३६

अथ षट्त्रिंशः पटलः ।

अथ लिङ्गं त्रिधा ज्ञेयं निष्कलं सकलं तथा । मिश्रं
चेति च तल्लिङ्गमचलं च चलं द्विधा ॥ १ ॥

निष्कलं केवलं लिङ्गं सकलं प्रतिमा स्मृता । मिश्राख्यं
मुखलिङ्गं स्यान्मिश्रलक्षणलक्षितम् ॥ २ ॥

शैलं रात्नं तथा लौहं दारवं मार्त्तिकं पुनः ।
क्षणिकं चेति षोढा स्यात् क्रमाल्लिङ्गं तु निष्कलम् ॥ ३ ॥

ब्राह्मणक्षत्रविट्छूद्रशिलाः स्युर्धवलारुणाः । पीताः
कृष्णाश्च लिङ्गानि कुर्यात् ताभिर्यथाक्रमम् ॥ ४ ॥

सर्वेषामथवा सर्वाः शिलाः स्युरिति केचन । मुक्तिं जयं
धनं धान्यं दद्युः शुक्लादिकाः शिलाः ॥ ५ ॥

स्फटिकः पद्मरागश्च वज्रं नीलं हिरण्मयम् । वैडूर्यं
विद्रुमं पुष्यं रत्नलिङ्गं तथाष्टधा ॥ ६ ॥

स्फटिकः सूर्यकान्तश्च चन्द्रकान्त इति त्रिधा । स्फटिकस्यैव
भेदाः स्युः काममोक्षार्थदाः क्रमात् ॥ ७ ॥

श्रियं कामांस्तथारोग्यमृद्धिं पुत्राञ्जयं सुखम् । लभते
पद्मरागादिलिङ्गानां क्रमशोऽर्चनात् ॥ ८ ॥

रत्नानामिह सर्वेषां दोषाः सामान्यतो नव । रेखा बिन्दुः
कलङ्कश्च काकाङ्घ्रिक्षतधूलयः ॥ ९ ॥

तुषारत्रासरन्ध्राणि यत्नाद् रत्नेषु वर्जयेत् । सौवर्णं
राजतं ताम्रं पैत्तलं कांस्यमायसम् ॥ १०॥

सैसकं त्रापुषं चेति लौहं लिङ्गं तदष्टधा ।
भुक्तिमुक्तिप्रदं हैमं लिङ्गं रौप्यं तु पुष्टिदम् ॥ ११ ॥

शौल्बं पुत्रप्रदं कांस्यं सौख्यदं त्वथ पैत्तलम् ।
आयुरारोग्यदं विद्यादायसं मरणं स्मृतम् ॥ १२ ॥

सैसकं त्रापुषं चापि विद्वेषोच्चाटमारणे । मुख्यलोहानि
चत्वारि हेमादीनि शुभानि हि ॥ १३ ॥

पिशाचलोहान्यन्यानि कांस्यादीनि विवर्जयेत् । चन्दनं
देवदारुश्च शमीपिप्पलशिंशपाः ॥ १४ ॥

खदिरासनमालूरमधूकबकुलास्तथा । पद्मकः कर्णिकारश्च
विप्रादीनां त्र्यस्त्रयः ॥ १५ ॥

क्रमाद् दारवलिङ्गानां विज्ञेयास्तरवः शुभाः ।
तीर्थक्षेत्राचलारामपुण्यदेशोद्भवां मृदम् ॥ १६ ॥

शुक्लां रक्तां तथा पीतां कृष्णां वादाय चूर्णयेत् ।
यवगोधूममाषाणां चूर्णानां गुग्गुलोरपि ॥ १७ ॥

लाक्षाश्रीवेष्टकश्यामास[क्: मान स]र्जानां तु
समांशकैः । कुन्दरुष्कस्य चांशेन मृच्चूर्णं सर्वतः
समम् ॥ १८ ॥

कपिलापञ्चगव्येन सतैलेन तु मर्दयेत् । तां मृदं मृदितां
पक्षं मासमात्रोषितं पुनः ॥ १९ ॥

आदाय लिङ्गं कुर्वीत सपीठं स्वेष्टमानतः । मासं तु
शोषयेद् धर्मे लिङ्गमामं तु मार्त्तिकम् ॥ २० ॥

अथवा केवलां मृत्स्नाङ्कर्मयोग्यां विचूर्णिताम् । मर्दितां
पञ्चगव्याद्भिर्मासमात्रं तथोषिताम् ॥ २१ ॥

गृहीत्वा कारयेल्लिङ्गं सपीठं लक्षणान्वितम् । विपचेत्
कुशलैरग्नौ पक्वं लिङ्गं तु तद् भवेत् ॥ २२ ॥

सैकतं गोमयं पैष्टमाम्लं गौलं तथा फलम् । नावनीतं
च लिङ्गानि सप्तैव क्षणिकानि तु ॥ २३ ॥

मोक्षारोग्यधनान्नाद्यपुष्टिश्रीवश्यदानि तु । भवन्ति
क्षणलिङ्गानि यजतां प्रतिवासरम् ॥ २४ ॥

नैतेषां पिण्डिका कार्या कुर्याल्लिङ्गं तदासने । नैषां
त्रिखण्डं मानं वा न शिरोवर्तनादिकम् ॥ २५ ॥

नैषां कालमुहूर्ताद्यं नाधिवासादिकाः क्रियाः । निर्माय
सद्यस्तल्लिङ्गे शिवमावाह्य पूजयेत् ॥ २६ ॥

विसृज्य निरपेक्षं तल्लिङ्गमप्सु विनिक्षिपेत् ।

क्षणिकलिङ्गविधिः ।

स्वयोनिः पिण्डिकैव स्याच्छैलादीनामदूषणा ॥ २७॥

अभावे त्वैष्टकी शैले रत्नजानां हिरण्मयी । राजती
ताम्रजा वा स्याच्छ्रेष्ठमध्याधमक्रमात् ॥ २८ ॥

स्वलोहैरेव लोहानामिष्टकाभिश्च दारवे ।

लिङ्गपीठोपादानाधिकारः ।

उत्तरायणसंस्थेऽर्के शुक्लपक्षे गुणान्विते ॥ २९ ॥

तिथौ वारे च नक्षत्रे शिलादेर्ग्रहणं स्मृतम् । भोजयित्वा
द्विजानग्रे वाचयित्वाशिषस्ततः ॥ ३० ॥

साङ्गं सम्पूज्य देवेशमस्त्रयागं विधाय च । व्रजेत्
प्राचीमुदीचीं वा निमित्तान्युपलक्षयन् ॥ ३१ ॥

ज्वलदग्निप्रदीपेभवृषा वेश्याश्च कन्यकाः ।
पुष्पान्नपूर्णकुम्भाज्यशङ्खक्षीरदधीनि च ॥ ३२ ॥

व्रीहयः शालयो मांसं मधुच्छत्रं च चामरम् ।
मङ्गल्ययोषितो राजा ध्वजपूर्णधनूंषि च ॥ ३३ ॥

क्षीरिणी गौस्तुरङ्गश्च दृश्येताभिमुखं यदा ।
यातुरिष्टार्थसिद्ध्यै स्यात् सुतरां तत् प्रदक्षिणम् ॥ ३४ ॥

गौलिकावायसरुतं प्रयाणे वामतः शुभम् । प्रवेशे दक्षिणे
शस्तं क्षुतं ह्यादावशोभनम् ॥ ३५ ॥

अन्यत्र पृष्ठे वामे च शस्तं नॄणां च कूजितम् । स्रोतांसि
भरटादीनां वामे शस्तं तु दक्षिणे ॥ ३६ ॥

गानं च दिशि शान्तायां पिङ्गलानां द्वयं हितम् ।
सृगालवायसव्याघ्रचकोरबकपोतकाः ॥ ३७ ॥

वामाद् दक्षिणगाः शस्ताः फणी सर्वत्र निन्दितः ।
शशकौशिकगृध्राश्च श्येनाश्च मृगडुण्डुभाः ॥ ३८ ॥

दक्षिणाद् वामगाः शस्ताः शुभा वाचः शुभप्रदाः ।
बालेयगोध्वनिर्वामे गतिर्दक्षिणतः शुभा ॥ ३९ ॥

अशनिर्दुर्दिनं वर्षं प्रतिकूलास्तथा गिरः । प्रतिशुक्रबुधौ
वात्या कलहश्चेति निन्दिताः ॥ ४० ॥

ताडनं शिरसोऽङ्गानां दक्षिणाङ्घ्रेर्विशेषतः ।
वर्णवाहनवेषाणां मनश्शस्त्रदिशामपि ॥ ४१ ॥

अप्रसादोऽथ दिग्दाहपरिवेषाः शिवारुतम् ।
प्रतिसूर्योपरागोल्काभूकम्पेन्द्रधनूंषि च ॥ ४२ ॥

वृक्षध्वजायुधच्छत्रयानभङ्गा विनिन्दिताः ।
चक्रिक्षपणनग्नाश्च मुण्डितामङ्गलाङ्गना ॥ ४३ ॥

विरास्तपस्विनो व्रात्या यतयो वामनादयः । विकला जालिकाः
सूनाः पाषण्डा दण्डपाणयः ॥ ४४ ॥

कापालिकाः काष्ठधरा मुक्तकेशाश्च दुःखिनः ।
आर्द्रवस्त्राश्च निन्द्याः स्युर्दृष्टाः प्रतिमुखागताः ॥ ४५ ॥

अशुभेषु निमित्तेषु मासं नीत्वा शुभे व्रजेत् । शिलाकरं
यदुद्दिष्टं गिरिक्षेत्रवनादिकम् ॥ ४६ ॥

हिमाद्रिविन्ध्यश्रीशैलाः पारियात्रश्च शुक्तिमान् ।
महेन्द्रसह्यमलयाः कलशो वेदपर्वतः ॥ ४७ ॥

ऋक्षः कुमारशैलश्च मुख्याः प्रोक्ताः शिलाकराः । नद्यो
गङ्गादिकाः क्षेत्राण्यमरेशादिकान्यपि ॥ ४८ ॥

आकरा मध्यमास्त्वन्ये शिलादारुपरिग्रहे । कनिष्ठाः
स्युर्यथालाभं शिलाग्रहणमारभेत् ॥ ४९ ॥

वारुण्यैन्द्री तथाग्नेयी वायवी भूश्चतुर्विधा । तद्भवाश्च
शिला ज्ञेयास्तत्तन्नामोपलक्षिताः ॥ ५० ॥

या कोमलतरुव्राता स्वतःपुष्पितकानना । जलाशयैश्च सर्वत्र
युक्ता भूर्वारुणी स्मृता ॥ ५१॥

या क्षीरवृक्षबहुला सौम्ये यस्या जलं महत् । व्रीहिक्षेत्राणि
याम्यां च सा माहेन्द्री क्षितिः स्मृता ॥ ५२ ॥

गृध्रकङ्कवराहर्क्षश्येनगोमायुवायसैः । संयुक्ता
दूरपानीया भूराग्नेयी विनिन्दिता ॥ ५३ ॥

अक्षस्नुहिकुलिङ्गाक्षपीलुश्लेष्मातकण्टकैः । युक्ता या
निर्जला भूमिरशुभा वायवी स्मृता ॥ ५४ ॥

अनलानिलभूमिष्ठाः शिला लिङ्गेषु वर्जिताः । वारुण्यामपि
माहेन्द्र्यां सम्भूताः सर्वसिद्धिदाः ॥ ५५ ॥

चण्डालपुल्कसव्याधपुलिन्दाद्यैर्विदूषिता ।
वल्मीकाहिश्मशानाढ्या निन्द्या भूरपि तच्छिला ॥ ५६ ॥

भूपरिग्रहणे पूर्वमुक्तलक्षण भूमयः । प्रशस्ताः स्युः
शिलायाश्च ग्रहणे निन्दितास्त्यजेत् ॥ ५७ ॥

प्रशस्तां भुवमासाद्य गुरुः शिल्पिभिरन्वितः ।
अन्वेषयेच्छिलां तत्र मन्त्रं चेदमुदीरयेत् ॥ ५८ ॥

ॐ त्रिणेत्राय रुद्राय भूतानां पतये नमः । शिलां दर्शय
देवेश ! प्रसन्नो वृषभध्वज ! ॥ ५९ ॥

ततः स्नात्वा सशिष्यस्तु गुरुः स्थपतिरप्यथ ।
शुक्लगन्धस्रगालेपौ भूषितौ शिल्पिभिर्वृतौ ॥ ६० ॥

शिलाप्रदेशमासाद्य भूतान्यामन्त्रयेद् गुरुः । अपक्रामन्तु
भूतानि देवताश्च सगुह्यकाः ॥ ६१ ॥

युष्मभ्यं सुबलिर्भूयाद् भूमिर्दिशतु मे शिलाम् । कर्मैतत्
साधयिष्यामि क्रियतां वासपर्ययः ॥ ६२ ॥

हूत्यामन्त्रयेत् ।

दारुग्रहणे तु सोमो दिशतु पादपानिति विशेषः । ततो
गन्धादिभिरभ्यर्च्य
पञ्चवर्णौदनैर्दधिक्षीरमधुसर्पिःफलभक्ष्यैर्मांसरुधिर
प्रति-निधिभिर्भूतक्रूरबलिभिर्भूतेभ्यो वनदेवताभ्यश्च बलिं
निर्हृत्य कृतमण्डले कलशं संस्थाप्य प्राङ्मुख उदङ्मुखो
वा भुवं खात्वा भुवि निगूढामर्करश्मिभिरस्पृष्टां
कलशजलैरभिषिच्य पञ्चगव्येन पवमानैः सम्प्रोक्ष्य
पञ्चब्रह्मभिर्निवेद्यान्तमिष्ट्वाहतवस्त्रेण
दर्भैरप्याच्छाद्योत्तरेणाग्निमाधाय हृदयेशानाघोरैः
समिदाज्यचरूनष्टोत्तरशतं हुत्वा व्याहृतिभिः स्विष्टकृतं
च परिषेचनान्तं कुर्यात् ।

अथाष्टौ कलशान् दिक्षु लोकपालाधिदैवतान् । विन्यस्येष्ट्वा
तदम्भोभिरभिषिच्य शिलां पुनः ॥ ६३ ॥

मध्वाज्यशर्करातिक्तपायसेन दिशास्वथ । बलिं प्रक्षिप्य
चाच्छाद्य पश्चिमेऽग्नौ जुहोति च ॥ ६४ ॥

शिवैकादशदिक्पालशस्त्रमन्त्रैश्चरुं घृतम् । हुत्वा
पाशुपतास्त्रेण शतं हुत्वा पुनर्घृतम् ॥ ६५ ॥

छेदनोचितशस्त्राणि संस्नाप्यास्त्रेण शाययेत् । तेनैवेष्ट्वात्र
दर्भेषु स्वपेद् रात्राविमं जपन् ॥ ६६ ॥

नमः शम्भो ! त्रिनेत्राय रुद्राय वरदाय च । शिवाय
विश्वरूपाय स्वप्नाधिपतये नमः ॥ ६७ ॥

आचक्ष्व देवदेवेश ! प्रपन्नोऽस्मि तवान्तिकम् । स्वप्ने सर्वाणि
कार्याणि हृदयस्थानि यानि वै ॥ ६८ ॥

शूलपाणये हिलि हिलि स्वाहा स्वप्नमाणवकाख्योऽयं मन्त्रः ।

ज्वलन्तीं वा शिलां पश्येत् स्वप्ने स्वां देवतां तु वा । अन्यद्
वा शोभनं ग्राह्या स्याच्छिला लिङ्गकर्मणि ॥ ६९ ॥

स्वप्नश्चेदशुभस्त्याज्या सान्या ग्राह्या शिला भवेत् । प्रातः
स्नात्वाभिपूज्येशमाचार्यः स्थपतिस्तथा ॥ ७० ॥

हेमसूच्यष्टिलाभ्यां तु च्छिन्द्यात् प्रथममस्त्रतः । अधोभागो
मुखं तस्याः पृष्ठमूर्ध्वं तु पूर्वतः ॥ ७१ ॥

उत्तरे वा शिरो घण्टाध्वनिच्छेदे स्फुलिङ्गवत् । कोणशीर्षा
शिला त्याज्या भर्तुर्दुःखकरी यतः ॥ ७२ ॥

इष्टप्रमाणां छित्वा तु चतुरश्रां समां शुभाम् ।
मुखमूलशिरःपृष्ठान्यङ्कयित्वाम्बरावृताम् ॥ ७३ ॥

दर्भैश्चाच्छाद्य तु रथे समारोप्यालयं नयेत् । शस्त्रासहा
पेलवा च शिला बाला विनिन्दिता ॥ ७४ ॥

हीनस्वरा चातिरूक्षा वृद्धा त्याज्यातिजर्झरा । नानावर्णा
रोमरेखा चण्डाली सा च वर्जिता ॥ ७५ ॥

घण्टानादा दृढा स्निग्धा युवतिः स्याच्छिलोचिता । पुंशिला
लिङ्गयोग्या स्याद् वृत्ता वृत्तायता च सा ॥ ७६ ॥

चतुरश्रा च दीर्घाश्रा स्त्रीशिला पिण्डिकोचिता । त्र्यश्रा
त्र्यश्रायता चापि षण्डा पादशिलोचिता ॥ ७७ ॥

स्त्रीशिलाकल्पिते लिङ्गे राष्ट्रं राजा न नश्यति ।
पुंल्लिङ्गपीठे च तथा लिङ्गपीठे च षण्डके ॥ ७८ ॥

स्त्रिया पुंसा च भूपीठे कृते स्याद् राष्ट्रनाशनम् । इत्थं
पादशिलापीठलिङ्गानां त्रिविधाः शिलाः ॥ ७९ ॥

रथयानादिना नीत्वा कौबेर्यां दिशि मण्डपे । शाययेद्
दारुयुगले ततो लिङ्गं तु कारयेत् ॥ ८० ॥

लिङ्गानि लोहमणिशैलजदारवाणि मार्त्स्नक्षणानि शकुनानि
निमित्तजातम् । स्त्रीपुन्नपुंसकशिलाग्रहणानि चास्मिन्
सन्दर्शितानि शिवशास्त्रनिरूपितानि ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
क्रियापादे लिङ्गविशेषपटलः षट्त्रिंशः ॥

अथ गर्भास्तु वक्ष्यन्ते त्यजेल्लिङ्गं सगर्भकम् । गर्भांस्तु
लक्षयेल्लिङ्गं सगर्भं चेत् परित्यजेत् ॥ १ ॥

तुल्यांशैः क्षीरपिष्टैस्तु विषकासीसगैरिकैः । आलिप्य
लिङ्गं निश्शेषमेकरात्रोषितं ततः ॥ २ ॥

प्रक्षाल्य गर्भान् दोषांश्च मण्डलैस्तत्र लक्षयेत् । अथवा
ब्रह्मविष्ण्वीशवैष्णवीः परिपेष्य [वेष्ट्य तु] तु ॥ ३ ॥

क्षीराज्यतुल्यमधुना विधृतेन विलेपयेत् । त्रिरात्रमुषिता
क्लिन्ना शिला यत्र तु लक्ष्यते ॥ ४ ॥

तत्र गर्भं वदेत् सर्पं गोधां वा वृश्चिकं तु वा ।
कासिसचोरौ गोक्षीरपिष्टा वालिप्य या शिला ॥ ५ ॥

त्रिरात्रमुषिता रक्ता स्याच्चेत् कूर्मोऽत्र दर्दुरः [ग्: कच्छपः]
। मांसीकुष्ठहया रात्रिं त्रिफलां वारिदाम्बुभिः ॥ ६ ॥

पिष्ट्वा स्तन्यार्दितं लिम्पेत् त्रिरात्राद् विकृतिर्यदा । गर्भं तु
कालकूटाख्यं विषं तत्र विनिर्दिशेत् ॥ ७ ॥

तस्य स्पर्शेन मृत्युः स्याद् यतोऽतस्तं न संस्पृशेत् ।
पूर्वोक्तविषकासीसगैरिकक्षीरलेपतः ॥ ८ ॥

मण्डलैर्निर्दिशेद् गर्भानेकद्वित्रिदिनोषिते ।

तद्यथा -

मञ्जिष्ठाभे मण्डले दर्दूरः स्यात् पीते गोधा कापिले
मूषिकाश्च । कृष्णे सर्पः पाण्डरे चेति केचित् कापोताभे
गौलिका वृश्चिको वा ॥ ९ ॥

रक्ते तु कृकलासः स्यात् खद्योतो मधुसन्निभे ॥ १० ॥

मिश्रे पिपीलिकागर्भः शस्त्रेऽम्भो धूसरे दृषत् । गौरे तु
विमला धूम्रे पतङ्गः सिकतास्तु वा ॥ ११ ॥

नीलपीते भवेत् कूर्मो गर्भदोषान् वदाम्यतः । भयं तोये च
मण्डूके कर्तुश्च नृपतेरपि ॥ १२ ॥

राज्य[ग्: ज]नाशस्तु गोधा चेत् सर्पे कर्तुः कुलक्षयः ।
कुलीरालिपतङ्गेषु रोगदुःखादिसम्भवः ॥ १३ ॥

विमलासु सदा चौर्यं परचक्रभयानि वा । पिपीलिकाः
प्रवासाय विमला स्थाननाशनम् ॥ १४॥

कूर्मः कुर्यात् तु दारिद्र्यं रत्नगर्भेषु सम्पदः । रेखाश्च
लक्षयेल्लिङ्गे शोभनाश्चाप्यशोभनाः ॥ १५ ॥

शिलास्त्रवर्णरेखास्तु वर्णानां क्रमशो मताः ।
इन्द्रायुधनिभाः शस्ता रेखाः शङ्खाम्बुजोपमाः ॥ १६ ॥

नानावर्णाः कृशाः स्थूला रूक्षा रेखाश्च निन्दिताः ।

अत्र मञ्जर्यां -

नन्द्यावर्तवसुन्धराधरहयश्रीवत्सकूर्मोपमाः
शङ्खस्वस्तिकहस्तिगोवृषनिभाश्चक्रेन्दुसूर्योपमाः ।
छत्रस्रग्ध्वजलिङ्गतोरणमृगप्रासादपद्मोपमा वज्राभाः
शफरोपमाश्च शुभदा रेखाः कपर्दोपमाः ॥

अग्नेश्च बीजं पवनस्य बीजं भूयः स्वराण्यत्र नपुंसकानि
। हित्वा प्रशस्ताः शुभदाः समस्ता रेखास्तु
लिङ्गेऽक्षरतुल्यरूपाः ॥

काकश्येनवृकोष्ट्रवानरनिभा मार्जारगृध्रोपमाः
सर्पोलूकसृगालकीटसदृशाः कोलाश्च भेकोपमाः ।
रेखास्तिर्यगवस्थिताश्च सकलाश्चान्याश्च दोषावहाः सन्त्यज्य
प्रतिघृह्य शोभनशिलां लिङ्गं तया कल्पयेत् ॥

आरभ्य हस्तं नवहस्तकान्तं लिङ्गं विधेयं नरदैत्यदेवैः
। हस्तादिकं पञ्चकरान्तमादौ लिङ्गं मनुष्यस्य तु
वर्णभेदात् ॥

दैत्यस्य षट्सप्तकरं तु लिङ्गं गीर्वाणलिङ्गं तु
नवाष्टहस्तम् ।

इति ।

हस्तोच्चमानादारभ्य पादवृद्धिक्रमेण तु ॥ १७ ॥

त्रिहस्तान्तं कनिष्ठादिलिङ्गानि स्युर्नवैर्बहिः ।
चतुर्हस्तायताल्लिङ्गात् प्राग्वत् पादविवर्धनात् ॥ १८ ॥

षड्ढस्तान्तं मध्यमानि लिङ्गानि नव कल्पयेत् ।
सप्तहस्तोच्चमारभ्य पादवृद्ध्या तु पूर्ववत् ॥ १९ ॥

श्रेष्ठानि नवहस्तान्तं लिङ्गानि स्युर्नव क्रमात् ।
त्रिचतुर्हस्तयोर्मध्ये प्राग्वल्लिङ्गत्रयं भवेत् ॥ २० ॥

मध्ये षट्सप्तकरयोस्तथा लिङ्गत्रयं स्मृतम् । एवं
प्रसिद्धलिङ्गानां त्रयस्त्रिंशदुदाहृतम् ॥ २१ ॥

प्रासादमानाच्च तथा वेदबाणर्तुभागतः । लिङ्गायामोऽथवा
कार्यः प्रकारोऽन्यश्च कथ्यते ॥ २२ ॥

गर्भागारे तु पञ्चांशे लिङ्गं भागत्रयोच्छ्रितम् । गर्भे वा
नवभागे स्याल्लिङ्गं पञ्चांशमायतम् ॥ २३ ॥

गर्भरामांशतोऽंशेन गर्भार्धोच्चं तु वा स्मृतम् ।

लिङ्गस्य दैर्घ्यमिति यावत् ।

तत्रैकहस्तलिङ्गस्य चतुर्हस्तं तु विस्तृतम् ॥ २४ ॥

विमानं स्यात् तथा पञ्चगुणं षड्गुणमेव वा । विस्ताराद्
द्विगुणोच्चं तु नागरं त्रिगुणं यदि ॥ २५ ॥

भूमिजाख्यं स्मृतं तस्माद् द्विगुणं शिखरं यदा । नागरं
वलभिर्नाम विमानं भवति स्फुटम् ॥ २६॥

लिङ्गायामे विकारांशे भूतवेदाग्निविस्तरम् । जयदं
पौष्टिकं सार्वकामिकं नागरे स्मृतम् ॥ २७ ॥

गर्भे त्रिसप्तभागे तु दशांशं द्राविडेऽधमम् ।
त्रयोदशांशकं मुख्यं गर्भेऽष्टांशे तु पूर्ववत् ॥ २८ ॥

त्रिसप्तांशे निजायामे षट्पञ्चचतुरंशकम् । जयदं
पौष्टिकं सार्वकामिकं द्राविडे भवेत् ॥ २९ ॥

अभिकृत्यंशके गर्भे षोडशांशं तदुत्तमम् ।
त्रयोदशांशमधमं तयोर्मध्येऽष्टभागतः ॥ ३० ॥

नवलिङ्गानि सिध्यन्ति वेसरे तानि कल्पयेत् । पञ्चपञ्चांशके
दैर्घ्ये वसुसप्तषडंशकैः ॥ ३१ ॥

विस्तारे वेसरे विद्यात् पूर्ववज्जयदादिकम् । अथ स्थिराणां
लिङ्गानां ब्रह्मविष्णवीशदैवतम् ॥ ३२ ॥

मूलं मध्यं तथैवाग्रं चतुरष्टाश्रवर्तुलम् ।
त्रिभागमेवं विज्ञेयं तेषां भेदश्च लिख्यते ॥ ३३ ॥

सर्वतोभद्रकं लिङ्गं वर्धमानं शिवाधिकम् । स्वस्तिकं च
चतुर्धा स्यात् तल्लक्ष्म पृथगुच्यते ॥ ३४ ॥

विप्राणां सर्वतोभद्रं भूभुजां वर्धमानकम् । शिवाधिकं
विशामिष्टं शूद्राणां स्वस्तिकं हितम् ॥ ३५ ॥

स्ववर्णविहितं लिङ्गं स्थाप्यं स्यादिष्टसिद्धये ।
अन्यवर्णोदितं लिङ्गमिहामुत्रार्थनाशनम् ॥ ३६ ॥

अत्र मयः -

आद्यं तत् सर्वतोभद्रं द्वितीयं वर्धमानकम् । शिवाधिकं
तृतीयं स्याच्चतुर्थं स्वस्तिकं भवेत् ॥

अथ धरणिसुराणां सर्वतोभद्रमिष्टं सुखदमवनिपानां
वृद्धिदं वर्धमानम् । धनदमिह विशां वै
शम्भुभागाधिकं य- च्छुभदमिह परेषां स्वस्तिकं
शूद्रकाणाम् ॥

परेषामपित्युक्तत्वादनुलोमप्रतिलोमादीनामपि
स्वस्तिकलिङ्गमेवेष्टमिति यावत् ।

गर्भागारे त्रिभागेऽंशः पीठं पीठे त्रिभागिके । भागेन
लिङ्गविस्तारः परिणाहस्तु तस्य यः ॥ ३७ ॥

स्याल्लिङ्गोच्चं तु तत्तुल्यं लिङ्गायामं समं त्रिधा । विभज्य
ब्रह्मविष्ण्वीशभागाः सर्वसमे मताः ॥ ३८ ॥

कांशः पादशिलायां स्याद् विष्ण्वंशः पिण्डिकासमः ।
दृश्यः शिवांशः पूज्यः स्यात् सर्वलिङ्गेष्वयं विधिः ॥ ३९

अत्र पिङ्गलामते -

सममाना भवेद् वेदी लिङ्गस्यावारिका यथा ।

इति । तद्यथा -

पूजांश एव निर्दिष्टो लिङ्गशब्देन चात्र हि ।
वेदाश्रपिण्डिकायास्तु लिङ्गे सर्वसमे त्विदम् ॥ ४० ॥

तल्लिङ्गपरिणाहस्थब्रह्मसूत्रचतुष्टये । विस्तारः सम एव
स्याच्छायादोषोऽन्यथा भवेत् ॥ ४१॥

अतो लिङ्गसमं पीठं स्याच्छायादोषवर्जितम् ।
वेदाश्रपिण्डिकाक्षेत्रापेक्षया वर्तुलादिषु ॥ ४२ ॥

पीठेषु लिङ्गतुल्या स्यात् परिणाहान्तविस्तृतिः । तथा
कृशेषु लिङ्गेषु पिण्डिकाधिकविस्तृतम् ॥ ४३ ॥

अवगम्य शिवांशे तु वर्धयेत् तत्समं यथा । यावद् वृद्धं
शिवांशे तु ब्रह्मांशे हापयेत् तु तत् ॥ ४४ ॥

तद्वत् स्थूलेषु लिङ्गेषु न्यूनतां पीठविस्तृतेः । विज्ञाय
पूजाभागं तु कुर्याद्ध्रस्वं तदंशतः ॥ ४५ ॥

ब्रह्मांशे वर्धयेद् भागं वृद्धिहानी न वैष्णवे ।

यथा बृहत्तन्त्रे -

कृशेषु वर्धयेद् रुद्रं स्थूललिङ्गेषु ह्रासयेत् । ह्रासयेद्
वर्धयेत् कांशं न वृद्धिर्न च्युतिर्हरेः ॥

इति ।

छायादोषविचारोऽयं लिङ्गे सर्वसमे स्मृतः ॥ ४६ ॥

वर्धमानादिलिङ्गेषु नैतदित्येव केचन । तद्वद् व्यक्तेषु लिङ्गेषु
व्यक्ताव्यक्ते च रत्नजे ॥ ४७ ॥

स्वयम्भुवि तथा बाणेऽप्यार्षे च नियमो न हि ।
वर्धमानादिलिङ्गानां त्रयाणामप्ययं विधिः ॥ ४८ ॥

मयसूत्रे तु कथितच्छायादोषं विना यथा ।
लिङ्गायतिप्रमाणानीत्यादिना पीठविस्तृतिः ॥ ४९ ॥

शिवभागसमा कार्या व्याख्यातं सङ्ग्रहे तथा ।
यावल्लिङ्गस्य वै दैर्घ्यं तावत् पीठस्य विस्तृतिः ॥

इति ।

सङ्कृत्यंशे तु लिङ्गोच्चे सप्ताष्टनवभिः क्रमात् ॥ ५० ॥

अंशैर्ब्रह्महरीशानभागाः स्युर्वर्धमानके । लिङ्गायामे
प्रकृत्यंशे षट्सप्ताष्टांशकल्पिताः ॥ ५१ ॥

क्रमाद् ब्रह्मादिभागाः स्युरेवं वा वर्धमानके ।
पञ्चषट्सप्तभागैर्वा चतुष्पञ्चषडंशकैः ॥ ५२ ॥

वर्धमानं भवेल्लिङ्गं श्रेष्ठमध्याधमं क्रमात् ।
लिङ्गायामे तु पङ्क्त्यंशे रामाग्निश्रुतिसम्मितैः ॥ ५३ ॥

अंशैर्ब्रह्मादिभागाः स्युः क्रमाल्लिङ्गे शिवाधिके ।
लिङ्गोत्सेधे तु नन्दांशे षट्सप्तवसुभागिकैः ॥ ५४ ॥

ब्रह्मविष्ण्वीशभागानां क्रमान्नाहाः प्रकीर्तिताः । लिङ्गे
त्रैराशिकं नाम भवेत् सर्वसमे तु तत् ॥ ५५ ॥

स्वायामार्धार्धविस्तारं स्वस्तिकं वा शिवाधिकम् ।
वर्धमानं च तल्लिङ्गं नाम्ना सुरगणार्चितम् ॥ ५६ ॥

तत्सार्वदेशिकं ज्ञेयं सर्ववर्णहितावहम् । पौष्करे
कारणाख्ये च यथोक्तं तत्र कथ्यते ॥ ५७ ॥

तद्यथा -

चतुरंशादि विप्राणां पञ्चांशादि नृपोचितम् । षड्भागादि
विशां योग्यं सप्तांशाद्यं तु वार्षलम् ॥ ५८ ॥

वर्धमानं चतुर्भेदमेवं वर्णक्रमाद्धितम् ।

अथ शिवाधिकं च ।

आकृत्यंशे तु लिङ्गोच्चे सप्तसप्ताष्टभागिकम् ॥ ५९ ॥

ब्रह्माद्यंशेषु यल्लिङ्गं विप्राभीष्टं शिवाधिकम् ।
त्रयोदशांशे लिङ्गोच्चे वेदवेदशरांशकैः ॥ ६० ॥

षोडशांशे तु लिङ्गोच्चे पञ्चभिः पञ्चभिः क्रमात् ।
षड्भिश्च भागैर्ब्रह्माद्यैः क्षत्रयोग्यं शिवाधिकम् ॥ ६१ ॥

कादिभागैर्विशां योग्यं लिङ्गमुक्तं शिवाधिकम् । लिङ्गतुङ्गे
दशांशे तु गुणाग्निश्रुतिभागिकम् ॥ ६२ ॥

ब्रह्माद्यंशेषु शूद्राणामिष्टं लिङ्गं शिवाधिकम् ।
पूर्वोक्तसमलिङ्गे तु धारालिङ्गं विकल्पतः ॥ ६३ ॥

चतुरश्रं द्विरष्टाश्रं तन्मूले परिकल्पयेत् । वैष्णवांशे
च शैवांशे धाराद्विद्विगुणीकृते ॥ ६४ ॥

सर्वेषामपि वर्णानां धारालिङ्गं त्रिधा मतम् ।

मूलेऽष्टाश्रं वा कलाश्रं युगाश्रं तस्मादूर्ध्वं
द्विगुणाः स्युश्च धाराः इति मयः ।

सर्वतोभद्रलिङ्गे तु धाराः स्युः पञ्चविंशतिः ॥ ६५ ॥

सप्तपर्णदलाकाराः समाः सर्वाः समान्तराः । एकैकस्यां
तु धारायां चत्वरिंशत्प्रसङ्ख्यया ॥ ६६ ॥

कुर्यात् समानि लिङ्गानि स्यात् तल्लिङ्गसहस्रकम् ।

लिङ्गविकल्पाधिकारः ।

ब्रह्मादिभागसिद्धौ तु वेदाश्रं प्रोक्तमार्गतः ॥ ६७ ॥

कृत्वा लिङ्गमशेषेण ब्रह्मभागादथोपरि । चतुरश्रस्य
कोणार्धसूत्रलाञ्छनमध्यतः ॥ ६८ ॥

कोणत्यागात् तदष्टाश्रं कुर्याद् विष्णवंशसिद्धये । अथवा
लिङ्गविस्तारं सप्तधा विभजेत् समम् ॥ ६९ ॥

मध्ये त्रिभागं संस्थाप्य द्विद्विभागविवर्जनात् । वस्वश्रं
सिद्ध्यति सममथ वृत्तं निगद्यते ॥ ७० ॥

चतुरश्रस्य लिङ्गस्य शिरोमध्ये निधाय तु । सूत्रं
दिगन्तमानेन भ्रामयेद् वृत्तसिद्धये ॥ ७१ ॥

लिङ्गानामथ सर्वेषां शिरोवर्तनमिष्यते । छत्राभं
त्रपुषाकारं कुक्कुटाण्डनिभं तथा ॥ ७२ ॥

अर्धेन्दुसदृशं चाथ बुद्बुदं पञ्चमं स्मृतम् ।

अत्र सर्वतोभद्रवर्धमानादिलिङ्गानां
यथाप्रमाणावस्थितशिरसामेव वर्तनेन पूजांशायामे
न्यूनतया तत्तत्प्रमाणभङ्गाद् दोषः सिद्धः ।
तस्मादुक्तप्रमाणलिङ्गनेत्रसूत्रादूर्ध्वमेव शिरोवर्तनेन सकले
मकुटादिवल्लिङ्गमस्तकं सम्पादनीयम् । अत्र मयः -

सर्वेषामपि चैताः सामान्यास्तत्र लिङ्गानाम् । शिरसो
वर्तनभागत्र्यंशैकं चाधिरोप्य निजतुङ्गे ॥

लिङ्गायामे षट्षड्भागयुय्ते तेन सार्धमतः । अवरे
मध्यमलिङ्गे श्रेष्ठे लिङ्गे तथा शिरोमानम् ॥

इन्द्वश्विनिगुणभागाः प्रोक्ताः सर्वेष्वपि क्रमशः ।

इति । तद्यथा -

पूजांशायामतत्त्वांशादेकद्वित्र्यंशकात् क्रमात् ॥ ७३ ॥

नीचे मध्ये तथा श्रेष्ठे लिङ्गे तन्मानतोऽधिकम् ।
संस्थाप्योपरि नेत्रोर्ध्वं शिरसः सिद्धये पुनः ॥ ७४ ॥

उक्तवर्तनभागानां त्र्यंशैकांशं तथोपरि । शिलामारोप्य
तन्मध्ये बिन्दुं सम्पाद्य शास्त्रतः ॥ ७५ ॥

तस्मिन् सूत्रं निधायाथ वक्ष्यमाणक्रमेण तु । शिरसो
वर्तनं कुर्याच्छत्राकारादिसिद्धये ॥ ७६ ॥

लिङ्गे व्यासात् षोडशांशादेकद्वित्रियवांशकान् । आरोप्य
केऽधः संलम्ब्य लिङ्गस्योभयपार्श्वयोः ॥ ७७ ॥

वर्तयेत् तत्र चत्वारिच्छत्राभाणि भवन्ति हि । प्रथमं च
द्वितीयं च समलिङ्गे नियोजयेत् ॥ ७८ ॥

शिवाधिके तृतीयं तु चतुर्थं वर्धमानके । वर्तनाः
सङ्करं नैव कुर्यात् तदशुभं यतः ॥ ७९ ॥

सङ्करमन्योन्यस्याप्यशुभं स्याद् वर्तनानां च ।

इति मयः ।

षडंशे लिङ्गविस्तारे सार्धद्व्यंशेन वर्तनात् । त्रपुषाभं
शिरः सिध्येद् रामांशैः कुक्कुटाण्डकम् ॥ ८० ॥

लिङ्गव्यासतृतीयांशवर्तनादर्धचन्द्रकम् ।
लिङ्गव्यासेऽष्टधा भक्ते सार्धांशत्रयवर्तनात् ॥ ८१ ॥

बुद्बुदाभं तु लिङस्य शिरः सिध्यति शोभनम् । सामान्याः
सर्वलिङ्गेषु वर्तनास्त्रपुषादिकाः ॥ ८२॥

छत्राकारोक्तभेदास्तु लिङ्गेषु नियताः पृथक् ॥ ८२ १।२ ॥

अत्र मञ्जर्यां मये च वर्तनाप्रकार उक्तः -

लिङ्गानां शिरसीप्सितांशमुभयोः संलम्ब्य तत्प्रार्श्वयोः
कृत्वा मत्स्ययुगं तदास्यजघनान्निष्क्रान्तसूत्रद्वये । तस्माद्
यत्र च संयुतिर्मतिमता बिन्दुत्रयाढ्यं यथा तत्तद्
वर्तयितव्यमत्र बहुधा सोपायमीशोदितम् ॥

इति ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
क्रियापादे मानुषशिलालिङ्गलक्षणपटलः सप्तत्रिंशः ।