अथ षट्चत्वारिंशः पटलः ।
अथ मूर्तिधरैः सार्धं स्नात्वाचार्यः प्रसन्नधीः ।
क्षालिताङ्घ्रिः समाचम्य प्रविश्य स्नानमण्डपम् ॥ १ ॥
पुण्याहं वाचयित्वाग्रे गणेशं दक्षिणे यजेत् । विधाय
विकिरक्षेपं शिवकुम्भं च वर्धनीम् ॥ २ ॥
निधायाभ्यर्च्य तद्भ्रान्त्या कृतरक्षे तु मण्डपे ।
प्राच्यामेकोनपञ्चाशत् कलशान् विन्यसेत् क्रमात् ॥ ३ ॥
प्राचिनोत्तरगैः सूत्रैर्दशभिर्दशभिः पृथक् । मध्ये
स्युर्नवकोष्ठानि दिक्षु पङ्क्तिद्वयत्रयम् [ख्: कोष्ठत्रयम्
त्रयम्] ॥ ४ ॥
संस्थाप्य मार्जयेत् पङ्क्तिर्यथा विथीचतुष्टयम् (?) ।
पदषट्कं पृथग् दिक्षु कोणे कोणे चतुष्पदम् ॥ ५ ॥
नवकस्य तु पूर्वादिकलशे पूरयेत् क्रमात् । कषायं चैव
गोमूत्रं पञ्चगव्यं तथा पयः ॥ ६ ॥
भूतिं दधि तदा मृत्स्नाः कुशाम्भश्च स्मरेच्च तान् । समुद्रान्
सप्त गर्भाब्धिमष्टमं कलशं स्मरेत् ॥ ७ ॥
मध्ये तु ब्रह्मकलशं पूरयेद् गन्धचारिभिः । द्वितीयावरणे
त्वाज्यं गोमयं मधु चैक्षवम् ॥ ८ ॥
रत्नोदकं नालिकेरं मातुलुङ्गं च दाडिमम् । रम्भाफलं च
जम्बीरं पनसं बिल्वमेव च ॥ ९ ॥
चन्दनाअगरुकर्पूरकुङ्कुमाम्भांसि षोदश ।
तृतीयावरणस्थांस्तु घटान् सङ्कृतिसङ्ख्यकान् ॥ १० ॥
गङ्गादिकानि तीर्थानि संस्मृत्य परिपूरयेत् । गङ्गां
शतद्रुं यमुनां नर्मदां च सरस्वतीम् ॥ ११ ॥
गोमतीं सरयूं सिन्धुं शोणां तापीं परुष्णिकाम् ।
गोदावरीं कृष्णवेणीं नन्दां भीमरथीमपि ॥ १२ ॥
तुङ्गभद्रां वेगवतीं कावेरीं ताम्रपर्णिकाम् । प्रभासं
नैमिशं चाथ गोकर्णं च त्रिपुष्करम् ॥ १३ ॥
केदारं चैव पूर्वादिकुम्भेषु क्रमशः स्मरेत् । स्वाशासु
ब्रह्मभिश्चाङ्गैर्विन्यस्य नवकं यजेत् ॥ १४ ॥
द्वितीयावरणे कुम्भान् विद्येशैश्चाष्टमूर्तिभिः ।
तृतीयावरणे तत्त्वैः शक्त्याद्यैस्तु धरोन्तकैः ॥ १५ ॥
दशेन्द्रियमनोवर्जैस्तारस्वाख्यानमोन्तकैः । विन्यस्तैस्तैर्यजेत्
कुम्भान् सकूर्चान् सूत्रवेष्टितान् ॥ १६ ॥
सहेमरत्नवसनांश्चन्दनस्रगलङ्कृतान् । सचूतपिप्पलदलान्
सपिधानफलाक्षतान् ॥ १७ ॥
कुम्भान् यथावदापूर्य गन्धाद्यैरभीपूजयेत् । अथ
पश्चिमभागे तु कृत्वा नव पदानि तु ॥ १८ ॥
कलशानां तु नवकं मूर्तीशाष्टकसंयुतम् । मध्ये शिवेनं
संयुक्तमापूर्याभ्यर्च्य देशिकः ॥ १९ ॥
पञ्चकोष्ठेष्वथैशान्यां कुम्भान् पञ्चामृतैः क्रमात् ।
पञ्चब्रह्मभिरापूर्य हेमकूर्चान्वितान् यजेत् ॥ २० ॥
प्राच्यां तु स्थण्डिले वह्निं प्रतिष्ठाप्य यथाविधि । शिवं
साङ्गं समावाह्य समिदाज्यतिलांश्चरून् ॥ २१ ॥
मन्त्रसंहितया हुत्वा मूलेनाष्टशताहुतीः । ब्रह्माङ्गैश्च
दशांशेन हुत्वा सम्पातितं घृतम् ॥ २२ ॥
ब्रह्मकुम्भे कुशाग्रेण क्षिप्त्वा स्नानमथाचरेत् । अर्घ्यं दत्त्वा
हृदा मूर्ध्नि पुष्पाद्यमपनीय तु ॥ २३ ॥
आपोहिष्ठादिभिः पूर्वममृतैर्ब्रह्मभिस्ततः ।
जलधूपान्तरं पुष्पैरशून्यं मस्तकं यथा ॥ २४ ॥
तथाभिषिच्य पूर्णां तु हुत्वा सम्पूज्य शङ्करम् ।
ततस्त्वेकोनपञ्चाशत्कलशैः स्थापनक्रमात् ॥ २५ ॥
कषायगव्यभसितमृत्स्नाभिर्व्योमविद्यया । गोमूत्रेणापि
गायत्र्या चाप्यायस्वेति दुग्धतः ॥ २६ ॥
दधिक्राव्णेति दध्ना तु देवस्यत्वा कुशाम्भसा । द्वितीयावरणे
तद्वत् तेजोऽसीति घृतेन तु ॥ २७ ॥
मधुवातेति मधुना गन्धद्वारेति गोमयात् । ऐक्षवेण तु मूलेन
आकृष्णेनेति रत्नकात् ॥ २८ ॥
ब्रह्मभिस्तु फलाम्भोभिः श्रीसूक्ताच्चन्दनादिकैः ।
जलधूपान्तरं चेष्ट्वा तृतीयावरणे घटैः ॥ २९ ॥
एकादशानुवाकैस्तु रुद्रस्य स्नापयेच्छिवम् ।
गन्धाद्यैरुपहारान्तमिष्ट्वा तूर्यादिनिस्वनैः ॥ ३० ॥
आरात्रिकं समुत्तार्य ततो ब्रह्मघटाम्भसा । पञ्चाक्षरान्तं
मूलेन देवेशमभिषेचयेत् ॥ ३१॥
पुनरभ्यर्च्य गन्धाद्यैः पाश्चात्यनवकेन तु । स्नापयेत्
पावमानीभिर्मध्येन ब्रह्मभिः पुनः ॥ ३२ ॥
गन्धाद्यैरुपहारान्तं पुनरभ्यर्च्य शङ्करम् । अनुज्ञातस्तु
कुम्भस्थशिवेन शिवयापि च ॥ ३३ ॥
गौर्यास्तारस्वबीजादिसम्पूटं तु स्वमन्त्रतः । वर्धन्यां
पिण्डिकां सिक्त्वा ततः शिवघटेन तु ॥ ३४ ॥
स्नापयेद् व्योमविद्यान्तो (?) मन्त्रसंहितया शिवम् । अघोरेण तु
गन्धेन लिङ्गं पाठं च लेपयेत् ॥ ३५ ॥
वामेनाभूष्य व्स्त्राद्यैसशेन कुसुमैर्यजेत् । धूपदीपनिवेद्यानि
पुरुषेण तु दापयेत् ॥ ३६ ॥
सगन्धशिवहस्तेन गायत्र्यास्य चतुर्दिशम् । लिङ्गस्य तु
त्रिखण्डेषु तत्तत् संस्मृत्य संस्पृशेत् ॥ ३७ ॥
शुक्लैः सुगन्धैः कुसुमैः स्रग्धूपारात्रिकैरपि । नीराज्य
पिष्टदीपाद्यैः पुण्याहं वाचयेत् ततः ॥ ३८ ॥
व्स्त्राभ्यां लिङ्गमाच्छाद्याथोतिष्ठब्रह्मणस्पते । इत्यादिना
द्विजैर्लिङ्गमुत्थाप्यातोद्यमङ्गलैः ॥ ३९ ॥
गीतैर्नृत्तैश्च नीत्वेशमधिवासनमण्डपम् । पश्चिमद्वार्यु
[ख्: द्वारदित्य] दत्याद्यादवतार्या (र्घ? र्च) येच्छिअम् ॥ ४० ॥
पूर्वं शयनवेद्यां तु स्वस्तिके शालितण्डुलैः । स्थण्डिले
दन्तखट्वां वा फलकां वा दृढां नवाम् ॥ ४१ ॥
निधाय कम्बलैश्चोर्णैः कौशेयाद्यैः समास्तृताम् । शय्यां
विरचयेद् रम्यां सोपधानोत्तरच्छदाम् ॥ ४२ ॥
शङ्खं चक्रं ध्वजञ्चाथ दर्पणं वृषभाङ्कुशौ ।
चामरे मत्स्ययुग्मं च न्यसेद् दिक्ष्वष्टमङ्गलम् ॥ ४३ ॥
ततो लिङ्गं प्रवेश्यान्तराचार्यः सह मूर्तिपैः ।
शाययेच्छिरसा तल्पे शिखयास्योपधानकम् ॥ ४४ ॥
दत्त्वा तु वर्मणाच्छाद्य नैवेद्यान्तं तु पूजयेत् ।
अत्र मञ्जर्याम् -
प्रासादाभिमुखं निवेश्य शयने वामेन मन्त्रेण त- च्चैतन्यं
परमं नियोज्य विधिवत् तस्मिन् षडध्वान्वितम् ।
पञ्चब्रह्मविराजितं च सकलं सङ्कल्प्य सृष्टिक्रमाद्
व्योमव्यापिमनुस्वरूपिणममुं तत्त्वैस्त्रिभिर्भाजितम् ॥
इति ।
गृहोपकरणं सर्वमानीय विनिधाय तु ॥ ४५ ॥
मध्वाज्यपूरितं पात्रं रौप्यं दद्यात् तु पादयोः ।
मृत्युञ्जयेन सहृदा चापोहिष्ठेति चार्चयेत् ॥ ४६ ॥
शिरस्समीपे निद्राख्यं कुम्भमस्त्रेण पूरयेत् ।
शिवकुम्भास्त्रवर्धन्यौ तत्रैवापूर्य पूजयेत् ॥ ४७ ॥
विद्येशकुम्भान् परितो लिङ्गस्य स्वस्वगोचरे ।
आत्मादितत्त्वविज्ञप्त्यै स्रग्भिः सीमाः प्रकल्पयेत् ॥ ४८ ॥
द्वारेषु घटिके द्वेद्वे कोणेष्वङ्कुरपालिकाः । तोरणेषु
शरावे द्वे स्थापयेन्मङ्गलाङ्कुरैः ॥ ४९ ॥
निद्राविद्येशकुम्भानां बाह्ये भूत्या कुशैस्तिलैः ।
प्राकारत्रितयं कृत्वा तेषु लोकाधिपान् न्यसेत् ॥ ५० ॥
तदस्त्राण्यपीति यावत् ।
अध्येतारः पठेयुश्च वेदान् प्रागादिदिग्गताः । कोणेषु रुद्रं
कद्रुद्रं भारुण्डं चमकांस्तथा ॥ ५१ ॥
अथाचार्यो मूर्त्तिधरैः प्राङ्मुखो वाप्युदङ्मुखः ।
उपविश्यासने पश्चाल्लिङ्गे भागत्रयं स्मरेत् ॥ ५२ ॥
ब्रह्मविष्ण्वीशभागेषु तत्त्वान्त्यात्मादिकानि तु ।
तत्त्वेश्वरैर्मूर्तिभिश्च न्यस्येन्मूर्त्तिश्वरान् सह ॥ ५३ ॥
मायान्तमात्मतत्त्वं च ब्रह्मभागे तु विन्यसेत् । तत्र तारं च
हृद्बीजमात्मतत्त्वं नमोन्तकम् ॥ ५४ ॥
तथात्मतत्त्वेश्वराय ब्रह्मणे नम इत्यपि । ब्रह्माणमेव विन्यस्य
ततस्तारं शिरोन्वितम् ॥ ५५ ॥
विद्यातत्त्वं सदेशान्तं चतुर्थ्या तु नमोन्तकम् । विन्यस्य तारं
शिरसा विद्यातत्त्वेश्वराय च ॥ ५६ ॥
विष्णवे नम इत्युक्त्वा विष्णुभागे तु विन्यसेत् । शिवान्तं
शिवतत्त्वं तु प्रणवेन शिखादिकम् ॥ ५७ ॥
चतुर्थ्यन्तं तथैवोहं [क्: हं हूं शि] (?) शिवतत्त्वाधिपाय
च । रुद्राय नम इत्यन्तं रुद्रभागे तु विन्यसेत् ॥ ५८ ॥
भूम्यग्नियजमानर्कजलवाय्विन्दुखाभिधाः । मूर्तीस्तु
विन्यसेदष्टौ त्रिष्वङ्गेषु पृथक् पृथक् ॥ ५९ ॥
शर्वं पशुपतिं चोग्रं रुद्रं चैव भवं तथा । ईशानं
च महादेवं भीमं चेत्यष्टमूर्तिपान् ॥ ६० ॥
तारहृद्बीजपूर्वं तु प्रागादीशान्तकं क्रमात् ।
विन्यसेदष्टपक्षे तु स्वाख्यामन्त्रैर्नमोन्तकम् ॥ ६१ ॥
निरोधयेन्निष्ठुरया गन्धाद्यैश्चाभिपूजयेत् । शिवस्यैव
प्रतिष्ठायां पञ्चपक्षे तु मूर्तयः ॥ ६२ ॥
भूम्यम्बुवह्निपवनव्योमाख्याः स्युस्तदीश्वराः । ब्रह्मा
विष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः ॥ ६३ ॥
मुमुक्षोः पञ्चपक्षेण प्रतिष्ठा क्रियते यदा । निवृत्त्याद्याः
कलाः पञ्च मूर्तयो मूर्तिपा अपि ॥ ६४ ॥
सद्योजातादयः पञ्च पश्चिमादिस्वदिग्गताः । ततो
लिङ्गोत्तरस्थायां स्नपितायां तु लिङ्गवत् ॥ ६५ ॥
रन्ध्रमध्ये भगाङ्कायां पूजितायां यथाविधि । तद्वद्
ब्रह्मशिलायां च स्थितायां लिङ्गमूलतः ॥ ६६ ॥
तत्तत्तत्त्वेश्वरान् मूर्तिमूर्त्तीशानपि विन्यसेत् ।
तत्राप्यात्मादितत्त्वेशीं क्रियाज्ञानेच्छया सह ॥ ६७ ॥
विन्यस्य क्ष्मादिमूर्त्तीश्च मूर्त्तीशीर्धारिकादिकाः । धारिका
दीप्तिमत्युग्रा ज्योत्स्नाख्या चेतना तथा ॥ ६८ ॥
बलोत्कटा च धात्री [ख्: पा] च विभुश्चेत्यष्ट मूर्तिपाः ।
साधकस्य प्रतिष्ठायां भोगेच्छोः शुद्ध(म? व)र्त्मनि ॥ ६९ ॥
शुद्धविद्यादिशक्त्यन्ते विद्येशा मूर्तिपाः स्मृताः ।
मूर्तीश्वर्यस्तु तस्यैव पीठेऽनन्तादयः क्रमात् ॥ ७० ॥
स्त्रीलिङ्गान्तोदितास्तद्वत् पञ्चपक्षेऽपि मूर्तिपाः । वामा
ज्येष्ठा क्रियाज्ञाने चेच्छेति षठितास्त्विमाः ॥ ७१ ॥
पुरुषाद्यास्तु मायान्ते शुद्धाशुद्धेऽध्वनि स्थिताः । याः
काश्चिद् देवतास्तासां प्रतिष्ठायां तु मूर्तिपाः ॥ ७२ ॥
अङ्गुष्ठमानो भुवनेश ईशः स्यादेकपिङ्गेक्षणकृद् भवश्च
। भवो महादेवमहाद्युती च काम्यप्रतिष्ठासु च मूर्तिपाः
स्युः ॥ ७३ ॥
अशुद्धेऽध्वनि पृथ्व्यादौ प्रकृत्यन्ते स्थितास्तु याः ।
देवतास्तत्प्रतिष्ठायां कपालीशादिमूर्तिपाः ॥ ७४ ॥
कपालीशोऽग्निरुद्रश्च यमो निर्-ऋतिरेव च । बलः शीघ्रो
निधीशश्च विद्याधिपतिरष्टमः ॥ ७५ ॥
वस्वादित्यादिरुद्राणां यक्षभोगीन्द्ररक्षसाम् । नरादीनां
प्रतिष्ठायामिन्द्राद्या मूर्तिपाः स्मृताः ॥ ७६ ॥
इन्द्रादयोष्टौ लोकपाला इति यावत् ।
क्षुद्राभिचाराद्युद्देशात् प्रतिष्ठा क्रियते यदा । तत्र
स्युर्मूर्तिपास्त्वष्टावसिताङ्गादिभैरवाः ॥ ७७ ॥
असिताङ्गो रुरुश्चण्डः क्रोधनोन्मत्तभैरवौ । कपाली
भीषणश्चैव संहाराख्योऽष्टमः स्मृतः ॥ ७८ ॥
प्रतिमानामथोग्राणां प्रतिष्ठासु [क्: स्तु] तमादिकाः [ख्:
ताः] । मूर्तीश्वर्यस्तमा मोहा क्षया निष्ठा च मृत्युना ॥ ७९
॥
मया मया ज्वरा च स्युः पृथ्व्याद्या एव मूर्तयः । उग्राणां
पञ्चपक्षे तु तमा मोहा च घोरया ॥ ८० ॥
अरतिश्च ज्वरा चेति मूर्तीश्वर्यः क्रमोदिताः । प्रतिमानां
प्रतिष्ठासु समानोऽयं विधिर्मतः ॥ ८१ ॥
त्रिभागभावना तत्र जानुकण्ठशिरोवधिः । स्त्रीबेराणां
प्रतिष्ठासु किर्याशक्तिं तु पीठगाम् ॥ ८२ ॥
देहे ज्ञानी च विन्यस्य कुर्याच्छेषं तु पीठवत् ।
तत्त्वतत्त्वेश्वरमूर्तिमूर्त्तीश्वरन्यासाधिकारः ।
एवं विन्यस्य तत्त्वानि तदीशान् मूर्त्तिमूर्त्तिपान् ॥ ८३ ॥
तारादिभिर्नमोन्तैस्तु तत्तन्नामभिरर्चयेत् ।
तत्त्वादीनामवस्थानं लिङ्गादौ तत्र भावयेत् ॥ ८४ ॥
अथ कुण्डान्तिकं गत्वा तत्त्वतत्त्वेश्वरादिकम् । क्रमादावाह्य
कुण्डेषु घृतेन जुहुयुः पृथक् ॥ ८५ ॥
तद्यथा -
तारहृत्पूर्वमाधारशक्तिं विन्यस्य चानले । इष्ट्वा
त्रिराहुतीर्हुत्वा आत्मतत्त्वं तु विन्यसेत् ॥ ८६ ॥
आत्मतत्त्वाधिपायान्ते ब्रह्मणे च नमोन्तकम् । आवाह्याभ्यर्च्य
पृथ्व्यादिमूर्त्तिमूर्त्त्यधिपानपि ॥ ८७ ॥
क्रमादावाह्य सम्पूज्य घृतेनाष्टोत्तरं शतम् । तदर्धं वा
ततोऽर्धं वा तत्त्वादीनां जुहोति च ॥ ८८ ॥
पृथङ् मूर्तिधरांस्त्वेवं जुहुयुः स्वस्वमूर्त्तिभिः ।
अथाचार्यादयः सर्वे गत्वा लिङ्गान्तिकं सह ॥ ८९ ॥
स्वस्वमूर्त्तिप्रदेशेषु संस्पृश्य कुशमूलतः ।
जपेयुर्मूर्त्तिमूर्त्तीशमन्त्रानाहुतिसङ्ख्यया ॥ ९० ॥
तत्त्वाधिपं तु ब्रह्माणं शिवाज्ञां श्रावयेत् पृथक् ।
ॐ
आत्मतत्त्वाधिप ! ब्रह्मन् ! यावल्लिङ्गमिदं भुवि ॥ ९१ ॥
निर्दोषं सुस्थितं तावत् त्वया स्थेयं शिवाज्ञया ।
ॐ ब्रह्मणे नमः इति ।
स्पृशन्तो मूलमन्त्रेण कुशमूलेन मूर्तिषु ॥ ९२ ॥
लिङ्गमूले प्रोक्षयेयुः शान्तिकुम्भजलैः पृथक् ।
पुनः कुण्डान्तिकं गत्वा
ॐ आत्मतत्त्वविद्यातत्त्वाभ्यां नमः ।
इति तत्त्वे विभाव्य तु ॥ ९३ ॥
शुद्धाशुद्धे तु सन्धाय विद्यातत्त्वं तु विन्यसेत् ।
तारहृत्पूर्वकं प्राग्वद् विद्यातत्त्वं नमोन्तकम् ॥ ९४ ॥
विद्यातत्त्वाधिपायेति विष्णवे नम इत्यपि । इष्ट्वा हुत्वा
तथाज्येन मूर्त्तिमूर्त्तीश्वरांस्तथा ॥ ९५ ॥
आवाह्य जुहुयात् प्राग्वत् प्राग्वल्लिङ्गसमीपगाः । कुशमध्येन
लिङ्गस्य जपेयुर्मध्यमस्पृशः ॥ ९६ ॥
मूर्तिमूर्तिपमन्त्रांस्तु शिवाज्ञां श्रावयेत् पृथक् ।
विद्यातत्त्वेश ! भो विष्णो ! यावल्लिङ्गमिदं भुवि ॥ ९७ ॥
निर्दोषं सुस्थितं तावत् त्वया स्थेयं शिवाज्ञया ।
ॐ विष्णवे नम इति ।
शान्तिकुम्भाम्भसा प्राग्वत् प्रोक्षयेयुश्च मूलतः ॥ ९८ ॥
प्राग्वत् कुण्डान्तिकं गत्वा शुद्धाशुद्धे विभाव्य तु ।
विद्याशिवाख्ये तत्त्वे तु सन्धाय च नमोन्तकम् ॥ ९९ ॥
शिवतत्त्वमुपस्थाप्य प्राग्वदिष्ट्वा जुहोतु च । विन्यस्य
मूर्त्तिमूर्त्तीशान् पूर्ववज्जुहुयुः पृथक् ॥ १०० ॥
लिङ्गान्तिकं तथा गत्वा मूलमन्त्रान् कुशाग्रतः । रुद्रभागं
स्पृशन्तोऽथ जपेयुर्हुतसङ्ख्यया ॥ १०१ ॥
शान्तिकुम्भाम्भसा प्रोक्ष्य शिवाज्ञां श्रावयन्तु च ।
ॐ
शिवतत्त्वेश ! भो रुद्र ! यावल्लिङ्गमिदं भुवि ॥ १०२ ॥
निर्दोषं सुस्थितं तावत् त्वया स्थेयं शिवाज्ञया ।
ॐ रुद्राय नम इति ।
एवं पीठे शिवायां च तत्त्वाद्यं स्वस्वमूर्त्तिभिः ॥ १०३ ॥
विन्यस्य शोधयेत् स्पृष्ट्वा शिवाज्ञां श्रावयेदपि ॥
अथ सद्यादिब्रह्मभिरङ्गैश्च स्वस्वदिक्षु सहस्रं तदर्धं
शतं वाज्येन जुहुयात् व्याहृतिभिश्च ।
अत्र मञ्जर्यां -
व्यस्तैर्व्याहृतिभिः पलाशसमिधश्चौदुम्बराः पैप्पलाः
प्रत्येकं जुहुयात् सहस्रमथवा क्षीराज्यमध्वाप्लुताः ।
एवं तिलैस्तु जुहुयादथ चाष्टमूर्तिमन्त्रैश्च
मूर्तिगणनाथदिशाधिपैश्च । वज्रादिशस्त्रमनुभिश्च
यथाक्रमेण चाज्येन तत्र जुहुयाद् गुरुरादरेण ॥
चरुं लाजांश्च सक्तूंश्च सिद्धार्थांश्च तिलान् यवान् ॥ १०४
॥
ब्रीहींश्च जुहुयात् स्वस्वदिक्षु मन्त्रैर्यथापुरम् ।
सर्वद्रव्यैश्च मिलितैः पूर्णां हुत्वा स्वमूलतः ॥ १०५ ॥
उत्थाय त्वथ देवस्य दक्षिणे श्रवणे गुरुः । तारहृत्पूर्वकं
ज्ञानशक्तिं शब्दमयात्मने ॥ १०६ ॥
शिवाय नम इत्युक्त्वा कृतं कर्म समर्पयेत् ।
ॐ
भागत्रयेऽपि भगवन् ! कर्म निर्वर्तितं मया ॥ १०७ ॥
त्वत्प्रसादेन तत् सर्वं सम्पूर्णं भवतु प्रभो ! ।
इत्यर्पयेत् ।
इति निष्ठुरया रुद्ध्वा गन्धाद्यैरभिपूज्य तु ॥ १०८ ॥
निवेद्यान्तं बलिं किञ्चिद् दत्त्वा दिक्षु यथाविधि ।
नृत्तगीतविनोदाद्यैर्विनिद्रो गमयेन्निशाम् ॥ १०९॥
इत्थं प्रतिष्ठामधिकृत्य शम्भोरुक्तं तदादिस्नपनादिपूर्वम्
। तत्त्वादिविन्यासविधिश्च सर्वो येनाधिवासस्य विधिः प्रसिध्येत्
॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे क्रियापादे