४८

अथाष्टचत्वारिंशः पटलः ।

अथ नित्योत्सवं शम्भोः कुर्यात् सान्निध्यकारकम् ।
येनारिष्टानि शाम्यन्ति गुणास्तुष्टिं व्रजन्ति च ॥ १ ॥

त्रिसन्ध्यं पूजयित्वेशं नैवेद्यहवनान्तकम् ।
रुद्रपारिषदेभ्यस्तु बलिं दद्याद् यथाविधि ॥ २ ॥

अत्र मञ्जर्यां -

कुर्यान्नित्यबलिं त्रिसन्ध्यमुदितं पाक्यस्तदर्थं चरु-
र्हृन्मन्त्रेण तु तण्डुलांस्तु सलिलैः प्रक्षाल्य चाग्नौ पचेत् ।
तेनाज्यं त्वभिघार्य पक्वसमये मूलेन मन्त्रेण तत्
तेनैवाप्यवतार्य तेन हविषो लिङ्गं प्रकुर्याच्छुभम् ॥

इति । तद्यथा -

सौवर्णे राजते तद्वदमत्रे ताम्रजेऽपि वा ।
षोडशाङ्गुलविस्तीर्णे धौते चाज्याभिघारिते ॥ ३ ॥

सिद्धं हविस्तत् प्रक्षिप्य हृदयेनाभिघार्य तु । मूलेनोच्चं
भवेल्लिङ्गं रविदिग्वसुमात्रकैः ॥ ४ ॥

श्रेष्ठादिकं तदाज्येन दघ्ना चालिप्य सर्वतः ।
सस्वर्णपुष्पं शिरसि तस्मिन्नावाह्य मूलतः ॥ ५ ॥

शिवं चलासनगतं गन्धाद्यैः पूजयेत् क्रमात् ।
भेरीपणवगोवक्त्रढक्काझल्लरिकानकैः ॥ ६ ॥

तिमिलामड्डुकाम्भोजतालकाहलमर्दलैः ।
सवेणुवीणाकांस्यैश्च बलियात्राभिशंसिभिः ॥ ७ ॥

मध्यमं षष्टिमात्रं तु वादयेयुश्च वादकाः । ततः
स्नातं द्विजं शिष्यं शुश्रूषुं वाग्यतं शुचिम् ॥ ८ ॥

शुक्लोष्णीषोत्तरासङ्गं कटकाद्यैर्विभूषितम् । सम्प्रोक्ष्य
तं वृषं ध्यात्वा तल्लिङ्गं पात्रसंस्थितम् ॥ ९ ॥

आरोप्य तस्य शिरसि पुष्पाण्यारोपयेद् गुरुः । तथैवान्यस्तु
सकलं लिङ्गं हैमादिकं द्विजः ॥ १० ॥

आवाहितशिवं त्वग्रे गच्छेत् तु शिरसा वहन् । रथेन वा
शिबिकया द्विजारूढगजेन वा ॥ ११ ॥

तथैव विप्राः शुचयः स्नाताः सर्वेऽपि वाग्यताः । छत्राणि
च वितानं च घण्टां कुसुमचामरम् ॥ १२ ॥

स्रग्गन्धपुष्पधूपांश्च धारयेयुः समाहिताः । तथान्न्ये
दीपकलसदर्पणान् हेमपादुके ॥ १३ ॥

गच्छन् सामान्यार्घ्यकरो गुरुः ॥ १४ ॥

गन्धपुष्पादिकैरिष्ट्वा गणेभ्यः प्रक्षिपेद् बलिम् । तत्र
देवाग्रतो नार्यः सुरूपाः समलङ्कृताः ॥ १५ ॥

गीतनृत्तं तथा कुर्युरन्ये * * * * * * । * * येन व्रजन्त्यग्रे
प्रणमन्तः स्तुवन्ति ये ॥ १६ ॥

नृत्यन्ति ये वा गायन्ति मुच्यन्ते सर्वकिल्बिषैः । विमानस्य
चतुर्दिक्षु पूर्वादिद्वारपालकान् ॥ १७ ॥

नन्दिनं च महाकालं भृङ्गीशं गणनायकम् । वृषभं
षण्मुखं देवी * * * * * * * * ॥ १८ ॥

तत्र दक्षिणतो द्वारे दक्षिणामूर्ति * * * ।

स्वदिक्ष्विन्द्रादिलोकेशांस्तारादिस्वस्वनामभिः ॥ १९ ॥

नमोन्तमिति पूज्यैतान् बलिं तेभ्यो विनिक्षिपेत् । इन्द्रात् प्राच्यां *

सत्यकायास्य पुत्राय प्रभायै चास्य वामतः । स्कन्दाय वायोः
प्राच्यां तु दुर्गायै स्कन्दपूर्वतः ॥ २१ ॥

सोमात् पूर्वे कुबेराय चण्डेशाय स्वगोचरे । क्षेत्रे * * * * * *
मुख्याभिर्विकिरेद् बलिम् ॥ २२ ॥

अथान्तर्गोपुरद्वारि तीक्ष्णनेत्राय दक्षिणे । बलिं द्वाःस्थाय
विकिरेन्मृगास्याय तथोत्तरे ॥ २३ ॥

गोपुरादथ निष्क्रम्य प्रादक्षिण्येन तु व्रजेत् । बलिपीठे * * * *

ये समस्तं जगद् व्याप्य तिष्ठन्ति बलिकाङ्क्षिणः । ते
रुद्रपार्षदाः सर्वे गृह्णन्तु बलिमुत्तमम् ॥ २५ ॥

इत्यनेन गणाञ् शम्भोः श्रावयित्वा ततो गुरुः ।
मध्यहारान्तरा गच्छन्ना * * * क्षिपेद् बलिम् ॥ २६ ॥

अष्टौ गणेशा नन्द्याद्याः कोटिकोटिगणेश्वराः । नन्दीशश्च
महाकालो भूतनाथो महीधरः ॥ २७ ॥

पर्वतेशो गुहेशश्च कालपाशकपालिनौ । प्रागादिकं
क्रमादेभ्यः स्वाख्याभिर्विकिरेद् बलिम् ॥ २८ ॥

ततस्तु बलिपीठस्य परितस्तूपपीठगान् । भूतिदाद्यांस्तु
पूर्वाद्यं सम्पूज्य विकिरेद् बलिम् ॥ २९ ॥

भूतिदं दुर्निरीक्षं च भीमरूपं सुलोचनम् । सुमुखं
त्रिशिखं चेति त्रिभुजं त्रिशिरसं तथा ॥ ३० ॥

पिङ्गलं हरसेनं च दशैतान् भूतनायकान् । पिङ्गलं
तत्कुमुदके हरसेनं तथोपरि ॥ ३१ ॥

पीठपङ्कजमध्ये तु निजाख्याभिर्नमोन्तकम् । हरसेनं तु
तन्नाम्ना तद्गायत्र्या च पूजयेत् ॥ ३२ ॥

ॐ हरसेनाय विद्महे महाबलाय धीमहे तन्नो दशमूर्तिः
प्रचोदयात् इति ।

सर्वान्नेन बलिं दद्यात् पुष्पाद्यं तदशेषतः । क्षिप्त्वा
नमस्कृत्य गुरुः प्रविशेद् देवमन्दिरम् ॥ ३३ ॥

ततः प्रवृत्तसङ्गीतलास्यताण्डवमण्डनैः । विलम्बितं
समाश्रित्य द्वितीयं तु प्रदक्षिणम् ॥ ३४ ॥

नीत्वा द्रुतं तृतीयं तु गीतवादित्रनिस्वनैः । नीत्वा
प्रदक्षिणं देवमालयान्तः प्रवेशयेत् ॥ ३५ ॥

अन्तर्मण्डलके प्राग्वत् परिक्रम्य प्रदक्षिणम् । प्रक्षाल्य पादौ
प्रविशेन्मण्डपे वार्धमण्डपे ॥ ३६ ॥

पीठे निवेश्य सम्पूज्य प्रणम्याभिप्रसाद्य च ।
अन्नलिङ्गस्थितं देवं मूललिङ्गं नियोजयेत् ॥ ३७ ॥

अन्नलिङ्गे तु चण्डेशमावाह्येष्ट्वा विसृज्य तु । तदन्नलिङ्गं
क्षणिकमगाधेऽम्भसि निक्षिपेत् ॥ ३८ ॥

दद्याद् गोभ्योऽथवा नित्यमतो नित्योत्सवः स्मृतः ।

नित्योत्सवाधिकारः ।

महोत्सवविधिः शम्भोः कथ्यते येन तर्पिताः ॥ ३९ ॥

गणाः सगणनाथाः स्युः सर्वशान्तिप्रदा नृणाम् ।
प्रतिसंवत्सरं वापि प्रतिषण्मासमेव वा ॥ ४० ॥

शिवयात्रोत्सवं सम्यक् कुर्यात् सर्वार्थसिद्धये । तत्र यात्रा
रथेन स्यादथवा शिबिकादिना ॥ ४१ ॥

चक्रवर्त्युपचारेण तल्लक्ष्मातो निगद्यते । शिबिकाद्यं
रथाद्यं च यानं खट्वादिकं तु यत् ॥ ४२ ॥

शयनासनसञ्ज्ञं स्यात् तल्लक्ष्म पृथगुच्यते । पैठी च
शैखरी मौण्डी त्रिविधा शिबिका भवेत् ॥ ४३ ॥

पैठी तु भित्तिकान्ता स्याच्छैखरी शिखरान्विता । मौण्डी
स्तम्भोत्तरान्ता तु शालाच्छादनसंयुता ॥ ४४ ॥

व्यासायामादिकं त्वासां समानं तच्च कथ्यते ।
त्रिवितस्तिकविस्तारा दीर्घा पञ्चवितस्तिकम् ॥ ४५ ॥

कनिष्ठा मध्यमश्रेष्ठे त्रिषण्मात्राङ्गुलाधिके । अध्यर्धं
वायता व्यासात् स्वकर्णायामतोऽपि वा ॥ ४६ ॥

व्यासार्धं भित्तितुङ्गं स्याच्छ्रेष्ठाथो मध्यमाधरौ ।
मूर्त्यङ्गुलविहीनोच्चे मुख्यमध्याधमक्रमात् ॥ ४७ ॥

सार्धेषुशरवेदांशैरिषिकाविस्तृतिः स्मृता । सा
स्वव्यासार्धमुच्चा स्याद् दन्तदार्वादिनिर्मिता ॥ ४८ ॥

कम्पपङ्कजनिम्नानि कुमुदं निम्नमेव च । स्यात् क्षुद्रपट्टिका
चेत्थमीषिकालङ्कृतिर्भवेत् ॥ ४९ ॥

भित्तेरूर्ध्वं तु हस्तस्य व्यासः सार्धाङ्गुलोऽधमः ।
सार्धद्विमात्रत्र्यंशश्च विस्तारौ मध्यमोत्तमौ ॥ ५० ॥

व्यासत्रिपादमर्धं वा हस्तोर्ध्वं गोलकार्धवत् । वेत्रार्धवद्
वा छत्राभो हस्तो दन्तादिनिर्मितः ॥ ५१ ॥

इषिकाहस्तयोर्मध्ये त्रिधा भक्तेऽधरोर्ध्वयोः ।
भागयोर्मध्यतोऽन्ते चाप्यादौ स्युर्वेदकम्पकाः ॥ ५२ ॥

सार्धद्वयद्वयाद्ध्यर्धमात्रैः श्रेष्ठादिकम्पकाः । * * * * *

मध्यभागे तथा शिष्टावूर्ध्वाधःकम्पकावपि ।
नरनारीनाटकाद्यैरलङ्कुर्यात् तु युक्तितः ॥ ५४ ॥

इषिकाहस्तयोर्मध्ये व्यालाः स्युः कोणगा बहिः । इषिकाग्रन्थ *

स्वव्यासकर्णमात्रेण मुष्टिबन्धविनिर्गमः । निर्गमो मकरास्यो
वा व्यासायामस्थभक्तया(?) ॥ ५६ ॥

नन्दरुद्रसमाः कार्यास्तुल्या वा स्युः शरर्षिभिः ।
स्तम्भानां तु घनव्यासौ कम्पानां च समौ स्मृतौ ॥ ५७ ॥

शा * * * * * * * * * * * * * * भिः । त्रिचतुर्मात्रविस्तीर्णाः
षट्सप्ताष्टाङ्गुलोच्छ्रिताः ॥ ५८ ॥

सहीरवृत्तकुम्भाः स्युरधः पादाः सलग्नकाः । ताम्रायसैः
कीलपट्टैर्युक्त्या स्युः सर्वतो दृढाः ॥ ५९ ॥

इषीणां तु * मा * * * * * * * * * * । * * * * * * * * * * * * * * *

पैठीत्थं शिबिका प्रोक्ता शैखरीमौण्डिके तथा ।
कुर्यादनेन मार्गेण विशेषस्तु निगद्यते ॥ ६१ ॥

स्वव्यासतुल्योच्चोर्ध्वाङ्घ्रि * * * * * * * * । * * * * * * पेता
जालभित्तिसमावृता ॥ ६२ ॥

सकूटाच्छादनवती सद्वारा युक्तितो भवेत् । स्तम्भानां
मध्यतो मानं शिबिकानां विधीयते ॥ ६३ ॥

मधुकशाकतिमिशपनसा * * * * ताः ।

शिबिकाधिकारः ।

रथ * * * * ह्यात्तु षट्सप्ताष्टवितस्तिभिः ॥ ६४ ॥

व्यासश्चाक्षायतिः सैव नाभ्यन्ताक्षोत्तरायतिः ।
स्वव्यासाध्यर्धमायामो रथोपस्थस्य कीर्त्तितः ॥ ६५ ॥

रथ * * * * * * * * * * * वा नवा । सप्त वा पञ्च वा युक्त्या
बद्धाश्चाक्षोत्तरोर्ध्वतः ॥ ६६ ॥

तिर्यक्कम्पैस्तु तावद्भिरयःकीलैर्दृढीकृतः ।
अग्राक्षान्मध्यभारो यः स चेषादण्ड इष्यते ॥ ६७ ॥

तस्योपरिष्टाद् यद् वक्रं दारु * * * * * * । कूबरः स्यात्
तदायामो हस्तत्रयमितो भवेत् ॥ ६८ ॥

आवक्रकूबरस्त्वग्रे पद्मकुड्मलसन्निभः । ऊर्ध्वं तु
भारदारूणां फलकाभिस्तु युक्तितः ॥ ६९ ॥

प्रस्तरः पट्टकीलाद्यैः सुदृढः सुसमो भवेत् ।
स्वायामवेदभागेन रथोपस्थाग्रनिर्गमः ॥ ७० ॥

सारथिप्रभृतीनां स्यादासनार्थं प्रकल्पितः ।
अक्षोत्तरायामसमा चक्राणां विस्तृतिः स्मृता ॥ ७१ ॥

तन्मध्यनाभयस्तास्तु दशमात्राङ्गलोन्नताः । तावदेव च
तासां तु विस्तारः परितः स्मृतः ॥ ७२ ॥

चक्रेष्वरान्य * र्वेषु द्वात्रिंशद् वा तदर्धतः । ते स्युः
पिपीलिकामध्या यवमध्यास्तथापि वा ॥ ७३ ॥

इन्दीवरदलाकारा मातुलुङ्गोपमास्तु वा । नाभ्यादि तेषामायामो
नेमेः सीमादितो भवेत् ॥ ७४ ॥

नेमिव्यासस्तु वेदेषुषण्मात्रोऽन्ताधमादितः ।
पुष्पस्वस्तिकखण्डेन्दुमत्स्याद्यैस्तदलङ्कृतिः ॥ ७५ ॥

चक्रार्धमानदीर्घाः स्युः स्तम्भाश्चत्वार एव हि ।
मूलाग्रयोस्ते व्यासेन चतुस्त्र्यङ्गुलसस्मिताः ॥ ७६ ॥

ते चापि सुदृढाः कायाः स्तम्भलक्षणसंयुताः ।
स्तम्भोच्चरामभागैकभागाद् भित्त्युन्नतिर्भवेत् ॥ ७७ ॥

ईषादिहस्तदण्डान्तकम्पपद्माद्यलङ्कृता ।
भूतव्यालगजाद्यैश्च नाटकैश्च विभूषयेत् ॥ ७८ ॥

सर्वत्र कीलैः सुदृढैस्ताम्रायःपट्टबन्धनैः । सुदृढं
युक्तितः कृत्वा स्तम्भानामुपरि क्रमात् ॥ ७९ ॥

पोतिकोत्तरसंयुक्तं कपोताद्यैरलङ्कृतम् ।
प्रासादमण्डपाकारं रम्यं सशिखरं भवेत् ॥ ८० ॥

एवमेव रथं कुर्याद् रङ्गाख्यं शिखरं विना । साङ्ग्रामिको
द्विचक्रः स्याच्छिखरस्तम्भवर्जितः ॥ ८१ ॥

वितस्तिभित्तिसंयुक्तः सेषादण्डः सकूबरः । शकटोऽपि
द्विचक्रः स्याद् भित्तिस्तम्भादिवर्जितः ॥ ८२ ॥

पर्यङ्कस्य तु विस्तारो दैर्घ्यं च शिबिकासमम् । इषिकाः
स्युस्तदाकाराः कम्पपद्माद्यलङ्कृताः ॥ ८३ ॥

अष्टादशाङ्गुलोत्सेधाः पादाः श्रेष्ठाः सहेषया ।
त्रिपञ्चकाङ्गुला मध्याः कनिष्ठा द्वादशाङ्गुलाः ॥ ८४ ॥

स्वोच्चामश्रुद(?)तीष्वंशाच्छ्रेष्ठाद्या पादविस्तृतिः । पादा
व्यालहरिप्रख्याः श्रेष्ठा मध्यास्त्वथाधमाः ॥ ८५ ॥

ऋजवः केवलाः पादा एकद्रव्याः समाः शुभाः । इषिकाश्च
मिथस्तुल्याः शुभा दार्वादिनिर्मिताः ॥ ८६ ॥

हैमा दान्ता दारवाश्च पादेषास्तूत्तमादिकाः ।
क्षौमकार्पासपट्टाभ्यां प्रस्तरौ श्रेष्ठमध्यमौ ॥ ८७ ॥

अधमः फलकाभिः स्यात् स चेषादारुभिः स्मृतः ।
सिंहव्यालाङ्घ्रिपर्यङ्कौ विप्रक्षत्त्रिययोः स्मृतौ ॥ ८८ ॥

अन्येषामृजुपादाः स्युः सर्वेषामृजवोऽथवा ।
नवसप्तेषूत्तरैस्तु क्रमाद् विंशतिमात्रकैः ॥ ८९ ॥

श्रेष्ठाद्यमासनं व्यासतुल्योच्चं चतुरश्रकम् । पर्यङ्कस्येव
तत्पादा व्यालाद्यास्त्रिविधाः क्रमात् ॥ ९० ॥

व्यासाष्टमांशाद्यायामवृद्ध्या तु द्विगुणान्तकम् ।
सप्तधैवासनं हस्तिभूतसिंहवृषाङ्घ्रिकम् ॥ ९१ ॥

सूर्याङ्गुलैः स्यात् पादोच्चं देवविप्रनृपोचितम् ।
सोत्तराब्जकपोतं तदालिङ्गान्तरिकादिभिः ॥ ९२ ॥

उपपीठोचित्तैर्युक्तं सिंहपादैर्विचित्रितम् । तस्योपरिष्टात्
पश्चार्धे हेमरत्नैर्विचित्रितम् ॥ ९३ ॥

नक्रतोरणसंयुक्तं कुर्यात् कल्पकपादपम् । सिंहासनं स्याद्
देवानां राज्ञां चेष्वंशतुङ्गपात् ॥ ९४ ॥

पूजापीठं तु देवानामाद्यं षण्मात्रविस्तृतम् ।
द्विद्व्यङ्गुलविवृद्ध्यातः करान्ताद् दशधा ततम् ॥ ९५ ॥

चतुरश्रं तु वृत्तं वाप्यायताश्रं तु युक्तितः ।
त्रिपञ्चषड्वस्वंशैर्वा पीठपादोन्नतिर्भवेत् ॥ ९६ ॥

ऊहप्रत्यूहचित्राढ्यं गृहार्चादौ विधीयते । यत् पीठं
पिण्डिकाकारं हेमरूप्यादिनिर्मितम् ॥ ९७ ॥

दारवं वा गृहार्चादौ भद्रपीठं तु तत् स्मृतम् । तदेव
नालसंयुक्तं पीठं स्यात् स्नपनोचितम् ॥ ९८ ॥

तदेव मध्यगर्ताढ्यं प्रतिष्ठादौ तु योजयेत् । किष्कुः
पादोनमर्धं वा व्यासः कूर्मासनस्य तु ॥ ९९ ॥

शरवेदाग्निमात्रोच्चं क्रमाच्छ्रेष्ठादिकं स्मृतम् । स्वव्यासाद्
रसनन्देनमात्रोना तूत्तमादिका ॥ १०० ॥

नालदण्डायतिव्यासषडंशाद् दण्डविस्तृतिः । * * * * * * * *

वृत्त एव हि दण्डः स्यादधश्चामध्यनिर्गतः ।
तत्राम्बुजादिचिह्नं स्यादग्रं तु समखण्डितम् ॥ १०२ ॥

वृत्तं वा चतुरश्रं वा शस्तं कूर्मासनं तु तत् ।
स्वोच्चवेदैकभागेन घनं स्यात् फलकासनम् ॥ १०३ ॥

कम्पपङ्कज * * * * * * * * * * * । इत्थं स्वरसभागेन
प्रविष्टाधोऽस्य भित्तिका ॥ १०४ ॥

मूले त्वंशघना त्वग्रे मात्रमात्रघना भवेत् ।
आसनोच्चत्रिभागोच्चा वृत्ताकारा मनोरमा ॥ १०५ ॥

व्रतिनां दीक्षितानां च पूजाजपहुतादिषु । * * * *
नरेन्द्राणां वृत्तं कूर्मासनं भवेत् ॥ १०६ ॥

आसनं चतुरश्रं स्यात् पूजादावेव नान्यदा ।

नित्योत्सवो निगदितोऽत्र महोत्सवार्थं यानादिकं च कथितं
परमेश्वरस्य ।

यत्रो * * * * * * * * * * * * * * । * * * * * * * * * * * * * * * * ॥
१०७ १।२ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे क्रियापादे
नित्योत्सवयानशयनादि पटलोऽष्टचत्वारिंशः ॥