अथ एकोनचत्वारिंशः पटलः ।
अथ पीठानि वक्ष्यन्ते लक्षणैः स्वैः पृथग्विधैः । यैः
संयोगं तु लिङ्गानां प्रतिष्ठेति विदुर्बुधाः ॥ १ ॥
एकयैव तु जात्या स्यात् पीठं लिङ्गं च नान्यथा । शैवे च
दारवे लिङ्गे स्वजातिश्चेन्न लभ्यते ॥ २ ॥
इष्टकाभिः सुधाबन्धः पीठं वा स्यात् सलक्षणम् ।
षण्ढेन स्यात् पादशिला स्त्रीशिला पिण्डिका भवेत् ॥ ३ ॥
लिङ्गं पुंशिलया कुर्यादिति शास्त्रस्य निश्चयः ।
पूजांशद्विगुणं हीनं श्रेष्ठं लिङ्गोन्नतेः समम् ॥ ४ ॥
नवैते पीठविस्तारास्तयोर्मध्येऽष्टभागिके ।
विस्तारार्धोन्नतं नीचं श्रेष्ठं द्वित्र्यंशकं ततः ॥ ५
॥
विष्कम्भं त्रिगुणं वाथ नाहतुल्यविशालकम् । गर्भव्यासात्
त्रिभागैकं चतुर्थांशमथापि वा ॥ ६ ॥
विष्कम्भकर्णद्विगुणं त्रिगुणं वापि विस्तृतम् । पीठं
कुर्यात् तु विष्ण्वंशसमानोच्चं हि सर्वथा ॥ ७ ॥
मण्डनाय स्वविस्तारादष्टांशमधिकं ततः । सर्वेषामपि
पीठानां जन्मान्तं मूलविस्तृतिः ॥ ८ ॥
पीठाग्रस्यापि विस्तारः स्यान्महापट्टिकान्तकम् ।
सामान्यपीठविधिः ।
नागरादित्रयाणां तु पीठलक्षणमुच्यते ॥ ९ ॥
त्रिखण्डलिङ्गायामेन तुल्यव्यासमिहोत्तमम् । पीठं स्याद्
द्व्यंशतो नीचं तयोर्मध्येऽष्टभागिके ॥ १० ॥
पीठव्यासा नवैव स्युस्तद्व्यासे रामभागिके । पीठं
श्रेष्ठं द्विभागोच्चं नीचं व्यासार्धमुन्नतम् ॥ ११ ॥
तयोर्मध्येऽष्टभागे तु पीठोत्सेधा नवैव हि । द्राविडेऽपि
त्रिखण्डेन तुल्यव्यासमिहोत्तमम् ॥ १२ ॥
लिङ्गायामे नवांशे तु सप्तांशैर्नीचविस्तृतिः ।
तयोर्मध्येऽष्टभागे तु पीठव्यासा नव स्मृताः ॥ १३ ॥
अष्टांशे ब्रह्मविष्ण्वंशे त्रिद्व्येकांशमधस्त्यजेत् ।
शेषांशोच्चं तु नीचादि पीठोच्चो द्राविडे मतः ॥ १४ ॥
अथ वेसरलिङ्गस्य द्व्यष्टांशे परिणाहके । मुख्यं हि
तत्समं व्यासं जगत्यशैस्तथाधमम् ॥ १५ ॥
विष्णुतुल्योच्छ्रितं तत् स्याच्चतुर्थांशाधिकं तु वा ।
सर्वेषामपि लिङ्गानां पीठोच्चादवशेषितम् ॥ १६ ॥
ब्राह्मं लिङ्गस्य मूलं यत् तत् स्यात् पादशिलागतम् ।
पीठमूलस्य विस्ताराद् वसुनन्ददिगंशकैः ॥ १७ ॥
हीनपीठाग्रविस्तारो हीनमध्ये तथोत्तमे ।
नागरादित्रयपीठम् ।
अथ पीठसंस्थानानि कथ्यन्ते -
चतुरश्राणि वस्वश्रवृत्तानीति त्रिभेदतः ॥ १८ ॥
पीठानि स्युः क्रमात् तेषां प्रथमं मेरुसुन्दरम् ।
वर्धमानं द्वितीयं स्याल्लक्ष्मीसुन्दरमप्यथ ॥ १९ ॥
विष्णुसम्मिलनाख्यं च पद्मभद्राह्वयं ततः । पीठं
समाङ्गभद्राख्यं रुद्रकान्तं ततः परम् ॥ २० ॥
सोमकान्तं च सर्वाङ्गभद्राख्यं श्रीकरं तथा ।
पुष्टिवर्धनसञ्ज्ञं च सर्वसौम्यं ततः परम् ॥ २१ ॥
एवं द्वादशभेदानां पीठानां लक्ष्म कथ्यते । पीठं
निष्कललिङ्गानां विज्ञेयं सर्वतः समम् ॥ २२ ॥
आयतं प्रतिमानां स्यात् सकले वार्धचन्द्रकम् । चतुर्दशांशे
पीठोच्चे भागात् स्यान्मूलपट्टिका ॥ २३ ॥
पद्मं त्रिभिर्धृगर्धांशमर्धेनाब्जं ततो भवेत् । वृत्तं
द्व्यंशं पुनः पद्ममर्धमर्धेन कम्पकम् ॥ २४ ॥
सार्धद्व्यंशेन कण्ठः स्यादर्धेनोर्ध्वाम्बुजं स्मृतम् ।
अर्धेन कम्पो द्व्यंशात् स्यात् क्रमेणैवोर्धपट्टिका ॥ २५ ॥
कम्पाज्यधारिण्यर्धेन स्यादेवं मेरुसुन्दरम् । अष्टादशांशे
पीठोच्चे जन्मद्व्यंशमिहोदितम् ॥ २६ ॥
चतुर्भिर्जगतीं कुर्यात् कुमुदं त्रिभिरेकतः । कम्पं कण्ठं
त्रिभिस्तद्वत् कम्पमेकेन पट्टिकाम् ॥ २७ ॥
त्रिभिरंशैस्तथांशेन वाजनं वर्धमानके । सङ्कृत्यंशे
तु पीठोच्चे जन्मसार्धांशतो भवेत् ॥ २८ ॥
अंशेन पद्ममर्धेन कम्पं वप्रं च पञ्चभिः । दलमेकेन
धृत्यंशादेकेनाब्जं तु कारयेत् ॥ २९ ॥
वृत्तं चतुर्भिस्त्वंशेन पद्ममर्धेन कम्पकम् । त्रिभिः
कण्ठं तथांशेन वाजनं त्वथ भागतः ॥ ३० ॥
निद्रां तु पट्टिकां द्व्यंशादर्धात् पद्माज्यभृद् भवेत् ।
लक्ष्मीसुन्दरसञ्ज्ञं तु पीठमेवं प्रसिध्यति ॥ ३१ ॥
पीठोच्चे षोडशांशेऽश्विभूतदस्रश्रुतिद्वयैः । एकेन च
जगत्यब्जवेत्रपङ्कजपट्टिका ॥ ३२ ॥
तथाज्यधारिणीं कुर्याद् विष्णुसम्मीलने क्रमात् ।
अष्टादशांशे पीठोच्चे भवेत् सार्धांशतः खुरम् ॥ ३३ ॥
सार्धत्रयेण जगती सार्धेनाब्जं धृगर्धतः । पट्टं
चार्धेनोपपट्टं कण्ठस्त्र्यंशस्तदूर्ध्वतः ॥ ३४ ॥
उपपट्टं भवेदर्धं पट्टमर्धेन चोपरि । द्व्यंशं
वाजनमुद्दिष्टमर्धं पट्टाज्यभृद् भवेत् ॥ ३५ ॥
पद्मभद्रमिदं पीठं विज्ञेयमतिशोभनम् । धृत्यंशे
पीठतुङ्गे तु घृतवार्यर्धतः स्मृताः ॥ ३६ ॥
अर्धेन कम्पः सार्धाभ्यां भागाभ्यां वाजनं भवेत् ।
पट्टोपपट्टावर्धाभ्यां कण्ठोऽंशौ पट्टमर्धतः ॥ ३७
॥
उपपट्टोऽर्धमष्टाश्रः कुम्भः स्याच्चतुरंशतः ।
पञ्चांशा जगती तद्वत् सार्धांशेन खुरं भवेत् ॥ ३८ ॥
एतत् समाङ्गभद्राख्यं पीठं भवति शोभनम् ।
अत्यष्ट्यंशे तु पीठोच्चे खुरं भागेन वप्रकम् ॥ ३९ ॥
चतुर्भिश्च दलं सार्धादर्धं कम्पो धृगंशकम् ।
कम्पोऽर्धमर्धेनाम्भोजं वृत्तं द्वावर्धतो दलम् ॥ ४० ॥
पट्टमर्धेन कण्ठोऽंशः कम्पोऽर्धेनार्धमम्बुजम् ।
द्व्यंशं वाजनमर्धेन पद्मं क्षेपणमर्धतः ॥ ४१ ॥
एतद्धि रुद्रकान्ताख्यं पीठमुक्तं सुशोभनम् ।
अतिधृत्यंशपीठोच्चे भागो भूगतमंशकौ ॥ ४२ ॥(?)
वप्रं महाब्जं वेदांशैर्धृगर्धं वेत्रमंशतः । अर्धं
गलं चार्धमब्जं वृत्तमत्यर्धतो भवेत् ॥ ४३ ॥
अर्धेनोर्ध्वदलं कुर्याद् वेत्रमंशो धृगर्धतः । अंशेन
वेत्रं सार्धांशैस्त्रिभिरूर्ध्वाम्बुजं भवेत् ॥ ४४ ॥
अध्यर्धं धृतभृच्चेति सोमकान्तमुदीरितम् ।
नागरादित्रयस्यापि तुल्यमेतत् ।
पीठोच्चे षोडशांशे तु भागाभ्यां मूलपट्टिका ॥ ४५ ॥
महापद्मं तु वेदांशैर्धृगर्धेनांशतो गलम् । अर्धेन पद्मं
वृत्तं तु भागेनार्धेन पङ्कजम् ॥ ४६ ॥
धृगर्धमूर्ध्वपद्मं तु चतुर्भिरथ पट्टिका । द्व्यंशेन
धृतभृत् प्रोक्तमेतत् सर्वाङ्गभद्रकम् ॥ ४७ ॥
सर्वलिङ्गेषु समानमिदम् ।
पीठोच्चे षोडशांशेऽश्विशरार्धैकार्धसागरैः ।
नेत्रेन्दुभिर्जगत्यब्जधृग्वेत्रं धृक् च पङ्कजम् ॥ ४८ ॥
पट्टिका चाज्यभृच्चेति श्रीकरे स्याद् यथाक्रमम् । एकस्मिन्नेव
सार्धांशाज्जगत्यर्धेन कम्पकम् ॥ ४९ ॥
पट्टिकाधः स्ववेदांसात् सकम्पा पुष्टिवर्धने । पीठादये
षोडशांशे खुरं द्व्यंशमथार्धतः ॥ ५० ॥
क्षेपणं सार्धवेदांशैः पद्ममर्धेन कम्पकम् । धृगर्धं
वज्रमेकं स्यादूर्ध्वाब्जं वेदभागतः ॥ ५१ ॥
अर्धं क्षेपणमंशौ द्वौ पट्टिकार्धेन चाज्यभृत् ।
सामान्यं नागरादीनां सौम्यं पीठमुदीरितम् ॥ ५२ ॥
द्वादशपीठानि ।
सर्वेषामेव पीठानामङ्गप्रवेशनिर्गमबहुलतुल्यं
त्रिपादमर्धं वा शोभाबलवशादेव युञ्जीतेति पराशरः ।
पीठव्यासात् त्रिवेदांशं नालमूलस्य विस्तृतिः ।
आयामस्तत्समस्तस्मात् त्रिचतुर्भागहाअपनात् ॥ ५३ ॥
कुर्यान्नालाग्रविस्तारमुन्नताग्रमनातुरम् । नालव्यासस्य
रामांशात् खातं व्याससमोन्नतिः ॥ ५४ ॥
पीठमन्ये तु कौबेर्यां नालमित्थं प्रयोजयेत् ।
स्यादूर्ध्वपट्टबहुलं समं पादाधिकं तु वा ॥ ५५ ॥
अर्ध्यर्धं वाज्यभृद्व्यासो मूलखातं च तत्समम् । आलिङ्ग्य
मूलपर्यन्तं तत्क्रमेणोन्नतं भवेत् ॥ ५६ ॥
पीठोपलं त्वैकभागेऽप्येकमेवोर्ध्वमण्डनम् ।
अधोमण्डनमेकं वा स्यान्नैकं चोपपत्तितः ॥ ५७ ॥
तत्र मध्यं विना कोणं सन्धयेत् सुन्दरं यथा ।
उपर्यङ्गावसानं तदूर्ध्वसन्तानमाचरेत् ॥ ५८ ॥
चतुर्दश प्रकाराणि पीठानीत्यब्रवीन्मयः ।
वेदर्तुवसुसूर्याश्रैः षोडशाश्रं च वर्तुलम् ॥ ५९ ॥
एतेषां चायतैः षड्भिस्त्र्यश्रं चार्धेन्दुसन्निभम् ।
एतच्चतुर्दश । अपिच मयः -
भद्रपीठं च पद्मं च वज्रपीठं महाम्बुजम् । श्रीकरं
पीठपद्मं च महावज्रं च सौम्यकम् ॥
श्रीकाम्यं चेति नवधा पीठानि प्रभवन्ति हि ॥
तद्यथा -
पीठोत्सेधे त्रिपञ्चांशे जन्मद्व्यंशं युगांशकैः ॥ ६० ॥
वप्रं पद्मं तु सार्धेन धृगर्धं द्व्यंशतो घटः । अर्धं
क्षेपणमध्यर्धं कण्ठोऽर्धं क्षेपणं पुनः ॥ ६१ ॥
द्व्यंशं पट्टं तु घृतभृदर्धं स्याद् भद्रपीठके ।
सर्वलिङ्गसामान्यमेतत् ।
द्व्यष्टांशपीठोन्नतिदस्रबाणद्विवेददस्रेन्दुभिरेव पट्टम् ।
अब्जं च वृत्तं सुदलं च पट्टमाधारभृत् स्यादिति
पद्मपीठम् ॥ ६२ ॥
पीठतुङ्गे तु मन्वंशे सार्धं जन्मार्धतोऽवटम् ॥ ६३ ॥
सर्धत्रिभागं पद्मं स्यादर्धाभ्यां पट्टनिम्नके । भागो
वज्रं निम्नमर्धं कम्पोऽर्धं त्रिभिरम्बुजम् ॥ ६४ ॥
निम्नमर्धं ततोऽध्यर्धात् पट्टिकार्धेन चाज्यभृत् ।
वज्रपद्माह्वयं पीठं सर्वलिङ्गसमं भवेत् ॥ ६५ ॥
धृत्यंशे पीठतुङ्गे तु द्व्यर्धं जन्माथ पङ्कजम् ।
चतुर्भिः पट्टमर्धं स्यादर्धं निम्नं तु सार्धतः ॥ ६६ ॥
पद्मं द्व्यर्धेन वृत्तं स्यादर्धार्धेऽब्जं च निम्नकम् ।
त्रिभिरूर्ध्वाम्बुजं पट्टमर्धमध्यर्धमम्बुजम् ॥ ६७ ॥
श्रीपट्टस्नेहभृच्चार्धं महापद्माह्वयं भवेत् ।
मानुषार्षलिङ्गानां समानमेतत् ।
पीठोत्सेधे षोडशांशे चन्द्राग्निश्रुतिसङ्ख्यया ॥ ६८ ॥
जन्मवप्रं च पद्मं च धृगर्धं द्व्यंशवर्तुलम् । अर्धं
धृक् पङ्कजं त्र्यंशं पट्टिका सार्धभागिका ॥ ६९ ॥
घृतवार्यर्धतः खातं तावत् त्र्यंशं तु नालकम् ।
तद्व्यासनिर्गमौ त्र्यंशौ तथाग्रं श्रीकरं स्मृतम् ॥ ७० ॥
पङ्क्त्यंशोच्चे सार्धमर्धद्वयार्धं त्रीण्यर्धानि द्व्यर्धके
स्यात् खुरं च । निम्नं पद्मं पट्टनिम्ने च पट्टमब्जं
निम्नं पट्टनिम्नेऽब्जपीठे ॥ ७१ ॥
त्रिपञ्चांशे तु पीठोच्चे दध्यर्धाभ्यर्धकेन्दुभिः ।
अर्ध्यर्धेन्द्वर्धसार्धाश्विभागैरध्यर्धकार्धकैः ॥ ७२ ॥
जन्मनिम्नाब्जपट्टानि घृग्वज्रं धृगतः परम् ।
क्षेपणाम्भोजपट्टानि निम्नं चेति यथाक्रमम् ॥ ७३ ॥
महावज्रं तु पीठं तद् वृत्तवज्रेण सौम्यकम् । पीठोत्सेधे
तु सूर्यांशे चन्द्रनेत्रार्धभागतः ॥ ७४ ॥
सार्धार्धाधैंश्च सार्धेन तथार्धार्धार्धकार्धकैः ।
अध्यर्धेन तथार्धेन जन्मपद्मकनिम्नकम् ॥ ७५ ॥
अब्जं धृक् च दलं वृत्तं पद्मं धृक् कमलं ततः ।
पट्टिकानिम्नकं पट्टं श्रीकाम्ये तु क्रमाद् भवेत् ॥ ७६ ॥
अत्र
धाम्नि प्रोक्तान्यप्यधिष्ठानकानि तान्यप्यस्मिन् मण्डनीयानि
युक्त्या ।
इति मयः ।
यथाबलं यथाशोभं यथायुक्ति प्रवेशनम् । निर्गमं चापि
पीठानामङ्गानां परिकल्पयेत् ॥ ७७ ॥
पीठव्यास(स्य) त्र्यंशैकं वेदांशैकमथापि वा ।
स्यान्निर्गमः प्रणालस्य मूलव्यासं च तत्समम् ॥ ७८ ॥
मूलादर्धं त्रिभागं वा प्रणालाग्रविशालता ।
गजौष्ठाकारमथवा गोमुखाभं च तद् भवेत् ॥ ७९ ॥
मूलाग्रविपुलं त्र्यंशव्यासं तत्खातनिम्नकम् ।
इष्टदिङ्मुखलिङ्गानां प्रणालं पीठमध्यतः ॥ ८० ॥
वामभागे तु तत् कुर्यात् साधारं वा यथारुचि । अग्रपट्टस्य
विस्तारं सोच्चतुल्यं प्रकल्पयेत् ॥ ८१ ॥
सपादं वाथवा सार्धं सत्रिपादमथापि वा । यथाबलं तत्
पट्टस्य समं खातं तु मूलतः ॥ ८२ ॥
क्रमेणोन्नतिमल्लिङ्गसङ्गमात् तत् प्रकल्पयेत् । ज्यामुखं
त्वर्धचन्द्राख्ये पीठे स्याद् द्वारसम्मुखम् ॥ ८३ ॥
न द्वारसम्मुखं कोणं कुर्यात् पीठे त्रिकोणके । द्वारसूत्रस्य
पीठाश्रं वेधसं न प्रशस्यते ॥ ८४ ॥
शिवभागं त्वधः पीठात् किञ्चिदप्यवलम्बितम् । उन्नतोऽपि च
दोषाय स्यात् तत् परिहरेत् ततः ॥ ८५ ॥
निस्सन्धिकं भवेत् पीठं प्रशस्तं शिलयैकया ।
तदलाभेऽप्येकयैब प्रकुर्यादूर्ध्वमण्डनम् ॥ ८६ ॥
उपर्युपरि पीठानां सन्धिरङ्गावसानके । नालमध्ये तथा
मध्ये कर्णे सन्धिर्न शस्यते ॥ ८६ ॥
युञ्जीयाद् दक्षिणे वामे दीर्घादीर्घं यथाक्रमम् ।
त्रिखण्डं नैकखण्डं वा युक्त्या कुर्यादधोगतम् ॥ ८७ ॥
लिङ्गायामसमव्यासा श्रेष्ठा ब्रह्मशिला स्मृता ।
पूजांशद्विगुणा नीचा तयोर्मध्येऽष्टभागिके ॥ ८८ ॥
प्राग्वन्नवप्रकाराः स्युः क्रमाद् ब्रह्मशिलाः शुभाः ।
स्वव्यासार्धोन्नता मुख्या नीचा वेदांशतो घनाः ॥ ८९ ॥
तयोर्मध्येऽष्टधा भक्ते घनाद् ब्रह्मशिला नव । अथवा
लिङ्गविष्कम्भाच्छ्रेष्ठा स्याद् द्विगुणा घनात् ॥ ९० ॥
विस्ताराध्यर्धतो नीचा भवेद् ब्रह्मशीला क्वचित् । खातं
ब्रह्मशीलामध्ये ब्रह्मभागोपमं भवेत् ॥ ९१ ॥
प्रविशेद् ब्रह्मभागस्तु नीरन्ध्रं च यथा भवेत् ।
रत्नन्यासान्वितंश्लिष्टं लिङ्गमूलेन तद् भवेत् ॥ ९२ ॥
नन्द्यावर्तसमाकाराश्चतस्रस्तु शिलाः क्रमात् ।
पीठब्रह्मात्मनोर्मध्ये प्रादक्षिण्येन योजयेत् ॥ ९३ ॥
स्थानासनविभागेन प्रतिमानां परेपरे ।
एकद्वित्रिचतुःपञ्चषण्मात्रं वाधिकं ततः ॥ ९४ ॥
आसनानां स्वविस्तारादष्टभागाधिकायतिः । द्विगुणान्तं
निजायामा मण्डनं पिण्डिकास्विव ॥ ९५ ॥
रामवेदेषुभागोच्चे बैरदैर्घ्ये क्रमेण तु । विष्टरस्योदयः
प्रोक्तः शयने वासने स्थिते ॥ ९६ ॥
यथोचितं तथा दैर्घ्यं व्यासश्च शयने स्मृतः ।
ब्रह्मविष्णुशिवानां च (शौ? गौ)र्यादीनां तथासनम् ॥ ९७ ॥
सोपपीठं गुहाङ्घ्रिस्थसिंहसिंहासनं स्मृतम् ।
दैवार्षकाणां बाणानां लिङ्गानां च स्वयम्भुवाम् ॥९८ ॥
प्रासादरूपं पीठं वा यथेष्टं कारयेद् बुधः ।
अथ नागरादित्रयाणां पादशिलालक्षणमुच्यते -
द्विगुणं लिङ्गविस्ताराद् विस्तृतं वेदभागतः ॥ ९९ ॥
तुङ्गं व्यासत्रिपादांशाद् भवेल्लिङ्गे तु नागरे ।
गर्भकर्णचतुर्थांशव्यासा श्रेष्ठायतस्य तु ॥ १०० ॥
व्यासार्धार्धविहीना स्यान्नीचा मध्येऽष्टधा तयोः । भक्ते
तु नवधा ब्रह्मशिलाः स्युर्द्राविडे शिवे ॥ १०१ ॥
व्यासार्धं तत्त्रिपादोनं तयोर्मध्येऽष्टभाजिते । तुङ्गं
ब्रह्मशिलायाः स्यान्नवधा द्राविडाह्वये ॥ १०२ ॥
अथ गर्भगृहार्धेन त्रिचतुर्भागविस्तृता ।
व्यासार्धवेदभागोच्चा प्राग्वन्मध्येऽष्टभाजिते ॥ १०३ ॥
नव ब्रह्मशिलाः प्रोक्ता लिङ्गब्रह्मांशतोऽवटम् ।
द्वियवाधिकविस्तारं विस्ताराष्टांशतः स्मृतम् ॥ १०४ ॥
मूलेऽवटाभं रत्नाढ्यं वैसरव्यापि तद् भवेत् । इत्थमसौ
पीठविधिर्नैकविधो लक्षणतः । प्रोक्त्
इहालङ्करणैस्त्वाष्ट्रविदां प्रीतिकरः ॥ १०५ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
क्रियापादे पीठविधिलक्षणपटल एकोनचत्वारिंशः ।