४४

अथ पञ्चचत्वारिंशः पटलः ।

लिङ्गानां निष्कलादीनां प्रतिष्ठा पञ्चधा स्मृता ।
प्रतिष्ठा स्थापनं तद्वत् स्थितस्थापनमित्यपि ॥ १ ॥

उत्थापनास्थापने च पृथक् तल्लक्ष्म लिख्यते । यत्र
ब्रह्मशिलायां तल्लिङ्गमादौ निधाय तु ॥ २ ॥

क्रियते पिण्डिकायोगस्तां प्रतिष्ठां प्रचक्षते । स्थापनं
बाणलिङ्गानामार्षाणां च स्वयम्भुवाम् ॥ ३ ॥

रत्नहेमादिलिङ्गानामेका चेत् पिण्डिका तदा ।
स्थितस्थापनमुद्दिष्टं जीर्णे चोत्थापनं भवेत् ॥ ४ ॥

आस्थापनं स्याद् व्यक्तानां विष्ण्वादीनां च तत् तथा ।
अथोत्तरायणे पूर्वपक्षे लग्ने गुणान्विते ॥ ५ ॥

प्रशस्ततिथिनक्षत्रवारयोगदिनादिके दोषैर्गुणैश्च
पूर्वोक्तैर्हीने युक्ते सुसम्मते ॥ ६ ॥

यजमानानुकूले च प्रतिष्ठाकर्म शस्यते । प्रासादस्याग्रतः
कुर्याच्चतुरश्रं तु मण्डपम् ॥ ७ ॥

प्रशस्ततरुवंशाद्यैर्नूतनैः सुमनोरमम् ।
हस्तादिनवहस्तान्तलिङ्गानां प्रथमत्रिके ॥ ८ ॥

वसुनन्ददिशाहस्तैरथार्कमनुषोडशैः । तृतीये स्याद्
घृतिकृतिकरैश्चोत्कृतिसम्मितैः ॥ ९ ॥

पर्यन्तभित्तिसंयुक्तं चतुर्दिग्द्वारशोभितम् ।
एकाशीतिपदांशस्य स्यान्मध्य[ख्: त्त]नवकेन तु ॥ १० ॥

रसार्कषोडशांशोच्चां वेदिं कुर्यान्मनोरमाम् ।
कुण्डाष्टकं तु पूर्वादिदिक्षु कुर्याद् यथाक्रमम् ॥ ११ ॥

वेदाश्रयोनिखण्डेन्दुत्र्यश्रं वृत्तं षडश्रकम् ।
पद्माकारं च वस्वश्रं नवमं चतुरश्रकम् ॥ १२ ॥

तच्चेन्द्रेशानयोर्मध्ये प्राङ्मुखेऽंशे विधीयते ।
रक्षोवरुणयोर्मध्ये लिङ्गे स्यात् पश्चिमामुखे ॥ १३ ॥

सर्वाणि चतुरश्राणि वृत्तानीत्यपि केचन ।
कनिष्ठादित्रिलिङ्गानां रत्न्यरत्निकराणि तु ॥ १४ ॥

कनिष्ठादीनि कुण्डानि स्युर्वात्राहुतिसङ्ख्यया । स्युः
पञ्चमूर्तिपक्षे तु पञ्च कुण्डानि तान्यपि ॥ १५ ॥

चतुरश्राणि दिक्ष्वीशशक्रमध्ये तु पञ्चकम् । एकं वैन्द्र्यां
भवेत् कुण्डमशक्तौ वा कनिष्ठके ॥ १६ ॥

प्रागुदीच्यां तु वोदीच्यामधिवासनमण्डपात् ।
कुर्यादर्धप्रमाणेन तद्वत् स्रपनमण्डपम् ॥ १७ ॥

तस्यैककोष्ठपङ्क्तिं तु त्यक्त्वाथ परितो बहिः । स्नानवेदिं
षडंशोच्चां परितस्तु रसांशकैः ॥ १८ ॥

उच्चव्याससमां कुर्याच्छोभनां तु वितर्दिकाम् । जलनिर्गमनालं
च भवेदुत्तरतः शुभम् ॥ १९ ॥

कुण्डसङ्ख्यासमं कुर्यात् स्रुक्स्रुवाद्यं पृथक् पृथक् ।
निद्राकुम्भं शान्तिकुम्भाञ्छिवकुम्भास्त्रवर्धनीः ॥ २० ॥

विद्येशलोकपालानां कुम्भान् वा तोरणाश्रितान् ।
अभ्यङ्गपात्रं वस्त्राणि तद्वच्चैवाष्टमङ्गलम् ॥ २१ ॥

तण्डुलांश्च चरुस्थालीः कलशान् पञ्चगव्यकम् । नवरत्नानि
च स्वर्णं प्रभूते मधुसर्पिषी ॥ २२ ॥

पर्वताग्रनदीतीरकुलीरह्रदतीर्थजाः ।
वृषेभशृङ्गवल्मीकसरस्तीरभुवो मृदः ॥ २३ ॥

अष्टौ समुद्रसरितां तीर्थानां सलिलानि च । ततः
क्षीरागजम्ब्वाम्रत्वचः किसलयानि च ॥ २४ ॥

रौप्यपात्रद्वयं हेमशलाके भद्रपीठकम् ।
सर्वौषधीर्धातुबीजलोहानि मुसलादिकम् ॥ २५ ॥

गृहोपस्करजातं यदनुक्तमपि चाहरेत् । अमत्रयन्त्रिकाधारान्
[ख्: काधिकारान्] गुलखण्डं च गुग्गुलुम् ॥ २६ ॥

चन्दनागरुकर्पूरकुङ्कुमं योगपट्टिकाम् । ताम्बूलं क्रमुकं
तैलं खट्वां वा फलकां नवाम् ॥ २७ ॥

नवकम्बलदेवाङ्गपट्टाद्यं सयनोचितम् । सर्वमुत्तरवेद्यां तु
लक्षणोद्धारमण्डपे ॥ २८ ॥

विन्यसेन्नवकोष्ठेषु शिवकोष्ठादिषु क्रमात् । मध्ये तु
शिवकोष्ठं स्यात् प्रागाद्यष्टदिशास्वपि ॥ २९ ॥

सादेशेश्वरविद्याख्यमायाकालनियामिकाः । पुरुषः प्रकृतिश्च
स्युस्तत्त्वान्तं कोष्ठकानि तु ॥ ३० ॥

दुग्धादिपञ्चगव्यानि मध्ये दिक्कोष्ठकेषु च । जलं
होमोपकरणं वासो धूपोपयोगि यत् ॥ ३१ ॥

आग्नेये त्त्वथ नैर्-ऋत्ये दीपनीराजनादिकम् ।
त्वक्कषायाद्यमनिले चैशे स्याच्चन्दनादिकम् ॥ ३२ ॥

अन्यच्च कारकव्रातं यथोद्देशं निधापयेत् । स्युः
प्लक्षोदुम्बराश्वत्थन्यग्रोधैस्तोरणानि तु ॥ ३३ ॥

शान्तिभूतिबलारोग्यनामान्यैन्द्रादितः क्रमात् ।
कनिष्ठादित्रिलिङ्गानां शरर्तुमुनिकिष्कुभिः ॥ ३४ ॥

तुङ्गानि तु तदर्धान्तर्विस्ताराणि शुभानि च ।
नन्दरुद्रातिजगतीतुङ्गशूलान्यनुक्रमात् ॥ ३५ ॥

वसुपङ्क्तिञ्जगत्यंशैस्तच्छूलान्तरविस्तृतिः ।
शूलानामर्यमा मित्रस्त्वष्टा भगपुरन्दरौ ॥ ३६ ॥

पर्जन्यविष्णू सविता धातेशो [तेशावरु] वरुणस्तथा । पूषा
च देवताः प्रोक्ताः प्रागाद्येषु त्र्यस्त्रयः ॥ ३७ ॥

समूलान् कदलीस्तम्भान् फलपल्लवमण्दितान् ।
साल[ला]वालुजलान् द्वौद्वौ [ख्: वौ] स्थापयेत् तोरणाश्रयान् ॥
३८ ॥

ततो दुकूलदेवाङ्गपट्टवस्त्रादिभिर्नवैः । यथाशोभं
विभूष्योर्ध्वमधिवासनमण्डपम् ॥ ३९ ॥

स्तम्भानप्यहतैर्वस्त्रैराच्छाद्य क्षालितैः सितैः ।
मुक्तादामस्रगालम्बपूगपुष्पाद्यलङ्कृतम् ॥ ४० ॥

दर्भस्रजा च परितः संवेष्ट्यास्त्रमनुस्मरन् ।
दर्भसन्दर्भमार्जन्या सपलाशपलाशया ॥ ४१॥

ऐन्द्राद्यैशानपर्यन्तं मार्जयित्वा प्रदक्षिणम् । गायत्र्या
चोपलिप्यान्तर्गालितोदकगोमयैः ॥ ४२ ॥

आपः पुनन्त्वित्याद्येन प्रोक्षयेद् गन्धवारिणा । इषेत्वेत्यादिना
दर्भैरक्षतैः कुसुमैः सितैः ॥ ४३ ॥

विकीर्यास्त्रेण वा भूमौ सिद्धार्थैः परितोऽस्त्रतः ।
ततोऽधिवासनं कुर्यादाचार्यो मूर्तिपैर्युतः ॥ ४४ ॥

वेदविद्याव्रतस्नातान् कुलीनाञ् शुभलक्षणान् ।
नात्यन्तबालवृद्धांश्च श्रुतवृत्तादिभूषितान् ॥ ४५ ॥

पूर्वोक्तमन्त्रैस्तानष्टौ वरयित्वाभिपूज्य च । पञ्च वा
पञ्चपक्षे तान् मन्त्रैस्तैरेव पञ्चभिः ॥ ४६ ॥

वस्त्राङ्गुलीयकटकैर्भूषयेदपि शक्तितः । सप्तमे पञ्चमे
वाह्नि पूर्वं कृत्वाङ्कुरार्पणम् ॥ ४७ ॥

आचार्यो यजमानेन पूर्ववत् प्रार्थितोऽर्चितः । कृतनित्यक्रियः
स्रात्वा वाग्यतो मण्डपान्तिके ॥ ४८ ॥

प्रक्षाल्य पाणिचरणान् समाचम्य प्रसन्नधीः । स्थण्डिले
मण्डपाद् बाह्ये गणेशं सम्यगर्चयेत् ॥ ४९ ॥

स्रग्गन्धधूपदीपाद्यैः फलमोदकलड्डुकैः । निर्विघ्नं
प्रार्थयेत् कर्म लब्धानुज्ञस्ततो गुरुः ॥ ५० ॥

योगे योगेति वा (योगः?) मूलाद् योजयेत् तोरणान् क्रमात् । देवस्य
त्वेति वा स्वाङ्गैः शूलैरायोजयेदपि ॥ ५१ ॥

आच्छाद्याहतवासोभिश्चूताश्वत्थदलैरपि ।
उत्तिष्ठब्रह्मणोमन्त्रात् [क्: न्] प्रागाद्यन्तांस्तु विन्यसेत् ॥ ५२ ॥

आपूर्य गर्तानाकोट्य मूलान्यालिप्य गोमयात् । ध्वजान् दिक्षु
तथा मध्ये लोकपालायुधाङ्कितान् ॥ ५३ ॥

श्वेतेन्द्रचापसंरक्तकृष्णश्यामलधूम्रकान् ।
पीतपद्मारुणान् पाण्डुतापिञ्छधवलप्रभान् ॥ ५४ ॥

मध्ये पाशुपतास्त्रेणाप्यघोरास्त्रेण पातयेत् ।
अध्यर्धतोरणादुच्चा ध्वजाः सर्वे पताकिनः ॥ ५५ ॥

ध्वजाधिपतयो भृङ्गी महासेनवृषौ ततः । नन्दीशश्च
महाकालः कुम्भोदरमहोदरौ ॥ ५६ ॥

वीरभद्रस्तथा ब्रह्मा वास्त्वीशश्चेति कीर्तिताः । अथ
मूर्त्तिधरैर्विप्रैर्वेदिकायास्तु मध्यतः ॥ ५७ ॥

स्ववेदविहितं पूर्वं पुण्याहं कारयेद् गुरुः ।
कुलशीलश्रुताचारसम्पन्नाः शुभलक्षणाः ॥ ५८ ॥

द्वात्रिंशत् षोडशाष्टौ वा ब्राह्मणा वेदपारगाः ।
कृच्छ्रादिव्रतसंशुद्धा वृताः प्रागेव पूजिताः ॥ ५९ ॥

प्राग्दक्षिणोत्तरप्रत्यगुपविष्टा दृढव्रताः ।
कुर्युरध्ययनस्यादौ स्वशाखानुमतं दिशि ॥ ६० ॥

प्रतिष्ठाङ्गतयोद्दिश्य पुण्याहं बह्वृचादिकम् । गुरुः
पुण्याहसलिलैर्मण्डपान्तः प्रदक्षिणम् ॥ ६१ ॥

प्रोक्षयेद् दर्भकूर्चेन तोरणाद्यं च बाह्यतः ।
तदैवाध्ययनं विप्राः प्रारभेरन् यथादिशम् ॥ ६२ ॥

सामान्यार्घ्यमथापाद्य गन्धपुष्पाक्षतादिभिः । ध्वजाननु
यजेत् पूर्वं तारस्वाख्यानमोन्तकम् ॥ ६३॥

शान्त्यादितोरणांश्चेष्ट्वा स्वाख्याभिः शूलगान् रवीन् ।
ततस्तोरणशाखानां मूलकुम्भेषु पूजयेत् ॥ ६४॥

महोदरमहाकायौ महाकण्ठं महोदरम् । अग्निनेत्रं
चाग्निजिह्वं विरूपाक्षमथोत्तरे ॥ ६५ ॥

विशालाक्षं च पूर्वादिक्रमादष्टौ गणेश्वरान् ।
सहस्रवीचीं विमलां शतधारां प्रमोदिनीम् ॥ ६६ ॥

द्वाराणां सौम्यकुम्भेषु पूजयेद् द्वारदेवताः । कुम्भकर्णं
भद्रकर्णं श्वेतकर्णं च नामभिः ॥ ६७ ॥

गोकर्णमपि पूर्वादिद्वारदक्षिणकुम्भगान् ।
ततस्तालत्रयच्छोटिपार्ष्णिघातनिरीक्षितैः ॥ ६८ ॥

दिव्यान्तरिक्षभूमिष्ठान् विघ्नान् द्रारगतान् हरेत् ।
पश्चिमद्वारमासाद्य नाराचास्त्रं प्रयोजयेत् ॥ ६९ ॥

अस्पृशन् देहलीमन्तर्वामशाखाश्रितो विशेत् । विन्यस्यास्त्रं तु
देहल्यां परिक्रम्य प्रदक्षिणम् ॥ ७० ॥

प्राङ्मुखो नैर्-ऋते स्थित्वा वास्त्वीशं भुवि पूजयेत् ।
वास्तुदैवाधिपं मध्ये ब्रह्माणं स्वासनं तथा ॥ ७१ ॥

उत्तराशामुखं तस्मादुपविश्य प्रसन्नधीः । भूतशुद्धिं च
कृत्वादौ सकलीकरणं ततः ॥ ७२ ॥

तर्जन्या मण्डपाद् बाह्ये वप्रमस्त्राद् विधाय तु ।
मूलाबिमन्त्रितोष्णीषमुत्तरीयं च धारयन् ॥ ७३ ॥

विशेषार्घ्यं समापाद्य तेन प्रोक्षितमस्तकः । दक्षिणे
चन्दनालिप्ते शिवहस्तं विधाय तु ॥ ७४ ॥

तेजोरूपं तु शान्त्यन्तं शिवमुच्चार्य संस्मरन् ।
तमात्ममूर्ध्नि विन्यस्य शिवोऽहमिति भावयन् ॥ ७५ ॥

तत्त्वदृष्ट्या तु निखिलं मण्डपाद्यं विलोक्य तु ।
ज्ञानखड्गकरः प्राग्वत् पञ्चकोष्ठे यथाविधि ॥ ७६ ॥

पञ्चगव्य समासाद्य नैर्-ऋत्यां मण्डपे स्थितः । निक्षिप्य
विकिरानैशे शिवकुम्भास्त्रवर्धनी ॥ ७७ ॥

चलासने समापूर्य शिवाभ्यां समधिष्ठिते । पूजयेद्
गन्धपुष्पाद्यैर्वृषकेसरिवाहने ॥ ७८ ॥

ततः प्रशान्तशिशिरपर्जन्याशोकसञ्ज्ञितान् ।
सञ्जीवनामृतार्थेशकुस्मान् द्वारेषु युग्मशः ॥ ७९ ॥

विन्यस्योभयतस्तेषु नन्द्यादीन् द्वारपान् यजेत् । नन्दीशं च
महाकालं भृङ्गीशं च गजाननम् ॥ ८० ॥

वृषभं षण्मुखं देवीचण्डौ पूर्वादितः क्रमात् ।
स्वदिग्विन्यस्तकुम्भेषु शक्रादीन् दश दिक्पतीन् ॥ ८१ ॥

आवाह्याभर्च्य वर्धन्या कुम्भं प्राग्वत् प्रदक्षिणम् ।
परिभ्राम्य तु विन्यस्य कुम्भं दर्भोपसंहृतैः ॥ ८२ ॥

विकिरैरासनं कृत्वा वर्धनीं तत्र विन्यसेत् । ततः
शक्रादिलोकेशाञ् शिवाज्ञां श्रावयेत् क्रमात् ॥ ८३ ॥

ॐ ।

भो भो शक्र ! त्वया स्वस्यां दिशि विघ्नप्रशान्तये ।
स्थातव्यं सावधानेन त्वायागान्तं शिवाज्ञया ॥ ८४ ॥

इत्यादिना ब्रह्मानन्तान्तं स्वस्वनामभिः श्रावयेत् ।

ततो गन्धादिभिः सम्यगिष्ट्वा कुम्भं च वर्धनीम् ।
निवेद्यान्तं ततस्तस्मै ज्ञानखड्गं समर्पयेत् ॥ ८५ ॥

प्रार्थयेदपि चानेन

ॐ ।

आयागान्तं त्वया शम्भो ! स्थातव्यं सगणेन तु । ससुतेन
सहाम्बेन यागाध्यक्षेण शङ्करः ! ॥ ८६ ॥

तथेत्युक्तः शिवेन तु ।

अर्घ्यं निधाय कुम्भाग्रे विकिरैर्यागमण्डपात् ॥ ८७ ॥

ज्वलदस्त्रात्मकैर्विघ्नान् निरस्तान् दूरतः स्मरेत् । ततो
मध्यमकुण्डाग्र उपविश्य यथाविधि ॥ ८८ ॥

यथावत् संस्कृते कुण्डे समाधाय शिवानलम् । नामान्तं
पञ्चसंस्कारैः संस्कृत्याराध्य तं गुरुः ॥ ८९ ॥

मध्यादिनवदिक्संस्थं पञ्चधा वा विभाजितम् ।
तत्तद्दिगनलांशांस्तु तत्तत्कुण्डे निधापयेत् ॥ ९० ॥

ततो मध्यमकुण्डाग्नौ शिवमावाह्य देशिकः । मन्त्राणां
तर्पणं कुर्यात् तच्च मूलं शिवान्तिकम् ॥ ९१ ॥

चतुर्थ्याग्निप्रियान्तं स्यात् तेन त्वष्टोत्तरं शतम् । हुत्वा
ब्रह्माङ्गमन्त्राणां तद्दशांशं जुहोति च ॥ ९२ ॥

संस्थाप्य प्रतिकुण्डं तु शान्तिकुम्भाञ्छिवास्त्रतः ।
सम्पाताभिहुतान् कृत्वा गुरुर्मूर्तिधरैः सह ॥ ९३ ॥

हुत्वा पूर्णांहुतिं यायाल्लक्षणोद्धारमण्डपम् ।
तच्चोत्तरेऽथवैशान्यामधिवासनमण्डपात् ॥ ९४ ॥

कुर्याद् वेदित्रयोपेतं लक्षणोद्धारमण्डपम् । तस्मिन्
दक्षिणवेद्यां तु लिङ्गं पीठे निधाय तु ॥ ९५ ॥

पीठं च तद्दक्षिणतः कुर्यादाकारशोधनम् । अष्टमृद्भिः
पुरोक्ताभिः कषायैश्च क्रमोदितैः ॥ ९६ ॥

गोमूत्रगोमयाभ्यां च पुष्पधूपजलान्तरैः । स्नापयित्वा
द्वितीयायां वेद्यां वा स्थण्डिले कृते ॥ ९७ ॥

शालिभिस्तण्डुलैश्चापि तस्मिल्लिँङ्गं निधाय तु । पूर्वोक्तेन
विधानेन लक्षणोद्धारमाचरेत् ॥ ९८ ॥

अथाष्टौ वा चतस्रो वा नार्यो मङ्गल्यलक्षणाः । दर्भैः
स्पृशेयुस्तल्लिङ्गं कुर्युर्नीराजनं तथा ॥ ९९ ॥

सन्ताड्यास्त्रेणार्घ्यतोयैः कवचेनावकुण्ठ्य तु ।
स्वमन्त्रेणाथवाकुर्यात् पूजां साधारणेन वा ॥ १०० ॥

गोमूत्रगोमयक्षीरदध्याज्यमधुभिः पृथक् ।
पञ्चगव्यकुशाम्बुभ्यां गन्धाद्भिश्चाभिषेचयेत् ॥ १०१ ॥

ततो वसनगन्धस्रग्धूपदीपोपहारकैः । इष्ट्वा
रथादावारोप्य भेरीपटहडिण्डिमैः ॥ १०२ ॥

झल्लरीतिमिलाशङ्खतालमर्दलकाहलैः ।
वेणुमड्डुकवीणादिवादित्रध्वनिमङ्गलैः ॥ १०३ ॥

गीतनृत्तजयाशीर्भिः प्रदीपच्छत्रचामरैः ।
प्रेक्षणीयैर्ध्वजैश्चान्यैर्ग्रामादेस्तु प्रदक्षिणम् ॥ १०४ ॥

कृत्वा जलाधिवासार्थं नदीतीर्थह्रदादिकम् । आसाद्य तीरे
स्वालिप्ते देवं संस्थाप्य पूजयेत् ॥ १०५ ॥

प्रागेव जलमध्ये तु नाभिदघ्नचतुष्पदीम् । प्रपां कृत्वा तु
तन्मध्ये पीठादौ शाययेच्छिवम् ॥ १०६ ॥

वेष्टितं वसनैर्दर्भैः प्राक्छीर्षं चोर्ध्वसूत्रकम् ।
तत्पार्श्वे विन्यसेत् पीठं दर्भवस्त्रादिभूषितम् ॥ १०७ ॥

रक्षायै कलशानष्टौ लोकपालाधिदैवतान् । विन्यस्य दिक्षु
सम्पूज्य परितो रक्षिणस्तथा ॥ १०८ ॥

पञ्चत्रिद्व्येकरात्रं वा दिनार्धं याममेव वा ।
अतीत्योत्तारयेल्लिङ्गं तीरे विन्यस्य पूजयेत् ॥ १०९ ॥

संस्नाप्य पञ्चगव्याद्यैर्नवभिः कलशैरपि । आलिप्य
गन्धपङ्क्तेन रक्तकौशेयवाससा ॥ ११० ॥

आच्छाद्य हेममालाभिरलङ्कृत्याभिपूज्य च ।
रथादियानमारोप्य नृत्तगीतादिमङ्गलैः ॥ १११ ॥

स्तुतिभिर्ब्रह्मघोषैश्च ग्रामादेस्तु प्रदक्षिणम् । लिङ्गं तु
कारयेत् तत्र हिरण्यवसनादिकम् ॥ ११२ ॥

कपर्दपूगताम्बूलरूप्यलाजाक्षतादिकम् । किरन्तो यजमानाद्याः
पुष्पवृष्टीश्च पुष्कलाः ॥ ११३ ॥

गुरुर्देवाग्रतो गच्छेद् यजमानश्च पृष्ठतः ।
सामान्यार्घ्यजलैर्मार्गं सिञ्चेयुर्मूर्तिधारकाः ॥ ११४ ॥

स्नानमण्डपमासाद्य परिभ्राम्य प्रदक्षिणम् । प्रतीच्यां
मण्डपद्वारि देवं समवतारयेत् ॥ ११५ ॥

अर्घ्यं तु पादयोर्दत्त्वा मण्डपान्तः प्रवेशयेत् । तन्मध्ये
भद्रपीठस्य विवरे स्थापयेच्छिवम् ॥ ११६ ॥

पीठं च दक्षिणे भागे गन्धाद्यैः पूजयेदपि ।

इति प्रतिष्ठाविधिमण्डपादिकं सकारकं चाकरशोधनं
तथा । यथावदुक्तं च जलाधिवासनं विचार्य नैकाः
शिवतन्त्रपद्धतीः ॥ ११७ १।२ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे क्रियापादे
प्रतिष्ठाविधिलक्षणपटलः पञ्चचत्वारिंशः ॥