३१

अथ एकत्रिंशः पटलः ।

अधिष्ठानं मयः प्राह चतुर्दशविधं पृथक् । पराशरोऽपि
द्विविधं त्रिविधं च परे जगुः ॥ १ ॥

पराशरोक्तं द्विविधं पादबन्धं प्रतिक्रमम् । एकैकं
तच्चतुर्भेदं यतोष्टविधमुच्यते ॥ २ ॥

तद्यथा -

अधिष्ठानोच्छ्रये त्रेधा भक्तेऽंशो जगती भवेत् । अंशः
कुमुदकं शेषमष्टधांशं विभज्य तु ॥ ३ ॥

पट्टिकांशेन कम्पोऽंशात् कण्ठोऽंशादूर्ध्वकम्पकम् ।
अंशेनाथ त्रिभिर्भागैर्वाजनं परिकल्पयेत् ॥ ४ ॥

पादबन्धमिदं ज्ञेयं मुख्यजात्यादिषूदितम् ।

पाद्दबन्धम् ।

आत्ताधिष्ठानतुङ्गे तु चतुर्विंशतिभागिके ॥ ५ ॥

स्यादष्टभागैर्जगती सप्तांशैः कुमुदं भवेत् । पद्मं च
पट्टिका कम्पश्चैकैकांशाद् गलं द्वयात् ॥ ६ ॥

भागेनैवोर्ध्वकम्पः स्यात् त्रिभिर्भागैश्च वाजनम् ।
विप्रबन्धमिदं प्रोक्तं चारुबन्धं तथोच्यते ॥ ७ ॥

सप्तांशैर्जगती षड्भिः कुमुदं चैकमम्बुजम् । पट्टं च
कम्पश्चैकैकं कण्ठोऽंशावब्जमंशतः ॥ ८ ॥

द्वौ वाजनं चाब्जमेकमंशाभ्यामूर्ध्वपट्टिकम् ।
चारुबन्धमधिष्ठानमिदं सङ्कृतिभेदितम् [कम्] ॥ ९ ॥

चारुबन्धम् ।

प्राग्वच्छरांशैर्जगती त्वेकेनाब्जं धृगेकतः । ऊर्ध्वपद्मं
च वेदांशैः शेषं प्रागिव पुष्कलम् ॥ १० ॥

पुष्कलम् ।

अत्र जगतीकुमुदं समानं सार्धेनालिङ्गं समानमन्तरितं
त्र्यंशं प्रस्युत्तमांशं पद्मं वाजनमेतत् प्रतिक्रमाख्यं
देवद्विजनरेन्द्राणां प्रशस्तम् । अन्येषामप्रशस्तम् । अथ
मुखं ककरीभूतमकरास्यं व्यालमृगेभालिमण्डितं
सर्वेषामप्रशस्तमेवेति पराशरः ।

ककरीभूतमकरं मृगव्यालगजाननम् । कुर्यात् समतलं
व्यापिक्रियं [ग्: यं न प्र] तत् प्रतिबन्धकम् ॥ ११ ॥

प्रतिबन्धम् ।

तदेव नागबन्धं स्यान्नागवक्त्रनिबन्धनम् । तदेव जगती
स्थाने वस्वंशे बृहदम्बुजम् ॥ १२ ॥

कण्ठोऽंशेनाम्बुजं चांशाच्छरांशैः कुमुदं भवेत् ।
ऊर्ध्वपद्ममथैकांशादालिङ्गान्तरितं त्रिभिः ॥ १३ ॥

प्रत्युन्नतं समानं स्याच्छेषं वाजनमेव हि ।
श्रीबन्धाख्यमिदं प्रोक्तं देवद्विजनृपोचितम् ॥ १४ ॥

श्रीबन्धम् ।

एकोनत्रिंशदंशेऽस्मिन्नाधिष्ठानोदये भवेत् । तदेवपद्मं
कुमुदं प्राग्वत् कम्पं च वाजनम् ॥ १५ ॥

ऊर्ध्वाब्जमंशादध्यर्धात् कपोतं चांशतोऽंशतः ।
आलिङ्गान्तरितं द्व्यंशं प्रत्युन्नतमथांशतः ॥ १६ ॥

सार्धेन वाजनं चेति प्रोक्तं कापोतबन्धनम् ।
द्विचतुर्यवपादार्धत्रिपादांशविवर्धनात् ॥ १७ ॥

हान्या प्रत्यङ्गमङ्गं तु शोभां कुर्याद् यथारुचि ।
उपानोपर्युपोपानं सपद्मं कम्पकं तथा ॥ १८ ॥

चतुरश्रं यथाशोभमधिष्ठानेषु योजयेत् ।

अत्र मयः -

तैतिलानां चतुर्हस्तं त्रिहस्तार्धं द्विजन्मनाम् । राज्ञां
त्रिहस्तं साध्यर्धं द्विहस्तं यौवराजकम् ॥

द्विहस्तमेव वणिजां शूद्रस्यैककरं स्मृतम् ॥

इति ।

अधिष्ठानाधिकारः ।

स्तम्भाः स्थूणास्तथा पादाः कुम्भाः कम्पाङ्घ्रयोऽपि च ॥
१९ ॥

स्तम्भपर्यायशब्दाः स्युरथ तल्लक्ष्म कथ्यते । आमूलाग्रं तु
वेदाश्रः कुम्भमण्डिसमन्वितः ॥ २० ॥

ब्रह्मकान्ताभिधानः स्यात् स्तम्भः शैलोऽपि दारुजः ।
अष्टाश्रो विष्णुकान्ताख्यः स्कन्दकान्तः षडश्रकः ॥ २१ ॥

स एवेन्द्राह्वयो भानुकान्तः स्याद् द्वादशाश्रकैः ।
षाडशाश्रश्चन्द्रकान्तो वृत्तश्चेदीशकान्तकः ॥ २२ ॥

स्वतुङ्गरामभागेषु वेदवस्वश्रवर्तुलम् ।
कुम्भमण्ड्यादिसंयुक्तं रुद्रकान्तं प्रचक्षते ॥ २३ ॥

मूले पद्मासनश्चाथ चक्रवाकैरलङ्कृतः ।
सभद्रमध्यभागश्च भद्रकान्तो द्विमण्डिकः ॥ २४ ॥

व्यालेभसिंहभूतैस्तु मूले यः परिमण्डितः ।
इष्टाकारस्तथैवोर्ध्वं तत्तत्कान्ताह्वयो भवेत् ॥ २५ ॥

वृत्त [ख्: नृ] एव स्वदीर्घेण शुण्डुभेदेन संयुतः ।
शुण्डुपादो [ग्: दः पि] भिण्डिपादः स चेन्मुक्ताविचित्रितः ॥ २६

मूले वेदाश्रकश्चोर्ध्वं षोडशाश्राद्यलङ्कृतः ।
स्यान्मूलचतुरश्राख्यः पद्मापद्मासनः स्मृतः ॥ २७ ॥

मूलान्त्ययोस्तु वेदाश्रो मध्ये अष्टाश्र्यलङ्कृतः । वज्रकान्तः
स विज्ञेयो मुक्तास्तम्भः समौक्तिकः ॥ २८ ॥

यद्रत्नचित्रितस्तम्भस्तत्तद्रत्नाह्वयो भवेत् । मूले पद्मासनो
मध्ये षोडशाश्रैरलङ्कृतः ॥ २९ ॥

ऊर्ध्वांशे चतुरश्रोऽङ्घ्रिश्चित्रखण्डाह्वयः स्मृतः । स
एवाष्टाश्रको मध्ये श्रीखण्डः पट्टबन्धवान् ॥ ३० ॥

मध्ये कलाश्रः पट्टेन नद्धः श्रीवज्रसञ्ज्ञितः ।
पट्टक्षेपणसञ्ज्ञः स्याच्चतुरश्रस्त्रिपट्टधृक् ॥ ३१ ॥

मूलाग्रयोस्तु विपुलो मध्ये रामांशतः कृशः । वृत्तश्चेद्
दण्डपादाख्यो वज्रपादः कलाश्रकः ॥ ३२ ॥

स्यादुलूखलपादाख्यो मूलस्थोलूखलासनः । पादमर्धं
त्रिभागं च भित्तिस्तम्भविनिर्गमः ॥ ३३ ॥

चतुरश्राष्टवृत्तानां विज्ञेयस्तु क्रमाद् भवेत् ।
मूलभूस्तम्भविस्तारो ह्यष्टाविंशतिकाङ्गुलः ॥ ३४ ॥

द्व्यङ्गुलद्व्यङ्गुलं हाप्यो व्यासः प्रतितलं क्रमात् ।
आत्ताधिष्ठानतुङ्गात् तु स्तम्भोत्सेधो द्विधा मतः ॥ ३५ ॥

रुद्रदिङ्नन्दवस्वंशादंशोनोऽङ्घ्रिस्तले तले । एवं
मूलाग्रयोर्व्यासतुङ्गता स्तम्भकुड्ययोः ॥ ३६ ॥

अत्र -

कुड्यस्तम्भाग्रविपुलं यत्तद्दण्ड इत्युच्यते । तन्मानेन
विमानानां सर्वाण्यङ्गानि मेयानि ॥

इति पराशरः ।

मूले चाग्रे च पादानां त्रिचतुष्पञ्चभागतः । शिखा मानेन
कर्तव्या स्थाप्याः [ग्: पाः] सर्वे तथाश्मसु [ख्: त्म] ॥ ३७ ॥

स्वद्रव्येणैव पादानां मूले वेदिं प्रकल्पयेत् ।
पादोच्चनन्दभागाद् वा वस्वंशाद् वेदिकोच्छ्रयः ॥ ३८ ॥

विस्तारश्च भवेत् तावान् सा वेदी स्याच्चतुर्विधा । पुष्पखण्डा
चित्रखण्डा शैवला चित्रशैवला ॥ ३९ ॥

कम्पनिद्रा कम्पयुता पुष्पवत् समखण्डिता । मूलपादार्चना
वेदिः पुष्पखण्डेति कथ्यते ॥ ४० ॥

सैव निद्राकम्पपट्टपद्मपत्रविचित्रिता । पादे पदान्तरे चित्रा
चित्रखण्डाभिधीयते ॥ ४१ ॥

स्तम्भकम्पाब्जपट्टाढ्या पट्टे शैवलचित्रिता ।
ऊर्ध्वाधःपद्मपत्राढ्या पादे पादान्तरेऽपि च ॥ ४२ ॥

नरनारीपत्रचित्रा शैवलाख्या हि वेदिका ।
सैवाधरोर्ध्वाम्बुजयोर्वेत्रयुग्ममनोरमा ॥ ४३ ॥

प्राग्वद् विचित्रवेषा स्यात् सा वेदी चित्रशैवला । जालार्थं
[र्थ] वेदिकां नैवच्छिन्द्यादन्यत्र तोरणात् ॥ ४४ ॥

द्वारं वात्र यथोद्देशं वेद्याश्छेदो न दुष्यति ।
पुष्पखण्डा चित्रखण्डा नृणां द्वे वेदिके स्मृते ॥ ४५ ॥

वेदीचतुष्कं स्तम्भादौ देवागारेषु सम्मतम् । स्तम्भायामे
त्रिभागे स्याद् वेदाश्रोऽंशस्तु मूलतः ॥ ४६ ॥

अष्टाश्रः षोडशाश्रो वा मध्यांशो वृत्त एव वा ।
अग्रभागोऽपि वेदाश्रो भवेत् स्तम्भेषु केषुचित् ॥ ४७ ॥

मूलव्यासे तु पञ्चांशे द्व्यंशोनः स्तम्भमध्यतः ।
अन्त्योऽंशः सप्तमांशोनो मूलविस्तारितो भवेत् ॥ ४८ ॥

कुम्भाः स्युः पादविष्कम्भाश्चतुर्थांशाधिकास्तु वा ।
साध्यर्धाः पादहीना वा द्विगुणा वा भवन्ति हि ॥ ४९ ॥

श्रीकरश्चन्द्रकान्तश्च सौमुख्यः प्रियदर्शनः । इति
कुम्भाश्चतुर्धा स्युर्वृत्तानां [ग्: वा] श्रीकरो भवेत् ॥ ५० ॥

अष्टाश्राणां चन्द्रकान्तः श्रीकरः स्याअत् कलाश्रके ।
स्तम्भानां चतुरश्राणां सौमुख्यः कुम्भ इष्यते ॥ ५१ ॥

शेषाणां चातिभाराणां कुम्भः स्यात् प्रियदर्शनः ।
कुम्भभागे नवांशे तु धृगेकेन विधीयते ॥ ५२ ॥

चतुर्भिः कुम्भ एव स्यात् कण्ठोऽंशेनांशतो मुखम् ।
शिष्टभागद्वयं त्र्यंशं कृत्वैकेनाम्बुजं भवेत् ॥ ५३ ॥

भागेन वृत्तं शिष्टांशादूर्ध्वं कण्ठे तु भिन्नकौ ।
स्तम्भाग्रकर्णमार्गेण स्कन्धः स्यात् समविस्तृतः ॥ ५४ ॥

ऊर्ध्वं तद्वीरकाण्डस्य पोतिकां तु निवेशयेत् । स्तम्भव्यासात्
त्रिगुणितं चतुर्गुणमथापि वा ॥ ५५ ॥

मण्ड्यायामः स्मृतोऽङ्घ्र्यग्रसमो वेष्वब्धिभागतः ।
मण्ड्युत्सेधो भवेत् तावान् वीरकाण्डस्य चोच्छ्रयः ॥ ५६ ॥

विस्तारो दण्डमात्रः स्यादथ मण्ड्याः शरांशतः ।
सार्धेन फलकास्थौल्यं तत्समो वेत्रनिर्गमः ॥ ५७ ॥

मण्ड्युत्पलदलाकारा [ग्: एड्युच्चोत्पादनाका]
पाल्याकाराब्जपत्रवत् । ताम्बूलसमसौन्दर्यं [ग्: लतलसौ]
यजमानसुखावहम् ॥ ५८ ॥

विपरीतं विरूपं च वर्ज्यं तदशुभं यतः । अथवा स्यात्
प्रकारोऽन्यो धृक्कण्ठापादविस्तृतिः [ख्: ण्ठः] ॥ ५९ ॥

पोतिकाखण्डमण्डीनि कुम्भं लशुनमूलकम् ।
अम्भोजमालास्थानानि स्तम्भाग्रे योजयेत् क्रमात् ॥ ६० ॥

अग्रहीनं तु लशुनं मूलोच्चं विपुलं भवेत् ।
साष्टांशाधिकमर्धं वा त्रिपादोदयमम्बुजम् ॥ ६१ ॥

मालास्थानविशालोच्चं दण्डमात्रं नियोजयेत् । मण्ड्यायामो
भवेत् पादात् त्रिगुणो वा चतुर्गुणः ॥ ६२ ॥

स्तम्भाग्रतुल्यं मण्ड्युच्चं पञ्चभागोनमेव वा ।
त्रिभिरंशैस्त्रिपादैर्वा वीरकाण्डश्च तत्समः ॥ ६३ ॥

मण्ड्युत्सेधशरांशेन सार्धांशः फलकोच्छ्रयः । वेत्रं
च तत्समं ज्ञेयं मण्ड्युत्सेधोपपादकम् ॥ ६४ ॥

पाल्याकारं तु पद्माभं त्रिधा नागदलोपपम् । तदूर्ध्वं
पोतिका स्थाप्या तस्या लक्षणमुच्यते ॥ ६५ ॥

सा च स्यात् स्तम्भविस्तारात् त्रिगुणं वा चतुर्गुणम् । दीर्घा
पञ्चगुणं वापि नीचमध्योत्तमा स्मृता ॥ ६६ ॥

नागवृत्ता पत्रचित्रा समुद्रोर्मिश्च पोतिका [काः] । त्रिविधा
नामभिर्ज्ञेयास्तासां लक्षणमुच्यते ॥ ६७ ॥

स्तम्भव्याससमोत्सेधविस्तारा श्रेष्ठपोतिका । शरांशोना
मध्यमा स्यादूनद्व्यंशा कनिष्ठिका ॥ ६८ ॥

भूतेभमकरव्यालरत्नबन्धविचित्रिता । वल्लिचित्राग्रपट्टा च
सा ख्याता चित्रपोतिका ॥ ६९ ॥

केवलं पत्रवल्लीभिर्विचित्रा पत्रपोतिका । तरङ्गमात्रचित्रा या
पोतिका स्यात् तरङ्गिणी ॥ ७० ॥

तरङ्गाश्चात्र वेदर्तुवखाशादित्यसङ्ख्यया ।
कार्यास्तूभयतस्तुल्याः पट्टिकाच्छन्नमध्यगाः ॥ ७१ ॥

त्रिभागे पोतिकोत्सेधे सा(ध्यं ? र्धां)शेनाग्रपट्टकम् ।
तदर्धार्धेन तदधः क्षेमच्छायान्वितं भवेत् ॥ ७२ ॥

तदुच्चार्धात् त्रिभिर्वांशैरंशाभ्यां वात्र कल्पयेत् ।
स्वव्यासार्धात् त्रिपादाद् वा कुर्यात् ताखग्रमण्डनम् ॥ ७३ ॥

अत्र पराशरः -

नानाविधाकृतियुता अपि सर्वपादाः प्रासादमण्डपविधौ
मुनिभिः प्रशस्ताः । शालासभागृहविधौ चतुरश्रवृत्ताः
सम्पत्परास्तु विपरीतफलास्त्वथान्ये [ग्: थो] ॥

इति ।

मिश्रामिश्रा अपि स्तम्भा देवागारेषुपूजिताः । अमिश्रा एव
गेहेषु नराणां शुभदाः स्मृताः ॥ ७४ ॥

स्तम्भालङ्कारः ।

उत्तरं विन्य्सेदूर्ध्वं तच्चापि त्रिविधं मतम् । खण्डोत्तरं
पत्रबन्धं ततो रूपोत्तरं भवेत् ॥ ७५ ॥

स्तम्भविस्तारविस्तीर्णमुन्नतं चाङ्घ्रिजातिकम् । खण्डोत्तरं
स्यादेतस्मात् पादोनं पत्रबन्धकम् ॥ ७६ ॥

स्तम्भव्याससमोत्सेधमुत्सेधार्धेन विस्तृतम् । विपरीतं तु वा
नीचं रूपोत्तरमिदं भवेत् ॥ ७७ ॥

उत्तरोत्सेधरामांशभागेनैकेन पट्टिका ।
तदूर्ध्वांशद्वयेनापि वेधेया पद्मपट्टिका ॥ ७८ ॥

उत्तरलक्षणम् ।

अत ऊर्ध्वं प्रस्तरः स्यात् प्रस्तरे सप्तभागिके । भागाभ्यां
तु कपोतं स्यादुपानसमनिर्गमम् ॥ ७९ ॥

पट्टिका चापि भागेन कर्णश्चैकांशतो भवेत् । द्वाभ्यां तु
कम्पकं कुर्याच्छिष्टेनाप्यूर्ध्वपट्टिका ॥ ८० ॥

उत्तरोपरि कुर्यात् तु वाजनं तस्य कथ्यते ।
त्रिचतुष्पञ्चदण्डानामायामस्तस्य सम्मतः ॥ ८१॥

स्तम्भविस्तारपादं वा त्रिपादं वोच्छ्रितं भवेत् ।
वाजनस्योपरिष्टात् तु कुर्याद् भारतुलावलिम् [ग्: ली] ॥ ८२ ॥

स्तम्भविस्ताररामांशमुच्छ्रितार्धेन विस्तृता । तुलावली स्यात्
तासामप्यूर्ध्वे कुर्याज्जयन्तिकाः ॥ ८३ ॥

तुलाविस्तारमानोच्चा यथालाभं सुविस्तृताः ।
जयन्त्यश्चानुमार्गः स्याद् दण्डार्धबहलश्चितः ॥ ८४ ॥

अध्यर्धसममुच्चः स्यादथ पार्श्वानुगोत्तरम् । वाजनं च
तुलाद्वारानुगताः स्युस्ततोऽपि च ॥ ८५ ॥

वंशानुगा जयन्त्यः स्युस्तुलावदनुमार्गकाः ।

अत्र पराशरः -

प्रस्तरः पादविष्कम्भो द्विदण्डार्धं [ख् ग: र्ध]
द्वित्रिदण्डेन [क् ख्: ण व] धवलीकतुलान्तरं स्यात् ।
द्विदण्डान्तरं जयन्तीनां दण्डान्तरमनुमार्गाणां तदुपरि
सारफलकाभिर्यथाबलविपुलघनाभिराछादयेत् ।
इष्टकादिभिर्वा फलकोर्थे वाजनवद् वर्णपट्टिका
निवेशयितव्या इति ।

शिलामये [ग्: यो] शिलाभिः स्यादाच्छाद्यं वाजनोपरि ॥ ८६ ॥

वसन्तकोपरिष्टाच्च सञ्छाद्यैवं यथाबलम् । हंसभूतावली
वापि निद्रा वा दण्डमुच्छ्रिता ॥ ८७ ॥

त्रिपादं वा वाजनोर्धमुत्तरोपरि वाजनम् । निद्रा च
वर्णपट्टी च तुलापादश्च तद्गतः ॥ ८८ ॥

वाजनोर्ध्वे कपोतालिं कुर्यादध्यर्धदण्डतः । द्वित्रैः
कपोतनिर्यूहमुत्सेधं भिन्नवेणुवत् ॥ ८९ ॥

साग्रपट्टं तदुपरि कर्णमध्यमपालिके । अर्धत्रिपाददण्डेन
कपोतालम्बनं पुनः ॥ ९० ॥

उत्तराद् वाजनस्योर्ध्वं नव चात्र भवन्ति हि । उत्तरात्
पोतिकाधस्ताद् गोपानस्यास्तु लम्बनम् ॥ ९१ ॥

तदन्तरं तुलामानादुच्चता चार्धदण्डतः [ग्: वा] ।
त्रिभिर्वांशैस्तु बाहल्यां कम्पा योज्याः समन्तरा ॥ ९२ ॥

सौवर्णै राजतैः शौल्बैर्लोष्ठैर्वाच्छाद्य मार्त्तिकैः । अथ
गोपाननीप्रार्धाद् दण्डिकानियमो भवेत् ॥ ९३ ॥

दण्डिकाव्यासबाहल्यां स्तम्भव्यासार्धतो भवेत् ।
चतुरायतसंस्थानमनुमार्गेण बन्धयेत् ॥ ९४ ॥

दण्डिकाद्वारबहलमधोमण्डिः सनालिकम् । दण्डसमं
मुष्टिबन्धं तत्पृथग् वाजनोपरि ॥ ९५ ॥

अथ व्यालकसिंहेभभूतनाटकभूषितम् । कपोतोपरि भूतालिः
पादात् पादविनिर्गता ॥ ९६ ॥

पादव्याससमा वार्धत्रिपादसदृशोच्छ्रया । प्रतिर्निवेश्या
तत्तुङ्गत्रिचतुर्भागनिर्गमात् ॥ ९७ ॥

वाजनं स्यात् समतलमुन्नतं तन्न शोभनम् ।
ऊर्ध्वाधस्तलयोर्बूमेरवधिः प्रतिरेव हि ॥ ९८ ॥

देवद्विजनरेन्द्राणां मकरास्यं प्रतेर्मुखम् । स्वस्तिकं चैव
देवानामर्धेन्दुर्वैश्यशूद्रयोः ॥ ९९ ॥

नागवृत्तं तु शेषाणामेवमूह्यं पृथक् पृथक् । पार्श्वे
प्रतिः सशिखरं मुखपृष्ठं प्रतिद्वयम् ॥ १०० ॥

समानं सार्धदण्डं स्यात् प्रत्यास्थे निर्गमोद्गमौ । सर्वत्र
प्रत्युपर्येव द्वारं कुर्याद् विचक्षणः ॥ १०१ ॥

प्रतिच्छेदेन तु द्वारं न कुर्वीत कदाचन ।

प्रस्तराद्यधिकारः ।

स्तम्भायामे तु दिङ्नन्दवसुसप्तांशके क्रमात् ॥ १०२ ॥

नन्दवस्वृषिषड्भागैर्द्वारोत्सेधं प्रकल्पयेत् ।
तदर्धविस्तृतं च स्याद् द्वारं देवालयेषु वै ॥ १०३ ॥

तद्वन्नालीगृहव्यासरामभागैकभागतः । अर्धं नवांशे
पञ्चांशैः [क्: शे] पञ्चांशे [ग्: द्यैर्वां]
वांशकैस्त्रिभिः ॥ १०४ ॥

द्वारोत्सेधो भवेत् तस्मादर्धं विस्तृतिरिष्यते ।

इति देवविमानद्वाराणि ।

लब्धोत्सेधे तु दिङ्नन्दवसुसप्तांशके भवेत् ॥ १०५ ॥

सप्तषट्पञ्चवेदांशो द्वारव्यासस्तु मानुषः ।

मानुषद्वारम् ।

अर्धमण्डनकस्तम्भौ द्वारस्योभयपार्श्वयोः ॥ १०६ ॥

भूषणार्थं स्वबाह्ये तु स्थापयेत् सुविचित्रितौ ।
द्वारव्यासोच्चमखिलमङ्गुलिच्छेदवर्जितम् ॥ १०७ ॥

अङ्गुलीकृत्य वसुभिर्वृद्धमर्काप्तशेषितम् । आयः स्याद्
रामवृद्धानि मन्वाप्तानि व्ययः स्मृतः ॥ १०८ ॥

त्रिवृद्धान्यष्टभिर्हृत्वा योनिर्भाप्तमुडुर्भवेत् । पर्यन्ते
त्रिंशदाप्ते तु तिथिर्वारं च सप्तभिः ॥ १०९ ॥

आयाधिकानुकूलर्क्षं द्वारं श्रेष्ठं तथा गृहम् ।
मार्गरूपतरुस्तम्भकोणविद्धमशोभनम् ॥ ११० ॥

मुख्यद्वारं तु देवानां नराणां च विशेषतः ।
द्वारोच्चशेषे पच्चांशे भवेदंशद्वयं त्वधः ॥ १११ ॥

ऊर्ध्वं त्रयोऽंशास्तत्र स्युः फलका चात्र चित्रिता ।
मध्येऽष्टमङ्गलानि स्युः पार्श्वयोर्नक्रवल्लयः [भः] ॥ ११२

दण्डाच्चतुष्षडष्टांशं कवाटफलकाघनम् ।
श्रेष्ठमध्याधमं ज्ञेयं क्रमात् सर्वेषु धामसु ॥ ११३ ॥

फलकाबहलादर्धं चतुर्थांशोभेनमेव [ग्: र्धा] वा ।
तल्पदण्डस्य विस्तारस्तदर्धं तद्धनं भवेत् ॥ ११४ ॥

रामेषुमुनिनन्देशसङ्ख्या दण्डा भवन्ति हि । दण्डाग्रं
बोधिपत्रं वाप्यश्वस्कन्धनवाकृतिः ॥ ११५ ॥

स्वस्तिकाभं तु वा कुर्यादत्र प्राह पराशरः ।

श्रीमुखसन्धिपालपत्रह्रस्वदण्डकुण्डल[ख्: लगु]
शृङ्गगुल्फान्तर्गलकविषाण [णकव]
वलाहकपिञ्जरीगुच्छकवन [ग्: कनवार्ध]
कार्धचन्द्राद्यवयवानि मुख्यलोहैरयसा वा दृढतरं कुर्यात्
इति ।

कवाटं चैव योगश्चाप्येकजातितरूद्भवौ ॥ ११६ ॥

सम्पत्करौ तदन्यौ तु विपरीतफलप्रदौ । स्त्रीणां दुःशीलता
च स्यात् तस्मान्मिश्रं न कारयेत् ॥ ११७ ॥

बहिर्भागस्तु बाह्ये स्यादन्तर्भागोऽन्तरेव हि । कवाटानि
चतुर्धा स्युर्युग्मं चायुग्ममेव च ॥ ११८ ॥

संहारो धावनं चैषां पृथग् लक्षणमुच्यते ।
कवाटयुगलाभ्यां तु स्थिताभ्यां वामदक्षिणम् ॥ ११९ ॥

सस्कन्धपट्टिकाभ्यां स्याद् युग्मं यत्राभिधीयते । वामभागे
स्थितं त्वेकमयुग्माख्यं कपाटकम् ॥ १२० ॥

गूढप्रवेशनिर्यूहं स्तम्भे वाप्युत्तरेऽपि वा । संहाराख्यं
कपाटं तद् भित्तिगूढं च धावनम् ॥ १२१ ॥

देवद्विजनृपाणां तु युग्मायुग्मे च पूजिते । अयुत्नादीनि
चान्येषां कवाटानि भवन्ति हि ॥ १२२ ॥

फलकाभिरयुग्माभिर्युग्माभिश्च सुरालये । कवाटं तु
मनुष्याणां स्यादयुग्माभिरेव हि ॥ १२३ ॥

कवाटसन्धिर्दण्डान्तस्त्रिचतुर्भागवर्जितः । मध्यवर्जित एव
स्यात् कथ्यते स्कन्धपट्टिका ॥ १२४ ॥

तल्पव्यासद्वयव्यासा [ग्: सत्रि] त्रिपादसमनीप्रका ।
नानारूपलताचित्रा चतुरश्रा तु निर्व्रणा ॥ १२५ ॥

साष्टाश्रपट्टावयवा पार्श्वयोः पद्मभूषिता । स्यात्
स्कन्धपट्टिका युग्मप्रवेशे दक्षिणाश्रिता ॥ १२६ ॥

योगोच्छ्रितत्रिभागं वा चतुर्थांशमधस्त्यजेत् [ग्: थत्यजे] ।
शेषमूर्ध्वं कवाटादेर्मञ्जरीभिश्च पङ्कजैः ॥ १२७ ॥

वल्लीपत्रनरैर्नारीभूतहंसगजैरपि । तद्वत्
सिंहादिभिर्व्यालैरलङ्कुर्याद् यथारुचि ॥ १२८ ॥

योगावगाढ[ख्: ढं]योज्यं स्यादूर्ध्वं चोपग्रतेः शिखा ।
भवेच्च तल्पविस्तारकर्णायामा त्वयुग्मके ॥ १२९ ॥

परिधा स्यात् तथा नाहात् पादः पादार्धतोऽपि वा ।
परिघापादयोस्तुङ्गं तद्दैर्घ्याद् द्विगुणं भवेत् ॥ १३० ॥

दण्डव्यासार्धतस्त्र्यंशाद् बहलौ चापि विस्तृतौ । वे(ध?
द्ध)व्यौ परिघापादौ घातोपेतौ यथाबलम् ॥ न्१३१ ॥

दण्डायामत्रिपादेन विस्तृता चतुरश्रका । त्रिचतुर्भागतः
स्थूला त्वेकतल्पस्य [ग्: कत्वे यस्य] चार्गला ॥ १३२ ॥

अयोदण्डेन चायामौ योगमध्याद् विहाय तु । अर्धाङ्गुलं तु
बध्नीयाद् यथैव सुदृढं भवेत् ॥ १३३ ॥

घटिकायामदण्डस्य व्यासो वेदांशवर्जितः । आयतश्चतुरश्रो
वा वृत्तो वा स्याद् यथाबलम् ॥ १३४ ॥

त्रिचतुर्दण्डदीर्घं तदर्धार्धव्यासनाहकम् । बहिः
पञ्चाननोपेतं कण्ठयुग्मं यथार्हतः ॥ १३५ ॥

आयतं घटिकायुग्मयुक्तमायसकीलकम् । युग्मार्गलौ तु युग्माख्ये
कवाटे योजयेत् समौ ॥ १३६ ॥

पादकर्णसमव्यासा विष्कम्भादर्धनीप्रका । युक्ता चोत्तरवासी
स्याद् दण्डैर्दण्डोपधानकैः ॥ १३७ ॥

आयसैः पाशकीलाद्यैर्युक्तं कृत्वाङ्गुलत्रयम् । उत्थाप्य
तल्पं संस्थाप्य भित्तेर्व्यासार्कभागतः [ग्: भक्तेर्व्या] ॥ १३८

बहिरन्तः शरांशान्तं रामांशान्न्तं क्रमेण तु ।
कवाटयोगमध्यं स्यात् तन्मध्यं भित्तिमध्यकम् ॥ १३९ ॥

सप्तांशे वाथ पञ्चांशे कुड्ये श्रुत्यग्निभागतः ।
क्रमाच्छराश्विभागे वा स्थाप्यो योगोऽधिकोऽन्तरे ॥ १४० ॥

देवानां च नराणां च मध्ये द्वारो विधीयते ।
शेषाणामुपमध्ये स्याद् द्वारोपर्यष्टमङ्गलम् ॥ १४१॥

सनक्रशूलां फलकां द्वारोर्ध्वं साष्टमङ्गलाम् ।
देवद्विजादिवर्णानां [ख् ग्: वविप्रादि] तोरणार्थं निधापयेत्
॥ १४२ ॥

वृत्तौ तोरणदण्डौ तु त्रिपादविसृतौ समौ । सपादं वापि
सार्धं वा विस्तारोऽप्यनयोर्मतः ॥ १४३ ॥

दिङ्नन्दवसुभागोनमग्रं स्याच्च शिखा तयोः ।
तदूर्ध्वोत्तरदण्डार्धसत्रिपादसमोदयम् ॥ १४४ ॥

समनिर्गमपार्श्वाभ्यां स्थूलं त्रिचतुरंशतः । सार्धं
[ख्: र्ध] दण्डं सपादं वा स्यादूर्ध्वं फलकोदयः ॥ १४५

तस्यां स्युर्मङ्गलान्यष्टौ तदूर्ध्वं त्रिशिखान्यपि ।
पञ्चवक्त्राणि तानि स्युर्द्विदण्डोच्चानि मध्यतः ॥ १४६ ॥

समं त्रिपादविस्तारात् पार्श्वपत्रावधिर्भवेत् ।
द्वित्रिवेदाङ्गुलं युक्त्या पत्राणां विततिः स्मृता ॥ १४७ ॥

उत्सेधोऽष्ठनवैकांशात् पत्राणां बहुलं स्मृतम् । शिला
दृढप्रवेशास्यात् पार्श्वपत्रविचित्रिता ॥ १४८ ॥

गर्भन्यासोदितान्यष्टौ मङ्गलानि पृथक् पृथक् । कुर्यादत्रापि
तान्येव देवानामपि वर्णिनाम् ॥ १४९ ॥

द्वारलक्षणम् ।

प्रासादानामित्यधिष्ठानभेदा नैके स्तम्भाश्चाथ
कायानुकायौ । नानाभेदाः पोतिकाश्चोत्तराणि द्वारं
द्वारालङ्कृतिश्चाभ्यधायि ॥ १५० ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
क्रियापादे अधिष्ठानादिद्वारान्तविधिपटलः एकत्रिंशः ॥