर्वाननेनैवानुमन्त्रयेत् ॥ १२९ ॥

ये समस्तं जगद् व्याप्य तिष्ठन्ति बलिकाङ्क्षिणः । ते
रुद्रपार्षदाः सर्वे गृह्णन्तु बलिमुत्तमम् ॥ १३० ॥

इत्युक्त्वामन्त्र्य तु गणान् नन्द्यादिभ्यो बलिं हरेत् । नन्दीशं च
महाकालं भूतनाथं महीधरम् ॥ १३१ ॥

पर्वतेशं गुहेशं च कालपाशं कपालिनम् । इष्ट्वा तेभ्यो
नमोन्तैः स्वैर्नामभिर्विकिरेद् बलिम् ॥ १३२ ॥

अथ विंशतिसं(ख्यै? ख्या)स्तु गणकोटीश्वराः पृथक् । ते
स्युः प्रतिदिशं तेभ्यो नामभिः स्वैर्बलिं हरेत् ॥ १३३ ॥

तद्यथा

महाकालो विधाता च वज्रपाणिः क्रतुः प्रभुः । दक्षः
शतक्रतुतनुरप्रमेयोऽथ वीर्यवान् ॥ १३४ ॥

नित्यो विद्युत्प्रभश्चैव शूलहस्तस्त्रिलोचनः ।
स्वाङ्गदीपस्तमोघ्नश्च सृष्टिकृच्चोरुविक्रमः ॥ १३५ ॥

मान्धाता च महावीर्यो नित्ययोगः प्रसादनः ।

इति प्राच्यां गणेश्वराः ।

अग्निरग्निसमानश्च ज्वालामाली च विश्वभुक् ॥ १३६ ॥

हुताशो मूर्तिमान् व्यापी कपिलो रक्तलोचनंः । उग्रो
रक्तवपुर्धूम्रः सप्तार्चिर्विश्वभेषजम् ॥ १३७ ॥

सुतपा वेगवांश्चाथ भस्मच्छन्नो मरुत्सखः । योगप्रियो
दारुकश्चेत्याग्नेय्यां कोटिनायकाः ॥ १३८ ॥

यमो वैवस्वतो धाता दैत्यघाती प्रजान्तकः । मृत्युः
प्रेताधिपो धर्मः कृष्णः कृष्णाक्ष एव च ॥ १३९ ॥

नित्ययोगी च कालश्चाप्याशुकारी परेतपः । मायारूपी
कृतान्तश्च सत्यासत्यप्रियः सुहृत् ॥ १४० ॥

पितृनाथश्च कीनाश इति याम्यां तु विंशतिः ।
राक्षसश्चासुरः क्रव्याद् वीरहा निर्-ऋतिस्तथा ॥ १४१ ॥

तीक्ष्णनेत्रो यातुघानो यज्ञहन्ता निशाचरः । महामूर्त्तिः
कैकसेयः क्रूरः क्रूरवपुस्तथा ॥ १४२ ॥

रक्षः कौणपको धूम्रो धूम्राक्षो भीषणस्तथा ।
वीरूपाक्षोऽथ भस्माङ्गो नैर्-ऋत्यामथ विंशतिः ॥ १४३ ॥

वरुणः शबलोऽम्भोधिः प्रचेता निम्नगापतिः । यादोनाथः
पाशपाणिरानन्दोऽम्बुपतिः शिवः ॥ १४४ ॥

कपर्दी प्राणदः श्वेतः श्यामनेत्रः सनातनः ।
प्रत्यङ्निवासो जलदो जीवनो नक्रवाहनः ॥ १४५ ॥

पयोधिनिलयश्चेति कोटीशानां तु विंशतिः । वायुर्गन्धवहः
सूक्ष्मः स्पर्शनश्च प्रभञ्जनः ॥ १४६ ॥

प्राणोऽपानस्तथा व्यान उदानश्च समानकः । नागः
कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥ १४७ ॥

ध्वजपाणिश्च पवनः श्वसनो मारुतो मरुत् । इति
विंशतिकोटीशा वायव्यां तु गणेश्वराः ॥ १४८ ॥

रक्षेशो रयिमान् सोमो माणिभद्रोऽथ गुह्यकः । चेलमाली
कुबेरश्च जम्भलः शिबिकुण्डली ॥ १४९ ॥

किन्नरेशश्चैलिबिलिर्धनदश्च धनाधिपः । राजराजस्तथा
श्रीदो ज्येष्ठो मालाधरो धनी ॥ १५० ॥

उत्तराशानिवासश्च ततः स्यादेककुण्डलः । एते
विंशतिकोटीशाः कौबेरीं दिशमाश्रिताः ॥ १५१ ॥

ईशान ईश्वरः शम्भुः शूलहस्तस्त्रिलोचनः । अनादिनिधनो
योगी कपिलः पिङ्गलोचनः ॥ १५२ ॥

रुद्रो रौद्रगणाधीशो विश्वभर्ता दिगम्बरः । नीलग्रीवः
कपर्दीशो वृषवाहो वृषध्वजः ॥ १५३ ॥

हरः शर्वो विश्वभुज इत्यैशान्यां तु विंशतिः । महाबलो
महानादो ब्रह्ममूर्तिश्चतुर्मुखः ॥ १५४ ॥

सृष्टिकृद् विजयो धाता अघोराघोर एव च । अघोरो लाङ्गली
मन्युरङ्गारः शिखिभूषणः ॥ १५४ ॥

जीमूतो मूर्तिभृत् कुण्डी मन्त्रीशस्त्रिपुरान्तकः । ऊर्ध्वायां
दिशि कोटीशा विंशतिः प्रमथेश्वराः ॥ १५५ ॥

बुद्धिः प्रमर्दनः शुद्धः कालरूपोग्रदंष्ट्रिणौ ।
दीर्घबाहुः प्रकामश्च भर्ता हर्ता विचक्षणः ॥ १५६ ॥

कालाग्नी रौरवोऽघोरो नरकः शर्व एव च । नागसञ्ज्ञश्च
घोरश्च किम्पुरुर्दनुजः क्षमी ॥ १५७ ॥

कोटीश्वराणामित्युक्ता विंशतिः स्यादधो दिशि ।

अत्र मञ्जर्याम् -

एषां भृत्यगणाः शतं शतमथो तेषां पुनश्चैकशो
भृत्याः सन्ति सहस्रशोऽप्ययुतशस्तेषां च तेषामपि ।
प्रत्येकं परिवारलक्षमुदितं तेषां तथा कोटयः ख्याताः
पारिषदाः पृथक्पृथगतो वक्तुं न शक्यास्तु ते ॥

इति ।

तारादिभिर्नमोन्तैस्तु पृथगेषां तु नामभिः ॥ १५८ ॥

क्रमात् सगन्धपुष्पाम्बुतत्तद्रात्रोचितान्नतः । बलिं तु विकिरेद्
दिक्षु भूतक्रूरेण वा निशि ॥ १५९ ॥

सामान्यार्घ्याम्बुकूर्चेन दद्यादाद्यन्तयोर्बलेः । बलिपीठं
ततोऽभ्येत्य भूतिदादीन् यथाक्रमम् ॥ १६० ॥

अभ्यर्च्य विकिरेत् तेभ्यो बलिं नित्योत्सवे यथा । विशेषश्चात्र तु
स्नात्वा बलिदानादनन्तरम् ॥ १६१ ॥

आचार्यः सहितः शिष्यैरन्तः प्रागवत् प्रविश्य तु ।
यानादेरवरोप्याथ देवं पीठे निधाय तु ॥ १६२ ॥

यथापूर्वं समभ्यर्च्य स्वस्थानस्थं यजेत् पुनः ।
अत्रोत्सवदिनानां तु विज्ञेया रात्रयः क्रमात् ॥ १६३ ॥

यथा बलिभुजस्तासु पूज्यन्ते साधिपा गणाः ।
ब्रह्मभूतेन्द्रगन्धर्वयक्षराक्षसरात्रयः ॥ १६४ ॥

पिशाचरात्रं च ततः सप्तपक्षे यथाक्रमम् । नवपक्षे
विष्णुरात्रमष्टमं परिचक्षते ॥ १६५ ॥

प्राजेशरात्रं नवमं तेषु तत्तद्बलिं क्षिपेत् ।
सपुष्पकुशशुद्धान्नं ब्रह्मरात्रे बलिः स्मृतः ॥ १६६ ॥

अन्नं दधिनिशाचूर्णलाजसक्तुजलान्वितम् । भूतक्रूरमिति
ख्यातं भूतरात्रे तु दापयेत् ॥ १६७ ॥

इन्द्रवल्लीरसोन्मिश्रमन्नं सक्तुपयोदधि । इन्द्ररात्रे तृतीये तु
बलिं दद्यात् तु देशिकः ॥ १६८ ॥

वैणवान्नं पयोयुक्तं गान्धर्वे स्याच्चतुर्थके । पञ्चमे
यक्षरात्राख्ये पुष्पान्नाज्याम्बुभिर्बलिः ॥ १६९ ॥

रक्तान्नं सतुषं मृत्स्नायुक्तं षष्ठे तु राक्षसे । सप्तमे
त्वथ पैशाचे माषान्नं कृसरं मधु ॥ १७० ॥

हारिद्रचूर्णतैलाढ्यं समाषं विकिरेद् बलिम् । अष्टमे
पायसं साज्यं विकिरेन्नवमे पुनः ॥ १७१ ॥

साज्यक्षीरं तु कृसरं प्राजापत्ये बलिं स्मृतः । अन्यथा
केचिदाचार्याः प्राहूर्वै गणसप्तकम् ॥ १७२ ॥

ते भूतपितृयक्षाश्च नागब्रह्मेशवैष्णवाः । गणास्स्ते
नवपक्षे तु स्कन्दमातृसमन्विताः ॥ १७३ ॥

प्रथमे भूतरात्रे तु भूतक्रूरेण दापयेत् ।
तिलैस्तण्डुलमिश्रैस्तु पितृरात्रे द्वितीयके ॥ १७४ ॥

तृतीये नालिकेराम्भश्शाल्यन्नैर्यक्षरात्रके ।
सक्षीरपिष्टसक्त्वद्भिर्नागरात्रे चतुर्थके ॥ १७५ ॥

सपद्माक्षान्नमाज्यं च ब्रह्मरात्रे तु पञ्चमे । सापूपान्नेन
साज्येन षष्ठे शैवे तु दापयेत् ॥ १७६ ॥

गुलौदनेन साज्येन सप्तमे वैष्णवे बलिम् । स्कन्दरात्रे गुलान्नं
तु दध्यन्नं मातृरात्रके ॥ १७७ ॥

साज्यं सनालिकेराम्बु द्राङ्निशाचूर्णतोऽरुणम् ।
अतोऽधिकदिनैः श्रेष्ठाद्युत्सवेषु यथाक्रमम् ॥ १७८ ॥

त्रिद्व्येकगुणयुक्त्या स्युरेते बलिभुजो गणाः । शिवैरप्याढकैः
प्रस्थैरेकविंशतिसङ्ख्यया ॥ १७९ ॥

श्रेष्ठो मध्यकनिष्ठश्च क्रमाद् भूतबलिस्ततः ।
शाल्याद्यन्यतमैः शुक्लैस्तण्डुलैः साधितं हविः ॥ १८० ॥

विशुद्धं बलियोग्यं स्यादन्यथा दोषमावहेत् । विधौतदन्ताः
स्युः स्नाता द्विजाः शुक्लाम्बरादिकाः ॥ १८१ ॥

साधयेयुर्बलेरन्नं वहेयुश्च सुयन्त्रिताः । अथवा सर्वरात्रेषु
साज्यं सकदलीफलम् ॥ १८२ ॥

ससक्तुदधि सक्षीरमन्नं भूतबलेः स्मृतम् ।
उक्तोत्सवदिनान्येवमतिवाह्य यथाविधि ॥ १८३ ॥

पूर्वेद्युर्निश्यवभृथात् कुर्यात् कौतुकबन्धनम् । पुण्याहं
वाचयित्वेष्ट्वा सुलग्ने गणनायकम् ॥ १८४ ॥

उत्सवप्रतिमां चापि त्रिशूलं चाभिपूजयेत् । पट्टसूत्रं
नवगुणं सौवर्णं च समौक्तिकम् ॥ १८५ ॥

तद् द्वादशाङ्गुलायाममक्षतेषु निधाय तु । आराध्य
गन्धपुष्पाद्यैर्भसितं चास्त्रमन्त्रतः ॥ १८६ ॥

अभिमन्त्र्याथ बध्नीयाद्धस्ते देवस्य दक्षिणे । त्रैय्यम्बकेन च
हृदा शूलास्त्रस्य च कौतुकम् ॥ १८७ ॥

साङ्गुष्ठानामिकाभ्यां तु कराभ्यां तत्र बन्धयेत् । भाले
रक्षां च निक्षिप्य नीराज्यारात्रिकेण तु ॥ १८८ ॥

निशां सङ्गीतवाद्याद्यैर्जागरेणातिवाहयेत् । प्रातः स्नात्वा
यथापूर्वं नित्यपूजां समाप्य तु ॥ १८९ ॥

उत्सवप्रतिमां बाह्यमण्डपे सन्निवेशयेत् । त्रिशूलं
विनिवेश्याग्रे तस्य प्राच्यां तु वोत्तरे ॥ १९० ॥

गोमयाद्भिश्चतुष्कोणमुपलिप्य तु मण्डलम् ।
वितानच्छत्रकलशदीपदर्पणचामरैः ॥ १९१ ॥

पालिकाभिस्तथा शङ्खैरलङ्कृत्य समन्ततः । मुसलोलूखले
धौते वाससा परिधाप्य तु ॥ १९२ ॥

दर्भैराच्छाद्य सम्पूज्य चूर्णं तत्र तु साधयेत् । स्नात्वा
स्वलङ्कृताः कन्या गायन्त्यो मधुरस्वराः ॥ १९३ ॥

तत्र मङ्गलचूर्णं तत् साधयेयुर्हरिद्रया ।
दध्यक्षताज्यदूर्वाग्रगन्धबीजाङ्कुराणि षट् ॥ १९४ ॥

आरोपयेयुस्ताः कन्या मुसले चाप्युलूखले । ततस्तत्साधितं
चूर्णं हैमपात्रादिसंस्थितम् ॥ १९५ ॥

हृदयेनाभिमन्त्र्याथ मङ्गलालम्भनानि षट् । दध्यादीन्यथ
देवस्य शिरस्यारोप्य मूलतः ॥ १९६ ॥

गन्धतैलेन चाभ्यज्य यवमाषादिचूर्णकैः । उद्वर्त्य
देवमस्त्रं चं परिमृज्याथ वाससा ॥ १९७ ॥

तेन मङ्गलचूर्णेन हेमचूर्णयुतेन तु । निर्मृज्य देवमस्त्रं च
तच्छेषं भक्तमूर्धसु ॥ १९८ ॥

निक्षिपेन्मङ्गलार्थं तु विश्वकल्मषशोधनम् । संस्नाप्य चाथ
वसनेन च भूषणाद्यै- र्गन्धादिभिश्च कुसुमैः परिभूष्य
देवम् । विद्याङ्गमूर्तिमनुभिश्च शिवाङ्गमूलौ मूर्तौ शिवस्य
सकलीकरणं विदध्यात् ॥ १९९ ॥

अथात्र तीर्थयात्रार्थं स्थण्डिलेऽग्निं निधाय तु ॥ २०० ॥

आवाह्य तु शिवं हुत्वा मन्त्रसंहितया घृतम् । वक्त्रेण पक्वं
पालाशीः समिधोऽथ घृतं चरुम् ॥ २०१ ॥

प्रत्येकाष्टशतं हुत्वा कृष्णेनाष्टोत्तरं शतम् ।
प्रायश्चित्तं तिलाज्याभ्यां मूलात् पूर्णाज्जुहोतु च ॥ २०२ ॥

कनिक्रदत्प्रभृतिभिः षड्भिराज्यं जुहोतु च । स्वस्तिसूक्तेन
चैवाज्यं हुत्वा त्वथ जयादिभिः ॥ २०३ ॥

ततस्स्विष्टकृतं हुत्वा विसृज्याग्निं हृदम्बुजे । रथादौ
देवमारोप्य तीर्थस्नानाय तु व्रजेत् ॥ २०४ ॥

शङ्खभेर्यादिनिर्घोषैर्गीतनृत्तादिमङ्गलैः । त्रिशूलास्त्रं
पुरस्कृत्य स्नानोपकरणैः सह ॥ २०५ ॥

उच्चावचध्वजच्छत्रचामरव्यजनादिभिः ।
प्रदीपधूपकलशैर्विधृतैश्चाष्टमङ्गलैः ॥ २०६ ॥

प्रादक्षिण्येनालयादेर्गच्छेदायोजनान्तरम् ।
विशिष्टसिन्धुनद्यब्धितीर्थाद्यं प्रचुराम्बुमत् ॥ २०७ ॥

व्रजेन्मध्यमया गत्या न द्रुतं न विलम्बितम् । तत्र स्वस्तिस्तुतिं
चोक्तां स्वस्तिसूक्तं च मङ्गलम् ॥ २०८ ॥

तथा शकुनसूक्तं च चमकं च द्विजोत्तमाः ।
पठेयुर्गीतवाद्यादौ जयशब्दे च मूर्च्छति ॥ २०९ ॥

सम्प्राप्य तीर्थतीरं तत् प्रपातोरणमण्डितम् । अलङ्कृतं
वितानाद्यैः पीठे देवं निवेशयेत् ॥ २१० ॥

गन्धाद्यैरभिपूज्याथ तीर्थं तदभिमन्त्रयेत् । इमं मे गङ्गे
यमुने सरस्वतीत्यादीनापि च ॥ २११ ॥

मन्त्रसंहितया वापि सम्पूज्य कुसुमादिभिः । ततोऽस्त्रमथ
देवं त्रिर्मज्जयित्वा शनैः शनैः ॥ २१२ ॥

सह स्नातो गुरुः शिष्यैस्तटस्थं देवमर्चयेत् ।
निवेद्यान्तमथाधाय स्थण्डिले शिवपावकम् ॥ २१३ ॥

मूलेनाष्टशतं हुत्वा ब्रह्माङ्गैस्तद्दशांशतः । पक्वं
हुत्वाथ पूर्णां च तीर्थान्यावाह्य पूजयेत् ॥ २१४ ॥

इमं मे गङ्गे यमुनेत्याद्ययाज्यं जुहोतु च । जयादिकं
स्विष्टकृतं हुत्वा तीर्थे जलेश्वरम् ॥ २१५ ॥

आवाह्येष्ट्वा तु तीर्थानि गङ्गादीन्यपि पूजयेत् । पुण्याहं
वाचयित्वाथ तीर्थे देवं प्रवेशयेत् ॥ २१६ ॥

तीर्थे निमज्जयेद् देवं तत्र पीठे निवेश्य तु ।
गन्धामलकहारिद्रचन्दनागरुकुङ्कुमैः ॥ २१७ ॥

क्रमादुद्वर्तयेत् तोयपुष्पधूपान्तरैः पृथक् ।
शङ्खभेर्यादिनिर्घोषैर्वेदघोषैश्चतुर्दिशम् ॥ २१८ ॥

तत्पीठस्थं तु नीत्वेशं कारयेच्चाघमर्षणम् ।
हिरण्यशृङ्गमित्यादिसूक्तमान्ताज्जपेदपि ॥ २१९ ॥

स्नान्तिं ये ये तदा तस्मिंस्तीर्थे नार्योऽथवा नराः । तिर्यञ्चो
वापि ते सर्वे मुच्यन्ते सर्वकिल्विषैः ॥ २२० ॥

विमुच्य कौतुकं त्यक्त्वा देवमुत्तारयेज्जलात् । प्रपायां
पीठगं देवमाभूष्य वसनादिभिः ॥ २२१ ॥

गन्धाद्यैस्तु निवेद्यान्तमिष्ट्वा सङ्गीतमङ्गलैः । अभिनन्द्य
यथापूर्वं यानमारोपयेच्छनैः ॥ २२२ ॥

गत्वा प्रासादमासाद्य परिणीय प्रदक्षिणम् ।
मण्डपान्तर्निवेश्येशमिष्ट्वाथास्त्रं च पूजयेत् ॥ २२३ ॥

उत्सवप्रतिमां चास्त्रं यथास्थानं निवेश्य तु ।
मूललिङ्गगतं शम्भुं सविशेषं ततो यजेत् ॥ २२४ ॥

दत्त्वा चतुर्विधान्नाद्यं रात्रौ नित्यं समाप्य तु । ध्वजं
सम्पूज्य गन्धाद्यैर्ध्वजं तमवतारयेत् ॥ २२५ ॥

प्रागुक्तवत् समाहूतान् गणान् देवादिकान् क्रमात् । विसर्जयेत्
स्वधामानि यथाजोषं भजन्त्विति ॥ २२६ ॥

ततः पताकावृषभं स्वैर्मन्त्रैरभिपूज्य तु ।
योजयेन्मूलवृषभे सविशेषं च तं यजेत् ॥ २२७ ॥

महाम्भूतबलिं दत्त्वा गुरुर्मौनी जनैर्वृतः । निःशब्दं
निखिलातोद्यैर्विना दीपैर्व्रजेद् बहिः ॥ २२८ ॥

सन्धिसंस्थांस्तु लोकेशान् ब्रह्मादीनभिपूज्य तु । विसर्जयेच्च
लोकेशान् ब्रह्मादीन् सन्धिगोचरान् ॥ २२९ ॥

ततः स्नात्वा प्रविश्यान्तः क्षेत्रेशमभिपूजयेत् ।

उत्सवावभृथाधिकारः ।

अथ प्रातर्यथापूर्वं नित्यपूजां प्रकल्पयेत् ॥ २३० ॥

ततो विकिरविक्षेपकुम्भास्त्रभ्रमपूर्वकम् । नवकादिसहस्रान्तैः
कलशैरुपपत्तितः ॥ २३१ ॥

स्नापयित्वा विशेषेण महापूजां प्रवर्तयेत् । आचार्याय
सशिष्याय हिरण्यवसनानि च ॥ २३२ ॥

भूषणादीनि दत्त्वास्मै दत्त्वा देयानि शक्तितः । लिङ्गिनः
परिचारांश्च ब्राह्मणान् व्रतिनस्तथा ॥ २३३ ॥

देवभृत्यांस्तथा दासीस्तथैव नटनर्त्तकान् । भृत्यान्
कर्मकरांश्चान्यान् दीनानाथांस्तथार्थिनः ॥ २३४ ॥

अन्नाद्येन हिरण्येन वसनाद्यैश्च तोषयेत् । ध्वजोच्छ्रयात्
समारभ्य स्नपनान्तदिनेष्वपि ॥ २३५ ॥

अर्थिभ्यो ब्राह्मणादिभ्यो लिङ्गिभ्योऽप्युपपत्तितः ।
प्रदद्यादन्नपानादि सुव्यञ्जनरसोत्तरम् ॥ २३६ ॥

एवं यः कारयेच्छम्भोरुत्सवं कुर्वते च ये । ये वा पश्यन्ति ते
सर्वे भवन्ति गणनायकाः ॥ २३७ ॥

इत्थं शिवोत्सवविधिः कथितो ध्वजादिः श्रेष्ठादिभेदविहितः
स्नपनावसानः । येनेन्दुमौलिरुपयाति परं प्रसादं
शैलाधिराजसुतया सहितो गणेन्द्रैः ॥ २३८ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे क्रियापादे
महोत्सवविधिपटल एकोनपञ्चाशः ।