३४

अथ चतुस्त्रिंशः पटलः ।

वस्त्वारम्भेषु सर्वेषु मानोन्मानप्रमाणवित् । पूर्वं
स्थपतिरेष्टव्यः शिल्पशास्त्रविशारदः ॥ १ ॥

तथैव शिवशास्त्रज्ञो युक्तस्त्वाचार्यलक्षणैः । स्थापकोऽपि
वृतः कर्ता वस्तुकर्म समाचरेत् ॥ २ ॥

ताभ्यामुभाभ्यां प्रारब्धं विमानं वान्यदेव वा ।
निष्पाद्यमासमाप्तेः स्यात् ताभ्यामेव हि नेतरैः ॥ ३ ॥

तयोरभावे तत्पुत्रैः शिष्यैर्वा कर्म तत्परम् ।
आसमाप्तेर्विधेयं हि चित्रस्थगुरुशासनात् ॥ ४ ॥

अत्र पितामहादिवचनं -

प्रथमं [अधमं] कृत्वान् विधिं [धिः] यथा यः स तथा तत्
प्रकरोतु निष्ठितान्तम् । अथवान्यकृतोऽन्यनिष्ठितश्चेदशुभं
स्वामिनरेन्द्रदेशभाजाम् ॥

इति । वस्त्वारम्भादासमाप्तेः कर्तृनियमः ।

विमानस्य कृतस्याग्रे स्तूपीकुम्भौ च विन्यसेत् । चतस्र इष्टकाः
प्राग्वदधिवास्य विधानतः ॥ ५ ॥

शिखराग्रस्य मध्ये तु कृत्वा पञ्चावटानथ ।
सर्वरत्नौषधीबीजलोहधातुरसानपि ॥ ६ ॥

ततो [ग्: थोपरसग] वरसुगन्धांश्च मूलेशानास्त्रमन्त्रितान् ।
प्रदक्षिणक्रमेणैव मध्यश्वभ्रे निधाय तु ॥ ७ ॥

पृथिव्यादिचतुस्तत्त्वैः सद्याद्यैर्हृदयादिभिः । आग्नेयादिषु
कोणेषु चतस्रोऽपीष्टका न्यसेत् ॥ ८ ॥

निष्पाद्य स्तूपिकाकीलं लौहं दारवमेव वा । लिङ्गाभं
सूचिकाग्रं वा शिखराकारमेव वा ॥ ९ ॥

ऊर्ध्वभूस्तम्भदीर्घं तद् विस्तृतं पादमानतः ।
आनुपूर्व्यात् कृशं कुर्यादग्रे चाङ्गुलिविस्तृतम् ॥ १० ॥

आयामे तु त्रिधा भक्ते चतुरश्रं तु मूलतः । भवेच्च [ग्: च्च
मध्ये वृत्तांशश्चा] वृत्तो मध्यांशश्चान्त्यांशः
शिखिपादवत् ॥ ११ ॥

पुण्याहवाद्यघोषाद्यैर्लग्ने कीलं तु विन्यसेत् । प्रागुक्ते
मध्यमे गर्ते स्तूप्यायामे शरांशके ॥ १२ ॥

अंशत्रयमदृश्यं स्याद् दृश्यावूर्ध्वांशकौ यथा ।
शिलाभिरिष्टकाभिर्वा बध्नीयात् परितो दृढम् ॥ १३ ॥

एकद्वित्रिद्रययुते तेन ताभ्यां च तैरपि । द्रव्यैराच्छादनं
मूर्ध्नि स्तूप्यास्तु परितः स्मृतम् ॥ १४ ॥

सुधयाथ दृढीकृत्य सवल्लीकं सलक्षणम् ।
पद्ममष्टदलं कृत्वा स्तूपिकां भूषयेत् ततः ॥ १५ ॥

क्षौमैः कार्पासिकैर्वापि नवैर्वस्त्रैर्महाध्वजम् ।
स्तूप्यन्तमूलभूम्यादिव्यायतं समविस्तृतम् ॥ १६ ॥

स्तूप्यग्रे तु ध्वजं बद्ध्वां विसृजेदुत्तरामुखम् ।
सोमेशानेन्द्रदिग्भूमिं यदि पूर्वं स्पृशेद् ध्वजः ॥ १७ ॥

शुभदः स्यात् ततोऽन्यस्माच्छान्त्यर्थं जुहुयात् तिलैः ।
सहस्रं संहितामन्त्रैर्घृतेन चरुणा तथा ॥ १८ ॥

कुर्वीत वास्तुहोमं च दद्यात् वास्तुबलिं निशि । स्थपतिं च
तथाचार्यं हिरण्यवसनादिभिः ॥ १९ ॥

तोषयेद् ब्राह्मणांश्चान्यांस्तक्ष्णः कर्मकरानपि ।

स्तूपीविन्यासः ।

अथ कुम्भं तु सौवर्णं राजतं शौल्बमेव वा ॥ २० ॥

सौधं वा मार्त्तिकं वापि गृहीत्वा लक्षणान्वितम् ।
सुदिनर्क्षमुहूर्तादौ स्नात्वाथ स्थपतिः सुधीः ॥ २१ ॥

भूषितो वस्त्रहेमाद्यैः प्राङ्मुखोदङ्मुखोऽपि वा । कुम्भाधारे
तु विन्यस्य हेमरत्नौषधीरसान् ॥ २२ ॥

स्तूपिकाच्छादकं कुम्भं स्तूप्याकारशिखं न्यसेत् ।
ऋजुमालाग्रविन्यासमेकं त्रीन् वाथ पञ्च वा ॥ २३ ॥

तदानुगुण्यतो मूर्तीं मूर्तीर्वा मन्त्रतो न्यसेत् । एकस्मिञ्ञ्छिव
एव स्यात् त्रये ब्रह्महरीश्वराः [ग्: रान्] ॥ २४ ॥

ब्रह्माद्यास्तु सदेशान्ताः स्थाप्याः स्युः कुम्भपञ्चके । यथा
दृढं सुनिश्छिद्रं कुम्भमूलं समन्ततः ॥ २५ ॥

सुधालोहादिबन्धेन बध्नीयाच्छलक्ष्णकुट्टिमम् ।

कुम्भविन्यासः ।

निष्ठितस्य विमानस्य प्रतिष्ठाविधिरुच्यते ॥ २६ ॥

उत्तरायणसंस्थेऽर्के मुहूर्तादौ गुणान्विते ।
अङ्कुरार्पणपूर्वं तु कृत्वैशान्यां तु मण्डपम् ॥ २७ ॥

नन्दर्षिशरहस्तं वा वेदाश्रं तूत्तमादिकम् ।
द्वादशाष्टचतुस्तम्भं वितानाद्यैरलङ्कृतम् ॥ २८ ॥

द्विहस्तमानं तन्मध्ये स्थण्डिलं शालितण्डुलैः ।
चतुरश्रं वितस्त्युच्चं चतुष्षष्टिपदान्वितम् ॥ २९ ॥

तस्मिन् ब्रह्मादिकानिष्ट्वा वास्तुदेवान् यथाविधि ।
पञ्चविंशतिसङ्ख्यांस्तु कलशानम्बुपूरितान् ॥ ३० ॥

युक्तान् हिरण्यवस्त्राद्यैश्चोपपीठस्थदैवतैः । संस्थाप्य
स्थपतिः स्नातः शुक्लवस्त्रादिभूषितः ॥ ३१ ॥

तस्योत्तरे कुशास्तीर्णे पयः पीत्वा निशि स्वपेत् । प्रातः
प्रासादतः प्राच्यां प्राग्वद् वेदाश्रमण्डपे ॥ ३२ ॥

अलङ्कृते वितानाद्यैः सचतुर्द्वारतोरणे ।
मण्डपव्यासरामांशां व्यासोच्चायामतः समाम् ॥ ३३ ॥

कृत्वा वेदिं तु वेदाश्रां तस्यां तत्र चतुर्दिशम् ।
चतुरश्राणि कुण्डानि विदिक्ष्वश्वथपत्रवत् ॥ ३४ ॥

इन्द्रेशमध्ये चाष्टाश्रं कुण्डं कृत्वा शिवानले । आचार्यो
मूर्तिपैः सार्धं मूर्तिमन्त्रैश्चतुर्दिशम् ॥ ३५ ॥

जुहोतु चाङ्गैः कोणेषु वस्वश्रे संहितास्त्रतः ।
मूर्त्तिपैर्दिक्षु होतव्यमाचार्येणाष्टकोणके ॥ ३६ ॥

वेदिकास्थण्डिले कुम्भे साङ्गमूलं शिवं यजेत् । विमानस्य
चतुर्दिक्षु वृत्तकुण्डेषुमूर्त्तिभिः ॥ ३७ ॥

जुहुयादपि सर्वत्र समिदाज्यौदनौस्तिलैः । विमानमथ
जन्मादिस्तूप्यन्तं वसनैर्नवैः ॥ ३८ ॥

वेष्टयेद् दर्भमालाभिर्माल्यैश्चाप्युपपन्त्तितः ।
चतुर्वर्णौदनैश्चापि या (वी? वैः) कृसरपायसैः ॥ ३९ ॥

दधिदुग्धगुलक्षौद्ररत्नहेमफलाक्षतैः । हेमपात्रं
समापूर्य वास्तुभूतबलिं निशि ॥ ४० ॥

दत्त्वा ततः प्रभाते तु स्थपतिः स्थापकोऽपिच । स्नानादिकाः
क्रियाः कृत्वा विमानमधिरुह्य तु ॥ ४१ ॥

स्थापको मूर्तिपैः सार्धं कलशैस्तैर्यथाक्रमम् । अभिषिञ्च्य
विमानं तद् गन्धाद्यैरर्चयेत् ततः ॥ ४२ ॥

शिखरस्य पुरोभागे स्वर्णसूच्याथ नेत्रयोः । स्थण्डिलानि
लिखित्वा तु नेत्रमोक्षं तथाचरेत् ॥ ४३ ॥

आच्छाद्याहतवस्त्रेण व्यपनीयाथ दर्शयेत् । सवत्सां गां च
विप्रांश्च धान्यराशिं च काञ्चनम् ॥ ४४ ॥

ततः स्थपतिरव्यग्रः शङ्खतूर्यादिनिस्वनैः । प्रलम्बयेद्
ध्वजं प्राग्वत् स्तूप्यग्रग्रन्थिताननम् ॥ ४५ ॥

प्राग्वच्छुभाशुभाञ्ज्ञात्वा शान्तिं कुर्याच्छुभेतरे । ततो
वेदिस्थकलशकुशाम्भोभिश्च सर्वतः ॥ ४६ ॥

सम्प्रोक्ष्य तु विमानं तत् प्रजपेद् भुवनेश्वरीम् ।
विमानादवरुह्याथ स्थपतिस्तक्षकैर्वृतः ॥ ४७ ॥

सगर्भमण्डपं धिष्ण्यं कुशगन्धजलैः क्रमात् ।
सम्प्रोक्ष्य चाष्ट धान्यानि विकिरेत् सर्वतोऽपिच ॥ ४८ ॥

स्थपतिः प्रमुखे स्थित्वा पुष्पगन्धाक्षताम्बुभिः ।
पूर्णाञ्जलिरिमाञ्श्लोकान् पठेद् देवाननुस्मरन् ॥ ४९ ॥

वर्षाम्बुबाधादशनिप्रपाताच्चण्डाच्च वायोरपि चाग्निदाहात् ।
चोरादिकेभ्यः परचक्रघाताद् रक्षन्त्विदं सद्म सुरासुराद्याः
॥ ५० ॥

अगदा मनुजाः सघनाः सुखिनः प्रथिता यशसा च भवन्तु
चिरम् । विजयी निखिलां पशुसस्यवतीं सुकृती नृपतिः
पृथिवीमवतात् ॥ ५१ ॥

ब्रह्मा विष्णुः शङ्करश्चन्द्रसूर्यौ नन्दी लक्ष्मीर्वाग् वधूः
(?) स्कन्द इन्द्रः । भूमिर्देवाश्चर्षयश्च प्रजानां
श्रीसौभाग्यारोग्यभोगान् कृषीरन् ॥ ५२ ॥

इति ।

स्थपतिस्त्वेवमुच्चार्य स्वकर्म परिनिष्ठितम् । समापयेत्
स्थापकोऽपि स्वकर्माथ समापयेत् ॥ ५३ ॥

पुण्याहं वाचयित्वाग्रे कुम्भतोयकुशोदकैः । पञ्चगव्येन
चाशेषं प्रासादं प्रोक्षयेत् क्रमात् ॥ ५४ ॥

ततः प्रासादमूर्त्तिं तु विन्यस्य सकलां स्मरेत् ।
प्रासादबीजं हंसाढ्यं द्वादशान्ताद् विनिःसृतम् ॥ ५५ ॥

आनीय विन्यसेत् तस्यां धिष्ण्यमूर्त्तौ चिदात्मकम् ।
ततश्चार्घ्यादिभिस्तद्वद् गन्धाद्यैश्च यथाक्रमम् ॥ ५६ ॥

निवेद्यान्तं यजेत् सम्यग् विमानं तत् प्रसन्नधीः ।
यजमानस्ततः स्वर्णवसनाभरणादिभिः ॥ ५७ ॥

स्थापकं स्थपतिं चापि पूजयित्वा स्वशक्तितः ।
विमानकरणोदीर्णपरिक्लेशफलात्मकम् ॥ ५८ ॥

गृह्णीयाद् धर्मसर्वस्वं तक्ष्णः कनकधारया । तत्र स्वयं
तु स्थपतिर्दद्यात् सलिलधारया ॥ ५९ ॥

पुनस्तं हेमवस्त्राद्यैर्यजमानस्तु तोषयेत् । यदि तक्षकरादेवं
न गृह्णीयात् प्रमुग्धधीः ॥ ६० ॥

तत्कर्म निष्फलं तु स्याद् यतोऽस्माद् ग्राह्यमेव तत् ।
अथान्यानपि तक्षादीन् कर्ता कर्मकरानपि ॥ ६१॥

तोषयेदुचितैर्द्रव्यैर्मूर्तिपान् ब्राह्मणानपि ।
गोधान्यध्वजवस्त्राद्यं दद्यात् स्थपतयेऽखिलम् ॥ ६२ ॥

भोजयेद् ब्राह्मणादींश्च दक्षिणाभिश्च तोषयेत् । ब्रह्मैव
स्थपतिः साक्षाद् यजमानः स्वयं हरिः ॥ ६३ ॥

आचार्यो भगवान् रुद्रस्त्रिभिर्निष्पादितं तु यत् । तद्वस्तु
स्थिरमेव स्याद् दृष्टादृष्टफलप्रदम् ॥ ६४ ॥

विमानप्रतिष्ठाधिकारः ।

हृत्प्रतिष्ठा विधेयाथ दैवे धाम्नि सुनिष्ठिते ।
चतुर्द्वारादिसंयुक्तं प्राग्वदाभूष्य मण्डपम् ॥ ६५ ॥

विकिरक्षेपकुम्भास्त्रवह्न्याधानादिपूर्वकम् । मन्त्राणां
तर्पणान्तं तु कर्म दीक्षावदाचरेत् ॥ ६६ ॥

हिरण्येन यथाशक्ति कृत्वा प्रासादपूरुषम् । बहिरुत्तरवेद्यां
तु संस्नाप्याच्छाद्य वाससा ॥ ६७ ॥

विन्यस्य चेष्ट्वा गन्धाद्यैस्ततो मण्डपमानयेत् । शय्यायां
शाययेद् वेद्यां पुरुषं प्रलयाकलम् ॥ ६८ ॥

शिवाज्ञापदसम्बुद्धं ततः कुर्यात् सचेतनम् ।
तारहृत्सम्पुटं हंसमुद्धृत्यात्मपदं ततः ॥ ६९ ॥

शिवाज्ञया शरीरेऽस्मिन् त्वया स्थातव्यमित्यपि ।
उच्चार्याथाञ्जलिं पुष्पैरापूर्य द्वादशान्ततः ॥ ७० ॥

चैतन्यं तारकाकारं नियोज्य कुसुमाञ्जलौ । हिरण्यपुंसो
हृत्पद्मे नाडीमार्गेण योजयेत् ॥ ७१ ॥

ततः कलादिकं देहं तस्मिन् सङ्कल्प्य विन्यसेत् ।

तद्यथा -

ॐ हां कलायै नमः । ॐ हां कलाधिपतये नमः । ॐ हां
कलाधिपस्य कर्तृत्वाभिव्यक्तिं कुरुकुरु ।

अनेनैव प्रकारेण विद्यारागादिकान्यपि ॥ ७२ ॥

अहङ्कारं तु तत्त्वानि पृथगुच्चार्य तु न्यसेत् । विद्यादीनां
विशेषेण कार्यं भिन्नं प्रशस्यते ॥ ७३॥

तद्यथा -

विद्याधिपास्य ज्ञानाभिव्यक्तिं रागाधिपास्य विषयेषु रागं
प्रकृत्यधिपास्य स्वाधिकारकर्तृत्वं बुद्ध्यधिपास्य बोधम्
अहङ्काराधिपास्याभिमानं कुरु कुर्विति सर्वत्रान्ते योजयेत् ।

मनसश्च दशाक्षाणामधिपाः स्युः पृथक् पृथक् ।

तद्यथा -

चन्द्रो दिशश्च वायुश्च सूर्योऽथ वरुणोऽश्विनौ ॥ ७४ ॥

समनश्श्रोत्रपूर्वाणामिन्द्रियाणामिहाधिपाः । अग्निरिन्द्रस्तथा
विष्णुर्मित्रो ब्रह्मा च ते क्रमात् ॥ ७५ ॥

वागादिकर्मेन्द्रियाणां पञ्चाधिपतयो मताः । मनस(स्वोः?
श्चो)दितं कर्म स्यात् सङ्कल्पविकल्पकम् ॥ ७६ ॥

श्रोत्रादीनां तु शब्दादेर्ग्राहकत्वं पृथक् स्मृतम् ।
उक्त्युपादानगमनविसर्गानन्दकर्मणाम् ॥ ७७ ॥

ग्राहकत्वं पृथग् वाच्यं वागादीनां यथाक्रमम् । अथादौ
तारहृद्बीजपूर्वं शब्दादिपञ्चकम् ॥ ७८ ॥

उच्चारयेच्चतुर्थ्या तु नमोन्तं तु सकृत् सकृत् । आकाशादीनि
पञ्चाथ नमोन्तं पूर्ववद् वदेत् ॥ ७९ ॥

सदाशिवाद्या ब्रह्मान्तास्ते चाकाशादिपञ्चसु । अधिपाः
पूर्ववद् वाच्या नमोन्तं सचतुर्थिकम् ॥ ८० ॥

एवं तत्त्वानि विन्यस्य नाडीनां दशकं न्यसेत् ।
तारहृत्पूर्वकं तद्वन्नमोन्तं सचतुर्थिकम् ॥ ८१ ॥

इडां पिङ्गां सुषुम्नां च गान्धारीं हस्तिजिह्विकाम् ।
सुयशालम्बुषे पूषां कुहूमप्यथ शङ्खिनीम् ॥ ८२ ॥

दश नाडीनामानि ।

तद्वत् प्राणमपानं च ध्यानोदानसमानकान् । नागं कूर्मं च
कृकरं देवदत्तं धनञ्जयम् ॥ ८३ ॥

दश प्राणानिमांश्चापि न्यसेत् प्राग्वन्नमोन्तकम् । इति मायां
स्वाधिकारपूर्वकत्वेन संस्मरन् ॥ ८४ ॥

कालं नियामकं चैव बन्धकत्वेन चिन्तयन् ।
अङ्गुष्ठमात्रप्रभृतिमन्त्रैः प्रेरकतां तथा ॥ ८५ ॥

व्यापकत्वेन पुरुषं भगवन्तं तु विन्यसेत् ।
निरोधयेन्निष्ठुरया त्रिखण्डाध्वानमप्यथ ॥ ८६ ॥

मायासदेशरुद्रान्तं ध्यात्वा रक्षां तथास्त्रतः । ततः
कुण्डान्तिकं गत्वा शक्तिमाधारसञ्ज्ञिताम् ॥ ८७ ॥

प्राग्वत् कालादितत्त्वानि तारहृद्बीजपूर्वकम् । नमोन्तमग्नौ
विन्यस्य तथाज्याहुतिभिः पुनः ॥ ८८ ॥

हुत्वा जपित्वा तत्सङ्ख्यं शिवाज्ञांश्रावयेत् ततः ।

ॐ हां कालाधिप स्वतत्त्वेन सह शिवाज्ञया
प्रासादस्थितिपर्यन्तमत्र स्थातव्यम् ।

विद्याद्याधारशक्त्यन्तं पृथगित्थं निरोधयेत् ॥ ८९ ॥

ततो गर्भगृहादूर्ध्वं शुकनासस्य चोपरि । खट्वायां
कॢप्तशय्यायां हेमाद्येकतमं घटम् ॥ ९० ॥

विन्यस्याज्यमधुभ्यां तं पूर्णं रत्नादिभिर्युतम् ।
सूक्ष्मवासोयुगच्छन्नमिष्ट्वा गन्धादिभिः क्रमात् ॥ ९१ ॥

तं हेमपुरुषं तस्मिन् विन्यस्याराधयेत् पुनः ।
प्रायश्चित्तमघोरेण हुताथाचार्यदक्षिणाम् ॥ ९२ ॥

दद्यान्मूर्तिपतिभ्यश्च ब्राह्मणेभ्यश्च शक्तितः । भगवन्तं
च वह्निं च यथापूर्वं विसर्जयेत् ॥ ९३ ॥

हृत्प्रतिष्ठाधिकारः ।

एवं स्तूपीकुम्भयोश्च प्रतिष्ठा तन्त्रेषूक्ता या
विमानप्रतिष्ठा । प्रोक्ता ह्यस्मिन् हृत्प्रतिष्ठा च याभिः
प्रासादः स्यात् सुप्रतिष्ठो महेशः ॥ ९४ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
क्रियापादे स्तूप्यादिलक्षणपटलश्चतुस्त्रिंशः ।