३५

अथ पञ्चत्रिंशः पटलः ।

अथानुकर्म विज्ञेयं धाम्नां वा कालपाकतः । पतितं
स्खलितं जीर्णं प्रासादाङं यदा भवेत् ॥ १ ॥

तत्तद्द्रव्यैः शिलाद्यैस्तु समाधेयं हि पूर्ववत् । संस्थानं
प्राग्वदेव स्यादलङ्कारादिकं च यत् ॥ २ ॥

व्यासतुङ्गत्वहानिर्वा वृद्धिश्चापि न शस्यते ।
जातिच्छन्दविकल्पानां स्यान्मानं प्राग्वदेव हि ॥ ३ ॥

स्वयम्भूदैविकार्षाणामल्पं प्राक्तनधाम चेत् । जीर्णं वा
पतितं तस्य न वृद्धिर्दोषमावहेत् ॥ ४ ॥

द्वारप्राकारपीठाद्यमनुक्तस्थानगं यदि । परिवारं च
तत्प्रोक्तस्थाने कुर्यात् सलक्षणम् ॥ ५ ॥

दैविकं प्राक्तनं धाम [क्: म हीनमानमल]
मानहीनमलक्षणम् । सलक्षणं प्रकुर्वीत
पूर्वसंस्थानसुन्दरम् ॥ ६ ॥

स्वायम्भुवार्षदैवं वा निष्कलं सकलं तु वा । स्थानान्न
चालयेल्लिङ्गं पूर्वस्थानेऽर्हति स्थितिम् ॥ ७ ॥

नद्यब्धिजलवाताद्यैर्हृते विचलितेऽथवा । तस्मात्
सहस्रदण्डान्तक्षेमे संस्थापयेत् पुनः ॥ ८ ॥

तदेव तदभावे तु पूर्वलिङ्गसमं नवम् । पूर्वतुल्यविमाने तु
प्रायश्चित्तादनन्तरम् ॥ ९ ॥

प्रतिष्ठितं भवेदृद्ध्यै राजराष्ट्रप्रजाहितम् । तत्र
मूलालयाद् रक्षोयमाग्निमरुतां दिशः ॥ १० ॥

त्यक्त्वा यथेष्टमन्यत्र विधिना स्थापयेद् दिशि । यमे
भर्तुर्नृपस्यापन्मरुद्रक्षोग्निषु क्षयः ॥ ११ ॥

तस्मात् तत् परिहृत्यैव चलितस्थापनं हितम् । छन्दानां
प्रोक्तनाद् धिष्ण्यात् प्राग्वोदक्परितोऽधिकम् ॥ १२ ॥

मानोन्मानप्रमाणोच्चतलाधिक्यं च शस्यते ।
पूर्वस्माद्धीनमानाद्यं स्थानं कर्तृनृपाहितम् ॥ १३ ॥

द्वारभित्त्यङ्गणादीनां हापनं च विनाशकृत् ।
विनष्टवस्तुनो गर्भं त्यक्त्वा गर्भं न्यसेत् पुनः ॥ १४ ॥

अधिष्ठानादिकं प्राग्वत् कुर्यात् स्तम्भादिकान्यपि । यदि तत्
प्राक्तनद्रव्यैर्निष्पाद्यं चेद् गृहादिकम् ॥ १५ ॥

प्रारभ्यादौ नवद्रव्यैः पुराणैर्योजयत् ततः ।
योगैर्नवैर्नवेष्विष्टः पुराणानां पुरातनैः ॥ १६ ॥

मिश्रयोगे विनाशः स्यादतो मिश्रं न कारयेत् ।
पुरग्रामालयादीनि पूर्ववस्त्वनुकूलतः ॥ १७ ॥

कुर्यात् तद्बाधकं वस्तु कुलनाशकरं त्यजेत् । अन्तर्हाराद्
बहिर्मूलादल्पलिङ्गालयादिकम् ॥ १८ ॥

कुर्वीत वान्तः सालस्य यथा मूलं न पीडयेत् ।
मूलालयसमं क्षुद्रमधिकं च न शश्यते ॥ १९ ॥

शस्तमर्धं च पादोनं शरांशे त्र्यंशमेव वा ।
क्रमादिन्द्रादिवाय्वन्तं मूलात् तु शिवमन्दिरम् ॥ २० ॥

कृतं विनाशयेत् स्थानं कर्तारं राजसन्ततिम् । राष्ट्रं
धनं च सस्यं च तस्मात् तत् परिवर्जयेत् ॥ २१ ॥

एवं ग्रामपुरादीनां स्वगृहस्य च तत्समम् । तस्मादुदीच्यां
मुख्यादिपर्जन्यान्तं च पूर्वतः ॥ २२ ॥

मानुषं शाङ्करं लिङ्गं स्थापयेच्छुभदं हि तत् । शिवः
प्राक्पश्चिमास्यस्तु मनुष्याणां हितावहः ॥ २३ ॥

अन्यत्राघोरनृत्तेशदक्षिणेशाच्च वामतः । सर्वत्राभिमुखाः
सौम्या देवताः शुभदा नृणाम् ॥ २४ ॥

उग्राः पराङ्मुखाः शस्ताः पुरग्रामगृहादिषु । न
मनुष्यालयं कुर्याद् देवागाराधिकोन्नतम् ॥ २५ ॥

तत्समीपे विशेषेण तलाधिक्यं च नेष्यते । दैवाद् धाम्नः
शुभं न्यूनं समं वा मानुष गृहम् ॥ २६ ॥

अनुकर्मविधानम् ।

अधिष्ठानादि सौन्दर्यस्तूप्यग्राच्छुभावहम् । प्रासादाङ्गेषु
वैरूप्यं हीनाधिक्यं च निन्दितम् ॥ २७ ॥

छिद्रं व्रणं दरी निम्नमन्यच्चाप्यशुभावहम् ।
देशदेशाधिपस्थानकर्तृभर्तृविनाशनम् ॥ २८ ॥

अपिच -

अधिष्ठाने तु वैरूप्यं तत्सन्तानविनाशनम् । प्रत्यां तु
स्त्रीविनाशाय स्तम्भे नृपपराजयः ॥ २९ ॥

प्रस्तरे द्विजनाशः स्यात् कण्ठे तु वणिजां क्षयः ।
नासिकासु स्वपक्षघ्नं शिखरे राजविभ्रमः ॥ ३० ॥

स्तूपिकाकुम्भवैरूप्यं तद्राष्ट्रजननाशनम् ।
अस्थानद्वारसोपानं सर्वेषामशुभावहम् ॥ ३१ ॥

अस्थानभित्तिकस्तम्भमनुक्ताङ्गविरूपता ।
अचोदितालङ्करणमन्यच्चानिष्टदुःखदम् ॥ ३२ ॥

पूजोपचारविच्छेदो बलिच्छेदोऽप्यवृष्टिकृत् । सर्वाङ्गसुन्दरं
तस्माद् धाम कुर्यात् सलक्षणम् ॥ ३३ ॥

नाशं दुःखं मृतिं पुष्टिं कुलवृद्धिं कुलक्षयम् । धनं
सुखं च नैर्धन्यं कुर्यात् पूर्वादिदिग्दरी ॥ ३४ ॥

मृतिं रोगं चाग्निभयं बन्धुनाशं धनं सुतम् । मित्रागमं
च पुष्टिं च विनाशं चावहेत् क्रमात् ॥ ३५ ॥

बह्मस्थानाद्यमीशान्तं वल्मीकं भवनादिषु । पातोऽशनेश्च
क्षौद्रस्य न्यासः सर्वत्रगर्हितः ॥ ३६ ॥

धनागमं धनापायं मित्रप्राप्तिं सुखं श्रियम् । वर्षं
कन्यागमं पुत्रं कलहं रक्तकन्यका ॥ ३७ ॥

ब्रह्मस्थानात् तु शक्राद्यमीशानान्तं यथाक्रमात् ।
उक्तादवान्तरेऽन्यत्र द्वारे च कलहादिकम् ॥ ३८ ॥

अनर्थमावहेद् यस्मात् तच्छान्त्यै जुहुयाद् घृतम् [क्; ख्: धृतम्
रक्तस्त्रीदर्शनस्य] । उलूका गृध्रकाः श्येनास्तथा
वनकपोतकाः ॥ ३९ ॥

पिङ्गलाश्स्च चकोराश्च गृहे स्युश्चेदनर्थदाः ।
देवमानुषगेहेषु मठगोष्ठसभादिषु ॥ ४० ॥

वल्मीकाद्यद्भुतानां तु दोषशान्तिस्तु कथ्यते ।
खननादिक्रियाभिस्तदपनीयोपलिप्य तु ॥ ४१ ॥

गोभिरध्युषिते तस्मिन् हुत्वा चाद्भुतशान्तिकम् । रक्षोघ्नं
वास्तुहोमं च दत्त्वा वास्तुबलिं ततः ॥ ४२ ॥

ब्राह्मणान् भोजयित्वा तु पुण्याहं वाचयेत् पुनः ।
यथावदावसेत् तस्मिन् सर्वसम्पत्करं भवेत् ॥ ४३ ॥

अद्भुतशमनम् ।

प्रासादभवनादीनां रक्षालङ्कारसिद्धये । वप्राणि
क्रमशः कुर्यात् पञ्चत्रिद्व्येकसङ्ख्यया ॥ ४४ ॥

तत्रान्तर्मण्डलं त्वाद्यमन्तर्हाराथ तद्बहिः । मध्यहारा च
मर्यादा महामर्यादकं ततः ॥ ४५ ॥

अत्र मयः -

क्षुद्राणामल्पहर्म्याणां खव्यासार्धप्रमाणतः ।
अन्तर्मण्डलकं कुर्यात् सत्रिहस्तं तु तत्समम् ॥

द्वितीयं तु तृतीयं च तस्मात् पञ्चकराधिकम् । तस्मात्
ससप्तहस्तं तु तत्समं स्याच्चतुर्थकम् ॥

नवहस्तसमायुक्तं तत्समं पञ्चमं भवेत् ॥

इति ।

मध्यमानां तु मूलार्धमन्तर्मण्डलकं भवेत् । ततः
शरर्षिबृहतीरुद्रहस्तं यथाक्रमात् ॥ ४६ ॥

वप्रान्तरालविस्तारः प्रोक्तः प्राकारपञ्चके । अथोत्तमानां
मूलार्धं प्रथमं त्वथ चर्षिभिः ॥ ४७ ॥

नन्दरुद्रातिजगतीहस्तैर्हारा भवन्ति हि । अन्तर्मण्डलभित्तेः
स्याद् विष्कम्भः सार्धहस्तवान् ॥ ४८ ॥

तस्माद् द्वित्र्यङ्गुलाधिक्यात् क्रमात् साला भवन्ति हि ।
तत्तद्विष्कम्भमानात् तु त्रिगुणं वा चतुर्गुणम् ॥ ४९ ॥

प्राकारतुङ्गता प्रोक्ता स्वोच्चाष्टांशाच्छिरोघनम् ।

अत्र मयः -

उत्तरान्तोच्छ्रिता [तो] वा स्यात् कुम्भमण्ड्यन्तकोदया [ग्: यावत् ।
म] । मसूरकादिवर्गाढ्या खण्डहर्म्यादिमण्डिता ॥

बुद्बुदार्धेन्दुशीर्षा वा ऋजुर्वा भित्तिरिष्यते ।

इति ।

क्षुद्राल्पभित्तिविष्कम्भं हस्तादारभ्य पूर्ववत् ॥ ५० ॥

क्रमाद् द्वित्र्यङ्गुलाधिक्याद् वर्धयेत् सार्धहस्ततः ।
सोत्तरावाजनच्छत्रशीर्षवत्यश्च भित्तयः ॥ ५१ ॥

उपरिष्टात् तु वप्राणां सर्वेषां तु शिवालये । मनोरमतमां
[क्, ख्: रां] कुर्यात् परितो वृषभावलिम् ॥ ५२ ॥

मूलं जन्मस्थलं हस्तमुच्छ्रितं मूलसालतः । द्वितीयं
हीनषण्मात्रं प्रतिसालं च तत्क्रमात् ॥ ५३ ॥

हस्तार्धं पादजन्मोच्चं तस्माद् द्वित्र्यङ्गुलक्षयात् ।
महामर्यादभित्त्यन्तमेवं हाप्यमथापि वा ॥ ५४ ॥

क्षुद्रे साष्टादशाङ्गुल्यं मध्यमे मूलपादुकम् । क्षपयेत्
तच्चतुर्मात्रैर्यावत् पञ्चान्तसालकम् ॥ ५५ ॥

प्राकारलक्षणम् ।

वृषस्थानं तु पुरतः स्यादाग्नेय्यां महानसम् । मातॄणां
तु यमोपान्ते गजवक्त्रस्य नैर्-ऋते ॥ ५६ ॥

वारुणे वासुदेवस्य स्कन्दस्य तदनन्तरम् ।
वायव्यामथवैशान्यामुमादुर्गालयः स्मृतः ॥ ५७ ॥

उत्तरे धनदस्य स्यात् कोष्ठागारं त्रिशूलिनि । ईशेन्द्रमध्ये
धातुः स्यान्नृत्तस्यैशेऽथवा पुरः ॥ ५८ ॥

वह्निगोपुरयोर्मध्ये धान्यानामिति केचन । मध्येन वह्निमातॄणां
स्नपनाम्बुगृहं स्मृतम् ॥ ५९ ॥

मठश्च याम्ये बाह्ये स्यात् पुष्पस्य यमविघ्नयोः ।
रक्षोम्बुमध्ये शस्त्राणां गोशाला वरुणे बहिः ॥ ६० ॥

वारुण्यां शयनस्यान्तर्ज्येष्ठाया वायुदक्षिणे ।
विद्यापीठं भवेन्मुख्ये पर्जन्ये क्षेत्रपस्य तु ॥ ६१ ॥

ऐशेऽन्तश्चण्डनाथस्याप्यादित्यानां विधेर्बहिः ।
लोकेशानां स्वदिक्ष्वेव चेन्द्राग्न्योर्मध्यतोऽश्विनोः ॥ ६२ ॥

बहिर्द्वितीय[ख्: यं]हारायां विश्वेषां यमरक्षसोः ।
शास्तुश्च रक्षोदिग्भागे भद्रकाल्यास्तथा बहिः ॥ ६३ ॥

रक्षोवरुणयोर्मध्ये शेषनागालयः स्मृतः ।
वस्तूनामम्बुमरुतोर्मुनिनां वायुसोमयोः ॥ ६४ ॥

सोमेशमध्ये रुद्राणां क्रमेणैवं प्रकल्पयेत् ।
परिवारविमानानां मानं गर्भार्धमानतः ॥ ६५ ॥

त्रिभागाद् वा चतुर्थांशात् क्षुद्रेषु परिकल्पयेत् । एकमल्पे तु
वप्रं स्यात् परिवाराष्टकं तथा ॥ ६६ ॥

वृषोगणपतिर्ब्रह्मा मातरोऽथ गुहो हरिः । दुर्गा
चण्डेश्वरश्चाष्टौ परिवाराः प्रकीर्तिताः ॥ ६७ ॥

अथापि दश लोकेशाश्चण्डोऽन्तर्मातरस्तथा । क्षुद्रे वा
मध्यमे धाम्नि द्वादशैते भवन्ति हि ॥ ६८ ॥

एते द्वादश विघ्नश्च गुहो दुर्गा हरिस्तथा । स्वदिक्षु
परिवाराः स्युर्मध्यमे धाम्नि षोडश ॥ ६९ ॥

उत्तमेषु विमानेषु परिवारानशेषतः । स्थापयेद्
वास्तुदेवांश्च क्रमादीशानपूर्वकान् ॥ ७० ॥

द्वात्रिंशन्मध्यमहारायां स्वपदेष्विति यावत् ।

परिवारप्रतिमोदयः पूजांशोदयाद् द्विगुणः
श्रेष्ठदध्यर्धं मध्यमस्तत्समं कनिष्ठः इति पराशरः

स्थिते देवे स्थितास्ते स्युः परिवारास्तथासने । निषण्णाः
शयनेऽपि स्युरिति प्राह पितामहः ॥ ७१ ॥

अत्र मयः -

प्राक्प्रत्यङ्मुख उक्षा देवाभिमुखो न वाभिमुखः । शेषा ये
परिवारा देवाभिमुखाः सदैव स्युः ॥

इति ।

यद्यन्मुखो भवेद् देवस्तदग्रे वाहनध्वजम् । इन्द्रं चारभ्य
लोकेशान् यजेदेव प्रदक्षिणम् ॥ ७२ ॥

निर्माल्यधारकं चैशे मातॄरपिच दक्षिणे । सर्वत्र कल्पयेद्
देवं प्रनालमपि चोत्तरे ॥ ७३ ॥

गोपुराद् बाह्यतः कुर्याद् बलिपीठं सलक्षणम् । अन्तरालं
त्रिपादं वा प्रासादार्धमथापि वा ॥ ७४ ॥

गर्भार्धविस्तृतं पीठं त्रिपादोनं च सम्मितम् ।
त्रिद्व्येकहस्तमुच्चं तदुत्तमादिषु कल्पयेत् ॥ ७५ ॥

तदुच्चषोडशांशेन जन्माथ जगती त्रिभिः । वेदांशैः
कुमुदं भागः पट्टिकांशैस्त्रिभिर्गलः ॥ ७६ ॥

कम्पस्त्वंशेन तु द्वाभ्यां वाजनं चोर्ध्वपट्टिका ।
भागेनेत्यथ तद्व्यासे दशांशे द्व्यंशहानितः ॥ ७७ ॥

ऊर्ध्वाब्जं विस्तृतं वाष्टभागेष्वेकोनमेव वा । द्व्यंशो
वाब्जोदयः प्रोक्तः कर्णिका तत्त्रिभागतः ॥ ७८ ॥

सभद्रं वा विभद्रं वा सोपपीठमथापि वा ।
अलङ्कारैर्विमानोक्तैर्युक्तं वा बलिविष्टरम् ॥ ७९ ॥

हारायां मध्यमे वापि मर्यादायामथापि वा । बलिपीठाद्
बहिः प्राच्यां ध्वजस्तम्भं तु विन्यसेत् ॥ ८० ॥

ध्वजाद् बहिर्वृषगृहं चतुर्द्वारं प्रकल्पयेत् ।
द्वारलिङ्गसमः श्रेष्ठो मध्यो वेदांशहीनतः ॥ ८१ ॥

अर्धहीनः कनिष्ठः स्याद् वृषभो लक्षणान्वितः ।
द्वारादध्यर्धमुच्चो वा सपादद्विगुणोच्छ्रितः ॥ ८२ ॥

मनोरमतराकारस्त्वासीनो वृषभो भवेत् । गोपुराणां तथा
लक्ष्म यथावदथ कथ्यते ॥ ८३ ॥

प्रतिवप्रं तु कर्तव्यं द्वारे द्वारे तु गोपुरम् ।

अत्र मयः -

क्षुद्राल्पमध्यमुख्यानां धिष्ण्यानां स्वप्रमाणतः ।
मूलप्रासादविस्तारे सप्ताष्टनवभागिके ॥

दशैकादशभागे च तत्तदेकांशहानितः ।
द्वारशोभादिविस्ताराद् गोपुरं तद् भवेत् क्रमात् ॥

क्षुद्राल्पकानां धाम्नां स्यान्मानमेवं यथोदितम् ।
मध्यानां मूलधाम्नस्तु व्यासे वेदेषुभागिके ।

षट्सप्ताष्टांशके वा स्याद् भागोनं गोपुरं पृथक् ।
त्रिभागैकांशमर्धं च द्विभागं स्यात् त्रिभागिके ॥

चतुर्भागे त्रिभागं तु पञ्चांशे चतुरंशकम् ।
द्वारशोभादिविस्तारः श्रेष्ठानां गोपुरे [रं] स्मृतः [ग्:
तम्] ॥

तुङ्गं तु गोपुराणां स्यात् सप्तांशे रुद्रभागिकम् । चतुरंशे
षडंशोच्चं पञ्चांशे सप्तभागिकम् ॥

सप्तांशैस्तु चतुर्भागे नवभागैस्तु पञ्चके । द्विगुणं वा
यथासङ्ख्यं द्वारायतनतुङ्गता ॥

गोपुरस्य तु विस्तारं त्रिभागादेकभागिकम् । चतुर्भागैकभागं
वा पञ्चभागे द्विभागिकम् ॥

निर्गमो गोपुराणां स्याद् वप्रकुड्यस्य बाह्यतः । मूलात्
सार्धं सत्रिपादं सार्धहस्तद्वयं तु वा ॥

निर्दिष्टो द्वारविस्तारो गोपुराणांसमासतः ।

अत्र पराशरः -

तस्य षण्णवद्वादशमात्रवृद्ध्या पञ्चसप्तनवहस्तान्तं
द्वारं पञ्चदशभेदं पृथक् पृथक् क्षुद्रे मध्ये परे स्यात्
इति ॥

द्वाराणां तत्र विस्तारादुत्सेधः पञ्चधोच्यते ॥ ८४ ॥

पञ्चांशेभ्यश्च सप्तांशः सप्तांशेभ्यो दशांशिकः ।
द्विगुणोऽर्धाधिकः पादमधिकः पञ्चधोच्छ्रयः ॥ ८५ ॥

क्रमेण पञ्चसालानामेकत्रिशरसप्तकम् । नवाङ्गुलं च
सन्त्यज्य दक्षिणादक्षिणक्रमात् ॥ ८६ ॥

द्वारं नियोजयेत् तत्र मूलवस्तु निरीक्ष्य तु ।
पादाधिष्ठानतुङ्गन्त्वं वेदेष्वृषिभुजङ्गमैः ॥ ८७ ॥

नन्दपङ्क्तिशसूर्यांशान्मूलादेकांशहानितः ।
साधिष्ठानाङ्घ्रितुङ्गः स्याच्छेषं स्यादुपपीठकम् ॥ ८८ ॥

पादबन्धं मसूरं च यथावत् परिकल्पयेत् ।
पट्टिकाङ्गमधिष्ठानस्तम्भमानं तु मूलवत् ॥ ८९ ॥

वसुनन्ददिगंशोनं गोपुरस्तम्भतुङ्गता । निखातपादं
होमान्तं जित्वाधिष्ठनकं न्यसेत्(?) ॥ ९० ॥

उत्तरान्तसमानं तदर्धं वा विपुलं भवेत् । प्रवेशदक्षिणे
गर्भं न्यसेदारूढभित्तिके ॥ ९१ ॥

पादाधिष्ठानयोस्तुङ्गादधिको मिश्रकोदयः । द्वारतुङ्गं
पुरग्रामराजधान्यादिषूदितम् ॥ ९२ ॥

न्यसेद् गोपुरकुड्याग्रे श्लिष्टं योगं कवाटयोः । तत्सीमानं
तु वप्रान्तं कुर्यान्मध्ये सुरालये ॥ ९३ ॥

एकादिपञ्चभूम्यन्तमल्पानां गोपुराणि हि । द्विभौमात्
षट्तलान्तानि मध्यानां गोपुराण्यपि ॥ ९४ ॥

द्विततुत्? सप्तभौमान्तमुत्तमानां तु गोपुरम् ।

अत्र -

सोपपीठमधिष्ठानं पादोच्चं चोत्तरान्तकम् । शेषं
तत्स्तूपिपर्यन्तं भागमानं विधीयते ॥

इति मयः ।

स्तूप्यन्तमुत्तरादूर्ध्वं षोढा भक्तं ल गोपुरम् ॥ ९५ ॥

सपादांशेन मञ्चोच्चं भागेन प्रस्तरोदयः । भागेन
कन्धरोत्सेधः सत्रिपादांशकं शिरः ॥ ९६ ॥

शिष्टेन तु शिखातुङ्गमित्येकतलगोपुरम् । ए (कं? वं) तु
द्वितलादीनां तलाधिक्यविभागतः ॥ ९७ ॥

आद्वादशतलादूह्यं विदधीत यथाक्रमम् ।
गोपुरव्यासपञ्चांशे गर्भागार त्रिभागतः ॥ ९८ ॥

भागाभ्यां भित्तिविष्कम्भं विदध्यादेकभूमिके । सप्तांशे
गोपुरव्यासे गर्भं तु चतुरंशकैः ॥ ९९ ॥

कुर्याद् भित्तिं त्रिभिः शेषैरुदयेऽथ नवांशके । अंशेन
कूटविस्तारं त्रिभिरंशैस्तु कोष्ठकम् ॥ १०० ॥

कूटकोष्ठकयोर्मध्ये पञ्चांशैः पञ्जरादिभिः । अलङ्कृत्य
यथाशोभं द्वितलं गोपुरं भवेत् ॥ १०१ ॥

व्यासे नवांशे त्रितलं दशभागे चतुस्तलम् । रुद्रांशे
शरभौमं स्यात् सूर्यांशे षट्तले तथा ॥ १०२ ॥

त्रयोदशे सप्ततलं कुर्याद् युक्त्या तु पूर्ववत् ।

अत्र पराशरः -

एकतलादि सप्ततलान्तं सर्वत्रापि
गोपुरेष्वलिन्दहर्म्यकूटशालामुखपञ्जरनासीहस्तिपृष्ठपक्ष्
अशाला-मसूरस्तम्भवेदिकाजालतोरणैरलङ्करणीयम् इति ।

मूलद्वारस्य विस्ताराद् वेदशोनं शरांशतः ॥ १०३ ॥

हीनं वोर्ध्वतलानां तु द्वाराणि परिकल्पयेत् । गर्भागारे तु
सोपानमुपर्युपरि विन्यसेत् ॥ १०४ ॥

चतुष्कर्णे तु सोपानमुपपीठे प्रशस्यते । यथायुक्ति
यथाशोभं तथा योज्यं विचक्षणैः ॥ १०५ ॥

गोपुराणामलङ्कारं मूलवस्त्वनुरूपतः ।
कुर्यादाकृतिशोभाद्यं विमानभवनादिषु ॥ १०६ ॥

सोपपीठमधिष्ठानं स्तम्भादिपरिमण्डितम् । द्वितलादियुतं
रम्यं [ग्: म्य] महाद्वारं प्रदक्षिणम् ॥ १०७ ॥

साधिरोहणसोपानं सान्तरप्रस्तरान्वितम् ।
ऊहप्रत्यूहशोभाढ्यं द्विसप्तमु(प? ख)पट्टिकम् ॥ १०८ ॥

दीर्घाग्राकारविन्यासं श्रीमन्दिरमिति स्मृतम् । तदेव तु शिरः
पार्श्वे त्यक्त्वा पूर्वतलं पुनः ॥ १०९ ॥

मुखे पट्टिकषट्केन युक्तं स्याच्छ्रीनिकेतनम् ।
एकदेवसभाशीइर्षं षण्महानासिकान्वितम् ॥ ११० ॥

सुमङ्गलाभिधानं स्यात् विशालमथ कथ्यते । प्रागुक्तमेव
परितो भागवृद्ध्या सगण्डिमम् ॥ १११॥

चूडहर्म्यान्वितं श्रीमद् विशालाख्यं तु गोपुरम् । तदेव परितो
भक्त्या युक्तं भव्याभिधानकम् ॥ ११२ ॥

तदेव वृत्तशिहरं दीर्घाकारं मनोरमम् । वृत्ताग्रकूटं
कर्णेषु पौष्टिकं नाम गोपुरम् ॥ ११३ ॥

तदेव हि मुखे वेदभागार्धान्मण्डपान्वितम् ।
खण्डहर्म्यपताकाढ्यं सुमण्डाख्यं तु गोपुरम् ॥ ११४ ॥

कपोतशालासंयुक्तं नाम्ना स्यात् पारिकूटकम् । एतानि
गोपुराण्यष्टौ शुद्धमिश्रक्रियावशात् । ११५ ॥

अथ त्रिभौमादियुतं षष्टिद्वितयनासिकम् । साधिष्ठानं च
सस्तम्भकूटशालं सतोरणम् ॥ ११६ ॥

शालातः पञ्जरोपेतं गुह्यागुह्याधिरोहणम् ।
देवश्रेष्ठनरेन्द्रार्हं सुभद्रं नाम गोपुरम् ॥ ११७॥

द्वितलं तु विभागेन पार्श्वयोर्गर्भवेश्मनः । चतुरश्रं
चतुर्नासीसाङ्गावयवसुन्दरम् ॥ ११८ ॥

भद्रकल्याणसञ्ज्ञं तत् तदेव शिखरे यदि ।
अष्टाश्रकूटशालाढ्यं भद्रसुन्दरसञ्ज्ञितम् ॥ ११९ ॥

मुखे मुखे तदेव स्याद् विनिर्गतसभामुखम् । परितो भागवृद्ध्या
तु तलैः सप्तभिरन्वितम् ॥ १२० ॥

श्रीकरं नाम तत् प्रोक्तं गोपुरं सुमनोरमम् ।

इति गोपुरविधिः ।

इत्येवमुक्तमनुकर्मविधानमादौ शान्तिर्यथावदुदितात्र
तथाद्भुतानाम् प्राकारलक्ष्म कथितं वृषलक्षणं च
प्रोक्तश्च गोपुरंविधिर्निखिलः समासात् ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
क्रियापादेऽनुकर्मादिलक्षणपटलः पञ्चत्रिंशः ।