३९

अथ चत्वारिंशः पटलः ।

अथोक्ताव्यक्तलिङ्गे तु शिवांशे दशभागिके ।
अश्विनेत्राग्निभागैः स्यात् स्कन्धः कण्ठस्तथाननम् ॥ १ ॥

उष्णीषोऽंशस्तु मकुटं द्व्यंशमूर्ध्वं तु भागतः ।
भागेन मुखविष्कम्भो विस्तृतश्चोर्ध्वलिङ्गवत् ॥ २ ॥

ललाटकर्णभ्रूनेत्रघ्राणगन्धमुखादिकम् ।
मानोन्मानप्रमाणेन सर्वं सकलवत् स्मृतम् ॥ ३ ॥

आर्षवद् ब्रह्मविष्ण्वंशौ वेदाश्रावेव मिश्रके ।
पुरुषादिमुखानां तु लक्षणं त्वथ कथ्यते ॥ ४ ॥

कुङ्कुमाभं विशालाक्षं त्रेणेत्रं नक्रकुण्डलम् ।
चन्द्राङ्कितजटाजूटं प्राचि तत्पुरुषाननम् ॥ ५ ॥

भिन्नाञ्जननिभं सिंहत्रिणेत्रं सिंहनासिकम् ।
दंष्ट्राकरालं दष्टोष्ठं संलिहद्रसनोज्ज्वलम् ॥ ६ ॥

पिङ्गश्मश्रुजटाजूटं सर्पप्रोतशिरस्स्रजा ।
सेन्दुखण्डमरालभ्रूः स्यादघोरं तु दक्षिणे ॥ ७ ॥

बन्धुजीवारूणं रम्यं स्त्रीविलासविभूषितम् ।
ललितभ्रूयुगञ्चारुतिलकं मणिकुण्डलम् ॥ ८ ॥

धम्मिल्लाबद्धमकुटं नीलालकविभूषितम् । उत्तरे
वामदेवाख्यं मुखं कुर्यान्मनोरमम् ॥ ९ ॥

पूर्णेन्दुकुन्दधवलं प्रसन्नं रत्नकुण्डलम् ।
चन्द्राङ्कितजटाजूटं सद्योजातं तु पश्चिमे ॥ १० ॥

एकास्यं वा त्रिवक्त्रं स्यादेकद्वारे शिवालये ।
द्वाराभिमुखमेवास्यं त्रिमुखं चेत् तु पार्श्वयोः ॥ ११ ॥

न कुर्याद् द्विमुखं लिङ्गं तच्छस्तमभिचारके । चतुर्द्वारे तु
भवने कुर्याल्लिङ्गं चतुर्मुखम् ॥ १२ ॥

पञ्चवक्त्रं द्विवक्त्रं वा लिङ्गं राष्ट्रान्तरे गिरौ ।
स्थापयेच्छत्रुनाशाय विजयाय च भूपतिः ॥ १३ ॥

अत्र पराशरः -

अथैकत्र चतुर्वक्त्रं ग्रामादिष्वेव विन्यसेत् । द्विवक्त्रं
पर्वतेऽरण्ये परराष्ट्रान्तिकेऽपि च ॥

स्थापयेत् तदरिध्वंसं विदधाति स्वरक्षणम् ॥

इति ।

तथा योगशिवपद्धतौ च -

बाणकोणगुणाश्व्येकमुखलिङ्गानि तु क्रमात् । चतुस्त्र्येकाननं
भूत्यै पञ्चास्यं चाभिचारिके ॥

द्विमुखं चारिनाशाय स्थाप्यं शैलवनादिषु । सितोत्तानं
त्रिणेत्रं च मौलिकुण्डलमण्डितम् ॥

ईशानं लिङ्गमूर्ध्निं स्यादूर्ध्वाभिमुखमेव तत् ॥

इति ।

अव्यक्तस्यैव लिङ्गस्य कुर्यात् पीठादिकं समम् ।
मृद्वृक्षाश्ममयं लिङ्गं सर्वसिद्धिप्रदं सदा ॥ १४ ॥

मृन्मये हेमरत्नादि मध्ये संस्थाप्य कारयेत् । सर्वेषां
मुखलिङ्गानां निर्गमः स्यात् पृथक् पृथक् ॥ १५ ॥

प्रविष्टा कन्धरा कार्या विष्णुभागोपरिस्थिता ।
हस्तादिपञ्चहस्तान्तं मुखलिङ्गं प्रकल्पयेत् ॥ १६ ॥

अतः परं न कुर्वीत मिश्रलिङ्गं शुभेच्छया ।

मुखलिङ्गविधिः ।

अथ स्फाटिकलिङ्गमुच्यते -

एकाङ्गुलं समारभ्य क्रमाङ्गुलविवर्धनात् ॥ १७ ॥

षडङ्गुलान्तं स्फटिकलिङ्गषट्कमिहाधमम् ।
सप्ताङ्गुलादिकं लिङ्गं मध्यमा द्वादशाङ्गुलात् ॥ १८ ॥

लिङ्गषट्कमिति यावत् ।

त्रयोदशाङ्गुलादीनि लिङ्गान्याष्टादशाङ्गुलात् । उत्तमानि
भवन्त्येषु मानं मात्राङ्गुलेन हि ॥ १९ ॥

अत्र मयः -

तद्धीनादर्धमात्रेण वृद्ध्यैकादशसङ्ख्यया । श्रेष्ठे
मध्येऽवरे लिङ्गे त्रयस्त्रिंशत् समुन्नतम् ॥

पूजांशार्धं त्रिभागैकं गाढं वा स्फाटिकं मतम् ।
समं त्रिपादमर्धं वा पूजांशोच्चस्य विस्तृतिः ॥

सधारं वाथ वृत्तं वा लिङ्गं स्यात् स्फाटिकं शुभम् ।
शिरोवर्तनकं प्राग्वद् ब्रह्मसूत्रं न वा भवेत् ॥

ब्रह्मसूत्रं विनाप्येतत् तेजोद्रव्यं वरप्रदम् ।

इति ।

स्वव्यासद्विगुणं सार्धद्विगुणं त्रिगुणं ततः । नीचं
मध्यं च मुख्यं च पीठनालं [ख्: ठं] हि पूर्ववत् ॥ २०

पूजांशोच्चसमं वार्द्धं त्रिपादं पैण्डिकोच्छ्रयः ।
मण्डनं निष्कलोक्तं हि पीठेषु स्फाटिकेष्वपि ॥ २१ ॥

स्फाटिकैकशिलापीठलिङ्गं श्रेष्ठं स्वयोनिकम् ।
स्फटिकान्यशिलापीठं लिङ्गं मध्यं स्वयोनिकम् ॥ २२ ॥

स्वयोन्यभावे हैमं स्याद् राजतं ताम्रजं तु वा पीठं
कनिष्ठं तत्रापि हैमाद्यं तूत्तमादिकम् ॥ २३ ॥

रत्नानां स्फटिकादीनां दोषान् परिहरेद् बुधः ।
सर्वनाशकरं यस्मात् सदोषं तं न पूजयेत् ॥ २४ ॥

द्वादशैव स्मृता दोषाः स्फटिकादिषु तद् यथा । रेखा
बिन्दुः कलङ्कश्च त्रासः काक पदं क्षतम् ॥ २५ ॥

खद्योतो मक्षिकाच्छायभेदः सन्धिस्तुषाकरः । निम्नमस्तकता
चेति रत्नदोषास्तुवर्जिताः ॥ २६ ॥

पद्मरागादिरत्नानां दोषान् परिहरेदिमान् ।
पद्मरागादिलिङ्गानां पीठं श्रेष्ठं स्वयोनिकम् ॥ २७ ॥

तदभावे हिरण्यादिपीठं स्यादुत्तमादिकम् ।
एकाङ्गुलादिद्वियववर्धनेना षडङ्गुलात् ॥ २८ ॥

मध्यानि नव लिङ्गानि रत्नजानीह कल्पयेत् ।
सप्ताङ्गुलादिद्वियववर्धनेना नवाङ्गुलात् ॥ २९ ॥

श्रेष्ठानि नव लिङ्गानि रत्नजानि भवन्ति हि ।
कनिष्ठमध्यलिङ्गानि रत्नानि स्फाटिकान्यपि ॥ ३० ॥

चलान गेहे पूज्यानि स्थिराण्येवोत्तमानि हि । तान्यालये
प्रतिष्ठाप्य स्थिरलिङ्गानि पूजयेत् ॥ ३१ ॥

रत्नलिङ्गाधिकारः ।

रामाङ्गुलादितो लोहं लिङ्गमा षोडशाङ्गुलात् । चललिङ्गं
स्मृतं तस्मात् स्थिराण्यूर्ध्वं भवन्ति हि ॥ ३२ ॥

अष्टाङ्गुलं समारभ्य चाष्टाङ्गुलविवर्धनात् । लौहानि नव
लिङ्गानि त्रिहस्तान्तानि कल्पयेत् ॥ ३३ ॥

तथाष्टाङ्गुलमारभ्य द्विद्व्यङ्गुलविवर्धनात् । त्रिहस्तान्तानि
लिङ्गानि त्रयस्त्रिंशद् भवन्ति हि ॥ ३४ ॥

लौहलिङ्गानि ।

षोडशाङ्गुलमारभ्य दारुलिङ्गान्यनुक्रमात् ।
षोडशाङ्गुलवृद्ध्या स्युः षड्ढस्तान्तानि वै नव ॥ ३५ ॥

षोडशाङ्गुलमारभ्य चतुरङ्गुलवर्धनात् । दारवाणि
त्रयस्त्रिंशल्लिङ्गान्या रसहस्ततः ॥ ३६ ॥

यस्य यस्मिन् भवेदास्था विभूतिर्यस्य यादृशी । लिङ्गं
तदनुसारेण सततं तत् समाश्रयेत् ॥ ३७ ॥

इति मिश्रलिङ्गमणिलिङ्गवि(धान? धौ
कन)कादिलोहमयलिङ्गविधिः । इह दारुलिङ्गविधिरप्युदितः
शिवतन्त्रदर्शनविनिश्चयतः ॥३८ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
क्रियापादे मिश्रलिङ्गरत्नलिङ्गविधिपटलश्चत्वारिंशः ॥