अथ सप्तचत्वारिंशः पटलः ।
ततः प्रभात आचार्यः स्नातो मूर्तिधरैः समम् । यजमानश्च
पुत्राद्यैः पूर्वं स्थापनलग्नतः ॥ १ ॥
उच्चारयञ्छिवास्त्रं तु प्रासादं प्राप्य देशिकः ।
विघ्नानुच्चा[ख्: त्पा]टयेत् पश्यन् प्रविशेद् देवमन्दिरम् ॥ २ ॥
शिवमध्यं तु निश्चित्य तत्र ब्रह्मशिलां न्यसेत् ।
तद्यथा -
द्वारांशं गर्भभवने निश्चित्य तु चतुर्दिशम् ॥ ३ ॥
तद्द्वाविंशतिसूत्रैस्तु प्राचीनैश्चाप्युदङ्मुखैः । विभजेत्
तत्र यन्मध्यकोष्ठं ब्रह्माह्वयं स्मृतम् ॥ ४ ॥
तच्च प्राच्यैरुदीचीनैः सूत्रैः षोढा विभज्य तु ।
षट्त्रिंशत्कोष्ठकानि स्युस्तत्कोष्ठानां तु मध्यतः ॥ ५ ॥
यः प्राच्योदीच्ययोः सन्विब्रह्मस्थानं तु सूत्रयोः । तद् वर्ज्यं
हि प्रतिष्ठासु शिवादीनां तु मध्यतः ॥ ६ ॥
यदि मोहात् प्रमादाद् वा स्थापयेद् ब्रह्ममध्यगम् । लिङ्गादिकं
तदा राज्यकर्तृराजविनाशकृत् ॥ ७॥
ब्रह्मस्थानाद् यदैशान्यां कोष्ठं तस्यैशकोणगः ।
सूत्रसन्धिः प्रतिष्ठायां लिङ्गमध्ये यथा भवेत् ॥ ८ ॥
शिवमध्यं तथा ज्ञात्वा तत्रैव स्थापयेच्छिवम् ।
सप्तसप्तककोष्ठं तु गर्भागारं विभाजयेत् ॥ ९ ॥
ब्राह्मं तन्मध्यकोष्ठं स्यात् तद्बाह्यं वसुकोष्ठकम् ।
दैविकं स्याच्चतद्बाह्यवृतौ षोडशकोष्ठकैः ॥ १० ॥
मानुषाख्यं ततो बाह्यवृतौ सङ्कृतिकोष्ठकैः । पैशाचं
नाम तत्र क्षेत्रं प्रतिष्ठा चैषु कथ्यते ॥ ११ ॥
ब्राह्मे शिवप्रतिष्ठा स्याद् दैवे विष्णोर्विधीयते । मानुषे
सर्वदेवानां पैशाचे मातृरक्षसाम् ॥ १२ ॥
दैवगन्धर्वयक्षाणां नागादीनां च शस्यते ।
अत्र मयः ।
गर्भागारे सप्तसप्तांशकेऽंशं मध्ये ब्राह्मं दैविकं
चाष्टभागम् । मानुष्यं तत् षोडशांशं तु बाह्ये
पैशाचं स्यात् तच्चतुर्विंशदंशम् ॥
शैवं ब्राह्मे वैष्णवं दैविकांशे सर्वं देवा मानुषे
स्थापनीयाः । पैशाचांशे मातरश्चासुराद्या
रक्षोयक्षाश्चापि गन्धर्वनागाः ॥
इति ।
शिवमध्याद् दक्षिणतो ब्रह्मसूत्रात् तथोत्तरे ॥ १३॥
प्राचीनं सूत्रमास्फाल्य कोष्ठानां मध्यतः समम् । तस्मिन्
स्वस्वपदे मध्ये विष्ण्वादीन् स्थापयेत् क्रमात् ॥ १४ ॥
प्रत्यङ्मुखांस्तु प्राच्येषु पदेषु स्थापयेत् सुरान् ।
प्राङ्मुखांश्च प्रतीच्येषु याम्येषूदङ्मुखानपि ॥ १५ ॥
सौम्येषु दक्षिणास्यांश्च विष्ण्वादीन् युक्तितः क्रमात् ।
शिवमध्याधिकारः ।
अथ ब्रह्मशिलायां तु रत्नादिन्याससिद्धये ॥ १६ ॥
तत्तद्दिक्षु तथा मध्ये युक्त्या गर्तानि कल्पयेत् । पूर्वोक्ते
शिवमध्ये तु शिलामध्यं यथा तथा ॥ १७ ॥
स्थापयेत् तूर्यघोषाद्यैर्वेदघोषैश्च पुष्कलैः । उदङ्मुखः
प्राङ्मुखो वा गुरुर्मूर्तिधरैः सह ॥ १८ ॥
ॐ नमो व्यापिनीत्युक्त्वा स्थिरे चेत्यचले ध्रुवे । बिन्द्वन्तं चापि
भूबजिं हृल्लेखां चाग्निजायया ॥ १९ ॥
तारं हृद्बीजमाधारशक्तये च नमोन्तकम् ।
तथैवानन्तशक्तिं चाप्यभिधाय नमोरिवतम् ॥ २० ॥
संस्थाप्य तु ब्रह्मशिलां स्पृष्ट्वानेनाभिमन्त्रयेत् ।
ॐ
त्वमेव परमा शक्तिस्त्वमेवासनधारिका ॥ २१ ॥
शिवाज्ञया त्वया देवि ! स्थातव्यमिह सर्वदा ।
शुद्धविद्यान्तमध्वानं सर्वं तस्यां विभाव्य तु ॥ २२ ॥
रत्नादिपञ्चवर्गांस्तु विन्यसेत् तु यथाक्रमम् । वज्रं
चार्कमणिं नीलं महानीलं च मौक्तिकम् ॥ २३ ॥
पुष्यरागं मस्तकं वैडूर्यं पद्मरागकम् ।
इन्द्रादीशानपर्यन्तं माणिक्यं मध्यतः स्मृतम् ॥ २४ ॥
ताम्रायोवङ्गरूप्याणि पित्तलं कांस्यसीसके । देवलोहं
सुवर्णं च पूर्वाद्यं मध्यमान्तकम् ॥ २५ ॥
तालं शिला तोरिका च माक्षिकं हेममाक्षिकम् । गैरिकं
गन्धकं चाभ्रं पारतं नवमं स्मृतम् ॥ २६ ॥
उशीरं च हरिक्रान्ता रक्तचन्दनकागरू ।
शारिबोत्पलमालेयरुक्छङ्खकुसुमाह्वयाः ॥ २७ ॥
ओषधीर्विन्यसेच्चाथ ब्रीहीन् गोधूमकांस्तिलान् ।
माषमुद्गयवश्यामाशालीश्चेन्द्रादि विन्यसेत् ॥ २८ ॥
सङ्क्षिप्तासु प्रतिष्ठासु रत्नादीनामसम्भवे ।
रत्नादिपञ्चवर्गेभ्यो वज्रं हेम च पारतम् ॥ २९ ॥
हरिक्रान्तां यवांश्चैव मध्यगर्त्ते तु विन्यसेत् । रत्नादिवर्गान्
सद्यादिकलाभिर्विन्यसेत् पृथक् ॥ ३० ॥
सद्यादिब्रह्मभिर्मध्ये लोकेशाख्याभिरेव वा । मध्यगर्ते
हेममयं कूर्मं वृषभमेव वा ॥ ३१ ॥
संस्थाप्यानन्तमन्त्रेण प्राग्याम्याप्येन्दुदिक्ष्वपि । वृषभं
परशुं चाक्षस्रजं शूलं हिरण्मयम् ॥ ३२ ॥
निवृत्त्यादिकलाभिस्तु विन्यस्यालिप्य वै शिलाम् ।
पायसेनाहतस्वच्छवाससाच्छाद्य वर्मणा ॥ ३३॥
गन्धाद्यैस्तु निवेद्यान्तमिष्ट्वा दद्याद् दिशाबलिम् ।
कृसरापूपलाजाम्बुधानाहारिद्रसक्तुभिः ॥ ३४ ॥
क्रमात् सेक्षुरसान्नेन दत्त्वा दिक्पतिनामभिः ।
ॐ
देवं रुद्रं पुरस्कृत्यं प्रतिगृह्णन्त्विमं बलिम् ॥ ३५ ॥
पैशाचान्तानि भूतानि सर्वाणीह यजामहे ।
सर्वदिग्वासिभ्यः सर्वभूतेभ्यो नमः ।
इत्थं प्रतिदिशं दत्त्वा स्नात्वाचम्य प्रसन्नधीः ॥ ३६ ॥
शिलासूत्रादिदोषघ्नमस्त्रेण जुहुयाच्छतम् । ततो लिङ्गं
हृदोत्थाप्य सिरसार्घ्यं प्रदाय च ॥ ३७ ॥
अभिष्टुत्य च तं वाग्भिर्जयशब्दादिमङ्गलैः ।
गीतवाद्यादिनिर्घोषैर्हेमरत्नाम्बरादिभिः ॥ ३८ ॥
क्षिपद्भिर्यजमानाद्यैर्देवं नीत्वा प्रदक्षिणम् । आचार्यो
मूर्त्तिपैः सार्धं दारदेशेऽवतार्य तु ॥ ३९ ॥
भद्रपीठे तु संस्थाप्य स्थिरो भूया इतीरयेत् । अकृतप्रस्तरे
द्वारेद्वारशाखादिकस्य तु ॥ ४० ॥
असंस्पर्शेन तल्लिङ्गं पीठं चान्तः प्रवेशयेत् । देहलीं
द्वारशाखे वा भित्तिं वोर्ध्वमुदुम्बरम् ॥ ४१ ॥
लिङ्गं स्पृशति पीठं वा तदा दोषो महानपि । तच्छान्त्यै
ब्रह्ममूलाङ्गैर्हुत्वा दत्त्वा च दक्षिणाम् ॥ ४२ ॥
असंस्पर्शेन शाखादेरन्तर्लिङ्गं प्रवेशयेत् । अनारब्धा यदा
भित्तिर्द्वारं चाप्यकृतं यदा ॥ ४३ ॥
द्वारोद्देशप्रदेशेन तदा देवं प्रवेशयेत् । ततो
ब्रह्मशिलामिष्ट्वा हेतिनाछाद[ख्: दि]नाम्बरम् ॥ ४४ ॥
अपनीय शिलाश्वभ्रे लिङ्गं तु प्रविशेद् यदा । अनायासेन
तद्योग्ययन्त्रेण प्रगुणीकृतम् ॥ ४५ ॥
तथा मूर्तिधरैः सार्धमाचार्यो लग्न आगते । सुनिश्चितक्षणे
तस्मिञ् छिवोऽहामिति भावयन् ॥ ४६ ॥
शिवशक्त्योस्तदैकत्वं ध्यायञ्छक्तिं शिलां स्मरन् ।
हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्राण्यतीत्य तु ॥ ४७ ॥
ब्रह्मादिकारणत्यागात् स्वमन्त्रं निष्कलान्तगम् ।
ध्यायन्नुच्चारयल्लिँङ्गं प्रतिष्ठाप्य प्रसन्नधीः ॥ ४८ ॥
सृष्टिमार्गेण चेशानपुरुषादिक्रमेण तु । तत्त्वाध्वानं तु
शक्त्यादिं लिङ्गमूर्त्तौ विभाव्य तु ॥ ४९ ॥
शुद्धाभिः सिकन्ताभिस्तु शिलारन्ध्रं प्रपूरयेत् । पुनः
सङ्क्षुद्य सङ्क्षुद्य रन्ध्रं हेमशलाकया ॥ ५० ॥
लिङ्गशीर्षोपगं नीत्वा पीठं लम्बनरज्जुभिः । सुनिश्चिते
तदा लग्ने शनैर्लिङ्गेऽवतारयेत् ॥ ५१ ॥
तारं च शक्तिबीजं च क्रियाशक्त्यैपदं ततः । उमायै नम
इत्यन्तं मन्त्रं सृष्टिक्रमात् स्मरन् ॥ ५२ ॥
उच्चारयन् पिण्डिकां तु लिङ्गेन सह योजयेत् । स्थाप्यमानं यदा
लिङ्गं पीठं वा चालितं भवेत् ॥ ५३ ॥
यां यां दिशं संश्रितं तत् तत्तद्दिक्पालमन्त्रतः ।
शान्तिं कुर्यान्निजस्थाने स्थिरीकृत्य तु सूत्रकैः ॥ ५४ ॥
द्विशतं त्रिशतं वाज्यं तिलान् हुत्वा तु दक्षिणाम् ।
दद्यादैन्द्र्यादिकानां तु गजं वा स्वर्णनिर्मितम् ॥ ५५ ॥
काञ्चनं महिषं छागं मुक्ताहारं च पित्तलम् । धेनुं
पयस्विनी रूप्यं क्रमेण स्थापकाय तु ॥ ५६ ॥
ततो लिङ्गं च पीठं च नमस्कृत्यैकतां गतम् । आचार्यो
जुहुयाद् ब्रह्ममूलाद्यैस्तु शतं घृतम् ॥ ५७ ॥
पुनरागत्य देवेशं नत्वा विज्ञापयेद् गुरुः । निर्दोषतां
प्रसीदास्मिन्नपराधं क्षमस्व भोः ॥ ५८ ॥
इत्युक्त्वा सिकताभिस्तु किञ्चिद् रन्ध्रं प्रपूरयेत् ।
अशेषमष्टबन्धेन नीरन्ध्रं विदधीत च ॥ ५९ ॥
लाक्षा सर्जरसः शङ्खः सिकतास्त्रिफलारसः । कुन्दुरुष्कं
च सम्पिष्टं वज्रलेपोऽयमीरितः ॥ ६० ॥
आम एवेति यावत् । अथवा
लाक्षा सर्जरसः सिक्थं शर्कराचूर्णगुग्गुलूः । गैरिकं च
गुलं तैलमष्टबन्धम् इतीरितः ॥ ६१ ॥
अन्त्याद् भागाभिवृद्धिः स्यात् पाकश्चिक्कणवद् भवेत् ।
अपि च ।
लाक्षागुलमधूच्छिष्टगुग्गुलूनां समांशकैः ॥ ६२ ॥
सर्जचूर्णं तु तुल्यं स्याद् गैरिकस्य तदर्धतः ।
सर्वेषामर्धमानेन तैलं काले नियोजयेत् ॥ ६३ ॥
अयःपात्रे पचेद् युक्त्वा तद्दर्व्या मृदुवह्निना । अत्रापि
चिक्कणीपाको विज्ञेयो निपुणेन हि ॥ ६४ ॥
एतेषामष्टबन्धानां क्षिप्त्वैकं दृढतां नयेत् ।
लिङ्गपीठं तु नीरन्ध्रं नीरं तु न विशे(द् य)था ॥ ६५ ॥
अथवा सीसपत्रैस्तु नीरन्ध्रकरणं स्मृतम् । ऊहप्रत्यूहतो
युक्त्या लिङ्गं प्रक्षाल्य वै ततः ॥ ६६ ॥
निद्राकुम्भेनाभिषिच्य किङ्चिच्छात्युदकैरपि ।
अर्घ्यपञ्चामृतैश्चैव जलधूपान्तरैः क्रमात् ॥ ६७ ॥
यवगोधूमचूर्णाद्यैरवघृष्याभिषेचयेत् । ततः
शयनवेदिस्थं शिवकुम्भं च वर्धनीम् ॥ ६८ ॥
समानीयाभिषिच्येशं विद्येशकलशैस्ततः। पीठस्याधः
स्वदिक्ष्वेवमभिषिच्य यथाक्रमम् ॥ ६९ ॥
शान्तिकुम्भान् पुनः स्वेषु स्थानेष्वेव तु विन्यसेत् । अर्घ्यं
दत्त्वाभिपूज्याथ बलि * * * * * या ॥ ७० ॥
मुष्ट्या पीठं तु संस्पृश्य चाङ्गुष्ठाग्रेण वै शिवम् ।
लिङ्गं शिवमनुस्मृत्य पार्वतीं पिण्डिकां स्मरेत् ॥ ७१ ॥
तारं मूले शिवायान्ते नमोमन्त्रः शिवस्य तु । तारं शक्तिः
क्रियाशक्त्यै उमायै नम इत्यपि ॥ ७२ ॥
मन्त्रद्वयं तु सन्दध्याद् भुक्तिकामस्य मुक्तये । विपरीतं तु
सन्धेयमथ कादित्रिभागके ॥ ७३ ॥
आत्मादितत्त्वतत्त्वेशान् विन्यसेत् पूर्ववत् क्रमात् ।
आधारानन्तधर्मादीन् वामादीन् पीठगान् न्यसेत् ॥ ७४ ॥
मूर्तिविद्यातनुमनून् लिङ्गे तारहृदादिकम् । मूर्तिं विद्यातनुं
पञ्चकलाभिश्च षडध्वभिः ॥ ७५ ॥
व्याप्यव्यापकभावेन सर्वं सञ्चिन्त्य योजयेत् । मूर्त्तिः
शक्त्यन्ततत्त्वैः स्याद् दशदिग्बाहुमण्डला ॥ ७६ ॥
पञ्चस्रोतोमुखी दिव्या पञ्चमन्त्रशरीरिणी ।
निवृत्तिपादजङ्घोरुः प्रतिष्ठाजघनादिका ॥ ७७ ॥
विद्याहृदयवक्षोंसा शान्तिवक्रसरोरुहा ।
शान्त्यतीतकलाशीर्षा भुवनाध्वतनूरुहा ॥ ७८ ॥
वर्णमन्त्राध्वरुधिरा पदमांससिरादिका ।
तत्त्वाध्वमज्जशुक्लास्थिरशेषाध्वमयी स्मृता ॥ ७९ ॥
मूलमन्त्रं स्वहृत्पद्माद् द्वादशान्तशिवान्वितम् । संस्मृत्य
चैतन्यघनं परं ज्योतिरनामयम् ॥ ८० ॥
तस्मात् पुष्पाञ्जलिगतं क्रमान्नीत्वेशमस्तकम् । नाडीमार्गेण
लिङ्गान्तं मूर्त्या हृत्पङ्कजोदरे ॥ ८१ ॥
संस्थाप्य सर्वतो मूर्तौ मूर्तावङ्गानि च न्यसेत् । षान्तं
षष्ठस्वरोपेतं बिन्दुं चिच्छक्तये नमः ॥ ८२ ॥
तारादिकमुदीर्यैनं लिङ्गं व्याप्तं तु विन्यसेत् । निरोध्य तु
यथापूर्वमथ पिष्टादिनिर्मितैः ॥ ८३ ॥
लोकपालायुधैः स्वैः स्वैर्मन्त्रैरुद्वर्तयेच्छिवम् ।
नन्द्यावर्त्तोत्पलाम्भोजश्रीवत्सस्वस्तिकाम्बुजैः ॥ ८४ ॥
आदर्शचामराभ्यां चाप्यघोरास्त्राभिमन्त्रितैः । उद्वर्त्य
पैष्टैर्गन्धाद्भिर्यथावत् स्नपयेछिवम् ॥ ८५ ॥
वस्त्रभूषणगन्धाद्यैरुपचारैर्यथोदितैः । निवेद्यान्तं यजेद्
देवं जपेच्चाष्टोत्तरं शतम् ॥ ८६ ॥
यजमानभिधानाद्यं नामैश्वर्यपदान्तकम् । कृत्वा
सम्प्रार्थयेदस्मिन् सदा सन्निहितो भव ॥ ८७ ॥
तथेति देवानुज्ञातो गत्वा कुण्डान्तिकं गुरुः । मूलेन
चोमामन्त्रेण जुहोति घृतपायसम् ॥ ८८ ॥
प्राच्यां वृषं प्रतिष्ठाप्य दक्षिणे लकुलीश्वरम् ।
गणेशं नैर्-ऋते लोकपतीन् स्वस्वदिशास्वपि ॥ ८९ ॥
मातॄर्यमात् पश्चिमतः शास्तारं तु मृगे गुहम् । भल्लाटे
स्थापयित्वाष्टदिक्षु पूर्वादिषु क्रमात् ॥ ९० ॥
स्थण्डिलेष्वग्निमाधाय जुहुयुर्मूर्त्तिपाः पृथक् । इन्द्रक्रतुं
न इत्यैन्द्यामग्निं दूतं तथानले ॥ ९१ ॥
नाके सुपर्णे याम्ये तु नैर्-ऋत्यां मोषुणः परा । यं
रक्षन्तीन्ति वरुण्यां वायवायाहि मारुते ॥ ९२ ॥
सौम्ये तु सोमं राजानमैशान्यां तु त्रियम्बकम् ।
पलाशखदिराश्वत्थप्लक्षन्यग्रोधबिल्वजाः ॥ ९३ ॥
औदुम्बर्यश्च काष्मर्यः समिधोऽष्टौ यथाक्रमम् ।
सर्वद्रव्यैर्जुहोत्यङ्गब्रह्ममूलैस्तु मध्यतः ॥ ९४ ॥
द्रव्यैस्तैरेव लोकेशमन्त्रैर्दिक्षु जुहोति च । रात्रौ गणेभ्यश्च
बलिं दद्यात् पूर्वादितः क्रमात् ॥ ९५ ॥
प्रथममहः ।
अथ द्वितीयदिवसे गुरुर्मूर्तिधरैः सह । स्नात्वा नित्यविधानेन
शिवमिष्ट्वा यथाविधि ॥ ९६ ॥
अच्छिद्रिकरणाय प्राग्याम्याप्यार्थेशवह्निषु । कुण्डेषु
जुहुयादाज्यं शिवाघोरास्त्रिमन्त्रतः ॥ ९७ ॥
तथा पाशुपतास्त्रेण मूलेन च यथाक्रमम् ।
आग्नेयादिष्वघोरास्त्रात् सावित्र्या च शिवाज्ञया ॥ ९८ ॥
गायत्र्या च तथा गौरीगायत्र्या च सहस्रकम् । त्रिकालं
देवमभ्यर्च्य दत्त्वा भूतबलिं निशि ॥ ९९ ॥
तृतीयेऽपि दिने प्राग्वदिष्ट्वा देवं विधानतः ।
आज्येनैन्द्यादिकुण्डेषु दिशां शान्त्यै जुहोति च ॥ १०० ॥
ब्रह्माङ्गैः स्वस्वमन्त्रैस्तु प्रतिकुण्डं सहस्रकम् । चरुं चैव
दशांशेन बलिं दद्याच्च पूर्ववत् ॥ १०१ ॥
ततश्चतुर्थे दिवसे सविशेषं शिवं यजेत् । यथावत्
कलशैर्देवमष्टोत्तरशतान्तकैः ॥ १०२ ॥
एकाशीत्यूनपञ्चाशत्पञ्चविंशतिभिस्तु वा । नवकेनाथवा
शक्त्या तत्तल्लिङ्गानुसारतः ॥ १०३ ॥
स्नापयेत् स्नानपटले यथाग्रे वक्ष्यते तथा । महानैवेद्यकं
च स्यात् स्नपनानुगुणं यथा ॥ १०४ ॥
प्रतिकुण्डं घृतं हुत्वा वागीश्वर्या सहस्रकम् ।
ब्रह्माङ्गैर्जुहुयात् प्राग्वच्छिवाग्नौ श्रपयेच्चरुम् ॥ १०५ ॥
निवेद्यार्घं तु देवाय शेषं तु नवधा कृतम् । प्रतिकुण्डं
यथाशक्ति जुहुयुर्गुरुमूर्तिपाः ॥ १०६ ॥
शिवास्नाद्यष्टमन्त्रैश्च द्वितीयदिवसोदितैः । यथाशक्ति
घृतं हुत्वा पृथक् पूर्णां जुहोति च ॥ १०६ ॥
निर्माल्यमपनीयाथ संस्नाप्यकुसुमाष्टकम् । आरोप्य दिग्बलिं
दत्त्वा सापेक्षं स्वमनुं ततः ॥ १०८ ॥
मूर्तौ तु शिथिलीकृत्य चण्डं लिङ्गेऽभिपूजयेत् । नीलवर्णं
चतुर्वक्त्रं प्रतिवक्त्रं त्रिलोचनम् ॥ १०९ ॥
चतुर्भुजं प्रदीप्तास्यं जटाजूटेन्दुशेखरम् ।
अक्षस्रक्छूलटङ्कांश्च बिभ्राणं च कमण्डलुम् ॥ ११० ॥
नागोपवीतकटकरक्तवस्त्राभिभूषितम् । एवं ध्यात्वा तु
तल्लिङ्गादाहृत्यात्महृदम्बुजे ॥ १११ ॥
निवेश्यैशे निजस्थाने चण्डबेरं शिवालयम् ।
आधारशक्तिकमलपीठे संस्थाप्य तद्धृदि ॥ ११२ ॥
स्वहृत्स्थं चण्डमानीय नाडीमार्गेण विन्यसेत् ।
पूजयेच्चासनार्घ्यादिक्रमान्मुख्योपचारकैः ॥ ११३ ॥
तद्यथा -
चण्डासनं नमोन्तं स्याच्चण्डमूर्तिश्च तादृशी ।
मूलमन्त्रश्च धुन्यादिश्चण्डेश्वरपदं ततः ॥ ११४ ॥
चतुर्थ्यन्तं शिखाबीजं फट्कारश्च नमोन्वितः । अङ्गानि
चण्डशब्दाद्यं हृदयादीन्यनुक्रमात् ॥ ११५ ॥
चतुर्थ्यन्तानि हुम्फट् च नमोन्तं तानि पञ्चभिः ।
आसनादिक्रमादिष्ट्वा स्नानाद्यैरुपचारकैः ॥ ११६ ॥
निवेद्यशिवनिर्माल्यैः पुष्पाद्यैस्तं प्रपूजयेत् । अथ लिङ्गं तु
संस्नाप्य मन्त्रानुद्दिप्य पूर्ववत् ॥ ११७ ॥
सम्पूज्य गन्धपुष्पाद्यैर्नैवेद्यं च प्रदाय तु । आचार्यो
मध्यमे कुण्डे दद्यादाहुतिसप्तकम् ॥ ११८ ॥
तद्यथा -
स्थिरोऽथ व्यापकस्तद्वदप्रमेयस्ततः परम् । अनादिबुद्धो
नित्यश्च ततः स्यादविनश्वरः ॥ ११९ ॥
नित्यतृप्तश्च सप्तान्ते भव स्वाहेति योजिताः । मन्त्राः
स्युरेभिर्हुत्वाज्यमैभिरेव शिवं स्पृशेत् ॥ १२० ॥
सहस्रं वा तदर्धं वा शतं वा जुहुयाद् घृतम् ।
अघोरास्त्रव्याहृतिभिः पूर्णां च जुहुयात् पुनः ॥ १२१ ॥
कुण्डेभ्यः स्वस्वमन्त्राग्निनुद्वास्य स्वहृदम्बुजे । तथैव
शिवकुम्भास्त्रे लोकेशान् द्वारदेवताः ॥ १२२ ॥
तोरणध्वजकुम्भस्था द्रेवताश्च विसर्जयेत् । निशि भूतबलिं
दत्त्वा स्नात्वा मूर्त्तिधरैः सह ॥ १२३॥
शिवं प्रदक्षिणीकृत्य नमस्कृत्य प्रसादयेत् । ततो
हिरण्यवसनक्षेत्रभूषणवाहनैः ॥ १२४॥
आचार्यं तोषयित्वादौ वित्तशाठ्यविवर्जितः । तद्दशांशेन
मूर्त्तीशानध्येतॄंश्च तदर्धतः ॥ १२५ ॥
जापकांश्च तदर्धेन शुश्रूषूंश्च तदर्धतः । ब्राह्मणान्
लिङ्गिनो भक्तान् दीनान्धादींस्तथार्थिनः ॥ १२६ ॥
अन्यानपि यथाशक्ति तोषयेत् कनकादिभिः । सर्वस्वेनाथवार्धेन
तृतीयांशेन वात्मनः ॥ १२७ ॥
प्रतिष्ठां यजमानस्तु कुर्याल्लिङ्गस्य भक्तितः ।
वित्तशाठ्येन यः कुर्यात् प्रतिष्ठां शक्तिमानपि ॥ १२८ ॥
न स तत्फलमाप्नोति प्रलोभाक्रान्तमानसः । ततस्तु यजमानाय
स्वस्वकर्मफलार्पणम् ॥ १२९ ॥
आचार्याद्यास्तदा कुर्युः सपुष्पसलिलैः करैः । तत कर्ता
स्वपुत्राद्यैः स्वजनैश्चाभिसंवृतः ॥ १३० ॥
नित्यपूजादिसिद्ध्यर्थं विभवं तत्र कल्पयेत् । य एवं कुरुते
भक्त्या प्रासादाद्यां स्वशक्तितः ॥ १३१ ॥
लिङ्गप्रतिष्ठां सोऽमुष्मिल्लोँके कामानभीप्सितान् । अवाप्य
पुत्रमित्राद्यैरन्ते लोकानभिप्सितान् ॥ १३२ ॥
प्राप्नोति तद्विमानादौ यावन्तः परमाणवः । तावद्
वर्षसहस्राणि भोगान् प्राप्य शिवं व्रजेत् ॥ १३३ ॥
इत्थं प्रतिष्ठा कथितेन्दुमौलेज्येष्ठादिलिङ्गाभ्युचिता
यथावत् । श्रेष्ठानि तन्त्राणि शिवोदितानि काष्ठान्तमालोच्य
बहुप्रकारम् ॥ १३४ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तससरे क्रियापादे
प्रतिष्ठापटलः सप्तचत्वारिंशः ॥