अथ त्रिचत्वारिंशः पटलः ।
अथ षोडशमूर्तीनामाकाराद्यं निगद्यते ।
तत्रोमास्कन्दयुक्तस्य शम्भोर्लक्षणमुच्यते ॥ १ ॥
ऋज्वागतं रजोभावमर्धपर्यङ्कमासनम् (?) । वामाङ्घ्रिं
शाययेत् पीठे दक्षिणं तु प्रलम्बयेत् ॥ २ ॥
आसनान्ताच्च केशान्ताज्जान्वन्तं तु समं भवेत् ।
जानुनोर्बाह्यपार्श्वे च जान्वन्ताद् बाहुपार्श्वकम् ॥ ३ ॥
परहस्तद्वयस्यापि मध्यश्च मणिबन्धयोः । ऊर्ध्वकायसमं
कुर्यात् सर्वमेतद् यथाक्रमम् ॥ ४ ॥
मध्यसूत्रं किरीटाग्राद् गुल्फमध्ये तु लम्बयेत् । प्रविष्टं
दक्षिणं जानु सूत्राद् द्वित्र्यङ्गुलं भवेत् ॥ ५ ॥
मध्यसूत्रादिनांशैस्तु तदङ्घ्रिनलकान्तरम् ।
मन्वंशैरन्तरं सूत्राद् दक्षिणात् पाणिमध्यतः ॥ ६ ॥
सूत्रात् पञ्चदशांशैः स्यात् तथा वामतलान्तरम् ।
असव्यपाणिमध्याग्रं स्तनसूत्रसमोन्नतम् ॥ ७ ॥
वामोरोर्वामहस्तस्य चान्तरं द्वित्रिमात्रतः । कर्तरीकरयोरग्रे
हिक्कासूत्रसमे स्मृते ॥ ८ ॥
श्रोणीकोर्परयोर्मध्ये पञ्चांशं वा षडंशकम् ।
मेढ्रादक्षान्तरं तद्वत् कुक्षिस्पृग् घ्राणसूत्रकम् ॥ ९ ॥
द्विसप्तातिजगत्यर्कमात्रैर्मध्यमसूत्रतः । मौल्यग्रं
कर्तरीहस्तावन्तर्वा बहिराननौ ॥ १० ॥
परशुं च कुरङ्गं च कुर्याद् दक्षिणवामयोः । अभयं
दक्षिणे हस्ते वामे तु कटकं करे ॥ ११ ॥
शङ्खपत्रकनकाख्यमण्डले वामदक्षिणे । मौलितुङ्गं तु
केशान्तात् सत्रिपादद्वितालकम् ॥ १२ ॥
सार्धद्वयं द्वितालं वा तच्च कुर्याद् सलक्षणम् । वामपार्श्वे
सहासीनां कुर्याद् देवस्य पार्वतीम् ॥ १३ ॥
लम्बितं शयितं पादं कुर्याद् वामं च दक्षिणम् । किञ्चिद्
देवाश्रिता नम्रवदना समलङ्कृता ॥ १४ ॥
वरदोत्पलसंयुक्ता वामदक्षिणहस्तयोः । वामोरुबाह्ये
पीठस्थवामहस्ताथवा भवेत् ॥ १५ ॥
वेदांशैरुत्कृतिसितैः स्कन्दो मध्येऽनयोर्भवेत् । स्वतुङ्गं
पञ्चतालेन विभज्याङ्गानि कारयेत् ॥ १६ ॥
अङ्गुलेन शिरोमानं केशान्तादक्षिसूत्रकम् ।
सार्धत्रिमात्रैस्तैरेव पुटान्तं च ततो हनुः ॥ १७ ॥
त्रिमात्रैः स्यात् तथा कण्ठो नन्दनागाब्धिमात्रकैः ।
हिक्काया हृत् ततो नाभिर्नाभेर्मेढ्रं च सम्मितम् ॥ १८ ॥
ऊर्वायामस्तु सूर्यांशैः कला जान्वथ जङ्घिका ।
रुद्रांशैः कलया पादस्तलायामो दशाङ्गुलः ॥ १९ ॥
मन्वङ्गुलायतौ बाहू प्रकोष्ठोऽपि दशाङ्गुलः । वेदांशैः
स्यात् तलायामो मध्या च चतुरङ्गुला ॥ २० ॥
सार्धरामाङ्गुलायामा तर्जनी चाप्यनामिका ।
कनिष्ठाङ्गुष्ठिके त्र्यंशे सोत्पलं स्यात् करद्वयम् ॥ २१ ॥
आकुञ्चिताभ्यां पादाभ्यां स्थितं कुर्यात् सलक्षणम् ।
चन्द्रशेखरलक्ष्माथ समपादस्थितो भवेत् ॥ २२ ॥
उष्णीषे च ललाटे च नासाग्रे हनुमध्यमे ।
हिक्काहृदयगुह्योरः पादमध्येषु लम्बयेत् ॥ २३ ॥
कर्तर्यग्रं तु हिक्कान्तं स्तनान्तमभयाग्रकम् । वरदं
नाभिसीमान्तं कट्यन्तं वापि कारयेत् ॥ २४ ॥
सूत्रादभयमध्यान्तं त्रिपञ्चाङ्गुलविस्तृतम् । अर्कांशैः
परहस्तान्तं दशाङ्गुलमथापि वा ॥ २५ ॥
अत्यष्टिधृतिमात्रैर्वा सूत्रात् कोर्परमध्यकम् ।
एकाङ्गुलेनोरुमूले जानुमध्यं तु भागतः ॥ २६ ॥
पञ्चांशैर्जङ्घयोर्मध्यभागात् पार्ष्ण्यन्तरं भवेत् ।
और्ध्वकर्तरिहस्तौ तु कुठारमृगधारिणौ ॥ २७ ॥
जटामकुटवामस्थबालचन्द्रोऽहिभूषणः । ऋज्वागतः
प्रवालाभः कार्यः स्याच्चन्द्रशेखरः ॥ २८ ॥
समभङ्गोऽति[क्; ख्: त्रि]भङ्गो वा भवेद् वृषभवाहनः ।
ऋजुः स्थितो दक्षिणाङ्घ्रिर्वामपादोऽस्य कुञ्चितः ॥ २९ ॥
तिरश्चीनाङ्घ्रिजङ्घो वा लम्बसूत्रस्य चोच्यते । उष्णीषाद्
वामभाले तु वामनेत्रे पुटान्तके ॥ ३० ॥
वामस्तने च नाभूरुपार्ष्णिमध्यस्य लम्बनम् । स्यात्
तिरश्चीनजङ्घोऽयमतिभङ्गे तु नान्यथा ॥ ३१ ॥
नाभेर्वामे च वामोरुमध्ये दक्षिणगुल्फके । सूत्रं तु
पातयेन्नाभेरूर्ध्वं प्राग्वदिहापि च ॥ ३२ ॥
नतिमानं शरांशैः स्याद् देवस्य वृषमस्तके । न्यस्तव्यः
कोर्परो वामो हिक्कातोऽष्टादशाङ्गुलः ॥ ३३ ॥
कोर्पराधस्तथा पीठादूर्ध्वं यावद् वृषोन्नतिः ।
कटीदेशावलम्बी वा वामेतरकरो भवेत् ॥ ३४ ॥
परहस्तादिकं सर्वं चन्द्रशेखरवद् भवेत् । समभङ्गास्थिता
देवी लम्बवामकरा भवेत् ॥ ३५ ॥
सोत्पला दक्षिणे हस्ते बाहुः स्तनमितो विभोः ।
सोमास्कन्दशिवलक्षणम् ।
नटेश्वरश्चतुर्बाहुस्त्रिणेत्रश्चन्द्रशेखरः ॥ ३६ ॥
गृहीतोऽंसोऽर्धमानात्तु नतिमानं दशाङ्गुलम् ।
सूर्याङ्गुलं वा सूत्रस्य लम्बनं त्वथ कथ्यते ॥ ३७ ॥
उष्णीषात् सव्यभाले च तत्पुटे हनुमध्यतः । हिक्काना(भो?
भ्यो)स्तथा मध्ये सव्यगुल्फे च पातयेत् ॥ ३८ ॥
प्रसारितभुजाग्रं तु विकारांशायतं ततः । भागात्
परकराग्रं तदष्टपञ्चाशदङ्गुलैः ॥ ३९ ॥
सूत्रात् साग्निकराग्रं स्यात् ततो डमरुकाग्रकम् ।
चत्वारिंशद्भिरष्टांशैः कर्णसीमासमो(भ? द)यम् ॥ ४० ॥
सूर्यांशैर्दक्षिणे पार्श्वे सूत्रात् कक्षान्तरं भवेत् ।
प्रसारितजटाभारः किञ्चित् प्रहसिताननः ॥ ४१ ॥
व्याघ्रचर्माम्बरः कार्यो ह्यपस्मारोपरि स्थितः ।
गणैर्देवर्षियक्षाद्यैर्विघ्नेशस्कन्दमातृभिः ॥ ४२ ॥
भृङ्गीशेन महाकाल्या पार्वत्या वृषभेण च । मृदङ्गं
नादयन् नन्दी सूपविस्टश्चतुर्भुजः ॥ ४३ ॥
हलपल्लवपाणिः स्याद्वन्दन्या च समन्वितः ।
भुजङ्गत्रासनृत्तलक्षणम् ।
स्थितदक्षिणपादः स्यात् कुञ्चितान्यपदाम्बुजः ॥ ४४ ॥
उष्णीषाद् दक्षिणे भाले दक्षिणेऽथ पुटे ततः । हिक्कामध्ये
नाभिदेशाद् दक्षिणे द्व्यङ्गुले ततः ॥ ४५ ॥
मेढ्रमूले तथा पार्ष्ण्योर्मध्ये सूत्रं प्रलम्बयेत् ।
साचीकृतशरीरः स्याद् वामांशावनताततः(?) ॥ ४६ ॥
दक्षिणे वरदोऽधस्तादूर्ध्वकर्तरिपाणिना । गङ्गां दधानो
वामोर्ध्वकरेण हरिणं दधत् ॥ ४७ ॥
अधोवामकरेणोमामालिङ्ग्य समभङ्गिनीम् । भगीरथेन
चारयैश्च मुनिभिर्वन्दितो भवेत् ॥ ४८ ॥
इत्थं गङ्गाधरं कुर्याच्छेषमूह्यं तु पूर्ववत् ।
गङ्गाधरलक्षणम् ।
त्रिपुरान्तकदवः स्याद् वैशाखस्थानकान्वितः ॥ ४९ ॥
आभङ्गसमभङ्गाभ्यामतिभङ्गेन वा भवेत् ।
रामवेदेषुमात्रैः स्यान्नतिमानं त्रिषु क्रमात् ॥ ५० ॥
विकारधृतिकृत्यंशैः पादाङ्गुष्ठान्तरं क्रमात् ।
सपिनाकः करो वामः कक्षान्तोच्चः करोऽपरः ॥ ५१ ॥
सबाणः परहस्तौ द्वौ सटङ्कमृगपोतकौ । यथापूर्वं तथा
देवी वामपार्श्वे स्थिता भवेत् ॥ ५२ ॥
त्रिपुरान्तकलक्षणम् ।
कल्याणसुन्दरस्य स्यादुष्णीषाद् वामभालके । वामनेत्रे
पुटान्ते च हिक्कामध्ये च दक्षिणे ॥ ५३ ॥
नाभेस्तु त्रिचतुर्मात्रे सूत्रं तद्गुल्फमध्यतः । प्रादक्षिण्येन
देवस्य गन्तुकामस्य पावकम् ॥ ५४ ॥
सव्येतरकरो देव्या हस्तालम्बी तथा भवेत् । वरदो वामहस्तः
स्यात् परहस्तौ यथापुरम् ॥ ५५ ॥
देवी सोत्पलहस्ता स्यात् त्रिभङ्गाङ्गी विभूषिता ।
श्रीभूमिभ्यामनुगता गौरी देवानुगामिनी ॥ ५६ ॥
होता ब्रह्मा भवेद् दाता विष्णुः सकलशोऽम्बुदः ।
सर्वदेवर्षिगन्धर्वयक्षाद्यैर्वन्दितो भवेत् ॥ ५७ ॥
कल्याणसुन्दरलक्षणम् ।
अर्धनारीश्वरस्यापि सूत्रं स्यात् समभङ्गवत् । चतुर्भुजो वा
द्विभुजो दक्षिणाङ्घ्रिः स्थितोऽस्य तु ॥ ५८ ॥
कुञ्चितो वामपादः स्याद् वामार्धं तस्य पार्वती । अतः परं
तु यत् सर्वं प्राग्वदूहेन कल्पयेत् ॥ ५९ ॥
अर्धनारीश्वरलक्षणम् ।
अथ पाशुपतस्यापि चन्द्रशेखरवत् स्थितिः । त्र्यक्षश्चतुर्भुजो
रौद्र ऊर्ध्वकेशो बृहत्तनुः ॥ ६० ॥
साक्षमालात्रिशूलोर्ध्वकरः सवरदाभयः ।
पाशुपतलक्षणम् ।
कङ्काला गमनोद्युक्तश्चाक्रान्तमणिपादुकः ॥ ६१ ॥
अर्धर्जुवदनो ढक्कावाद्योद्यतकरद्वयः । दक्षिणापरहस्तेन
मृगपोताननं स्पृशन् ॥ ६२॥
प्रोतप्रेतास्थिकङ्कालं शूलं वामेन धारयन् । भिक्षापात्रं
तु शिरसा वहद्भूतपुरोगतः ॥ ६३ ॥
तथा मदनसम्मूढाः कार्याः स्युर्मुनियोषितः ।
तच्छत्रचामरकरगणाश्चैवानुयायिनः ॥ ६४ ॥
कङ्काललक्षणम् ।
ऋज्वागतः स्याद्धर्यर्धः समपादद्वयस्थितिः । ऊर्वाश्रितो
वामकरः साभयो दक्षिणो भवेत् ॥ ६५ ॥
तथैव परहस्तौ द्वौ टङ्कशङ्खविभूषितौ । वामत स्यात्
किरीटार्धं कपर्दार्धं च दक्षिणे ॥ ६६ ॥
हर्यङ्गवत् स्याद् वामार्धः दक्षिणार्धं हराङ्गवत् । यथा
रम्या तथा कार्याह्येका मूर्तिर्हरीशयोः ॥ ६७ ॥
हरिहरलक्षणम् ।
समभङ्गवदेव स्यात् सूत्रं भिक्षाटनस्य तु ।
विप्रकीर्णजटाभारो दिग्वासा गमनोद्यतः ॥ ६८ ॥
लम्बितो दक्षिणकरः कुरङ्गमुखसङ्गवत्(?) । सकपालः करो
वामस्तथास्योर्ध्वकरद्वये ॥ ६९ ॥
दक्षिणे स्याड्डमरुकं पिञ्छमाला तथापरे ।
भुजङ्गहारोपवीतकटिसूत्रविभूषितः ॥ ७० ॥
शेषं कङ्कालवत् सर्वमत्रापि च समूहयेत् ।
भिक्षाटनलक्षणम् ।
उमासहितवत् कुर्याच्चण्डानुग्रहकं परम् ॥ ७१ ॥
वरदो दक्षिणकरश्चण्डेशशिरसीतरः ।
कृताञ्जलिपुटश्चण्ड आसीनोऽधः शिवासनः ॥ ७२ ॥
चण्डेशानुग्रहलक्षणम् ।
तथैव दक्षिणामूर्तिरुपविष्टः शिवासने ।
अर्धर्जुबदनश्चारुजटाजूटविभूषितः ॥ ७३ ॥
अर्धेन्दुगङ्गाधुर्धूरकपालोरगशेखरः ।
साक्षमालानलकरस्त्वधो दक्षिणवामयोः ॥ ७४ ॥
विलसद्बोधमुद्रः स्याज्जान्वारूढकरस्तथा ।
दक्षिणोरुस्थवामाङ्घ्रिर्लम्बितान्यपदाम्बुजः ॥ ७५ ॥
क्रान्तापस्मारकस्तेन मुनिबृन्दैर्निषेवितः । न्यग्रोधाधो
विधातव्यो व्याख्यानव्यापृतो विभुः ॥ ७६ ॥
दक्षिणामूर्त्तिलक्षणम् ।
कालकालो युक्तिवशान्नृत्ताभिनयवान् भवेत् । सशूलो
दक्षिणभुजो भवेदाकर्णमुद्भृतः ॥ ७७ ॥
तत्रापरः सवरदः सूचीमुद्रस्तु वामतः । ना(प्य?
भ्य)न्तश्चापरस्तत्र हल पल्लवसंयुतः ॥ ७८ ॥
भवेदूष्णीषसीमान्तश्चरणो दक्षिणः स्थिरः ।
नाभ्यन्तोद्धृतजानुः स्याद् वामोऽङ्घ्रिः कालहृद्गतः ॥ ७९ ॥
सकपर्देन्दुशकलस्त्रिणेत्री रौद्रवेषधृक् । व्याघ्रचर्माम्बरः
कार्यो नागाभरणभूषणः ॥ ८० ॥
कालोऽपि नीलवर्णः स्यादुत्तानः पातितो भुवि । पाशहस्तो
विवृत्ताक्षो व्यादितास्यो भयङ्करः ॥ ८१ ॥
दंष्ट्री पिङ्गोर्ध्वकेशः स्याद्धराङ्घ्र्यङ्गुष्ठपीडितः ।
कालकाललक्षणम् ।
लिङ्गोद्भवो लिङ्गमध्ये चन्द्रशेखरवत् स्थितः ॥ ८२ ॥
नलकाधः पदद्वन्द्वं लिङ्गमूले तिरोहितम् । दक्षिणेनोर्ध्वगः
कार्यो हंसरूपी पितामहः ॥ ८३ ॥
वराहस्तु हरिर्वामे साञ्जलिः स्यादधोमुखः ।
लिङ्गोद्भवलक्षणम् ।
द्वारलिङ्गोच्छ्रितः श्रेष्ठो मध्यो वेदांशहानितः ॥ ८४ ॥
अर्धहीनः कनिष्ठः स्याद् वृषभो लक्षणान्वितः ।
द्वारादध्यर्धमुच्चो वा सपादद्विगुणोऽथवा ॥ ८५ ॥
हस्तादिनवहस्तान्तं नीचमध्योत्तमत्रयम् । वृषोत्सेधे तु
पञ्चाशदंशे भागोऽङ्गुलं स्मृतम् ॥ ८६ ॥
उत्सेधात् पञ्चमांशेन आयामो वृषभस्य तु । मूर्धो गलान्तः
पङ्क्त्यंशैर्दीर्घः कण्ठोऽष्टमात्रकैः ॥ ८७ ॥
कण्ठादुरो विकारांशैरूर्वोर्दैर्घ्यं षडङ्गुलैः ।
द्विमात्रं जानु षण्मात्रा जङ्घा द्व्यंशोन्नतं खुरम् ॥ ८८ ॥
शृङ्गान्तरं स्याद् वस्वंशैः शृङ्गोच्चं चतुरङ्गुलम् ।
भालं नन्दांशविस्तीर्णं मुखव्यासः शराङ्गुलैः ॥ ८९ ॥
मुखोत्सेधस्तु बाणांशैर्नेत्रायामस्तु कोलकात् (?) । तद्व्यासः
सार्धमात्रोऽस्माद् भागोच्चं चतुरङ्गुलम् ॥ ९० ॥
नेत्रकर्णान्तरं तावत् कर्णायामः शरांशकैः ।
सार्धमात्रायतं घ्राणं तद्व्यासावटमङ्गुलात् ॥ ९१ ॥
द्वित्र्यंशावधरोष्ठौ तु जिह्वा त्रिद्व्येकमात्रतः ।
दीर्घाततोच्चाथ ककुत् षड्वेदांशतनोर्नता (?) ॥ ९२ ॥
अपरोर्वोः क्रमाद् व्यासो दशाष्टचतुरङ्गुलैः । तदायामः
शरांशैः स्याद् द्व्यंशं जान्वथ जङ्घयोः ॥ ९३ ॥
रामेष्वंशैस्ततिर्दैर्घ्यं खुरोत्तुङ्गं त्रिमात्रकम् ।
पुच्छायामस्तु जङ्घान्तस्त्र्यंशैस्तन्मूलविस्तृतीतः ॥ ९४ ॥
लाङ्गूलाग्रं तु सार्धांशं मुष्कव्यासं त्रिमात्रकैः ।
तदायामो द्विमात्रः स्याच्छेफायामस्त्रिमात्रकः ॥ ९५ ॥
शेषमूहवशाद् युक्त्या कुर्याद् वा शयितं स्थितम् ।
वृषलक्षणाधिकारः ।
अथ त्रिशूलं द्वारोच्चं स्तम्भोच्चं वा विधीयते ॥ ९६ ॥
तदुच्चनन्दभागांशद्व्यंशोने मध्यमाधमे । हस्तैर्वा
वेदरामाश्विसङ्ख्यैः श्रेष्ठादिकं त्रयम् ॥ ९७ ॥
त्रिशूलोत्सेधबाणांशान्दशस्तत्पत्रतुङ्गता । अर्धांशोच्चं
मध्यपत्रं त्रिपर्वकुलिशाकृति ॥ ९८ ॥
पत्रोत्सेधे तु वस्वंशे स्यादंशात् पत्रविस्तृतिः ।
मध्यपत्रेमध्यपर्व द्वियवेनाधिकं भवेत् ॥ ९९ ॥
पत्रोच्चशरभागेऽंशादधोनालस्य दीर्घता ।
उत्तानाम्बुजवन्नालं नालोर्ध्वं पार्श्वपत्रके ॥ १०० ॥
सार्धद्व्यंशान्मध्यपत्रे स्थित्वा पार्श्वद्वय[क्: यं]भ्रमात् ।
पद्माग्रावधि शूलाग्रात् पार्श्वपत्रे तु वर्तयेत् ॥ १०१ ॥
ततो मध्यमपत्रस्य स्थित्वा दक्षिणपार्श्वयोः (?) । पार्श्वयोः
पार्श्वपत्रान्तः सीमान्तं वर्तयेत् समम् ॥ १०२ ॥
मध्यपत्रस्य मूलं तु पत्रव्यासार्धविस्तृतम् । पत्रात्
पादोनमग्रं स्यात् त्रिपादाद् वार्धतो घनम् ॥ १०३ ॥
शातप्रान्तानि पत्राणि तीक्ष्णधाराणि कारयेत् । मध्यपत्रस्य
मध्ये तु पद्ममन्यत्र पत्रकम् ॥ १०४ ॥
मध्यपत्राग्रतारं स्यात् पादांशान्मुकुलोपमम् ।
वेणुपत्राकृती पार्श्वपत्राग्रे मध्यपत्रकः (?) ॥ १०५ ॥
तयोरन्तरमर्धांशाद् वृत्तमेर्व प्रसाधयेत् । स्वायामात्
पञ्चपञ्चांशात् स्यादङ्गाद् दण्डविस्तृतिः ॥ १०६ ॥
सुवृत्तं निर्व्रणं चारु नालाधः फलकान्वितम् । तदधो
मण्डिकुम्भादिपादालङ्कारवद् भवेत् ॥ १०७ ॥
दण्डमूलं सपद्मं स्यात् स्वव्यासत्रिगुणं तु तत् ।
ऊहप्रत्यूहतो युक्त्या शोभां सर्वत्र योजयेत् ॥ १०८ ॥
सौवर्णं राजतं ताम्रं लौहं वा स्यात् स्वशक्तितः ।
वृत्तत्रिशूललक्षणम् ।
अत्र स्वायम्भुवे -
वृत्तं त्रिभङ्गि वेतालमिति शूलं त्रिधा स्मृतम् । शान्तिकं
पौष्टिकं चाभिचारकं च क्रमेण तत् ॥
इति ।
तत्र वृत्तं समाख्यातं त्रितयेऽपि च तत् समम् ॥ १०९ ॥
विशिष्टं तु त्रिभङ्गस्य पार्श्वपत्रद्वयस्य तु । मध्यं
स्यादन्तरे भुग्नमर्धतः परिमण्डलात् ॥ ११० ॥
त्रिभङ्गशूलम् ।
वेतालस्यापि पत्राणि ऋज्वग्राण्यष्टमांशतः । वेतालो
नालमूले तु तत्प्रोतः स्याच्छरांशतः ॥ १११ ॥
घण्टाचतुष्टयोपेतः फलकाश्रिचतुष्टये ।
वेतालशूललक्षणम् ।
वेतालशूलवत् सर्वं खट्वाङ्गस्यापि कारयेत् ॥ ११२ ॥
समुण्डें मध्यपत्रादौ प्राग्वद् वेतालसंयुतम् ।
मयूरपिञ्छवृत्ताढ्यं फलका मूलतो भवेत् ॥ ११३ ॥
अष्टाभिर्वा चतुर्भिर्वा घण्टाभिः प्राग्वदन्वितम् ।
खट्वेषावत् तु वेदाश्रो दण्डोऽस्य फलकाकृतिः ॥ ११४ ॥
लतापत्रादिचित्रः स्यादूहप्रत्यूहयुक्तितः ।
खट्वाङ्गस्याधिकारः ।
गणेशः पञ्चतालस्तु स्वासीनो वा स्थितौ भवेत् ॥ ११५ ॥
उष्णीषाधो मुखं तालं सार्धतालायताः कराः । कण्ठो
भुग्नस्तु गूढः स्याद् गजवक्त्रस्त्रिलोचनः ॥ ११६ ॥
सार्धद्वितालं कण्ठाधोमानमाकटिसूत्रतः ।
सार्धतालायतौ पादौ पीवरः सर्वतो भवेत् ॥ ११७ ॥
इति मानमशेषतः स्फुटं सकलानां कथितं यथाक्रमम् ।
इह षोडशमूर्तिलक्षणं पृथगुक्तं निखिलं समासतः ॥
११८ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे क्रियापादे
षोडशमूर्त्तिलक्षणं नाम त्रिचत्वारिंशः पटलः ॥