४३

अथ चतुश्चतारिंशः पटलः ।

प्रासादे परिनिष्ठिते त्वथ तथा लिङ्गे प्रतिष्ठोचिते
प्रासादं परिगृह्य तक्षककरात् सूत्रत्रयावेष्टितम् । कौश्या
चापि च मालया च परितः संवेष्ट्य धान्याक्षतैः सर्वत्र
प्रविकीर्य पूर्णकलशं दीपं च मध्ये न्यसेत् ॥ १॥

ततः कृणुष्वादिकमत्र सूक्तं त्वर्धर्चशोऽन्ते तु
दहाशसाद्यम् । ऋचोऽर्धमायोज्य जपेदशेषं रक्षोघ्नमेवं तु
जपादिषु स्यात् ॥ २ ॥

कृत्वा पुनः स्थण्डिलमग्निभागे तत्राग्निमाधाय तथा
विधानम् । हुत्वा पुरैवाग्निमुखं जुहोतु रक्षोहणं
वाजिनमित्युभाभ्याम् ॥ ३ ॥

पुनः कृणुष्वादिभिरत्रमन्त्रैराज्येन हुत्वा तु यथाक्रमेण ।
तद्वद् विभिन्नैरथ पञ्चभिर्येदेवादिमन्त्रैर्जुहुयाच्चतुर्भिः ॥ ४

इषेत्वेत्यादिना तद्वदग्निमीलेति चादिना । अग्न-आयाहिपूर्वेण
शन्नोदेवीरभीति च ॥ ५ ॥

ततस्तु पञ्चदुर्गाभिर्वेदोक्ताभिर्जुहोतु च । जातवेदस इत्याद्या
ऋग् दुर्गा प्रथमा भवेत् ॥ ६ ॥

तामग्निवर्णामित्याद्या द्वितीया समूदीरिता । अग्ने त्वं
पारयानव्यो अस्मानाद्यं तृतीयकम् ॥ ७ ॥

विश्वानि नो दुर्गहाद्यश्चतुर्थो मन्त्र ईरितः ।
पृतनाजितमित्यादिः पञ्चमो मन्त्र उच्यते ॥ ८ ॥

एताभिः पञ्चदुर्गाभिराज्येन जुहुयात् पृथक् । ततो
व्याहृतिभिस्तद्वदघोरास्त्रेण वै पुनः ॥ ९ ॥

पश्चादपामार्गसमिद्घृताभ्यामनेन चाज्येन शतं जुहोतु ।
अष्टोत्तरं स्विष्टकृतं च पश्चाच्छिष्टाज्यमादाय
तथाम्बुशेषम् ॥ १० ॥

आदाय तद्भस्म च मिश्रयित्वा पात्रे त्वपामार्गरसेन युक्तम् ।
तेनाखिलं तद्भवनालयाद्यं सम्प्रोक्षयेत् तत्परितस्तु दर्भैः
॥ ११ ॥

तमग्निमादाय तथैशकोणे संस्थाप्य पश्चात् तु चतुष्पथे वा
। विसर्जयेद् रक्तजलान्नपिण्डैर्दत्त्वा बलिं दिक्षु समाप्य चैवम्
॥ १२ ॥

तत्रैव वास्तूपशमं विदध्यात् पूर्वोत्तरस्यां दिशि
मण्डपस्य । आधाय तु स्थण्डिलमध्यतोऽग्निं संस्त्रीर्य
दर्भैस्तु यथावदिष्ट्वा ॥ १३ ॥

प्राच्यां तु वह्नेः कृतमण्डलायां भूमौ समं
शालिभिरास्तृतायाम् । वस्त्रावृतं तण्डुलमत्र कृत्वा तच्चापि
वस्त्रेण समास्तृतं स्यात् ॥ १४ ॥

शम्यङ्कुराद्यं विनिकीर्य तस्मिन् संस्थाप्य
तत्राक्षतपूर्णकुम्भान् । जलेन चापूर्य घटं तथान्यं
सहेमवस्त्राक्षतगन्धपुष्पम् ॥ १५ ॥

शन्नोदेवीति मन्त्रेण शान्तिं संस्मृत्य तं जपेत् ।

तस्मिन् स्वगृह्योक्तविधानतोऽग्निमाधाय तत्राग्निमुखं विधाय ।
गोक्षीरसिद्धं चरुमाज्यसिक्तं मन्त्रैरमीभिः क्रमशो जुहोतु ॥
१६ ॥

वास्तोष्पते प्रतिजानीह्यस्मानित्यादिमुक्त्वा तु पुरोनुवाक्याम् ।
वास्तोष्पते शमया संसदा तेत्याद्यं तु याज्यां जुहुयादुदीर्य
॥ १७ ॥

वास्तोष्पते ध्रुवा स्थूणात् ततो गृह्यम्भयादिना ॥ १८ ॥

अक्षिस्पन्दादिना चैव दुःस्वप्नेत्यादिनापि च । वास्तोष्पते
प्रतरणो न एधीत्यादिनापि च ॥ १९ ॥

अमीवहा वास्तोष्पतेत्यादिना च जुहोति वै । पञ्चब्रह्मभिराज्येन
शन्नवर्गैर्जुहोति च ॥ २० ॥

शम्याश्च समिधः सर्पिश्चरुं चैव जुहोत्यथ । स्रपिताः
पञ्चगव्येन दूर्वाश्चाष्टोत्तरं शतम् ॥ २१ ॥

शन्नोदेवीति मन्त्रेण जयादीञ् जुहुयात् ततः । कृत्वा
स्विष्टकृतं पश्चादुपलिप्य च भूतलम् ॥ २२ ॥

तत्राग्नेः पुरतो दर्भानास्तीर्य हुतशेषितम् । नमो रुद्राय
वास्तोष्पत इत्यादिना क्षिपेत् ॥ २३ ॥

अनेनैव तु मन्त्रेण स्थालीं सङ्क्षाल्य तज्जलम् । पात्रे
प्रक्षाल्य कस्मिंश्चिच्छेषाज्यं शेषमम्बु च ॥ २४ ॥

एकीकृत्य तु मन्त्रेण शाखयोदुम्बरस्य वा । पालाशशाखया
वाथ दर्भमुष्ट्याथवा पुनः ॥ २५ ॥

प्रासादमण्डपादौ तु सर्वत्र त्रिः प्रदक्षिणम् । पर्युक्षन्नथ
पर्येति ततः सम्पूज्य वै द्विजान् ॥ २६ ॥

त्वं विप्रस्त्वं कविरिति मन्त्रेणानेन भोजयेत् । आशिषो
वाचयित्वाग्रे शिवं वास्त्विति वाचयेत् ॥ २७ ॥

प्रासादशान्त्यर्थमपीह शुध्यै रक्षोघ्नहोमोऽपि च वास्तुहोमः
। लिङ्गप्रतिष्ठाविधिपूर्वकाले कर्तव्य इत्यत्र यथावदुक्तः ॥
२८ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे क्रियापादे
रक्षोघ्नहोमवास्तुहोमपटलश्चतुश्चत्वारिंशः ॥