अथ त्रिंशः पटलः ।
अथ द्वादशभौमादि यावत् तु त्रितलं भवेत् ।
प्रोक्तानां च विमानानामुत्तमादिप्रभेदतः ॥ ३०-१ ॥
उत्सेधव्यासमानं तु हस्तैः पृथगिहोच्यते ।
तत्रादित्यतलं श्रेष्ठं शतहस्तोच्छ्रितं भवेत् ॥ ३०-२ ॥
हस्तसप्ततिविस्तारं मुख्यं जात्यपि च क्रमात् ।
त्रिषष्टिहस्तविस्तारं त्रिनवत्युन्नतं तु यत् ॥ ३०-३ ॥
उत्तमेन तु मानेन स्यादेकादशभूमिकम् ।
तथा चतुरशीत्युच्चं सप्तपञ्चाशता ततम् ॥ ३०-४ ॥
दशभौमं स्मृतं धाम श्रेष्ठमानेन शोभनम् ।
पञ्चसप्ततितुङ्गं यदेकपञ्चाशता ततम् ॥ ३०-५ ॥
नवभौमं तु तन्मुख्यं यथायुक्ति नियोजितम् ।
उच्चं षडधिकं षष्ट्या चत्वारिंशच्च पञ्च च ॥ ३०-६ ॥
कराणां विस्तृतं धाम भवेदष्टतलं शुभम् ।
सप्तपञ्चाशदुत्तुङ्गं त्रिंशता नवकेन च ॥ ३०-७ ॥
कराणां विस्तृतं धाम सप्तभौमं प्रकीर्तितम् ।
त्रयस्त्रिंशत्करव्यासं चत्वारिंशत्करैरपि ॥ ३०-८ ॥
नन्दहस्तैश्च यत्तुङ्गं पञ्चभौमं तु तद्भवेत् ।
त्रिंशता चैकविंशत्या तुङ्गव्यासं चतुस्तलम् ॥ ३०-९ ॥
प्रकृत्या चातिशक्वर्या त्रिभौमं तुङ्गविस्तृतम् ।
एवं त्रितलमारभ्य यावद् द्वादशभूमिकम् ॥ ३०-१० ॥
उक्तमानात् प्रतितलं ह्रासयेद् द्विकरं क्रमात् ।
मध्यमानि विमानानि भवन्तीह दश क्रमात् ॥ ३०-११ ॥
तद्वन्मध्यविमानानां ह्रासेन द्विकरं पृथक् ।
कनिष्ठादिविमानानि सिद्ध्यन्त्या जगतीतलात् ॥ ३०-१२ ॥
अथवा युग्महस्तैस्तु विकारकरमादितः ।
सप्तम्यन्तं विमानानि जात्यादि प्रभवन्ति हि ॥ ३०-१३ ॥
तान्यपि त्रितलादीनि भवन्त्यर्कतलान्तकम् ।
जातिविमानाधिकारः ।
अत्यष्टिहस्तादारभ्य आत्रिषष्टिकराततात् ॥ ३०-१४ ॥
छन्दानि पञ्चभौमादि भवन्त्यार्कतलादिह ।
द्विद्विहस्तविवृद्धानां कनिष्ठाद्यष्टकत्रयम् ॥ ३०-१५ ॥
छन्दविमानाधिकारः ।
त्रयोदशकरव्यासात् पञ्चपञ्चाशदाततेः ।
द्विहस्तवर्धनात् प्राग्वद् विकल्पान्येकविंशतिः ॥ ३०-१६ ॥
विकल्पविमानानि ।
एकादशकरात् सप्तचत्वारिंशत्कराततेः ।
द्विहस्तवर्धनात् प्राग्वदूनविंशतिसङ्ख्यया ॥ ३०-१७ ॥
चतुर्भौमाद्यार्कभौमादाभासाख्यानि तानि वै ।
आभासविमानानि ।
युग्मायुग्मकरैः पङ्क्तिनवहस्तादितं क्रमात् ॥ ३०-१८ ॥
अष्टसप्तकषट्पञ्चकरैः श्रेष्ठादिकानि तु ।
चतुस्त्रिद्वितलानि स्युः क्षुद्राख्यानि यथाक्रमम् ॥ ३०-१९ ॥
अथवा त्रिचतुर्हस्तव्यासात् क्षुद्रेषु धामसु ।
एकभौमं द्विभौमं च यथायुक्ति नियोजयेत् ॥ ३०-२० ॥
द्विद्विहस्तविवृद्ध्या तु नीचादीनि समूहयेत् ।
अत्र पितामहः –
पङ्क्तिहस्तैस्ततं नन्दकरव्यासमिहोत्तमम् ।
भवेदेकतलं हस्तैर्मध्यं वस्वृषिसम्मितैः ॥
कनिष्ठमृतुबाणैः स्यादेवमेकतलत्रयम् ।
इति ।
क्षुद्रविमानाधिकारः ।
अथवा सर्वजात्यानां विमानानां समासतः ॥ ३०-२१ ॥
स्वव्यासद्विगुणादुच्चमष्टांशं वाधिकं भवेत् ।
अथवाल्पकनिष्ठानां व्यासे सप्तविभागके ॥ ३०-२२ ॥
षडङ्गाधिकमुच्चं स्यान्मध्यानां पञ्च चाधिकम् ।
त्र्यंशाधिकं चोत्तमानां प्रासादानामिहोन्नतिः ॥ ३०-२३ ॥
यथाधिकारं प्रसादा देवादीनां समृद्धिदाः ।
ब्रह्मविष्णुशिवानां चाप्युत्तमं चक्रवर्तिनाम् ॥ ३०-२४ ॥
शस्तं द्वादशभौमं स्यान्नान्येषां तद् विधीयते ।
त्रयस्त्रिंशत्सुराणां च यक्षनागेन्द्रवेधसाम् ॥ ३०-२५ ॥
एकादशतलं शस्तं द्वितलं शशिसूर्ययोः ।
महाराजाधिराजानां विमानं नवभूमिकम् ॥ ३०-२६ ॥
अष्टभौमं तु गन्धर्वसिद्धविद्याधरोचितम् ।
सप्तभौमं द्विजेन्द्राणां नृपाणां च समृद्धिदम् ॥ ३०-२७ ॥
षड्भौमं मण्डलेन्द्राणां पञ्च स्युर्यौवराजकम् ।
सामन्तानां चतुर्भौमं पुरेशानां च शस्यते ॥ ३०-२८ ॥
श्रीमतां वैश्यशूद्राणां सेनेशानां त्रिभौमकम् ।
द्वितलं चैकभौमं च सर्वदेवनरोचितम् ॥ ३०-२९ ॥
अत्र –
यदुक्तं तु द्विजातीनामन्येषां तलसङ्ख्यकम् ।
तत् सर्वं द्युसदामिष्टं द्विजेन्द्रोक्तं च भूभुजाम् ॥ ३०-३० ॥
वैश्योक्तं चैव शूद्राणां द्विजानां सर्वमेव वा ।
हीनानां नाधिकोक्तं स्यादिति प्राह पराशरः ॥ ३०-३१ ॥
विमानाच्छतहस्तोच्चादधिकं न कलौ स्मृतम् ।
महावातादिपीडाभिः पीड्यते यद्यतोऽधिकम् ॥ ३०-३२ ॥
स्वव्यासार्धाद् गर्भगृहमविशेषोदिते भवेत् ।
विमानव्यासनन्दांशात् कूटशालाविशालता ॥ ३०-३३ ॥
विस्तारद्विगुणायामो युग्मायुग्मे च कोष्ठके ।
पञ्जरालिन्दके तुल्ये भागार्धार्धारिको भवेत् ॥ ३०-३४ ॥
पञ्चत्र्यंशमलिन्दं वा गृहपिण्ड्यादि शेषतः ।
तलविभागाधिकारः ।
कायश्चाप्यनुकायश्च प्रासादाङ्गं द्विधा स्मृतम् ॥ ३०-३५ ॥
अधिष्ठानं तथा स्तम्भो भित्तिः कुम्भश्च मण्डिकाः ।
पोतिका स्याद् भारतुला जयन्तय इति क्रमात् ॥ ३०-३६ ॥
अनुमार्गाश्च कायः स्यादनुकायोऽथ कथ्यते ।
उत्तरं वाजनं श्रेणी बलीकं कर्णपत्रिका ॥ ३०-३७ ॥
सन्धिद्वारकपाटानि योगः प्रच्छादनानि च ।
कुम्भवल्ली तोरणानि मुष्टिबन्धाष्टमङ्गलैः ॥ ३०-३८ ॥
मृणालिका दण्डिका च नप्रिहाराश्च नासिकाः ।
पट्टिका वलभी बन्धवेदिका जालकानि च ॥ ३०-३९ ॥
कर्णकूटास्तथा कूटा नीडकोष्ठादयोऽपि च ।
ऊर्ध्वप्रच्छादविन्याससुधालोष्टेष्टकादयः ॥ ३०-४० ॥
अनुकायाभिधानानि सामान्यानि भवन्ति हि ।
देशोचितानि क्षुद्राल्पविमानानि भवन्ति हि ॥ ३०-४१ ॥
नागरं द्राविलं चैव वेसरं च त्रिधा मतम् ।
चतुरश्रं वायताश्रं नागरं तत् प्रचक्षते ॥ ३०-४२ ॥
षडश्रं वाथवाष्टाश्रं समं वा दीर्घमेव वा ।
द्राविलं सौधमुद्दिष्टं वेदाश्रं वा गलादधः ॥ ३०-४३ ॥
कण्ठादुपरि चाष्टाश्रं तदपि द्राविलं स्मृतम् ।
वृत्तं वृत्तायतं वापि द्व्यश्रं वृत्तमथापि वा ॥ ३०-४४ ॥
कण्ठादधस्ताद् वेदाश्रं तदूर्ध्वं वर्तुलं च यत् ।
विमानं वेसराख्यं स्यात् त्रयं तत्त्रिगुणं स्मृतम् ॥ ३०-४५ ॥
सात्त्विकं नागरं तत् स्याद् राजसं द्राविलं स्मृतम् ।
तामसं वेसरं चेति त्रयं ब्रह्मादिदैवतम् ॥ ३०-४६ ॥
त्रियुगं तत् त्रिवर्णं च त्रितत्त्वं च क्रमात् स्मृतम् ।
नागरस्य स्मृतो देशो हिमवद्विन्ध्यमध्यगः ॥ ३०-४७ ॥
द्राविलस्योचितो देशो द्राविडः स्यान्न चान्यथा ।
आगस्त्यविन्ध्यमध्यस्थो देशो वेसरसम्मतः ॥ ३०-४८ ॥
सर्वाणि सर्वदेशेषु भवन्तीत्यपि केचन ।
समासादत्र सामान्यं तलनिर्माणमिष्यते ॥ ३०-४९ ॥
त्रिपञ्चसप्तनवभिः करैरेकतलं स्मृतम् ।
रुद्रातिजगतीसङ्ख्यैर्हस्तैः स्याद् द्वितलं पुनः ॥ ३०-५० ॥
त्रितलं पञ्चदशभिः कुर्यात् सप्तदशैव तु ।
अत ऊर्ध्वं प्रतितलं पञ्चहस्तविवर्धनात् ॥ ३०-५१ ॥
आद्वादशतलं धाम्नां यथावन्मानमूहयेत् ।
अल्पोत्तमविमानानां व्यासाद् द्विगुण उच्छ्रयः ॥ ३०-५२ ॥
द्विगुणात् सप्तमांशोनमल्पमध्येषु तुङ्गता ।
तस्मादर्धांशहीनः स्यादुत्सेधोऽल्पाधमस्य तु ॥ ३०-५३ ॥
व्यासेऽभिकृतिकोष्ठे स्यात् पीठं कोष्ठेन मध्यतः ।
तद्बहिर्वसुकोष्ठानां पङ्क्त्या गर्भगृहं भवेत् ॥ ३०-५४ ।\
कोष्ठपङ्क्त्या बहिर्भित्तिस्तत्र द्वारं तु कोष्ठतः ।
एकभित्येकतलकं दैवं धामेदमीरितम् ॥ ३०-५५ ॥
तद्वत् प्रासादविस्तारस्यैकाशीतिपदस्य तु ।
मध्यस्थनवकोष्ठे स्यात् सपीठं गर्भमन्दिरम् ॥ ३०-५६ ॥
तद्बाह्ये कोष्ठपङ्क्त्या तु भित्तिं द्वारं च कल्पयेत् ।
तद्बाह्यपङ्क्त्या परितः कल्पयेन्मध्यनाडिकाम् ॥ ३०-५७ ॥
प्रासादभित्तिं तद्बाह्ये पङ्क्त्या द्वारं च योजयेत् ।
प्राच्यां वा पश्चिमे भित्त्योर्द्वारमेकैककोष्ठतः ॥ ३०-५८ ॥
एवं चाल्पविमानानि विज्ञेयानि यथारुचि ।
एकभौमानि वा कुर्याद् द्वितलान्तानि शक्तितः ॥ ३०-५९ ॥
एतेषामात्तविस्ताराद् द्विगुणः स्यादिहोच्छ्रयः ।
उच्छ्रये चाष्टधा भक्ते स्यादधिष्ठानमंशतः ॥ ३०-६० ॥
स्तम्भोत्सेधस्तु भागाभ्यां प्रस्तरश्चैकभागिकः ।
कण्ठश्चांशेन शिखरं द्वाभ्यां स्थूपिस्तथांशतः ॥ ३०-६१ ॥
एवं धामैकतलकं द्वितलं च समूहयेत् ।
तत्राधिष्ठानतुङ्गस्य त्रिधा भक्तस्य भागशः ॥ ३०-६२ ॥
भागेन जगतीं कुर्यादंशेन कुमुदं तथा ।
शिष्टभागे तु वेदांशे कुर्यादंशेन पट्टिकाम् ॥ ३०-६३ ॥
स्यादंशेनान्तरं शेषावंशौ प्रतिमुखं भवेत् ।
अल्पक्षुद्रविमानानामधिष्ठानमिदं भवेत् ॥ ३०-६४ ॥
मुख्यजातीतराणां च जात्यानां च यथोचितम् ।
विमानानामधिष्ठानं सोपपीठं निगद्यते ॥ ३०-६५ ॥
मसूरकं चाधिष्ठानं वस्त्वाधारं च कुट्टिमम् ।
तलं चाद्याङ्गमिति च शब्दाः पर्यायवाचकाः ॥ ३०-६६ ॥
प्रासादस्तु निजैरङ्गैरधितिष्ठति यं सदा ।
दृढं शिलादिघटितं तदधिष्ठानसञ्ज्ञितम् ॥ ३०-६७ ॥
पूर्वमुक्तप्रकारेण स्थले दृढतरं चिते ।
गर्भन्यासं च कृत्वादावुपपीठं तु योजयेत् ॥ ३०-६८ ॥
अधोऽधिष्ठानकानां स्यादुपपीठं भवेद् यदि ।
उन्नत्यर्थं च शोभार्थं रक्षार्थं च विशेषतः ॥ ३०-६९ ॥
वेदीभद्रं प्रातिभद्रं सुभद्रं च त्रिधा मतम् ।
अर्कांशे तूपपीठोच्चैरुपानद्व्यंशमंशतः ॥ ३०-७० ॥
पद्मं क्षेपणमर्धांशाद् ग्रीवा पञ्चांशतो भवेत् ।
अर्धेन कम्पस्तस्योर्ध्वमब्जं चांशेन वाजनम् ॥ ३०-७१ ॥
शिष्टांशेनोर्ध्वकम्पश्चेत्यष्टाङ्गमुपपीठकम् ।
षडङ्गं वा विधातव्यमूर्ध्वाधः पङ्कजं विना ॥ ३०-७२ ॥
वेदीभद्रमिदं प्रोक्तं सर्वहर्म्योचितं द्विधा ।
अश्विदृक्च्छिवभागैस्तु भानुभागांशकांशकैः ॥ ३०-७३ ॥
रामांशांशकभागैस्तु द्वाभ्यामंशेन योजयेत् ।
जन्मनो वाजनान्तं तत्तुङ्गे त्रिनवभागिके ॥ ३०-७४ ॥
पादुकं पङ्कजं कम्पः कण्ठमुत्तरमम्बुजम् ।
कपोतालिङ्गकान्तादि प्रतिवाजनमुच्यते ॥ ३०-७५ ॥
प्रातिभद्राह्वयं त्वेतत् सर्वालङ्कारसंयुतम् ।
प्रकृत्यंशे तदुत्सेधे भागाभ्यां जन्म चाम्बुजम् ॥ ३०-७६ ॥
अर्धेन गलमर्धने पद्मं द्व्यंशं तु वाजनम् ।
अर्धेनाब्जं तथा कम्पमष्टौ कण्ठोऽंशमुत्तरम् ॥ ३०-७७ ॥
अर्धेनाब्जं तु गोपानं त्रिभिः स्यात् कम्पमूर्ध्वतः ।
सुभद्रकमिदं नाम्ना कथितं ह्युपपीठकम् ॥ ३०-७८ ॥
सिंहेभमकरव्यालभूतपत्राद्यलङ्कृतम् ।
प्रतिवक्त्रझषास्यं स्याद् बालेनारूढमस्तकम् ॥ ३०-७९ ॥
अत्र मयः –
आत्ताधिष्ठानतुङ्गाद् द्विगुणमथ समं सार्धमर्धत्रिपादं
पञ्चांशं द्व्यंशकं वानलसममिति त्रिद्व्येकमात्रोपपीठम् ।
सप्रत्यङ्गं समञ्चं तदपि च महता वाजनेनोपयुक्तं
सर्वेषां चापि धाम्नां दृढमुचितमधो योजयेत् तूपपीठम् ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिधान्तसारे उपरिभागे क्रियापादे जात्यादिविमानविभागोपपीठविधिपटलस्त्रिंशः ॥ ३० ॥
शुभं भूयात् ।