४१

अथ द्विचत्वारिंशः पटलः ।

मध्येन दशतालेन स्त्रीमानं कथ्यतेऽधुना । भागः कचान्त
उष्णीषात् तस्माद् भागः सषड्यवः ॥ १ ॥

नेत्रान्तः स्यात् ततो नासापुटान्तः सचतुर्यवः । भागः
स्यादथ हन्वन्तं रामांशैस्तु सषड्यवैः ॥ २ ॥

हनोर्भागस्तु (?) कण्ठान्तस्ततो हृन्नाभियोनयः । पृथक्
त्रयोदशांशैः स्युरूरू षड्विंशदङ्गुलैः ॥ ३ ॥

भागेन जानुस्तस्माच्च जङ्घे षड्विंशदङ्गुलैः । भागेन
पादौ च तलौ भागायामौ प्रकल्पयेत् ॥ ४ ॥

अङ्गुष्ठतर्जनी चोभे भागायामे पृथक् स्मृते ।
क्रमादर्घाङ्गुलानाः स्युः शेषास्त्वङ्गुलयः पृथक् ॥ ५ ॥

अङ्गुष्ठो द्व्यङ्गुलव्यासस्तर्जैकाङ्गुलविस्तृता ।
सार्धसप्तयवा मध्यानामा सप्तयवैस्ततः ॥ ६ ॥

कनिष्ठा षड्यवव्यासा स्वव्यासार्धतता नखाः ।
उदञ्चिताग्राः किञ्चित् ते पार्ष्णिव्यासस्तु भागतः ॥ ७ ॥

तावदुच्चो भवेत् पार्ष्णिस्तलव्यासः शराङ्गुलैः ।
रसाङ्गुलैस्तलाग्रं स्यादक्षगुल्फौ शराङ्गुलैः ॥ ८ ॥

नलका भागविस्तारा जङ्घाव्यासो रसाङ्गुलैः । जानुव्यासः
सप्तमात्रैरूर्वोर्व्यासस्तु तालतः ॥ ९ ॥

कटिर्द्वितालविस्तारा सप्तांशैर्जघनोर्ध्वतः ।
चतुर्मात्रैरघोव्यासस्तच्चाश्वत्थदलाकृति ॥ १० ॥

पीबरं तद् भवेच्चारु श्रोणि कृत्यङ्गुलैस्तता ।
षड्यवव्यासनिम्ना स्यान्नाभिर्मध्येऽन्ततस्तनुः ॥ ११ ॥

रुद्रमात्रैस्तु विस्तीर्णरोमराज्या च शोभिता ।
स्तनाधोऽतिजगत्यंशैर्नन्दांशैः स्यात् प्रतिस्तनम् ॥ १२ ॥

रामांशैश्चूचुकव्यासः सार्धभागोन्नतौ स्तनौ ।
स्तनाक्षमर्धमात्रं स्याद् द्वियवः स्यात् तदुन्नतिः ॥ १३ ॥

कक्षयोरन्तरव्यासो भवेत् सप्तदशाङ्गुलैः ।
सबाहुसीमाविस्तारः स्यादेकत्रिंशदङ्गुलैः ॥ १४ ॥

उत्कृत्यंशैर्भुजायामः कोर्परः स्यात् कलासमः ।
धृत्यंशैस्तु प्रकोष्ठं स्यात् तलं सप्ताङ्गुलायतम् ॥ १५ ॥

वेदेष्वृतुशराम्नायैरायताङ्गुलयः क्रमात् ।
नन्दर्षिवस्वृषिरसयवैरङ्गुलयस्तताः ॥ १६ ॥

स्वाग्रव्यासे षडंशे तु वेदांशैर्नखविस्तृतिः । यवाधिको
नखायामस्तलव्यासो रसाङ्गुलैः ॥ १७ ॥

रामेषुषट्सप्तमात्रैर्मणिबन्धश्च कोर्परः । बाहुमध्यं च
मूलं च विस्तीर्णं स्यात् क्रमेण तु ॥ १८ ॥

ग्रीवा सप्ताङ्गुलव्यासा रुद्रांशैर्मुखविस्तृतिः । वृत्तायतं
भवेद् वक्त्रं सार्धांशकलया भ्रूवोः ॥ १९ ॥

केशान्तात् संस्थितिर्दैर्घ्यं तयोः सद्वियवा कला ।
सयवांशात् पुटादास्यं गोजिदैर्घ्यं तदर्धतः ॥ २० ॥

ओष्ठपाली यवतता तच्छेषेणौष्ठविस्तृतिः । भागेन स्यात्
तदायामस्त्रिवर्गोत्तरपालिका ॥ २१ ॥

तावदास्यायतं प्रोक्तमधरः सयवाङ्गुलः । तत्पाली
यवविस्तीर्णा सयवद्वयभागतः ॥ २२ ॥

तद्दैर्घ्यं षड्यवैस्तुङ्गं तस्मात् सार्धांशतो हनुः ।
चिबुकं द्वियवं तत्र कण्ठवेशस्ततो हनोः ॥ २३ ॥

सार्धत्रिमात्रैः कथितः कर्णव्यासः कलास्य तु । दैर्घ्यं
सद्वियवाब्ध्यंशैर्नाललम्बः शरांशकैः ॥ २४ ॥

तच्च साभरणं कुर्याद् भुजौ गोवालसुन्दरौ । ऊरू
करिकराकारौ स्याद् वपुः सर्वसुन्दरम् ॥ २५ ॥

अनुक्तं पूर्ववच्छीर्षं सर्वमूह्यं विपश्चिता ।

मध्य[क्: ध्यद]मदशतालस्त्रीमानम् ।

मध्येन दशतालेन मानं पुंसोऽथ कथ्यते ॥ २६ ॥

सयवद्वयभागेन शिरः कण्ठाघ्रिजानुषु । स्यादुच्चमथ
केशान्तान्नेत्रान्तं च पुटान्तकम् ॥ २७ ॥

हन्वन्तं प्रोक्तमानेन स्यात् कण्ठेऽर्धाङ्गुलं गलम् । हिक्काया
(?) हृदयान्तं स्याज्जगत्यंशैः सषड्यवैः ॥ २८ ॥

तस्मान्नाभिस्ततो मेढ्रं साङ्गुलैर्द्वादशाङ्गुलैः ।
सषड्यवाभिकृत्यंशैरूर्वोर्दैर्घ्यमुदाहृतम् ॥ २९ ॥

जङ्घादैर्घ्यं च तत्तुल्यमत्यष्ट्यंशैस्तलायतिः ।
उत्कृत्यंशैर्बाहुदैर्घ्यं कलायामस्तु कोर्परः ॥ ३० ॥

विंशत्यंशैः प्रकोष्ठः स्यादामध्याग्रं तलायतिः ।
त्रयोदशाङ्गुलैश्चाथ सबाह्वन्तरविस्तृतिः ॥ ३१ ॥

सनन्दत्रिंशदंशैः स्यात् सार्धरुद्राङ्गुलैर्मुखम् । मूलानि
कण्ठबाहूनां जानुमध्यद्वयं त्वधः ॥ ३२ ॥

हिक्कासूत्राच्च कक्षान्न्तं प्रत्येकं नवमात्रकम् ।
कक्षाधरस्तु कलया प्रकृत्यंशैरुरस्ततिः ॥ ३३ ॥

स्तनान्तरं स्तनाद्धिक्का हिक्काकक्षान्तरेऽङ्गुलैः ।
त्रयोदशैः कुक्षिमध्यं सार्धपञ्चदशाङ्गुलैः ॥ ३४ ॥

तस्मात् कलाधिकव्यासा श्रोणितः स्यात् कलाधिका ।
कटिव्यासस्तथैवोर्वोर्मूलेऽंशैस्तु त्रयोदशैः ॥ ३५ ॥

तयोर्मध्ये च रुद्रांशैः सप्तांशैर्जङ्घयोस्ततिः ।
श्रुत्यंशैर्नलकाव्यासः सपादैस्तु शराङ्गुलैः ॥ ३६ ॥

अक्षगुल्फद्वयव्यासः पार्ष्णिव्यासोच्चता ततः ।
सयवद्वयवेदांशैः सपादेष्वङ्गुलैस्ततः ॥ ३७ ॥

पदमध्यं पदाग्रं च ततं सार्धरसाङ्गुलैः ।
सपादवेदांशोऽङ्गुष्ठस्तर्जन्यस्माद् यवाधिका ॥ ३८ ॥

सार्धत्र्यंशायता भध्या त्र्यंशदीर्घा त्वनामिका ।
सार्धद्व्यंशा कनिष्ठा च विस्तारेऽपि यथाक्रमम् ॥ ३९ ॥

कलया सयवांशेन मात्रात् सप्तयवैरपि । षड्यवैश्च
नखव्यासा वस्विषुश्रुतिसम्मितैः ॥ ४० ॥

यवैः सार्धाग्निरामैः स्यात् स्वव्यासार्धात् तदायतिः । अथ
वस्वृषिसार्धेषुसार्धरामाङ्गुलैः क्रमात् ॥ ४१ ॥

बाहुकोर्परयोर्व्यासः प्रकोष्ठमणिबन्धयोः । मणिबन्धात्
तलायामः सप्तांशैः स्यात् षडङ्गुलैः ॥ ४२ ॥

मध्यायास्तु सपादेषुमात्रे दाशन्यनामिके । कनिष्ठाङ्गु[क्:
ल]ष्ठयादैर्घ्यं सपादैश्चतुरङ्गुलैः ॥ ४३ ॥

सार्धद्व्यंशैस्तलव्यासः सार्धद्व्यंशघनं तलम् ।
अङ्गुष्ठाद्यङ्गुलीनां तु स्यात् सूर्यवसुनन्दकैः ॥ ४४ ॥

यवैर्वसुरसैस्तासां विस्तारः क्रमशो मतः । स्वाग्रव्यासे तु
रामांशे द्व्यंशा स्यान्नखविस्तृतिः ॥ ४५ ॥

स्वस्वव्यासान्नखायामः प्रशस्तो द्वियवाधिकः । शिश्नायामः
शरांशः स्यात् तद्व्यासो द्व्यङ्गुलः स्मृतः ॥ ४६ ॥

मुष्कव्यासोच्छ्रयौ भागौ भालं नन्दांशमायतम् । पश्चात्
कर्णान्तरायामो भवेन्मात्रैस्त्रयोदशैः ॥ ४७ ॥

नेत्रायामान्तरायामौ सपादांशद्वयेन हि । षड्यवा
नेत्रविस्तारस्तावत् स्यात् कृष्णमण्डलः ॥ ४८ ॥

तत्पार्श्वमण्डले श्वेते स्यातां पञ्चयवायते । यवप्रमाणं
ज्योतिः स्यात् कृष्णमण्डलमध्यगम् ॥ ४९ ॥

यूकामात्रा तु दृष्टिः स्याद् यवमाना कनीनिका ।
अपाङ्गेऽर्धयवे रक्ते द्वियवेनोर्ध्ववर्म यत् ॥ ५० ॥

अधोवर्मार्धयवतो भ्रूमध्यं नेत्रसूत्रतः । सपादकलया
कार्यं तावान् कर्णोच्छ्रयो भवेत् ॥ ५१ ॥

शराङ्गुलं भ्रूवोर्दैर्घ्यं तन्मध्यं द्वियवात् ततम् ।
तदन्तरं स्यादर्धांशात् तयोरानतिरङ्गुलात् ॥ ५२ ॥

भ्रुवौ चापाकृता दीर्घे कर्णौ द्वियवभागतः । नालालम्बोऽपि
तावान् स्यात् साधिकांशः सभूषणः ॥ ५३ ॥

पूर्वनालततिर्मात्रात् पश्चान्नालं तदर्धतः । तयोर्घनं
त्वर्धमात्रात् कर्णमूलमपाङ्गतः ॥ ५४ ॥

सप्ताङ्गुलं भवेद् गोजीमूलान्नासाग्रतुङ्गता । यवोनकलया
कार्या षड्यवः पुष्करोच्छ्रयः ॥ ५५ ॥

तद्विस्तारो यवोनः स्यादूर्ध्वनासाङ्गविस्तृता ।
पुटावर्धाङ्गुलसमौ स्यातां यवघनौ च तौ ॥ ५६ ॥

गोज्यायामोऽर्धमात्रं स्यात् तद्व्यासो द्वियवः स्मृतः ।
उत्तरोष्ठततिस्त्वर्धमात्रात् पालिततिर्यवात् ॥ ५७ ॥

तद्दैर्घ्यं सयवाद् भागात् सयवांशाधरे ततिः ।
तद्दैर्घ्यं द्विगुणं तस्मात् तत्पाली यवसम्मिता ॥ ५८ ॥

तदुच्चं षड्यवं शेषो हनुश्च स्याद्धनोर्गलः ।
साध्यर्धयवमात्रः स्यात् ततः सार्धद्विमात्रतः ॥ ५९ ॥

कण्ठवेशो भवेच्छेषं प्राग्वदूह्यं विचक्षणैः ।

मध्यमदशतालपुरुषमानम् ।

कनिष्ठदशतालेन स्त्रीमानमथ कथ्यते ॥ ६० ॥

सार्धेनांशैर्मुखायामः केशान्ताक्ष्यन्तविस्तृतिः । भागात्
ततः पुटान्तं च सयवैर्वेदमात्रकैः ॥ ६१ ॥

ततो हन्वन्तरं तावत् कण्ठान्तं च हनोस्तथा ।
कण्ठाद्धृच्च हृदो नाभिः सार्धसूर्याङ्गुलान्तरम् ॥ ६२ ॥

बेरे समविभक्ते तु सषोडशशताङ्गुलैः ।
उष्णीषकक्षजान्वङ्घ्रितलोच्चं वेदमात्रकैः ॥ ६३ ॥

सार्धेनांशैर्मुखायामः केशान्तादक्षिसूत्रतः ।
सपादवेदमात्रैः स्यात् ततः सयवभागतः ॥ ६४ ॥

पुटान्तोऽस्माच्च हन्वन्तमथाकण्ठाद्धृदन्तकम् । हृदो
नाभिस्ततो योनिः सार्धसूर्याङ्गुलैः पृथक् ॥ ६५ ॥

अभिकृत्यंशकैरूरू जङ्घे चोर्वोः समे मते । षोडशांशैः
पदायामो बाहू चोर्वोः समौ मतौ ॥ ६६ ॥

कोर्परौ तु कलायामौ प्रकोष्ठोऽष्टादशाङ्गुलैः ।
सार्धर्त्वंशैस्तलायामः षडंशैर्मध्यमायता ॥ ६७ ॥

तर्जानामे शरांशैः स्तां भागाद् [क्: ग]
ज्येष्ठाकनिष्ठिके । ज्येष्ठादिकाङ्गुलिव्यासो
नन्दर्ष्यष्टर्षिषड्यवैः ॥ ६८ ॥

स्वाग्रव्यासे त्रिभक्ते द्वावंशौ [ख्: शोनख] नखविस्तृतिः ।
अतो यवाधिकं दैर्घ्यं तलव्यासो रसांशतः ॥ ६९ ॥

घनं तलस्य कलया मणिबन्धप्रकोष्ठयोः ।
मध्यकोर्परबाह्वोश्च त्रिवदेषुरसस्ततम् ॥ ७० ॥

रुद्रमात्रैर्मुखव्यासो ग्रीवा सप्ताङ्गुलैस्तता । बाहुमूलस्य
जान्वोश्च व्यासः सप्तांशतस्ततिः ॥ ७१ ॥

कक्षान्तरस्यात्यष्ट्यंशैर्नन्दांशैः स्तनविस्तृतिः ।
तयोस्तदर्धमुत्सेधश्चूचुके तु त्रिमात्रक ॥ ७२ ॥

अर्धांशतः स्तनाक्षः स्यात् तदुच्चं द्वियवं स्मृतम् ।
स्तनाधोऽतिजगत्यंशैर्मध्ये रुद्राङ्गुलैस्ततिः ॥ ७३ ॥

श्रोणः कृत्यंशविस्तारा सङ्कृत्यंशैः कटिस्तता ।
ऊर्वोर्व्यासस्तु सूर्यांशैर्जङ्घामध्ये षडंशकैः ॥ ७४ ॥

नलका भागविस्तारा त्वक्षगुल्फौ शराङ्गुलैः ।
पार्ष्णिव्यासोन्नतिर्भागात् तलमध्याग्रयोरपि ॥ ७५ ॥

व्यासः स्याच्छरषण्मात्रैर्जेष्ठोच्चं भागतो भवेत् । तत्समा
तर्जनी मध्या सार्धरामाङ्गुलायता ॥ ७६ ॥

त्रिमात्रानामिका सार्धद्व्यङ्गुला स्यात् कनिष्ठिका ।
रसर्षिसार्धर्षिवसुविकारयवविस्तृताः ॥ ७७ ॥

पादाङ्गुल्यः कनिष्ठाद्याः स्वव्यासार्धतता नखाः ।
तत्पादोनायता वृत्ता उन्नताग्रा मनाक् च ते ॥ ७८ ॥

स्यात् केशान्तात् भ्रुवोः सूत्रं सपादकलया ततम् ।
पुटादधोऽङ्गुलादास्यं गोज्यायामस्तदर्धतः ॥ ७९ ॥

आस्यव्यासस्तु वेदांशैस्त्रिवर्गोत्तरपालिका । कलायतः
स्यादधरस्तदर्धेन तु विस्तृतः ॥ ८० ॥

तत्पाली यवमाना स्याच्छेषं बिम्बफलाकृति । सयवद्व्यंशतो
नेत्रदैर्घ्यं व्यासस्तु षड्यवैः ॥ ८१ ॥

हनोस्तथा कण्ठवेशः सार्धरामाङ्गुलैः स्मृतः ।
गोजीमूलात् तु नासोच्चं स्यात् सषड्यवमात्रतः ॥ ८२ ॥

कर्णायामस्तु भागेन सपादकलया ततिः । भागेन नालालम्बः
स्याच्छेषमूह्यं हि पूर्ववत् ॥ ८३ ॥

मध्यमदशतालेन स्त्रीमानं चापि तेन पुम्मानम् । दशतालात्
तु कनिष्ठात् स्त्रीमानस्येह लक्षणं कथितम् ॥ ८४ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिधान्तसारे क्रियापादे
स्त्रीपुम्मानादिलक्षणपटलो द्विचत्वारिंशः ॥