३२

अथ द्वात्रिंशः पटलः ।

तोरणं त्रिविधं ज्ञेयं मकरं चित्रपत्रके ।
देवद्विजनृपाणां तु शस्तं मकरतोरणम् ॥ १ ॥

विशां तु चित्रसञ्ज्ञं स्याच्छूद्राणां पत्रतोरणम् ।
पार्श्वयोः पृष्ठतश्चापि प्रकुर्यात् कुड्यतोरणम् ॥ २ ॥

प्रतेरुत्तरसीमान्तं तोरणोदय ईरितः । तदर्धेनास्य
विस्तारस्तद्व्यासेऽथ शरांशके ॥ ३ ॥

त्रिभिर्मकरयुग्मं स्यादंशाभ्यां पादयोः स्थितिः । यथा
शोभान्तरं तत्र गुहावेशो भवेदपि ॥ ४ ॥

अर्धेन्दुसदृशैः पत्रैश्चित्रितं पत्रतोरणम् ।
नक्रयोर्वदनासक्तमध्यपूरिममण्डितम् ॥ ५ ॥

चित्रतोरणमुद्दिष्टं मध्यपूरिमपार्श्वयोः । विगृह्य
मकरस्योत्थरत्नमालाधिरोपितैः ॥ ६ ॥

भूतविद्याधरव्यालसिंहैश्चारूढबालकैः । विलम्बितं
तूभयतो भवेन्मकरतोरणम् ॥ ७ ॥

गुहासु तोरणानां तु यथार्हं प्रतिमास्तथा ।
न्यस्येन्नारीनरादींश्च यथाशोभं विचित्रितम् ॥ ८ ॥

हारासु बलभीमध्ये प्रमाणभवनेऽपि वा । कुड्येषु तोरणानि
स्युस्तत्कुड्यं पञ्चधा स्मृतम् ॥ ९ ॥

शिलामयं चैष्टकं च जालकामयमित्यपि ।
फलकामयमप्यन्त्यं मृन्मयं चापरं क्रमात् ॥ १० ॥

यथार्हव्यासतुङ्गं तत् कुड्यं शैलं शिलामयम् ।
नानाजालकनिष्पाद्यं कुड्यं यज्जालकामयम् ॥ ११ ॥

यथार्हस्तम्भविन्यासं शस्तदारुमयक्रियम् । फलकाभिश्चितं
मध्ये कुड्यं स्यात् फलकामयम् ॥ १२ ॥

मृत्तिकाभिः प्रशस्ताभिः कषायसलिलादिभिः ।
मर्दिताभ्युषिताभिश्च चि(त्रं ? तं) कुड्यं तु मृन्मयम् ॥ १३

कुड्यव्यासत्रिदेवांशबहलां वाग्रपङ्कजाम् । पट्टिकां
चतुरश्रां वा कुड्योपरि नियोजयेत् ॥ १४ ॥

स्तम्भान्तरं द्विहस्तादि भवेत् पञ्चकरान्तरम् । वितस्तिवृद्ध्या
तन्मध्ये कार्या कुड्यलता त्रिधा ॥ १५ ॥

कुड्यस्तम्भस्य विस्ताराद् द्विगुणं चार्धमुञ्च्छ्रितम् । अधः
पद्मासनं कुर्यात् तदूर्ध्वं च यथारुचि ॥ १६ ॥

विनिर्गतोन्नतिं कुम्भं पार्श्वयोस्तस्य तन्मुखात् ।
पत्रैर्विनिर्गतैश्चित्रं यथाशोभं नियोजयेत् ॥ १७ ॥

तदूर्ध्वं कुड्यकस्तम्भसमपादाम्बुजासनम् । अखण्डकलशं
कुर्यात् पद्मकुम्भलतायुतम् ॥ १८ ॥

सा तु कुम्भलतासञ्ज्ञा सैव खण्डोपरि क्रमात् ।
नक्रतोरणवन्न्यस्ता स्तम्भकुम्भलता मता ॥ १९ ॥

कुम्भपद्मासनयुता सैव सर्वलतान्विता । पद्मकुम्भलता नाम
विज्ञेया हि लता भवेत् ॥ २० ॥

तले तले विमानानां (नि? दि)क्षु बेराणि विन्यसेत् ।
नन्दीश्वरमहाकालौ पूर्वद्वाराधिपौ न्यसेत् ॥ २१ ॥

दक्षिणे दक्षिणामूर्तिं पश्चिमे लिङ्गसम्भवम् । विष्णु
वाप्यथ कौबेरे दुर्गां ब्रह्माणमेव वा ॥ २२ ॥

मण्डपे मध्यपत्रे तु दक्षिणे च विनायकम् । उत्तरे नृत्तरूपं
तु क्षेत्रेशं चैशगोचरे ॥ २३ ॥

रुद्रावतारक्रीडादिकथारूपाणि चैव हि । मूलभित्तौ च परितो
विन्यसेदुक्तलक्षणम् ॥ २४ ॥

अथोपरितलात् प्राच्यामिन्द्रं षण्मुखमेव वा । दक्षिणे
दक्षिणामूर्तिं वीरभद्रमथापि वा ॥ २५ ॥

पश्चिमे नारसिंहं चाप्युत्तरे चार्थदं विधिम् । द्वितीये तु तले
चैवं तृतीये तु मरुद्गणान् ॥ २६ ॥

तले तलेऽमरान् सिद्धान् यक्षविद्याधरानपि ।
गन्धर्वानप्यप्सरसः सिद्धान् नागांस्तथा मुनीन् ॥ २७ ॥

प्रमथांश्चैव दैत्यादीन् षोडशप्रतिमास्तथा ।
कण्ठादधः प्रतेरूर्ध्वं कोणे कोणे वृषान् न्यसेत् ॥ २८ ॥

सर्वेषामपि देवानां कोणे कोणे स्ववाहनम् ।
कण्ठादधश्चान्त्यतले प्राकारादौ च विन्यसेत् ॥ २९ ॥

इत्येवमादिभिर्युक्तं विमानं सम्पदां पदम् ।
गर्भार्द्धसमविस्तारा महानासाश्चतुर्दिशम् ॥ ३० ॥

तदर्धाद् वा त्रिपादाद् वा तासां निर्गम ईरितः ।
क्षुद्रनासास्तदर्धाद् वा रामांशाद् वापि कारयेत् ॥ ३१ ॥

नासिकानां तु करणमष्टधोक्तं पुरातनैः ।
सिंहपञ्जरमादौ स्यात् पञ्जरं चार्धपञ्जरम् ॥ ३२ ॥

निर्यूहपञ्जरं चैव कथितं लम्बनासिकम् । सिंहश्रोत्रं
तथा खण्डनिर्यूहझषपञ्जरम् ॥ ३३ ॥

द्विदण्डादिचतुर्दण्डविस्तृतं शालयान्वितम् ।
सूचिपादद्वयोपेतं श्लिष्टप्राकारनीप्रकम् ॥ ३४ ॥

षड्वर्गसहितं व्याससमनिर्गममेव वा । शक्तिध्वजयुतं चापि
तथा सम्मुखपट्टिकम् ॥ ३५ ॥

वेदिकाजालकस्तम्भयुक्तं स्यात् सिंहपञ्जरम् ।
प्रासादनीप्रसंश्लिष्टखनीप्रादर्धनिर्गतम् ॥ ३६ ॥

अधिष्ठानाङ्घ्रियुक्तं च प्रस्तरग्रीवसंयुतम् । तद्वत्
सशिखरं शक्तिध्वजसम्मुखपट्टिकम् ॥ ३७ ॥

वेदिकाजालकर्णाढ्यं सार्धपञ्जरसञ्ज्ञितम् । प्राग्वच्छेषं
च विस्तारपादसम्मितनिर्गमम् ॥ ३८ ॥

व्यासत्रिभागनिर्यूहं वृत्तस्फुटितकर्मवत् । पञ्जराख्यं
स्मृतं चाथ स्वतुल्यशिखराग्रकम् ॥ ३९ ॥

श्लिष्टनीप्राङ्गकर्णं च कपोताद्यङ्गसंयुतम् ।
निर्यूहपञ्जरं त्वेतल्लम्बनासिकमुच्यते ॥ ४० ॥

संश्लिष्टनीप्रकर्णाङ्घ्रि कृतनागदलाद्यपि । निर्यूहसहितं
युक्तसर्वाङ्गंलम्बनासिकम् ॥ ४१ ॥

सिंहश्रोत्रशिखायुक्तमेतदेव तु पादवत् ।
नीप्रसंश्रितकर्णांशं सिंहश्रोत्राभिधानकम् ॥ ४२ ॥

यत् स्वविस्तारपञ्चांशद्व्यंशनिर्गमसंयुतम् । नीडाधस्तात्
कपोताद्यैः खण्डनिर्यूहकं युतम् ॥ ४३ ॥

दण्डदण्डार्धनिष्क्रान्तनीप्राधस्तात् तथोपरि ।
कण्ठोर्ध्वतोरणोपेतं कपोताद्यङ्गसंयुतम् ॥ ४४ ॥

झषपञ्जरसञ्ज्ञं स्यादथ कूटादि कथ्यते । कूटं
प्रासादषडभागादंशः शाला द्वि गतः ॥ ४५ ॥

प्रासादजयभूम्यादिकपोतोर्ध्वनिबन्धनात् । उन्नतः
पञ्जरोत्सेधस्तद्विभागोऽत्र कथ्यते ॥ ४६ ॥

पञ्जरोच्चे शरांशे तु सपादांशोऽङ्घ्रितुङ्गता । तदर्धं
प्रस्तरोत्सेधस्तत्समः कर्णकोछ्रयः ॥ ४७ ॥

शेषेणाप्यर्धकर्णः स्यादूर्ध्वं शीर्षोदयः स्मृतः ।
तत्स्तम्भार्धादधिष्ठानं शेषेणाप्युपपीठकम् ॥ ४८ ॥

एवमुक्ता हि सर्वेषां पञ्जराणामिहोन्नतिः । अथ
तोरणशालाया मूलाधिष्ठानतोऽर्धतः ॥ ४९ ॥

उच्चं भवेदधिष्ठानं स्तम्भस्तद्द्विगुणः स्मृतः ।
अधिष्ठाना[क्: नो]ष्टभागोनः प्रस्तरः कन्धरा तथा ॥ ५०

तोरणोच्चं तु शेषेण शालाभं वापि कारयेत् ।
शालाकूटान्तरे शालामध्ये वा पञ्जरं भवेत् ॥ ५१ ॥

ऊर्ध्वं कुर्यान्महानासिं पञ्जरं शुकनासिकाः । नासिकोपरि
नासीं तु न कुर्वीत कदाचन ॥ ५२ ॥

सर्वाः स्तम्भाश्रया नास्यः स्यात् प्रत्यूर्ध्वे च वेदिका ।
सार्धं वा द्वित्रिदण्डं वा वेदिकोच्चं प्रकल्पयेत् ॥ ५३ ॥

पुष्पखण्डं चित्रखण्डं शैवलं चित्रशैवलम् । चतुर्धा
प्राग्वदाभूष्य पादादौ कुड्यभूषणम् ॥ ५४ ॥

प्रत्यूर्ध्वे गलभूषा स्याद् वेदिकोपरि जालकम् ।
त्रिचतुष्पञ्चदण्डं वाप्युत्तरान्तोन्नतं भवेत् ॥ ५५ ॥

उच्चात् त्रिवेदभागोनं विपुलं जालकस्य तु । ऋजुसञ्ज्ञं
गवाक्षं च गजाक्षं गुलिका तथा ॥ ५६ ॥

गोमूत्रं पत्रकं [ग्: ञ्ज] चैव नन्द्यावर्तं च सप्तमम् ।
जालानां सप्तभेदानां पृथग् लक्षणमुच्यते ॥ ५७ ॥

ऋजुसूचिकपादं यदृजुजालकसञ्ज्ञितम् ।
आयामचतुरश्रोर्ध्वकर्णकं स्याद् गवाक्षकम् ॥ ५८ ॥

चतुरश्रकर्णलब्धच्छिद्रमुक्तं गजाक्षकम् ।
मूलाग्रमध्यगुलिकमृजुभित्त्यन्तरार्पणात् ॥ ५९ ॥

नाटकान्तरितच्छिद्रं गुलिकाख्यं तु जालकम् ।
विदिग्वक्रगत्तच्छिद्रं गोमूत्राख्यं तदाकृति ॥ ६० ॥

पत्रैर्विचित्रान्तरितरन्ध्रं स्यात् पत्रजालकम् ।
पञ्चसूत्रान्तरा रन्ध्रैः प्रादक्षिण्यकृतं तु यत् ॥ ६१ ॥

नन्द्यावर्ताकृतिच्छिद्रं नन्द्यावर्ताख्यजालकम् ।
वेदिकाद्विगुणोऽध्यर्धं समो वा स्याद् गलोदयः ॥ ६२ ॥

भित्तिविस्ताररामांशाद् वेदिकावेशनं भवेत् ।
ग्रीवावेशस्तदूर्ध्वं स्याच्छरांशानोऽपि तत्समः ॥ ६३ ॥

मृणालिकावक्रपादभूतहंसमृगैरपि ।
व्यालनाट्यकथाभिर्वा गलभूषणमाचरेत् ॥ ६४ ॥

अथ कण्ठार्धमानेन शिखरं वर्तयेत् समम् । कण्ठाद्
द्विदण्डमानेन भवेच्छिखरनिर्गमः ॥ ६५ ॥

निर्गमाद् वर्तना बाह्ये वर्तयित्वाद्विदण्डतः । स्तूपीं
सकुम्भां कुर्वीत यथैव शिखराकृतिः ॥ ६६ ॥

शिखरस्य च संस्थानमष्टधा तच्च कथ्यते ।
चतुरश्रमायताश्रं वृत्तं वृत्तायतं तथा ॥ ६७ ॥

शालाकारं षडश्रं चाप्यष्टाश्रं षोडशाश्रकम् ।
इत्यष्टौ शिखराकारास्तेषामथ निगद्यते ॥ ६८ ॥

अर्धमौलिसभाग्रमुखपट्टिकार [रलांस्त्र शी]
प्रस्तरच्छत्रशीर्षगृहपिण्डिहस्तितुण्डकादीनां
पाञ्चालादयोऽष्टौ लुपा भवन्ति । दण्डिकोत्तरविस्तारे
पञ्चद्विसप्तत्रिचतुरेकादश[ग्: शषट्]
पञ्चत्रयोदशषट्पञ्चदशसप्तदशाष्टव्यासादर्धोदयादीनि
(?) क्रमेण
पाञ्चालवैदेहमागधकौरवकौसलशौरसेनगान्धारावन्तिकानि
भवन्ति ।

विस्तारार्घोच्चमावन्त्यं तद्व्यामिश्रं तु नामतः । तद्द्वयं
द्वयधा भक्तमेकद्वित्र्यंशकोऽपि च ॥ ६९ ॥

चतुःपञ्चकषट्सप्तभागाधिक्यात् क्रमेण तु । भवन्ति
शिखरोच्चानां नामान्यपि च सप्तधा ॥ ७० ॥

कालिङ्गकाश्यवाराटकोल्लकानि च शौण्डिकम् । काश्मीरं चैव
गाङ्गेयं शिखराणि पृथग् विदुः ॥ ७१ ॥

एतानि दैवधिष्ण्यानामर्धवेधेतरन्नृणाम् । सर्वत्र चापि
स्तम्भा वा हस्तवंशतुला अपि ॥ ७२ ॥

स्तूपिकाश्चापि देवानामयुग्माश्चैव शोभनाः । युग्मा एव
मनुष्याणां प्रशस्ताः सर्वधामसु ॥ ७३ ॥

शिखरोदयवेदांशात् पञ्चांशाद् वाब्जतुङ्गता । तस्मात्
पादाधिकं वा स्यात् सार्धपादाधिकं तु वा ॥ ७४ ॥

स्तूप्युच्छ्रयः स्यात् तन्न्यासः परतोऽत्र निगद्यते ।

शिखरलक्षणम् ।

अग्रसोपानकरणं गुह्यागुह्यमिति द्विधा ॥ ७५ ॥

वेदाश्रं दीर्घवेदाश्रं वृत्तं चेति त्रियोनिकम् । चतुर्विधः
प्रकारः स्यात् त्रिखण्डं शङ्खमण्डलम् ॥ ७६ ॥

अर्धगोमूत्रकं चाथ [ग्: ट] वल्लीमण्डलमित्यपि ।
त्रिखण्डाकारनिचितं यत् सोपानं त्रिखण्डकम् ॥ ७७ ॥

मूलाद्याग्रं तु सङ्क्षिप्तं क्रमाद् यच्छङ्खमण्डलम् ।
तद्द्विखण्डं तु सोपानमर्धगोमुत्रसञ्ज्ञितम् ॥ ७८ ॥

वृक्षारो[ख्: लो]हिलताकारं वल्लीसोपानसञ्ज्ञितम् ।
शयितव्यासपादार्धत्रिपादोच्चानि वै पृथक् ॥ ७९ ॥

समखण्डानि कुर्वीत सोपानानि यथाक्रमम् । द्विदण्डं
वाध्यर्धदण्डं भवेद्धस्तबिलं ततः ॥ ८० ॥

त्रिपादाद् वापि चार्धाद् वा हस्तनीप्रं विधीयते । स्थितस्य
शयितस्यापि प्रवेशः स्याद् यथाबलम् ॥ ८१ ॥

अश्व्यग्निवेदबाणर्तुस्वरदण्डान्तविस्तृतिः । सोपानानां भवेद्
द्वित्रिचतुर्दण्डोऽश्वपादके ॥ ८२ ॥

अर्धचन्द्रसमाकारं तत्संस्थानं प्रकल्पयेत् । तच्च
हस्तघनं वा स्यात् त्रिपादं वास्य चोपरि ॥ ८३ ॥

स्थित्वा तले तले शस्तप्रादक्षिण्याधिरोहणम् । तदप्ययुग्ममेव
स्यात् प्रासादे मण्डपेऽपि वा ॥ ८४ ॥

शालादिषु च रङ्गेषु सोपानं प्रमुखं स्मृतम् ।
पार्श्वयोर्मुखसोपानमन्यत्र परिमण्डयेत् ॥ ८५ ॥

सोपानम् ।

सर्वेषां च भवेद् धाम्नां सञ्चितं चाप्यसञ्चितम् ।
उपसञ्चितकं चेति लिङ्गं पुंस्त्रीनपुंसकम् ॥ ८६ ॥

शिलाभिरिष्टकाभिर्वा कृतं सञ्चितसञ्ज्ञितम् ।
कपोतादिशिरोयुक्तं पुल्ँलिङ्गं नाम यद् घनम् ॥ ८७ ॥

ऐष्टकं दारुजं वापि भोगभूम्यङ्गसञ्चितम् । असञ्चिताख्यं
स्त्रीलिङ्गं विमानं तदुदाहृतम् ॥ ८८ ॥

इष्टकादारुभिर्मिश्रमघनं च घनं क्वचित् । उपसञ्चितकं
षण्डं भोगाभोगाङ्गसंयुतम् ॥ ८९ ॥

द्वारस्योभयपार्श्वे वा द्वारपालगुहा भवेत् । छिद्रं
कुर्यादधश्चोर्ध्वे बाह्ये नालं प्रयोजयेत् ॥ ९० ॥

जगत्यङ्गुलमारभ्य त्रित्रयङ्गुलविवर्धनात् । आसङ्कृत्यङ्गुलं
नालस्यायामः पञ्चधा स्मृतः ॥ ९१ ॥

मयोऽष्टाङ्गुलमारभ्य द्विद्व्यङ्गुलविवर्धनात् । नालं [क्, ख्:
तारं] षोडशमात्रान्तं पञ्चधेति जगाद ह ॥ ९२ ॥

समं त्रिपादमर्धं वा खनं[ख्: छ]च्छिद्रं तु मध्यमे ।
त्रिचतुष्पञ्चतन्मात्रं तारं तत्समनिमकम् ॥ ९३ ॥

मूलात् पञ्चत्रिभागं स्यादग्रं धाराभिरन्वितम् ।
सिंहवक्त्रेण घटितं द्राङ्नताग्रं तु मूलतः ॥ ९४ ॥

प्रासादस्योत्तरे मध्ये नालमेवं प्रकल्पयेत् ।
अन्तःस्थपीठनालस्य समं वा बाह्यनालकम् ॥ ९५ ॥

विस्तारायामतः कुर्याद् भूषयेच्च यथोचितम् ।

नाललक्षणम् ।

मण्डपस्याप्यधिष्ठानं प्रासादोक्तं यदेव तत् ॥ ९६ ॥

पूर्वोक्ता एव पादाः स्युः प्रस्तरोऽपि च पूर्ववत् ।
ऊर्ध्वदण्डाग्रविपुलमार्गं च कारयेत् ॥ ९७ ॥

चतुरश्रचतुःस्तम्भो नन्द्यावर्तस्तु मण्डपः । अष्टाभिः
स्वस्तिकाख्यः स्याद् वीरासनमिनाङ्घ्रिभिः ॥ ९८ ॥

स्तम्भैः षोडशभिर्विद्यान्मण्डपं श्रीप्रतिष्ठितम् ।
द्वात्रिंशद्भिर्जयभद्रं षट्त्रिंशद्भिरथाङ्घ्रिभिः ॥ ९९

मण्डपो माणिभद्रः स्याच्छतस्तम्भैर्विशालकम् । अत ऊर्ध्वं
युताः स्तम्भैर्विशालास्तेऽपि मण्डपाः ॥ १०० ॥

पादायतं वाप्यध्यर्धं द्विगुणं वा ततोऽधिकम् ।
चतुरश्रायतं कुर्यान्मण्डपं दैवमानुषम् ॥ १०१ ॥

द्वित्रिहस्तान्तरान् स्तम्भांश्चतुर्हस्तान्तरांस्तु वा । मण्डपे
युक्तितः कुर्याद् भारनाहोत्तरोचितम् ॥ १०२ ॥

कुर्वीत मण्डपं युक्त्या प्रासादाभिमुखेष्वपि ।
आरामपुण्यक्षेत्रादौ ग्रामगेहादिमध्यतः ॥ १०३ ॥

दीक्षाभिषेकयागार्थं नृत्तस्थानार्थमेव च । आरभ्य
सार्धहस्तं तु रसाङ्गुलविवर्धनात् ॥ १०४ ॥

शरहस्तावधिर्यावद् विद्यात् स्तम्भान्तरं क्रमात् ।
एकद्वित्रिचतुष्पञ्चभागे भक्त्यान्तरे [ग्: क्ष्या] कृते ॥ १०५ ॥

एकभागेन वृद्धिः स्यादायामः स्वविशालतः । स्वभक्तिविसृता
त्रित्रिमात्रवृद्ध्या करान्ततः ॥ १०६ ॥

आयामस्त्वष्टधा प्रोक्तस्तेन मानेन योजयेत् । सायतं चापि
तत्सर्वं तन्नाम्नैव प्रपद्यते ॥ १०७ ॥

सार्धद्विहस्तमारभ्य षट्षडङ्गुलवर्धनात् ।
अष्टहस्तान्तमङ्घ्र्यच्चं त्रयोविंशत्प्रमाणकम् ॥ १०८ ॥

द्वित्र्यं"गुलिविवृद्ध्या तु स्तम्भोत्सेधोऽथवा भवेत् ।
अष्टाङ्गुलं समारभ्य चार्धार्धाङ्गुलवर्धनात् ॥ १०९ ॥

नन्दपङ्क्त्यङ्गुलं यावत् सङ्ख्यया पूर्ववत् ततिः ।
स्तम्भोत्सेधे तु रुद्रांशे पङ्क्तिनन्दाष्टभागिके [ग] ॥ ११० ॥

मूलतारं तु भागेन तत्तद्भागोनमग्रतः । स्तम्भोच्चे
शरभागे तु द्विभागोच्चं तु वा तलम् [लकम्] ॥ १११॥

तृतीयांशैकभागेन स्तम्भंस्योच्चं मसूरकम् ।
सोपपीठमधिष्ठानं केवलं वा मसूरकम् ॥ ११२ ॥

अधिष्ठानोपरि स्तम्भः प्रस्तरश्च त्रिपट्टकः ।
कपोतप्रतिसंयुक्तः सामान्यो मण्डपः स्मृतः ॥ ११३ ॥

चतुरश्रश्चतुष्पादो वसुनासाविभूषितः ।
ब्रह्मासनाभिधानः [ग्: नस्य मण्डानो वा] स्यान्मण्डपो वा
प्रपाथवा ॥ ११४ ॥

त्रिभक्ति षोडशस्तम्भं सरङ्गं द्व्यष्टनासिकम् । सकूटं
वा चतुर्द्वारं चतुर्भिस्तोरणान्वितम् ॥ ११५ ॥

देवद्विजनरेन्द्रार्हं सर्वकर्मसु पूजितम् । नाम्ना सिद्धं
वदन्तीह मण्डपं वा प्रपामपि ॥ ११६ ॥

मण्डपलक्षणम् ।

अथ प्रपाणां लक्ष्मापि सामान्येनेह कथ्यते । पादायामः
पुरोक्तः स्याद् वेदर्त्वष्टदशाङ्गुलैः ॥ ११७ ॥

पादविष्कम्भमानं स्यात् पादाः स्युः सारदारुजाः ।
त्वक्सारैर्निर्मिता वा स्युरूर्ध्ववंशोत्तराण्यपि ॥ ११८ ॥

प्राग्वंशञ्चानुवंशं च नालिकेरच्छदादिभिः ।
अन्यैर्वाप्युपपत्त्या तु पत्रैः प्रच्छादयेत् प्रपाम् ॥ ११९ ॥

पङ्क्तिनन्दाष्टसप्तर्तुशरांशे पादतुङ्गके । भागेन
वेदिकोच्चं स्यान्मध्ये रङ्गं च कल्पयेत् ॥ १२० ॥

चतुर्थांशेन पादोच्चाद् भागाद् वेदिमसूरकम् । स्याद्
द्व्यंशस्तलिमायामः प्रस्तरोऽंशेन तस्य तु ॥ १२१ ॥

युग्मायुग्मे द्विभक्त्यैकभक्त्या वा तद्विशालता । चतुःस्तम्भं
वसुस्तम्भं षोडशस्तम्भकं तु वा ॥ १२२ ॥

सर्वावयवसंयुक्तं मिश्रद्रव्यं तु वा भवेत् ।
शालासभाप्रपाणां वा मण्डपानां तु मध्यतः ॥ १२३ ॥

प्रतिष्ठितचतुःस्थानं त्रिमानं रङ्गसञ्ज्ञितम् । इत्थं
यथावदिह तोरणकुड्यनालाः
सोपानपञ्जरगवाक्षविशेषकण्ठाः । बेराणि च प्रतितलं
शिखराणि सम्यक् प्रोक्तानि मण्डपविशेषयुताः प्रपाश्च ॥
१२४-१।२ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
क्रियापादे तोरणादिलक्षणपटलो द्वात्रिंशः ।