अथाष्टात्रिंशः पटलः ।
अथ लिङ्गं स्थूलमूलं स्थूलमध्यं कृशं तथा । आर्षं
स्थूलशिरस्कं च चतुर्धेति मयोदितम् ॥ १ ॥
लिङ्गव्यासेऽष्टधा भक्ते मूले मध्याग्रयोरपि । भागाधिकं
च हीनं च स्थूलमूलादिकं स्मृतम् ॥ २ ॥
वेदाश्रौ ब्रह्मविष्ण्वंशौ लिङ्गेष्वार्षेषु सम्मतौ ।
शिवांशो वृत्त एव स्याच्छिरसो वा न वर्तनम् ॥ ३ ॥
अथ स्वयम्भुलिङ्गानि जर्झराणि कृशानि च । ह्रस्वानि
चातिदीर्घाणि फलकासदृशानि च ॥ ४ ॥
अनेकाग्राणिं गोकर्णमातुलुङ्गनिभान्यपि ।
षट्पञ्चत्रिदशाग्राणि मानोन्मानादिभिर्विना ॥ ५ ॥
शृङ्गाग्राण्यपि वक्राणि नानावर्णाकृतीनि च ।
सपीठान्यप्यपीठानि सालयान्यगृहाणि वा ॥ ६ ॥
वनपर्वतनद्यब्धितीर्थक्षेत्रगतान्यपि ।
दर्शनस्पर्शनार्चाभिरेषां सिद्धिरनुत्तमा ॥ ७ ॥
विद्यात् स्वयम्भुलिङ्गानि येषु नित्यं स्थितः शिवः । मूलं न
शोधयेत् तेषां शोधनं सर्वनाशकृत् ॥ ८ ॥
अमीमांस्यानि तान्याहुः पूज्यान्येव यथास्थिति । नैषां
मूर्तिविभागोऽस्ति न च स्यान्मन्त्रसङ्करः ॥ ९ ॥
मानुषेष्वेव लिङ्गेषु मन्त्रमूर्त्यादिसङ्करः ।
अत्र मयः ।
आस्थापनमपि लिङ्गं पूजाभागेन पीठभागसमम् । वृत्तं
वाथ सधारं पूजाभाग तु पूजयेन्मुक्त्यै ॥
इति ।
बाणलिङ्गं तु यत् सर्वं यथाजातं निधापयेत् ॥ १० ॥
स्वोच्चार्धं वाथ रामांशं पञ्चांशं वा द्विभागिकम् ।
पीठे सलक्षणे शैले सौधे वा स्थापयेच्छुभे ॥ ११ ॥
अत्र योगशिवीये -
कोट्यस्तिस्रस्तु लिङ्गाद्रौ तिस्रः श्रीपर्वते स्थिताः । तिस्रश्च
कालिकागर्ते तिस्रश्चाप्यमरेश्वरे ॥
कन्यातीर्थे महेन्द्रादौ नेपाले कन्यकाश्रमे । एष्वेकैका स्थिता
कोटिरेवं कोट्यस्तु षोडश ॥
सपीठं वाप्यपीठंवा सर्वप्रासादपीठगम् ।
सर्वसङ्करहीनं तत् सर्वेषां भुक्तिमुक्तिदम् ॥
पूजयेद् बाणलिङ्गं तत् प्रतिष्ठाप्य विधानतः । अन्यान्यपि च
लिङ्गानि नद्यब्धिगिरिजान्यपि ॥
अकृतानि विशिष्टानि पूज्यान्येव हि बाणवत् । लिङ्गमूर्ध्नि
क्षतं स्याच्चेद्राज्ञः कर्तुश्च नाशनम् ॥
छिद्रं भार्यां सुतं शङ्खे वक्त्रे हन्याच्च शिल्पिनम् । मध्ये
दुःखं च दुर्भिक्षं कोटरे वृष्टिनाशनम् ॥
अत्यायतं चातिह्रस्वं कृशं स्थूलं नृपान्तकृत् ।
अथ लक्षणोद्धार उच्यते -
पर्याप्तकर्म यल्लिङ्ग शाणाभिर्वालुकादिभिः ।
गोबालरज्जुभिश्चैव घर्षयेन्निर्व्रणं समम् ॥ १२ ॥
मुकुरोदरवच्छलक्ष्णं दृश्यच्छायं सुवर्तुलम् । ततः
शुद्धाम्बुगोक्षीरनालिकेरेक्षुवारिभिः ॥ १३ ॥
प्रक्षाल्य तीर्थतोयैश्च प्रोक्तचिह्नानि लक्षयेत् । रजः
सर्षपमात्रं चेद् यत्र स्युः स्वर्णबिन्दवः ॥ १४ ॥
लिङ्गे वा पिण्डिकायां वा सर्ववर्णहितावहाः । अल्पदोषमपि
त्याज्यं लिङ्गं पीठं च तद् भवेत् ॥ १५ ॥
निर्दोषमन्यत् सम्पाद्य लक्षणोद्धारमाचरेत् ।
तिथिनक्षत्रकरणमुहूर्तादौ गुणान्विते ॥ १६ ॥
मूलात् प्राच्यामुदीच्यां वा कृत्वा वेदाश्रमण्डपम् ।
सवितानं चतुर्द्वारं प्रदीपाद्यैरलङ्कृतम् ॥ १७ ॥
तन्मध्ये स्थण्डिलं कृत्वा शालिभिः शुक्लतण्डुलैः ।
सितवस्त्रयुगास्तीर्णे तस्मिल्लिङ्गं तु शाययेत् ॥ १८ ॥
आचार्यः स्थपतिश्चोभौ सुस्नातौ समलङ्कृतौ । प्राक्छिरस्कं
तु तल्लिङ्गं नमस्कृत्याभिपूज्य च ॥ १९ ॥
ध्यात्वा तस्मिञ्च्छिवं सूक्ष्ममनेनाभिप्रसादयेत् । अज्ञानाद् वा
मया ज्ञानात् त्वयि यद् दुरनुष्ठितम् ॥ २० ॥
तत् सर्वमिह सर्वात्मन् ! क्षन्तुमर्हसि शङ्कर ! । इत्यनुज्ञाप्य
देवेशं लिङ्गे लक्षणमुद्धरेत् ॥ २१ ॥
आचार्यः प्रथमं तत्र नेत्रमन्त्रमनुस्मरन् । लिखेन्मध्ये
ब्रह्मसूत्रं पार्श्वसूत्रे शिवास्त्रतः ॥ २२ ॥
ततः सुवर्णशस्त्रेण स्थपतिर्लघुहस्तवान् । लघुशस्त्रेण च
समं सूत्राण्यालम्बयेत् स्फुटम् ॥ २३ ॥
मध्वाज्यदुग्धैः सहितैर्विलिख्याहतवाससा । आच्चाद्य तु
सवत्सां गां द्विजं स्वर्णं च कन्यकाम् ॥ २४ ॥
दर्शयेद् धान्यराशिं च गन्धाद्यैश्चाभिपूजयेत् ।
अत्र मयः -
प्रथमे नागरलिङ्गे षोडशभागीकृते शिवायामे ।
षड्भूतवेदभागांस्त्यक्तोर्ध्वे कन्यसाद्युदयम् ॥
एवं त्रिकमुत्सेधं बुद्ध्वाथ त्र्यंशकात् तु सर्वेषाम् ।
विष्ण्वंसाभिमुखे द्वे सूत्रे संलम्बयेत् पार्श्वे ॥
पृष्ठे तयोर्युतिः स्याद्धीने वेदाग्निदस्रेषु । मध्ये
भूतवनानलपाशेषु युतिस्तयोः पृष्ठे ॥
ज्येष्ठे षड्भूतवनानलपाशेषूदिता तु युतिः । तेषु
ग्रीवैकांशं त्रिद्व्यंशं सूत्रविष्कम्भम् ॥
यावदधो विष्ण्वंशः प्रोक्तोत्सेधे नयेत् तु समम् । एवं
नागरलिङ्गे सूत्रं सम्यङ्मयेनोक्तम् ॥
इति ।
पादोनभागमर्धं वा ब्रह्मसूत्रविशालता ॥ २५ ॥
भवेद् विष्ण्वंशपर्यन्तं ब्रह्मसूत्रस्य तु स्थितिः । तदर्धं
पार्श्वसूत्रस्य रेखा मध्ययवा भवेत् ॥ २६ ॥
तथा द्राविडलिङ्गोच्चे त्रिपञ्चांशे क्रमेण तु ।
नन्ददिग्रुद्रभागोच्चं हीनाद्युच्चमिहोदितम् ॥ २७ ॥
सप्ताष्टनवभागेभ्यः क्रमात् सूत्रे तु लम्बयेत् । नीचे
युगाग्निद्वितये मध्ये बाणयुनाग्निषु ॥ २८ ॥
द्वयोश्चाथोत्तमे लिङ्गे रसेषु श्रुतिवह्निषु । युतिः स्याद्
द्राविडे सूत्रव्यासः स्वांशार्धतः समः ॥ २९ ॥
तदर्धं पक्षसूत्रस्य व्यासोऽगाधश्च पूर्ववत् ।
द्राविडस्यान्यः प्रकार उच्यते -
षोडशांशे शिवायामे सूत्रायामो दशांशतः ॥ ३० ॥
ऊर्ध्वांशस्तु चतुर्भागः स्यादधश्च द्विभागिकः ।
मुकुलाकारमारभ्य पार्श्वसूत्रद्वयं क्रमात् ॥ ३१ ॥
द्व्यंशं विहाय पृष्ठे तु युतिरुक्ता तु सूत्रयोः । अथवा
षोडशांशेऽधो भागं वेदांशमूर्ध्वतः ॥ ३२ ॥
त्यक्त्वा सूत्रं तु रुद्रांशैरुच्चं प्राग्वद् युतिः स्मृता ।
इत्थं द्राविडलिङ्गस्य लक्षणोद्धारणं स्मृतम् ॥ ३३ ॥
अथ वेसरलिङ्गस्य त्रिपञ्चांशे शिवोच्छ्रये । नालायामो
दशांशः स्याद् वस्वंशप्रभृति क्रमात् ॥ ३४ ॥
सूत्रयोर्लम्बनं कुर्याद् भूतवेदगुणांशकैः ।
तयोर्युतिर्भवेच्छ्रेष्ठे विष्कम्भः षोडशांशतः ॥ ३५ ॥
मध्येऽंशे वसुभागोच्चे वेदांशैर्नालमुन्नतम् । ऊर्ध्वं
त्रयोऽंशाश्चाधोंशा गुणभागात् प्रभृत्यधः ॥ ३६ ॥
सूत्रे तु लम्बयेत् त्रिद्विभागेषु स्यात् तयोर्युतिः । गृहीतांशे
त्रिधा भक्ते व्यासो भागद्वयेन तु ॥ ३७ ॥
एवं मध्यममुक्तं स्याल्लिङ्गे वेसरसञ्ज्ञिते ।
कनिष्ठवेसरस्याथ द्वादशांशे शिवोच्छ्रये ॥ ३८ ॥
अधोंशमंशानूर्ध्वे तु सूत्रायामो नवांशतः । सङ्गमः
पूर्ववज्ज्ञेयो व्यासे वै षोडशांशके ॥ ३९ ॥
भागेन सूत्रव्यासः स्यात् तदर्धं पक्षसूत्रयोः ।
कनिष्ठवेसरस्यैवं लक्षणोद्धरणं स्मृतम् ॥ ४० ॥
अत्र मयः -
आत्तांशे नवभागे भागेन व्यासगम्भीरा । रेखा[क्; ख्: खा
स्यात् क]प्यकर्कशोक्ता सर्वेषामेव लिङ्गानाम् ॥
अष्टौ यवान् गृहीत्वा नवधा विभजेत् समं दृढधीः ।
एकांशेनैककरोत्तुङ्गे लिङ्गे विधातव्या ॥
एकैकभागवृद्ध्या नवहस्तान्ते तु लिङ्गे तु ।
अष्टयवान्तरगाढा सा रेखा सम्यगुद्दिष्टा ॥
अर्धयवेनाप्युदिता रेखार्धयवेन पूर्ववद् वृद्धिः ।
सार्धचतुर्यवतारावनतिः श्रेष्ठे तु लिङ्गे स्यात् ॥
मध्यमसूत्रव्यासादर्धततिः पक्षयोस्तु पृथक् । सर्वासां
रेखाणां व्यासावनती समे स्याताम् ॥
इति ।
सामान्यं नागरादीनां सूत्रलक्षणमुच्यते । शिवायामे तु
धृत्यंशे वेदांशानुपरि त्यजेत् ॥ ४१ ॥
एकादशांशैर्नालं स्यान्मुकुलं त्वेकभागतः । अधो
द्व्यंशं तथा पृष्ठे भागाभ्यां तु युतिर्भवेत् ॥ ४२ ॥
अथवा षोडशांशोच्चे प्राग्वदूर्ध्वमधस्तथा । साग्रं
नालं दशांशैः स्यादष्टांशैः पार्श्वयोर्युतिः ॥ ४३ ॥
पञ्चषट्सप्तभागे तु प्राग्वत् पृष्ठे युतिर्भवेत् ।
अविच्छिन्नमतिस्निग्धमजर्झरमनाकुलम् ॥ ४४ ॥
लक्षणोद्धारणं कुर्याद् विपरीतं विवर्जयेत् । सूत्रेण
भस्मना पूर्वमास्फाल्य मुकुलं ततः ॥ ४५ ॥
विलिख्य घटिकाग्रेण पार्श्वं सूत्रे लिखेत् ततः ।
अथ सूत्राग्रलक्षणमुच्यते -
छत्राभमस्तके लिङ्गे सूत्राग्रं स्याद् गजाक्षवत् ॥ ४६ ॥
खण्डेन्दुमस्तके लिङ्गे सूत्राग्रं बुद्बुदोपमम् । लिङ्गाग्रे
त्रपुषाभे तु सूत्राग्रं कुक्कुटाण्डवत् ॥ ४७ ॥
कुक्कुटाण्डशिरोलिङ्गे सूत्राग्रं छत्रसन्निभम् । सामान्येन तु
लिङ्गानां सूत्राग्रमथ कथ्यते ॥ ४८ ॥
कदलीमुकुलाभं वा सरोजमुकुलाकृति । अश्वत्थपत्रसदृशं
सामान्यं हि यवोपमम् ॥ ४९ ॥
अत्यष्ट्यंशे लिङ्गनाहे भागं त्रेधा विभज्य तु ।
मध्यसूत्रततिद्व्यंशस्तदर्धं पक्षसूत्रयोः ॥ ५० ॥
लक्षणोद्धाराधिकारः ।
गृहीतोत्सेधमानं तु मानङ्गुलविभाजिते ।
वृद्धावङ्गुलिविच्छेदं परिहृत्याङ्गुलिं पुनः ॥ ५१ ॥
वर्धयित्वा तु वसुभिर्हरेन्नक्षत्रसङ्ख्यया । अश्विन्यादीनि
भानि स्युः शिष्टान्यत्र यथाक्रमम् ॥ ५२ ॥
तस्मिंश्चतुर्गुणे नन्दैर्हृत्वांशास्तस्करादिकाः । तस्करो
भोजनं शक्तिर्धनं राजा नपुंसकम् ॥ ५३ ॥
विपद् विषं समृद्धिश्चाप्यंशकाः स्युर्नव क्रमात् । तस्करश्च
विपत् षण्ढो विपन्निन्द्याः परे शुभाः ॥ ५४ ॥
लिङ्गोच्चे वसुनन्दाग्निगणेऽर्काशाष्टभिर्हरेत् । शिष्टं
धनमृणं चैव योनिश्च स्याद् यथाक्रमम् ॥ ५५ ॥
धनाधिकं च क्षीणार्णं कर्तुभर्तृहितावहम् ।
ध्वजसिंहवृषेभाश्चेच्छुभाश्चान्ये ह्यशोभनाः ॥ ५६ ॥
शिवतुङ्गे नवगुणे वाराः स्युर्मुनिभिर्हृते । सूर्याद्यास्तेषु
शुभदाः शुभाः क्रूरास्त्वशोभनाः ॥ ५७ ॥
ग्रामादीनां तथा कर्तुर्नक्षत्रेणाविरोधि यत् । लिङ्गं
राज्ञश्च देशस्य तदुक्तं सम्पदां पदम् ॥ ५८ ॥
आर्षाणि लिङ्गानि च लक्षणैः स्वैः
स्वायम्भुवान्यप्यनुकीर्तितानि । पूर्वोदितानामिह मानुषाणां
तल्लक्षणोद्धारविधिश्च गीतः ॥ ५९ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
क्रियापादे आर्षादिलिङ्गलक्षणपटलोऽष्ठात्रिंशः ।