४०

अथैकचत्वारिंशः पटलः ।

अथो सकललिङ्गानां लक्ष्म सम्यङ्निगद्यते । अचलं तच्चलं
चैव चलाचलमिति त्रिधा ॥ १ ॥

सौधं च पार्थिवं शार्करं च स्थिरं स्मृतम् । रत्नजं
दारवं लौहं त्रयं चैतच्चलं स्मृतम् ॥ २ ॥

धातुवर्णाद्यमालेख्यं सकलं तच्चलाचलम् । सर्वं च चित्रं
चित्रार्धं चित्राभासमिति त्रिधा ॥ ३ ॥

सर्वाङ्गदृश्यं यच्चित्रं चित्रार्धं चार्धदर्शनात् ।
लिखितं पटभित्त्यादौ चित्राभासाह्वयं स्मृतम् ॥ ४ ॥

चित्रादीनां तु बेराणां श्रेष्ठमध्याधमं फलम् ।
लिङ्गगर्भगृहद्वारस्तम्भाधिष्ठानकिष्कुभिः ॥ ५ ॥

तालमूलाङ्गुलैश्चाथ मानं मानाङ्गुलैरपि । यजमानोच्चतो
मानमित्येकादशधा स्मृतम् ॥ ६ ॥

तद्यथा -

पूजांशोच्चं च नाहं विततिमपि पृथग् द्व्यष्टभागं तु
कृत्वा
तैरेवांशैस्त्रिभेदैर्गुणशरमुनिभिर्नन्दरुद्रांशकैर्वा ।
न्यूनं चैवाधिकं वा सममपि कथितं लिङ्गतो बेरमानं
भेदैर्गीर्वाणसङ्ख्यैर्नवविधमपि तद् गर्भगेहे नवांशे ॥ ७

द्वाराधिष्ठानपादानां समं पादाधिकं तु वा ।
पादहीनमथैतेषां द्व्यन्तरे वेदभागिके ॥ ८ ॥

पृथक् कृत्वाऽथ तैरंशैः स्यान्मानं नवधा पृथक् ।
हस्तादिनवहस्तान्तं तन्मानं नवधा स्मृतम् ॥ ९ ॥

तालादि नवतालान्तं तालमानं च कीर्तितम् । पूजांशोच्चे
चतुर्विंशत्यधिकं शतभागिके ॥ १० ॥

मूलबेराङ्गुलं भागस्तेन बेरोच्छ्रयं नयेत् ।
मूलबेराङ्गुलकृतप्रतिमायास्तदङ्गुलैः ॥ ११ ॥

गणयेद् योनिभागाद्यमन्यथा चेद् विनाशकृत् । तिर्यग्यवोदरैः
षड्भिः सप्तभिश्चाष्टभिः क्रमात् ॥ १२ ॥

कनिष्ठं मध्यमं श्रेष्ठं स्मृतं मानाङ्गुलं पृथक् ।
शाल्यायतैस्त्रिभिस्तैश्च सार्धैस्तैर्वेदसम्मितैः ॥ १३ ॥

मानाङ्गुलानि चाप्येवं कनिष्ठादीनि कल्पयेत् ।
तद्भर्तुर्दक्षिणकरे मध्यमान्मध्यपर्वणः ॥ १४ ॥

दैर्घ्यान्मात्राङ्गुल श्रेष्ठं नीचं तद्व्यासतः स्मृतम् ।
यजमानसमं तस्य नेत्रास्यहनुदोस्समम् ॥ १५ ॥

स्तनान्तं हृदयान्तं च तन्मानं सप्तधा स्मृतम् । मानुषे
निष्कले लिङ्गे पूजाभागे शिरो विना ॥ १६ ॥

यदुच्चं तेन बेराणामुत्सेधात् परिकल्पयेत् । स्वायम्भुवे यदा
लिङ्गे शिरोमानं न लभ्यते ॥ १७ ॥

तच्छिरोन्तं तदुत्सेधः स्यान्नाहः स्थूलदेशतः । व्यासश्च
तद्वदार्षादौ शिरोविस्तारवर्जिते ॥ १८ ॥

उत्सेधनाहव्यासाः स्युस्तैस्तैर्बेरोदयं नयेत् । अङ्गुलैः
प्रतिमामाने क्रमात् सप्ताङ्गुलादितः ॥ १९ ॥

द्विद्व्यङ्गुलविवृद्ध्या स्युः प्रतिमोच्चानि वै पृथक् ।
सचतुर्विंशतिशतं यावत् प्रोक्ताङ्गुलैरिह ॥ २० ॥

गृहार्चास्विह मानं स्यान्मात्राख्यैरेव नान्यथा ।
अङ्गुलैर्यजमानस्य तत्रापि विधिरीरितः ॥ २१ ॥

त्रिविधाङ्गुलमानानां जात्यंशं नातिरोपयेत् । बेराणां
तेषु योन्याद्यं नयेत् स्वैः स्वैरिहाङ्गुलैः ॥ २२ ॥

लिङ्गादिशिष्टमानेषु जात्यंशारोपणं मतम् । माने
चतुरशीत्यंशे द्विषष्ट्यंशे समुच्छ्रये ॥ २३ ॥

सङ्कृत्यंशे विकारांशे विप्रादीनां यथाक्रमम् ।
एकांशारोपणादुक्तं जात्यंशारोपणं हि तत् ॥ २४ ॥

उक्तविप्रादिमानेषु (वसुवृषद्ध्येषुभैर्हृते ?
वस्वृष्यृत्विषुभिर्हृते) । शेषं विप्रादिजातीनामृक्षं
विद्याद् यथाक्रमम् ॥ २५ ॥

यजमानर्क्षमारभ्य गण्यमानेषु भेषु वै ।
नवाष्टषट्चतुर्युग्मताराः शस्तास्तु नेतरे ॥ २६ ॥

मानं तु रामवसुनन्दभुजङ्गनन्दै- र्वेदैश्च
वृद्धमहितारकधातुसूर्यैः । दिङ्नन्दकैश्च हृतशिष्टमिह
क्रमात् तद् योन्यृक्षवारविभवर्णनवांशकाः स्युः ॥ २७ ॥

ध्वजसिंहवृषेभाख्या योनयः शोभनाः स्मृताः ।
तथैवाशोभना वर्ज्या धूमश्वखरवायसाः ॥ २८ ॥

नक्षत्राण्याश्विनादीनि यजमानदिनादितः । जन्मसम्पद्विपत्
क्षेमः प्रत्यरं साधको वधः ॥ २९ ॥

मैत्रं परममैत्रं च जन्मेत्याद्यं पुनः पुनः ।
सम्पत्साधकमैत्राणि क्षेमं परममैत्रकम् ॥ ३० ॥

जन्माख्यं च शुभानि स्युरशुभानीतराणि तु ।
चन्द्रज्ञगुरुशुक्राणां वाराः शस्तास्तु नेतरे ॥ ३१ ॥

धनाधिकं च हीनार्णं श्रेष्ठं मध्यं समं यदा ।
ऋणाधिकं चेद् वर्ज्यं स्याद् विपत्तस्करषण्डकाः ॥ ३२ ॥

निन्द्यास्तादीतरे सर्वे श्रेष्ठा ग्राह्याः स्युरंशकाः ।
तस्करो भुक्तिशक्ती च धमं राजा नपुंसकम् ॥ ३३ ॥

अभयं च विपच्चैव समृद्धिश्च नव क्रमात् ।
ग्रामवास्तुनृपादीनां यजमानस्य चाप्युत ॥ ३४ ॥

उक्तमानविभागेन योन्यादिघटनां नयेत् । प्रस्तुतप्रतिमोत्सेधं
त्रिंशदंशादितः क्रमात् ॥ ३५ ॥

शतांशान्तं विभज्यैषु भागैरन्यतमैर्बुधः ।
योनितारादिघटनां योजयेच्छोभनं यथा ॥ ३६ ॥

देवादीनां तथान्येषां बेरमानं पृथक् पृथक् । मानं
प्रमाणमुन्मानं परिमाणं तथा पुनः ॥ ३७ ॥

उपमानं लम्बमानमिति मानं तु षड्विधम् । बेरायामस्तु मानं
स्यात् प्रमाणं तिर्यगर्पितम् ॥ ३८ ॥

उन्मानं तु तदावृत्तिर्नाहस्तु परिमाणकम् । निम्नोन्नतं
तूपमानं लम्बमानं प्रलम्बितम् ॥ ३९ ॥

श्रेष्ठेन दशतालेन शिवकेशववेधसाम् । मध्येन दशतालेन
गौरीलक्ष्मीगिरां मतम् ॥ ४० ॥

दूर्गायाश्चापि मातॄणां मध्येनैव प्रकल्पयेत् । मध्येन
दशतालेन त्रिमूर्तीर्वा प्रकल्पयेत् ॥ ४१ ॥

तद्देवीनां तदा मानं कनिष्ठदशतालतः ।
सूर्येन्द्रस्कन्दचन्द्राणां चण्डक्षेत्रेशनन्दिनाम् ॥ ४२ ॥

ऋषीणां चाश्विनोः शास्तु कनिष्ठदशतालतः ।
लोकपालाष्टमूर्तीशविद्येशवसुभोगिनाम् ॥ ४३ ॥

रुद्राणां चैव मानं स्यादुत्तमान्नवतालतः ।
मरुद्गणानप्सरसोऽप्यस्त्रमूर्त्तीश्च गुह्यकान् ॥ ४४ ॥

मध्येन नवतालेन कुर्याद् विद्याधरान् पितॄन् ।
सिद्धानसुरगन्धर्वान् कनिष्ठनवतालतः ॥ ४५॥

गणेशं वामनं चाथ पञ्चतालाख्यमानतः । चतुस्तालेन
भूतानि त्रितालाद् यक्षकिन्नरान् ॥ ४६ ॥

द्वितालेनैव कुश्माण्डंयत्तलात् कूर्माकृतिं हरिम् ।
प्रतिमाकरणं तत्तद्देहलब्धाङ्गुलेन तु ॥ ४७ ॥

सिध्येत् तत्रोच्यते पूर्वमुत्तमं दशतालकम् । तदुत्सेधे
चतुर्विंशत्यधिकं शतभागिके ॥ ४८ ॥

एकांशो देह[क्: ब]लब्धाख्यमङ्गुलं तदथाष्टधा । विभज्य
विद्यादेकांशं यवमेवं परत्र च ॥ ४९ ॥

मध्यमे दशताले तु सविंशतिसतांशतः ।
सविकारशतांशेऽंशः कनिष्ठदशतालके ॥ ५० ॥

अष्टोत्तरशतांशेऽंशो नवतालोत्तमेऽङ्गुलम् । स
वेदांशशतांशेऽंशो नवताले तु मध्यमे ॥ ५१ ॥

शतांशेऽंशोऽङ्गुलं ज्ञेयं कनिष्ठनवतालके ।
षण्णवत्यंशकेऽंशः स्याच्छ्रेष्ठे तु वसुतालके ॥ ५२ ॥

प्रतिर्वेदाङ्गुलहासादेतन्मध्याधमे स्मृते । स्वस्वतालविभागेन
सप्ततालादिषु क्रमात् ॥ ५३ ॥

एकतालान्तकं विद्याद् देहलब्धाङ्गुलं पृथक् । इन्दुः खमंशो
मात्रं चाप्यङ्गुलं च समं स्मृतम् ॥ ५४ ॥

कोलकं च कलाभागः स्याद् द्वित्रिचतुरङ्गुलम् ।
अक्षिगोलकपक्षस्तु द्व्यङ्गुलस्याभिधायकः ॥ ५५ ॥

मुखं तालं वितस्तिश्च द्वादशाङ्गुलवाचकम् ।

सञ्ज्ञापर्यायाः ।

अथ श्रेष्ठात् पङ्क्तितालात् प्रतिमामानमुच्यते ॥ ५६ ॥

सांशत्रियव उष्णीषः केशान्तोऽंशैस्ततस्त्रिभिः ।
ततोऽक्षिसूत्रं वेदांशैः सयवत्रितयैस्ततः ॥ ५७ ॥

नासापुटान्तं तन्मानं चिबुकान्तं च तावता । तस्माद् गलं
वेदयवं ततः कण्ठस्तु सप्तभिः ॥ ५८ ॥

यवैरग्न्यङ्गुलैश्चास्माद्धृदयं त्रियवान्वितैः ।
त्रयोदशाङ्गुलैस्तस्मान्नाभिस्तावद्भिरङ्गुलैः ॥ ५९ ॥

नाभेर्मेढ्रं च तावद्भिस्ततो नक्षत्रसम्मितैः ।
अङ्गुलैरूरुमानं स्यात् तस्माद् भागेन जानुनी ॥ ६०॥

तस्मादूरुसमे जङ्घे पादमानं तु भागतः । अथाङ्गुष्ठात्
तु पार्ष्ण्यन्तं तलं सप्तदशाङ्गुलम् ॥ ६१ ॥

हिक्कासूत्रादधो बाहू सप्तविंशतिमात्रकैः । द्व्यङ्गुलं
कोर्परं तस्मात् त्रिसप्तांशैः प्रकोष्ठकम् ॥ ६२ ॥

सार्धत्रयोदशैर्मात्रैर्मध्याग्रान्तं तलं स्मृतम् । मुखस्य
तिर्यग्विस्तारः कर्णान्तो द्वादशाङ्गुलः ॥ ६३ ॥

ग्रीवामूलाग्रविस्तारः सार्धनन्दनवाङ्गुलैः ।
एकाशीतेरर्धमात्रैः सबाह्वन्तरविस्तृतिः ॥ ६४ ॥

सार्धनन्दैर्बाहुमूलजान्वोर्व्यासं तु कल्पयेत् ।
कक्षयोरन्तरव्यासो द्वाविंशत्यङ्गुलैर्मतः ॥ ६५ ॥

स स्तनान्तरविस्तारः सार्धविंशतिमात्रतः ।
हृदयावधिविस्तारः सार्धाष्टादशमात्रिकः ॥ ६६ ॥

मध्यव्यासः षोडशांशैः सार्धैरष्टादशाङ्गुलैः ।
श्रोणेर्व्यासः कटिव्यासो विंशत्यङ्गुलसम्मितः ॥ ६७ ॥

सार्धत्रयोदशांशा स्यादूरुमूलस्य विस्तृतिः ।
भान्वंशैरूरुमध्यस्य जङ्घामूलेऽष्टमात्रकैः ॥ ६८ ॥

जङ्घामध्यं सार्धषट्कं नलका सार्धभागतः ।
विस्तृताथाक्षिगुल्फान्तं स यवेष्वंशविस्तृतम् ॥ ६९ ॥

सार्धवेदाङ्गुलैः पार्ष्णी विस्तृता तद्वदुच्छ्रिता ।
षडंशः प्रपदव्यासस्तलाग्रस्य सषड्यवः ॥ ७० ॥

सयवद्वयवेदांशैः पादाङ्गुष्ठायतं स्मृतम् । तद्विस्तारं
तदर्धेन तदर्धान्नखविस्तृतिः ॥ ७१ ॥

तत्पादोनो नखायामो वृत्तोदग्राग्रमण्डितः ।
वेदरामाग्निदृङ्मात्रैः सत्रिषट्कचतुर्यवैः ॥ ७२ ॥

तर्जन्यादिकनिष्ठान्तमङ्गुल्यायाम ईरितः । तद्व्यासोऽपि
क्रमाज्ज्ञेयो नवभिः सार्धसप्तकैः ॥ ७३ ॥

सप्तभिश्च यवैः षड्भिः स्वव्यासार्धात् तता नखाः ।
सपादाष्टांशसप्तांशैर्दोर्मध्ये कोर्परे ततिः ॥ ७४ ॥

सार्धेषुसार्धरामांशैः प्रकोष्ठमणिबन्धयोः । तलं
सप्ताङ्गुलायामं मध्या सार्धषडङ्गुला ॥ ७५ ॥

सपादेष्वङ्गुलानामा कनिष्ठाब्ध्यंशपादयुक् ॥ ७६ ॥

सपादांशांशसयवमात्रमात्रैश्च षड्यवैः ।
अङ्गुष्ठादिकनिष्ठान्तमङ्गुलीनां ततिर्भवेत् ॥ ७७ ॥

स्वस्वमूले विकारांशे हाप्योऽंशस्तत्तदग्रके ।
अङ्गुल्यग्रततेऽग्न्यंशे द्व्यंशव्यासा नखाः पृथक् ॥ ७८ ॥

स्वस्वव्यासचतुर्थांशादायताः स्युर्नखाः पृथक् । द्विगुणं
स्वनखायामादग्रपर्व पृथक् पृथक् ॥ ७९ ॥

सपादद्व्यंशतोऽङ्गुष्ठे तर्जानाम्नोर्दृगंशतः ।
मध्यायाः सत्रिपादाक्षि सपञ्चयवमात्रतः ॥ ८० ॥

कनिष्ठायाश्च कथित आयामो मूलपर्वणः । मध्यपर्व च
यच्छिष्टं मध्येमूलाग्रपर्वणोः ॥ ८१ ॥

सपर्वद्वयमङ्गुष्ठं शेषाः पर्वत्रयान्विताः ।
सार्धर्तुरससार्धेषुमात्रव्यासस्तलस्य तु ॥ ८२ ॥

मूले मध्ये तथाग्रे स्यादथाङ्गुष्ठस्य मूलतः । आ
तर्जामूलतोऽग्न्यंशैस्तथाङ्गुष्ठस्य मूलतः ॥ ८३ ॥

शुकोदराख्यो वेदांशैर्मणिबन्धान्तमायतः । तद्धनं
सार्धयुग्मांशं [शा] करपर्ष्ण्या घनं कला ॥ ८४ ॥

तदग्रं [क्: ग्र] षोडशांशोनमथाग्रं यत् तलस्य तु ।
मांसलं सार्धकोलं स्यात् पार्ष्ण्णिरत्रांशविस्तृतः ॥ ८५

शुकोदरततिर्द्व्यंशाच्छेषान्निम्नं तले स्मृतम् ।
चक्रशङ्खाब्जमकरस्वस्तिकाद्यङ्गवत् तलम् ॥ ८६ ॥

कर्णोर्ध्वं स्याच्छिरोनाहः स चाष्टात्रिंशदङ्गुलैः ।
कर्णयोर्मध्यनाहः प्राग् द्वाविंशत्यङ्गुलैः स्मृतः ॥ ८७ ॥

तत्पृष्ठनाहः सूर्यांशैः कर्णौ कोलकतः पृथक् ।
मूर्ध्नो मध्यान्त् तु केशान्तमानमुक्तं नवाङ्गुलम् ॥ ८८ ॥

पार्श्वयोस्तावदेव स्यादथ केशाक्षिसूत्रयोः । मध्ये तु
भ्रूयुगं कुर्यात् सज्यचापानतं शुभम् ॥ ८९ ॥

कर्णोर्ध्वसूत्रं भ्रूतुल्यं ततो मात्राद् भ्रूवोर्नतिः (?) ।
भ्रूवोरन्तरमर्धांशाच्छरांशैरायतं भ्रूवोः ॥ ९० ॥

भ्रूमध्यतारं द्वियवं कृशमग्रं तयोः क्रमात् । कनीनिका
कलायामव्यासा स्यादथ षड्यवः ॥ ९१ ॥

सितांशः कृष्णबिम्बश्च शुक्लांशोऽन्ते च तत्समः ।
षड्यवो नेत्रविस्तारो नेत्रान्तोऽर्धयवोऽरुणः ॥ ९२ ॥

कृष्णदृष्टिर्यूकसमा ज्योतिर्मण्डलकं यवम् ।
ऊर्ध्वाधोवर्मविस्तारो यवं चार्धयवं भवेत् ॥ ९३ ॥

नेत्रयोरन्तरं युग्ममात्रं सद्वियवं भवेत् ।
नासापुटान्तसीमान्तव्यासपादांशपक्षतः ॥ ९४ ॥

मध्यव्यासस्ततोऽर्धेन तदूर्ध्वं तस्य चार्धतः । गोजीमूलात्
तु नासाग्रं द्व्यङ्गुलोच्चं पुटोर्ध्वतः ॥ ९५ ॥

सयवांशततन्नासापुटौ [टो] यवघनौ स्मृतौ ।
नासाद्वारोच्चविस्तारौ पञ्चसप्तयवैर्मतौ ॥ ९६ ॥

तिलपुष्पसमौ नासापुटौ निष्पावसन्निभौ ।
मध्यकुड्योच्च्चतांशेन तद्व्यासोऽर्धयवः स्मृतः ॥ ९७ ॥

अध्यर्धयवलम्बं स्यान्नासाग्रं पुटसूत्रतः ।
सार्धवेदयवायामा गोजी [क्: ज्जी] तस्यार्धतस्तता ॥ ९८ ॥

सपादभागदीर्घं स्यादुत्तरोष्ठं तु पालिका । यवव्यासा च
तद्व्यासः सार्धत्रियव ईरितः ॥ ९९ ॥

आसृक्वान्तायतं तारमानुपूर्व्या कृशं भवेत् । पाली
त्रिवक्रावनता तावदास्यायतं भवेत् ॥ १०० ॥

नन्दाष्टादशधार्धर्तुयवतारायतोच्छ्रितम् । अधरं स्यात् तु
तत्पाली त्वधः सार्धयवं ततः ॥ १०१ ॥

अधराधस्तु चिबुकं सार्धाष्टयवमानतः । चिबुकस्य तथा
निम्नं हनुस्त्रियवमुन्नता ॥ १०२ ॥

हनुरर्धायतं वृत्ता सार्धरामाङ्गुलात् तता ।
कर्णबन्धाद्धनोर्मध्यं दशाङ्गुलमुदीरितम् ॥ १०३ ॥

गलवेशः सपादांशाद्धनोस्तद्द्विगुणं गलात् । कर्णवेशस्तु
नेत्रान्तात् सप्तांशैः श्रवणान्तरम् ॥ १०४ ॥

कर्णव्यासो नेत्रदैर्घ्याद् दृक्सूत्रोर्ध्वोन्नतिस्तथा । तदधः
कर्णबन्धः स्यात् सयवांशद्वयायतः ॥ १०५ ॥

पूर्वापरे कर्णनाले सार्धवेदांशमायते ।
मात्रार्धमात्रविस्तारे स्यातां सार्धांशतो घने ॥ १०६ ॥

षड्यवं नालरन्ध्रं स्यात् पिप्पल्यंशायता स्मृता ।
तदर्धविस्तृता वाथ पिञ्चूषी स्यात् कलायता ॥ १०७ ॥

तद्व्यासोऽंशादक्षिसूत्रादधश्छिद्रं चतुर्यवम् ।
चतुर्यवायता कर्णपाली सार्धयवाद् घना ॥ १०८ ॥

सार्धमात्रं ततः पृष्ठकर्णपृष्ठविधुस्तथा । पश्चात्
कण्ठोर्ध्वकेशान्तेऽर्धांशनिम्ना कृकाटिका ॥ १०९ ॥

कृकाटिकाप्रदेशे तु कण्ठ[ष्ठ]व्यासोऽष्टमात्रतः ।
साष्टार्धमात्रं तदधः स्कन्धसीम्नि दशाङ्गुलैः ॥ ११० ॥

पश्चात् कण्ठस्य चायामो वेदांशैश्च त्रिभिर्यवैः ।
हिक्कासूत्रोर्ध्वतः स्कन्धसन्धिर्वेदांशमुन्नतः ॥ १११ ॥

आ हिक्कासूत्रतो नीचौ (न?) स्कन्धौ सप्तांशतो घनौ । पश्चात्
कण्ठादधोंशेन ककुत् तस्मादधोङ्गुलैः ॥ ११२ ॥

सप्तविंशतिभिः पृष्ठवंशस्त्वत्कटिसन्धितः ।
ककुद्देशादधो हित्वा वेदांशात् कक्षयोः स्थितिः ॥ ११३ ॥

पृष्ठे तु कक्षयोर्मध्यव्यासः स्यात् तारकाङ्गुलैः ।
रसाङ्गुलयवैः कक्षादूर्ध्वं बाह्वोः समुच्छ्रयः ॥ ११४ ॥

स्कन्धसन्धेरंसपीठं सार्धबाणांशकैर्भवेत् ।
पश्चादास्तनसूत्रान्तमर्कांशे फलकेऽंसयोः [क्: ष] ॥ ११५

ककुदोऽधोऽंसफलकामध्यव्यासो दशाङ्गुलः ।
तदधस्त्र्यङ्गुलो व्यासो वंशो द्व्यङ्गुलनिम्नवान् ॥ ११६ ॥

वंशपार्श्वादांसपीठं बृहती सप्तमातृके ।
बृहत्योरास्तनं मध्ये घनं षोडशमात्रकैः ॥ ११७ ॥

अधो बृहत्याः कट्यन्तमायामः सप्तमातृकः ।
विकारांशैर्घनं तस्मादधश्चात्यष्टिमात्रकैः ॥ ११८ ॥

सार्धत्रयोदशांशैः स्यात् कट्यास्तत्खण्डकान्तरम् ।
अर्धोनकृतिमात्रा स्यात् कटिबन्धस्य विस्तृतिः ॥ ११९ ॥

सार्धनन्दांशविस्तारौ स्फिजोः पिण्डौ सुवर्तुलौ ।
सार्धवेदांशतश्चोरुमूलात् स्पिक्पिण्डनिर्गतिः ॥ १२० ॥

स्फिक्पिण्डौ मेढ्रसूत्राधः सार्धवेदांशलम्बनौ । वृत्ता
ग्रीवाथ तन्नाहे युग्मरेखा समन्विता ॥ १२१ ॥

स्तनमन्तरयोर्हिक्काकक्षसन्धिस्ततोऽपि च ।
सार्धत्रयोदशांशैः स्युः कक्षात् कक्षधरा ततिः ॥ १२२ ॥

सपादांशद्वयं सार्धमात्रं हृदयनिम्नतः ।
स्तनपीठोन्नतिर्द्व्यंशात् सयवं कुचवर्तुलम् ॥ १२३ ॥

द्वियवोच्चततं चारुवर्तुलं स्तनचूचुकम् । हिक्का द्वियवनीचा
स्याज्जानुयुग्मं द्विमात्रकम् ॥ १२४ ॥

षड्यवव्यासनिम्ना स्याद् रम्या नाभिः प्रदक्षिणा । नाभेः
सयवबाणांशा श्रोणी पार्श्वे रसांशका ॥ १२५ ॥

सार्धत्र्यंशा कटिः श्रोण्या तच्छेषो मेढ्रमण्डलम् ।
सयवद्वयबाणांशदीर्घं सयववृत्ततः ॥ १२६ ॥

लिङ्गं बीजावलम्बस्तु सवेदांशयवद्वयः । तद्व्यासस्तावतैव
स्यान्मेढ्रादूर्ध्वोरुबन्धनम् ॥ १२७ ॥

त्र्यङ्गुलं त्रियवोत्तुङ्गं जानुवृत्तं तु भागतः । तद्धनं
सार्धकलया पार्श्वबन्धस्तु भागतः ॥ १२८ ॥

जानुपश्चिमभागोच्चं सार्धद्व्यंशं तु भागतः । विस्तृतं
तूच्चनिम्नाद्यमन्यदूह्यमतः परम् ॥ १२९ ॥

सर्वतः परिपूर्णाङ्गं मानोन्मानादितः समम् । श्रेष्ठेन
दशतालेन बेरं कुर्वीत सुन्दरम् ॥ १३० ॥

इत्थं दशतालेन तु मुख्ये यथालक्षणम् । उक्तं खलु
बेरोचितपुम्मानमशेषादिह ॥ १३१ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे क्रियापादे
उत्तमदशतालपुरुषमानविधिपटल एकचत्वारिंशः ।