३३

अथ त्रयस्त्रिंशः पटलः ।

द्रव्याण्यथ विमानादेः शिला दारूणि चेष्टकाः । लोष्टानि
मृत् सुधा चेति षड्विधानि प्रचक्षते ॥ १ ॥

तत्र लक्ष्म शिलायास्तु परतोऽत्र निगद्यते । दार्वादीनां तु
पञ्चानां सङ्ग्रहः पूर्वमुच्यते ॥ २ ॥

वर्ज्यास्तु तरवः पूर्वं वक्ष्यन्ते ये सकोटराः । सवल्लिका
लताश्लिष्टाः कीटजुष्टाः सकण्टकाः ॥ ३ ॥

सदा पुष्पफलाढ्या वा नृगोदेवाश्रिताश्च ये ।
बहुपक्षिमृगैर्जुष्टाश्चैत्यमार्गश्मशानजाः ॥ ४ ॥

वक्राः शुष्काश्च ये भग्नाः सर्वभूतादिसंश्रयाः ।
पलाशाः कुटजा लोध्रा बिल्वपीलुशिरीषकाः ॥ ५ ॥

श्लेष्मातकाः कदम्बाश्च कोविदाराः सकिंशुकाः ।
पथ्याक्षामलकाः पार्थाः स्नुहिस्नुग्वरणा अपि ॥ ६ ॥

अम्बष्ठाः सप्तपर्णाश्च कारस्करविकङ्कताः ।
न्यग्रोधोदुम्बराश्वत्थप्लक्षशल्मलितिन्दुकाः ॥ ७ ॥

नन्द्यावर्ताश्च बदराः करवीराः कपित्त्थकाः ।
सर्पमारारिमेदाश्च पुत्रजीवाः सडुण्डुकाः ॥ ८ ॥

तिन्त्रिणीपाटलाशोककर्पूरागरुगृञ्जनाः । अर्काश्च
वर्जनीयाः स्युर्देवमानुषधामसु ॥ ९ ॥

ऋजवः सारवन्तश्च दृढाश्च चिरजीविनः ।
वर्षवातातपसहा जलस्थलसहाश्च ये ॥ १० ॥

तत्तद्देशोचिताः शस्ता ग्राह्याः स्युः शुभधामसु । प्रायशः
क्षीरतरवो न मनुष्यगृहोचिताः ॥ ११ ॥

देवधामसु ते योग्याः सर्वेषां लिकूचः शुभः ।
वृत्ताकारस्तु मूलाग्राद् बहुशाखो दृढायतः ॥ १२ ॥

पुंवृक्षः स्यात् तरोः स्त्रीत्वं स्थूलमूलकृशाग्रता ।
मूलाग्रयोः कृशत्वं च मध्ये स्थौल्यं च षण्डता ॥ १३ ॥

मुहूर्तगर्भस्तम्भादौ पुंवृक्षेणैव कारयेत् । शेषकर्मसु
सर्वेषु त्रिलिङ्गैरपि शस्यते ॥ १४ ॥

दारुनियमः ।

शुक्लपक्षे शुभर्क्षादौ कर्ता स्थपतिना सह । स्नातः
सिताम्बरालेपः कृतकौतुकमङ्गलः ॥ १५ ॥

वाचयित्वा द्विजैः स्वस्ति सर्वातोद्यपुरस्कृतः । यथोद्दिष्टं
व्रजेद् देशमुद्दिष्टैस्तरुभिर्युतम् ॥ १६ ॥

प्रयाणसमये शस्त्रैर्निमित्तैर्ज्ञातमङ्गलः ।
उद्दिष्टवृक्षच्छायायामुपलिप्य तु मण्डलम् ॥ १७ ॥

गणेशं गन्धपुष्पाद्यैर्भक्ष्यैर्भोज्यैश्च पूजयेत् ।
क्षेत्रेशमोषधीशं च तथैव वनदेवताः ॥ १८ ॥

गन्धादिभिश्च चरुणा फलपायसमोदकैः । इष्ट्वा भूतबलिं
दद्याद् भूतान्नकृसरौदनैः ॥ १९ ॥

सटङ्कः स्थपतिः स्नात्वा मन्त्रावेतावुदीरयेत् । अपक्रामन्तु
भूतानि देवताश्च सगुह्यकाः ॥ २० ॥

युष्मभ्यं सुबलिर्भूयात् सोमो दिशतु पादपान् । शिवमस्तु
महीपुत्रा युष्मभ्यं चापि नः सदा ॥ २१ ॥

कर्मैतत् साधयिष्यामि क्रियतां वासपर्ययः । एवमुक्त्वा
नमस्कृत्य पादपेभ्यः प्रसन्नधीः ॥ २२ ॥

तरोश्छेद्यस्य तु प्राच्यां पीत्वा गव्यं पयो निशि । दर्भेषु
स्थपतिः सुप्त्वा सुस्वप्नैः प्रातरुत्थितः ॥ २३ ॥

स्नात्वा स्वलङ्कृतः शस्ते मुहूर्ते स्थपतिः सुधीः । आलिप्य
परशोरास्यं पञ्चगव्येन वाग्यतः ॥ २४ ॥

वाद्यैश्च मङ्गलैर्गीर्भिः प्राङ्मुखो वाप्युदङ्मुखः ।
किष्कुमात्रं तरोर्मूलं त्यक्त्वा छिन्द्यात् तदूर्ध्वतः ॥ २५ ॥

छेदात् क्षीरस्रुतिर्लक्ष्म्यै जलस्रावस्तु सौख्यकृत् । रुधिरस्य
विनाशाय कुर्तुश्छिन्द्यान्न तं तरुम् ॥ २६ ॥

सिंहेभवृषभध्वानाः पतने तु शुभावहाः ।
हसिताक्रोशरुदितकूजितान्यशुभान्यतः ॥ २७ ॥

तं वृक्षं वर्जयित्वान्यं गृह्णीयाच्छुभलक्षणैः ।
इन्द्रेशार्थददिक्पातस्तन्मुखाग्रं च शस्यते ॥ २८ ॥

अन्यथा पतितस्त्याज्यो भङ्गः सर्वत्र गर्हितः । वृक्षान्तरादौ
सङ्गोऽपि विघ्नक्लेशकरोऽशुभः ॥ २९ ॥

शुभच्छेदाग्रपतनं तरुमूलाग्रयोः समम् ।
इष्टप्रमाणतश्छित्त्वा चतुरश्रं तु तक्षयेत् ॥ ३० ॥

मुहूर्तस्तम्भमुद्दिश्य शुक्लेनाच्छाद्य वाससा । शकटादौ
समारोप्य यथोद्देशमुपाहरेत् ॥ ३१ ॥

देवद्विजनरेन्द्राणां विशां च शकटैर्गजैः ।
दार्वाहारणमिष्टं स्यादन्येषां नृभिराहरेत् ॥ ३२ ॥

प्रवेश्य शस्तद्वारेण कर्मशालास्थले ततः । वालुकासञ्चये
दारु शाययेत् पूर्वमस्तकम् ॥ ३३ ॥

न परावर्तनं कुर्यादष्टपञ्चत्रिमासतः । इत्थं
दारोर्विधानेन सङ्ग्रहेद् धामकर्मणि ॥ ३४ ॥

स्वीकारः सर्वदारुणां विधिनैव कृतो भवेत् ।

दारुस्वीकरणम् ।

अथेष्टकानां करणं सुधा चैव निगद्यते ॥ ३५ ॥

चिक्कणा पाण्डराख्या च सलोणा च विगर्हिता । चतुर्थी
ताम्रफुल्ला तु कर्मयोग्या मृदिष्यते ॥ ३६ ॥

तुषाङ्गारास्थिपाषाणकाष्ठशर्करलोष्टकैः । वर्जिता
सूक्ष्मसिकता ताम्रफुल्लेष्टकोचिता ॥ ३७ ॥

तां प्रक्षिप्यावटे मृत्स्नां जानुदघ्नं जलं क्षिपेत् ।
आलोड्य पद्भिः सङ्क्षोभ्य मर्दयेत् तां पुनः पुनः ॥ ३८ ॥

ततः क्षीरागशैरीषत्वक्क्वाथन्त्रिफलाम्बुभिः ।
मर्दयेन्मासमात्रं तु तत्कर्मकुशलैर्नरैः ॥ ३९ ॥

इष्टकाः कल्पयेत् सम्यग् द्वादशाङ्गुलमायताः ।
तदर्धविस्तृताः कुर्याद् व्यासरामांशमुच्छ्रिताः ॥ ४० ॥

त्रिपादोनास्त्वतो वा स्युर्घमें ताः परिशोषयेत् । अखण्डर्क्षे
सुलग्नादौ चुल्लिं कृत्वानुमारुतम् ॥ ४१ ॥

तत्रेष्टकास्ताः सन्दध्यात् सान्तरं क्रमशश्चिताः ।
काष्ठैः पलालभाराद्यैराचिताः स्युर्निरन्तरम् ॥ ४२ ॥

बहिराच्छादयेत् सम्य मृत्स्नया च विलेपयेत् ।
तन्मुखेष्वग्निमाधाय दशाहं पक्षमेव वा ॥ ४३ ॥

संस्कृत्य ज्वलने शान्ते समुद्धृत्येष्टकास्ततः । प्रक्षिप्य
सलिले वर्षमष्टौ मासान् षडेव वा ॥ ४४ ॥

उद्धरेदिष्टकास्ताः स्युर्विमानादिक्रियोचितः ।

इष्टकाः ।

इष्टकोक्तमृदा तद्वन्मृल्लोष्टकरणं स्मृतम् ॥ ४५ ॥

तत्तन्मात्राङ्गुलैरर्कदिग्वसूनां तु सङ्ख्यया ।
आयतान्युत्तमादीनि मृल्लोष्टानि भवन्ति हि ॥ ४६ ॥

खायामार्धात् स्मृतो व्यासः शरांशे द्व्यंशतोऽपि वा ।
व्यासे रामाब्धिबाणांशे लोष्टोत्सेधोऽंशतो भवेत् ॥ ४७॥

उत्तमादिक्रमादेवं मृल्लोष्टेषु स्मृतो विधिः ।
सुवर्णरूप्यताम्राणां लोष्टैः श्रेष्ठादिकं फलम् ॥ ४८ ॥

लभते देवधिष्ण्यादौ मार्त्तिकैरधमाधमम् । मानप्रमाणं
लोहानां ज्ञेयं वित्तानुंसारतः ॥ ४९ ॥

सर्वाण्यपि समानानि सप्तभेदानि तान्यपि । द्व्यश्रं चैव
द्विकोणाग्रं पार्श्वलोष्टं च वर्तुलम् ॥ ५० ॥

कोणलोष्टं च वक्रं च पद्मलोष्टं च सप्तमम् ।
क्रमपङ्क्तिनिवेशस्तु तेर्विधेयं तु युक्तितः ॥ ५१ ॥

इष्टकालोष्टकरणम् ।

करालमुद्गगुल्मासकल्कचिक्कणकाह्वया । चूर्णोपयुक्ताः पञ्चैते
सुधाप्रकृतयो मताः ॥ ५२ ॥

अभयाक्षबीजमात्राः शर्कराः स्युः करालकाः । मुद्गा
मुद्गसमा ज्ञेया मुद्गिनः क्षुद्रशर्कराः ॥ ५३ ॥

सार्धत्रिपादद्विगुणकिञ्जल्कसिकतान्वितम् । चूर्णं तु
शर्कराशुक्त्योर्यद् गुल्मासं तदुच्यते ॥ ५४ ॥

करालमुद्ग्योः पूर्वोक्तमानेन सिकतान्वितम् । चणकस्य च
चूर्णस्य पिष्टं यत् कल्कमिष्यते ॥ ५५ ॥

चिक्कणं केवलं त्वम्बु बद्धोदकमिति द्विधा । केवलेनाम्भसा
पूर्वं पूर्वोक्तांस्त्रिः प्रकुट्टयेत् ॥ ५६ ॥

क्षीरद्रुमामलाक्षाणां कदम्बाभययोरपि ।
त्वग्जलैस्त्रिफलातोयं माषयूषं च तत्समम् ॥ ५७ ॥

संयम्य शर्कराशुक्त्योश्चूर्णं तत् खातवारिणि ।
खुरसङ्कुट्टनं कृत्वा स्रावयित्वाथ वाससा ॥ ५८ ॥

चिक्कणं कल्पयेत् तेन बद्धोदकमथोच्यते ।
दधिदुग्धमाषयूषैर्गुलाज्यकदलीफलैः ॥ ५९ ॥

नालिकेराम्रफलयोर्जलैश्चैतत् सुकल्पितम् । बद्धोदकं भवेत्
तच्च समभागं नियोजयेत् ॥ ६० ॥

लब्धचूर्णं शतांशं तु क्षौद्रमंशद्वयं भवेत् । आज्यं
तु कदलीपक्वं नालिकेराम्बुमाषयूः ॥ ६१ ॥

क्षीरागत्वक्कषायश्च क्षीरं दधि ततो गुलम् । पिच्छिलं
त्रिफलाम्भश्च त्र्यंशादिकमिदं क्रमात् ॥ ६२ ॥

अंशवृद्ध्या समायोज्य चूतपक्वाम्बु शक्तितः । एकीकृत्य
करालं च प्रक्षिपेद् दृढपेषितम् ॥ ६३ ॥

अतीत्यैकदिनं पश्चाद् यथैव घनता भवेत् । नारिकेलस्य
शाखादिदण्डैः सन्ताडयेन्मुहुः ॥ ६४ ॥

अतीत्य दशरात्रं तु मुद्गीर्गुल्मासकल्ककैः । युक्तं
सुकुट्टितं युक्त्या सुधा भवति शोभना ॥ ६५ ॥

अपिच -

पूर्वं द्व्यंशं करालं मधुघृतकदलीनालिकेराम्बुमाष-
यूषं वार्क्षः कषायः स्तनजदधिगुलत्रैफलाम्भांसि
चैवम् । वृद्धान्यंशक्रमेण स्फुटशशिधवलं चूर्णमुक्तं
शतांश पिष्टं सर्वं यथावद् भवति वरसुधा वज्रबद्धं
यथैव ॥ ६६ ॥

चतुस्त्रिद्वयमासान्तमुषिता युक्तिमर्दिता । श्रेष्ठमध्याधमा
ज्ञेया सुधाअ सौधादिबन्धनी ॥ ६७ ॥

अथ कुड्यादिकं शुष्कं नीरन्ध्रं सुसमं मृदु ।
शुद्धाम्भसादौ प्रक्षाल्य दधिक्षीरगुलान्वितम् ॥ ६८ ॥

बद्धोदकेन चालिप्य व्यपोह्यैकदिनं ततः । सुद्धां नियोजयेद्
युक्त्या यथा यत्रोचितं भवेत् ॥ ६९ ॥

भित्त्यादौ तत्र लेख्यं स्याच्चित्रं चित्रतराकृति ।
स्वागमोदितदेवादिपुराणोक्तकथान्वितम् ॥ ७० ॥

रङ्गवर्णान्वितं रम्यं न न्यूनं नाधिकं क्वचित् ।
तत्रतत्रोचिताकाररसभावक्रियान्वितम् ॥ ७१ ॥

चित्रं विचित्रफलदं भर्तुः कर्तुश्च सर्वदा ।
अतोऽन्यदशुभं चित्रं विपरीतफलप्रदम् ॥ ७२ ॥

न लेखयेत् तन्न लिखेल्लोकद्वयसुखेच्छया ।

सुधाधिकारः ।

द्रव्याणामपि दारूणां बलायामादिसिद्धये ॥ ७३ ॥

स्थितानां शायितानां च सन्धिकर्म निगद्यते । बाह्यं
चाभ्यन्तरं पार्श्वेऽप्यधस्ताच्च तथोपरि ॥ ७४ ॥

अन्यत्रापि च यत्रेष्टं सन्दध्यादुचितं यथा । सर्वदारूणि
पूर्वाग्रमुत्तराग्रं च योजयेत् ॥ ७५ ॥

शुभदं विपरीताग्रमशुभायेह कल्पते । मूले मूलं न
सन्दध्यादग्रेणाग्रं न योजयेत् ॥ ७६ ॥

मूलाग्रद्रव्ययोगेन सन्धानं सम्पदां पदम् । वास्तुमध्ये ततो
द्वारे देवांशेष्वपि कर्णयोः ॥ ७७ ॥

सन्धानं स्थाननाशाय कुलक्षयकरं त्यजेत् । मेषयुद्धं
त्रिखण्डं च सौमद्रं चार्धपाणिकम् ॥ ७८ ॥

(महा? मान) वृत्तं च सन्धानं स्तम्भानां पञ्चधैव हि ।
षट्शिखं झषदन्तं च सूकरघ्राणमप्यथ ॥ ७९ ॥

सङ्कीर्णकीलं वज्रं च शयिते पञ्च सन्धयः ।
स्तम्भद्रव्यस्य विस्ताराद् रामांशान्मध्यतः शिखम् ॥ ८० ॥

मेषयुद्धं स्वस्तिकाभं सत्रिचूडं त्रिखण्डकम् ।
सौभद्रमिति तत् प्रोक्तं पार्श्वप्राप्तचतुश्शिखम् ॥ ८१ ॥

गृहीतघनमानार्घं छित्त्वा मूलाग्रयोर्मिथः ।
निश्छिद्रमर्पितः प्रोक्तः सन्धिः स्यादर्धपाणिकः ॥ ८२ ॥

मध्ये स्वार्धेन यद् वृत्तशिखं तन्मानवृत्तकम् ।
निवृत्ताकृतिनिष्पाद्ये योजयेदुक्तमार्गतः ॥ ८३ ॥

अथार्घपाणिखण्डाभ्यां हलाकारास्तु तच्छिखाः ।
समध्यस्थितकलिं च यत्र स्यात् षट्छिखस्तु सः ॥ ८४ ॥

झषदन्तो निजायामातर्यग्बाहुशिवमयुतः । आधाराधेययोगेन
यथाबलशिखायुतम् ॥ ८५ ॥

सूकरघ्राणवद्योज्यः सूकरघ्राणसञ्ज्ञिते । यथायुक्ति
यथायोगं शूलैर्नानाविधैर्युतम् ॥ ८६ ॥

सङ्कींर्णकीलसञ्ज्ञः स्याद् वज्राभो वज्रचूडकः ।
स्वव्यासकर्णाध्यर्धं वा सन्ध्यायामः स्थिते भवेत् ॥ ८७ ॥

रसम्भमध्ये न सन्दध्यान्मध्यसन्धिर्विनाशकृत् । दक्षिणेऽपि
च वामे च स्तम्भचूडान्तरं तु तत् ॥ ८८ ॥

सन्धिमध्यं नियोज्यं स्यात् तदेवं सम्पदां पदम् ।
अन्योन्यसन्धिविद्धं तु शिखाकीलं न वेधयेत् ॥ ८९ ॥

तद्द्रव्यव्यासमध्यस्था शिखा सम्पद्विनाशिनी ।
दक्षिणोत्तरयोर्युक्ता शिखा सम्पत्करीइ भवेत् ॥ ९० ॥

गृहितस्तम्भविपुले त्वष्टसप्तषडंशके । शिखयाः
कीलकस्यापि विस्तारो भागतो भवेत् ॥ ९१ ॥

एकपङ्क्तिगतस्तम्भेष्वेकाकारास्तु सन्धयः ।
मिश्रसन्धिर्विनाशाय तस्मान्मिश्रं तु वर्जयेत् ॥ ९२ ॥

स्तम्भसन्धिः ।

अदीर्घदीर्घद्रव्याभ्यां सन्धयः रघुर्बहिबीहिः ।
अन्तरन्तनियोज्यं स्याद् दक्षिणादक्षिणा तथा ॥ ९३ ॥

मध्यद्रव्यं यथादीर्घं ह्रस्वद्रव्येषु पार्श्वयोः ।
सन्दध्याच्छयितद्रव्ये समं वापि त्रयं क्वचित् ॥ ९४ ॥

मूलाग्रयोरलङ्कारांस्त्यक्त्वा सर्वत्र सन्धयेत् । अन्तर्मूलं
बहिश्चात्र शयितद्रव्यसन्धिषु ॥ ९५ ॥

अत्र पराशरः -

मूलं मूलेन नैर्-ऋत्यामग्रेणाग्रं तु शूलिनि । मूलाग्रयोस्तु
संयोगः शयितेऽग्नौ च मारुते ॥

नवद्रव्यं नवेनैव जीर्णं जीर्णेन सन्धयेत् । दारुणा दारु
सन्दध्यात् त्वक्सारं त्वचिसारकैः ॥

स्वजातिभिः स्वजातीस्तु सन्दध्यान्न विजातिभिः । शिलाः
शिलाभिः सन्दध्यादिष्टकाभिस्तथेष्टकाः ॥

विपरीतं विनाशाय यथोद्दिष्टं सुखावहम् ॥

इति । मयोऽप्याह -

मल्लकीलं तथा ब्रह्मराजं वै वेणुपर्वकम् । क्रमुकं
देवसन्धिश्च दण्डकः षष्ठ उच्यते ॥

इति ।

द्रव्य[ग्: व]द्वयस्य त्वेकत्र सन्धिः स्यान्मल्लकीलकः ।
त्रिद्रव्यैर्ब्रह्मराजाख्यो वेणुपर्वाब्धिबाणकैः ॥ ९६ ॥

क्रमुकः षण्मुनिद्रव्यैर्देवसन्धिर्नवाष्टभिः ।
बहुसन्धिर्बहुद्रव्यैर्दण्डिकासन्धिरुच्यते ॥ ९७ ॥

स्वस्तिकं वर्धमानं च नन्द्यावर्तमतःपरम् । ततश्च
सर्वतोभद्रं तत्तदाकारसन्धयः ॥ ९८ ॥

अन्तर्मूलं बहिश्चाग्रं पार्श्वद्रव्येषु शोभनम् । विपरीतं
विनाशाय यतस्तन्न समाचरेत् ॥ ९९ ॥

पितामहादिशास्त्रेषु यथादृष्टं पुरातनैः । तथा तत्तत्
प्रकुर्वीत सौख्यायुस्सम्प्रवृद्धये ॥ १०० ॥

दार्विष्टकालोष्टसुधाविशेषाः प्रोक्ता यथालक्षणतश्च
योगाः । सन्धिः स्थितानामपि शायितानां सन्दर्शितोऽनेकविधो
यथावत् ॥ १०१ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
क्रियापादे दार्वादिलक्षणपटलस्त्रयस्त्रिंशः ।