अथ एकोनत्रिंशः पटलः ।
अथ जातीतराख्यानां विमानानां निगद्यते ।
लक्षणं मेरुपूर्वाणां तत्तन्निष्पत्तिसिद्धिदम् ॥ २९-१ ॥
मेरुसञ्ज्ञस्य वेदाश्रमधिष्ठानं तु वर्तुलम् ।
गलं च शिखरे तच्च चतुर्नासीभिरन्वितम् ॥ २९-२ ॥
मुखनासी महत्येका गर्भार्धसमनिर्गमा ।
व्यासे त्रयोदशांशे तु पञ्चांशं गर्भमन्दिरम् ॥ २९-३ ॥
गृहपिण्ड्यलिन्दहाराः पृथगेकांशतः क्रमात् ।
कूटमेकांशतः कोष्ठं त्रिभिरंशैरथांशतः ॥ २९-४ ॥
नीडं शेषं हि हारांशं कूटादिसमसूत्रकम् ।
स्वस्तिकाबन्धवन्नास्यस्त्रिचतुःपञ्चभूमिकम् ॥ २९-५ ॥
नानाधिष्ठानकस्तम्भवेदिकाजालतोरणैः ।
वृत्तस्फुटितनीडाद्यैर्भूषयेन्मेरुमादरात् ॥ २९-६ ॥
मेरुविमानम् ।
तदेव कण्ठे शिखरे चतुरश्रं तु मन्दरम् ।
मन्दरम् ।
तदेव वस्वश्रगलशिखरं वसुनासिकम् ॥ २९-७ ॥
अष्टपञ्जरकूटं च नाम्ना कैलासमिष्यते ।
कैलासम् ।
वेदवस्वश्रवृत्ताभगर्भगेहं तदेव हि ॥ २९-८ ॥
सभद्रनासिकं ख्यातं विमानं कुम्भसञ्ज्ञितम् ।
कुम्भविमानम् ।
वेदाश्रगर्भगेहं तज्जयाङ्गाख्यं सभद्रकम् ॥ २९-९ ॥
जयाङ्गम् ।
विशालाङ्गं तदेव स्याद् वृत्तं शिखरकण्ठयोः ।
विशालाङ्गम् ।
तदेव मध्ये हित्वांशं कोष्ठयुक्तं द्विभागतः ॥ २९-१० ॥
अष्टाश्रशिखरग्रीवं तथाष्टगलनासिकम् ।
अष्टपञ्जरकूटं च द्विषष्टितिलकान्वितम् ॥ २९-११ ॥
सावारं वा निरावारं त्रिचतुःपञ्चभूमिकम् ।
विमलाकृतिसञ्ज्ञं हि विमानमिदमद्भुतम् ॥ २९-१२ ॥
विमलाकृति ।
तदेव कोष्ठकं सर्वं स्वविस्तारार्धनिर्गतम् ।
तले तले महानास्यौ पक्षयोरर्धकोष्ठवत् ॥ २९-१३ ॥
हंसच्छन्दमिदं प्रोक्तं विमानमतिसुन्दरम् ।
हंसच्छन्दम् ।
एतदेव हि वेदाश्रकण्ठं वेदाश्रमस्तकम् ॥ २९-१४ ॥
शेषं प्रागुक्तवत् सर्वं वृषच्छन्दमिदं स्मृतम् ।
वृषच्छन्दम् ।
तदेव गरुडच्छन्दं विमानमथ कथ्यते ॥ २९-१५ ॥
मुखे भद्राङ्गनासं तु पक्षयोरर्धकोष्ठवत् ।
पार्श्वयोर्द्विद्विनासं च सवृत्तस्फुटितं गलम् ॥ २९-१६ ॥
शेषं मेरुसमाकारं गरुडच्छन्दमेव तत् ।
गरुडच्छन्दम् ।
तदेवाष्टाश्रकण्ठं चेदष्टाश्रशिखरं पुनः ॥ २९-१७ ॥
पद्मसङ्काशशीर्षं च पद्माङ्गं ब्रह्ममन्दिरम् ।
पद्माङ्गम् ।
तदेव व्यासनिष्क्रान्तं मध्यकोष्ठं चतुर्दिशम् ॥ २९-१८ ॥
पद्मकुट्मलशिर्षं तु पद्मभद्रमिदं स्मृतम् ।
पद्मभद्रम् ।
तदेव कण्ठे शिखरे वृत्तं चेत् पृथुनासिकम् ॥ २९-१९ ॥
मुखे मुखे द्विपक्षे तु तिस्रो नास्यः समानिकाः ।
तलं प्रति सभद्राङ्गं सर्वत्र तिलकैर्युतम् ॥ २९-२० ॥
सद्वारं वापि चाद्वारं योगकैलासकान्तकम् ।
कैलासकान्तकम् ।
एकादशकरव्यासं सप्ताष्टनवभागवत् ॥ २९-२१ ॥
त्रिचतुष्पञ्चभागेन नालीगेहं समन्ततः ।
शेषं हारावलीकूटकोष्ठाद्यैर्भूषयेदपि ॥ २९-२२ ॥
सभद्रं शिखरं वृत्तं चतुर्नासं द्विभूमिकम् ।
चतुष्कूटं चतुश्शालं समन्तात् तिलकैर्युतम् ॥ २९-२३ ॥
सुवृत्तकर्णकूटाग्रं विमानं रुद्रकान्तकम् ।
रुद्रकान्तम् ।
तदेव भद्रकोष्ठाङ्गं योगभद्रं पचक्षते ॥ २९-२४ ॥
योगभद्रम् ।
तदेव वेदाश्रशिरःसौष्ठिकाग्रमलङ्कृतम् ।
शिखरेऽष्टाल्पनासं च भोगिच्छन्दाह्वयं भवेत् ॥ २९-२५ ॥
भोगिच्छन्दम् ।
तदेव कण्ठे शिखरे षडश्रं चेत् सुदर्शनम् ।
सुदर्शनस्य विष्णोर्वा भवनं तत् प्रचक्षते ॥ २९-२६ ॥
सुदर्शनम् ।
तदेव स्कन्दकान्तं स्यात् षण्णासीभिरलङ्कृतम् ।
यथोचिताङ्गसम्पन्नं विमानं षण्मुखप्रियम् ॥ २९-२७ ॥
स्कन्दकान्तम् ।
तदेवाखिलमष्टाश्रं कर्णकूटशिरोगलम् ।
सभद्राङ्गं चतुर्नासं विन्ध्यच्छन्दं द्विभूमिकम् ॥ २९-२८ ॥
विन्ध्यच्छन्दम् ।
नवसप्तकरव्यासं सप्तषड्भागयान्वितम् ।
चतुष्कूटचतुःशालायुक्तं वृत्तशिरोगलम् ॥ २९-२९ ॥
अल्पानल्पचतुर्नासमष्टपञ्जरतोरणम् ।
समध्यभद्रतिलकैर्मसूरस्तम्भकैर्युतम् ॥ २९-३० ॥
सोपपीठमधिष्ठानं नानावयवसुन्दरम् ।
विमानं मेरुकूटाख्यं कूटाद्यङ्गैश्च मण्डितम् ॥ २९-३१ ॥
मेरुकूटम् ।
मध्यभद्रं विना तत्र कोष्ठकं ककर भवेत् ।
शेषं पूर्ववदाभूष्य चित्रकूटं हरिप्रियम् ॥ २९-३२ ॥
चित्रकूटम् ।
तदेव सौष्ठिकैर्युक्तमष्टाभिः साष्टनासिकम् ।
श्रीमण्डनं विमानं स्याच्छ्रीकरं सार्वदैवतम् ॥ २९-३३ ॥
श्रीमण्डनम् ।
तदेव खलु सौमुख्यमष्टकूटाष्टशालकम् ।
सौमुख्यम् ।
तदेव चतुरश्राभशिखरं जयमङ्गलम् ॥ २९-३४ ॥
जयमङ्गलम् ।
तदेवाष्टाश्रशिखरं नीलपर्वतसञ्ज्ञितम् ।
नीलपर्वतम् ।
तदेव कूटशालाभिर्विहीनः सोऽष्टपञ्जरः ॥ २९-३५ ॥
यथेष्टशिखरच्छन्दः प्रासादो निषधः स्मृतः ।
निषधः ।
वेदाश्रदीर्घाधिष्ठानं शालाकारशिरोन्वितम् ॥ २९-३६ ॥
कूटकोष्ठकनीप्राद्यैः सर्वाङ्गैरपि मण्डितम् ।
नानाधिदा?नपादाढ्यं विमानं मङ्गलाह्वयम् ॥ २९-३७ ॥
श्री श्रीधरधरादुर्गागौरीमातृगणप्रियम् ।
मङ्गलम् ।
चतुरश्रमधिष्ठानं सभद्रं वृत्तशीर्षकम् ॥ २९-३८ ॥
एकभौमं चतुर्नासं विजयाख्यं हरिप्रियम् ।
विजयम् ।
तदेव सौष्ठिकोपेतमष्टाश्रगलशीर्षकम् ॥ २९-३९ ॥
युक्तं ललितकान्ताख्यं सर्वाङ्गैः सार्वदैवतम् ।
ललितकान्तम् ।
तदेव वृत्तशिखरं श्रीकरं श्रीधरप्रियम् ॥ २९-४० ॥
श्रीकरम् ।
तदेव चतुरश्राग्रशिखरं साष्टपञ्जरम् ।
कर्णकूटविहीनं तु श्रीविशालं शिवप्रियम् ॥ २९-४१ ॥
श्रीविशालम् ।
इत्थं द्वात्रिंशदुक्तानि सामान्यानि विशेषतः ।
जातीतराणि सर्वेषां विमानानि दिवौकसाम् ॥ २९-४२ ॥
अत्र पराशरः –
एभिरेवाप्यलङ्कारैः स्यात् कनिष्ठाल्पकेष्वपि ।
नामान्यपि च तान्याहुस्तत्तन्मण्डनभेदतः ॥
इति । तानि च क्षुद्राल्पविमानानि परतः कथ्यन्ते ।
जातीतरविमानालङ्काराधिकारः ।
अथ जातिविमानानामलङ्कारो निगद्यते ।
सोमच्छन्दस्य वेदाश्रमधिष्ठानमथास्य तु ॥ २९-४३ ॥
रामांशाद् गर्भगेहं स्याद् गर्भार्धाद् गृहपिण्डिका ।
पिण्ड्या सहैवाम्बुतलं परितः शेषतोऽपि च ॥ २९-४४ ॥
खण्डहर्म्यं भवेच्चूडहर्म्यं चापि समन्ततः ।
वृद्धसोपानमेवान्तर्लीनमङ्गानि पूर्ववत् ॥ २९-४५ ॥
प्रयोज्यानि सभाकारं शिखरं तत्र नासयः ।
द्विपञ्चाशत् समान्येवं(?) पुरस्तान्मण्डपान्वितम् ॥ २९-४६ ॥
एकानेकतलं ह्येतत् सोमच्छन्दं द्विजोचितम् ।
सोमच्छन्दम् ।
चतुरश्रायतं तु स्यान्नागच्छन्दमसूरकम् ॥ २९-४७ ॥
तत्त्रिवेदांशतोऽंशेन गर्भव्यासस्ततोपि च ।
तृतीयांशेन परितो गृहपिण्डिं प्रकल्पयेत् ॥ २९-४८ ॥
प्रासादखण्डहर्म्यान्तं मण्डपं स्याच्च तादृशम् ।
सोपानं खण्डहर्म्यार्धाच्छिखरं वृत्तमायतम् ॥ २९-४९ ॥
सभाकारं तु तस्याग्रे गर्भार्धात् पृथुनासिका ।
तदर्धात् परितो नास्यः सर्वा नागोपमाः समाः ॥ २९-५० ॥
वृत्तस्फुटं पुरोनास्यां मूलभूमौ तथोपरि ।
वसुवेदाश्रकाः स्तम्भाः शेषं पूर्ववदाचरेत् ॥ २९-५१ ॥
नागच्छन्दम् ।
अधिष्ठानादिकं प्राग्वत् कुड्यावर्तस्य योजयेत् ।
ब्रह्मद्वारपताकाभ्यां शेषमाभूष्य यत्नतः ॥ २९-५२ ॥
अन्तर्लीनं हस्तिसञ्ज्ञं सोपानं शिखरं तथा ।
शालाकारं भवेत् तत्र नास्यः सङ्कृतिसङ्ख्यया ॥ २९-५३ ॥
मुखे मुखे महानास्यः पार्श्वे तिलकनासिकाः ।
प्रयोज्यास्तदिदं प्रोक्तं कुड्यावर्तं द्विजोचितम् ॥ २९-५४ ॥
कुड्यावर्तम् ।
द्विकुटस्याप्यधिष्ठानं गर्भागारं च पूर्ववत् ।
शेषं जलस्थलं खण्डहर्म्यकूटादिभूषितम् ॥ २९-५५ ॥
विमानस्य पुरस्तात् तु गर्भमानेन मण्डपम् ।
पार्श्वयोश्च सभारूपा वेदशालास्तु मध्यतः ॥ २९-५६ ॥
नासी स्याच्छिखरोपेता पिण्ड्यां नास्यस्तु षोडश ।
सभाशालाभशिखरं चतस्रस्तत्र नासिकाः ॥ २९-५७ ॥
पादबन्धमधिष्ठानं स्तम्भाः सर्वे विकल्पकाः ।
ऊहप्रत्यूहसंयुक्तं हस्तिसोपानसंयुतम् ॥ २९-५८ ॥
जालकाद्यैः समाभूष्य विमानं स्याद् द्विकूटकम् ।
द्विकूटकम् ।
श्रीवर्धनस्य च प्राग्वदधिष्ठानादिकं समम् ॥ २९-५९ ॥
शिखरं स्यात् सभाकारमायतं तस्य चाग्रतः ।
पृष्ठे च नासिकैका स्याद् द्वे द्वे स्यातां च पार्श्वयोः ॥ २९-६० ॥
वेदिकापञ्जराद्यैश्च यथायुक्त्या विभूषयेत् ।
श्रीवर्धनम् ।
वृत्तायतमधिष्ठानमुक्तं पद्मगृहस्य तु ॥ २९-६१ ॥
तद्व्यासे वसुनन्दांशे द्वित्र्यंशैर्गर्भमन्दिरम् ।
शेषं प्रागिव योज्यं स्यान्नासिकाः षोडशैव तु ॥ २९-६२ ॥
वृत्तायतं च शिखरं चतस्रस्तत्र नासिकाः ।
अल्पाश्च नासयोऽत्राष्टौ चतस्रस्तिलकान्विताः ॥ २९-६३ ॥
पद्मगृहम् ।
प्रेक्षागृहमुखस्यापि स्यादधिष्ठानमायतम् ।
चतुरश्रस्य विस्तारादर्धं गर्भगृहं भवेत् ॥ २९-६४ ॥
गर्भव्यासेन तत्पार्श्वमण्डपानां चतुष्टयम् ।
शिखरं कोष्ठकाकारं तत्र नास्यः षडेव हि ॥ २९-६५ ॥
कपोते चार्कसङ्ख्यास्ताः शेषं प्राग्वन्नियोजयेत् ।
अलङ्कारश्च कर्तव्यो वेदीजालमरुत्पथैः ॥ २९-६६ ॥
प्रेक्षागृहम् ।
क्रतुवर्धनकस्यापि स्वव्यासार्धायताश्रकम् ।
अधिष्ठानं तु तद्व्यासत्रिभागाद् गर्भमन्दिरम् ॥ २९-६७ ॥
समन्ताद् गर्भरामांशभागादर्धारिका भवेत् ।
शेषमप्तलचूडीकहर्म्यं कुट्टिमसंयुतम् ॥ २९-६८ ॥
मुखेमुखे विमानस्य मण्डपं गर्भसम्मितम् ।
प्रासादवत् स्थलं बाह्ये चूडहर्म्यान्वितं तु तत् ॥ २९-६९ ॥
कर्णकूटानि चत्वारि शिखरं कोष्ठकं महत् ।
चतस्रस्तत्रार्धसभा गर्भकूटानि वै मुखे ॥ २९-७० ॥
पुरः पृष्ठे सभा मत्तवारणं मण्डपो भवेत् ।
चतस्रोऽङ्गसभाः कार्याः शेषाण्यङ्गानि पूर्ववत् ॥ २९-७१ ॥
विवृतस्तम्भकैर्बाह्ये जालं स्यात् परितोऽपि च ।
अन्तर्लीनं हि सोपान(मु?यु)क्तं स्यात् क्रतुवर्धनम् ॥ २९-७२ ॥
क्रतुवर्धनम् ।
वृत्तं वृत्तगृहस्य स्यादधिष्ठानं तदायतम् ।
तादृशं शिखरं तत्र चतस्रः पृथुनासिकाः ॥ २९-७३ ॥
अल्पास्तावत्य एवास्य गृहपिण्ड्यादि पूर्ववत् ।
पृष्ठे गर्भप्रमाणं तदर्धभद्रं तु पिण्डिके ॥ २९-७४ ॥
त्रिरष्टौ नासिका योज्या मुखे मण्डिगृहो (?) भवेत् ।
वृत्तगृहम् ।
आयताश्रमधिष्ठानं भानुकान्तस्य तस्य तु ॥ २९-७५ ॥
व्यासार्धाद् गर्भगेहं स्याच्छेषेण गृहपिण्डिका ।
अप्तलं खण्डहर्म्यं च शिखरं द्वादशाश्रकम् ॥ २९-७६ ॥
नासयो द्वादशैवास्मिन् गृहपिण्ड्यामथो सभाः ।
षोडश स्युश्च तन्मध्ये महाकोष्ठचतुष्टयम् ॥ २९-७७ ॥
वृद्धसोपानमेवान्तर्लीनं स्याद् भानुकान्तके ।
भानुकान्तम् ।
अत्यन्तकान्ताधिष्ठानं चतुरश्रं हि तस्य तु ॥ २९-७८ ॥
तृतीयांशाद् गर्भगृहं शिखरार्धं सभाकृति ।
अर्धार्यप्तलहाराश्चाप्यंशाभ्यां कर्णकेष्वथ ॥ २९-७९ ॥
गर्भतुल्या वेदसभा महाकोष्ठानि चान्तरे ।
कपोते परितश्चापि द्व्यष्टौ तिलकनासिकाः ॥ २९-८० ॥
यथार्हं भूषयेच्छेषमेतदत्यन्तकान्तकम् ।
अत्यन्तकान्तम् ।
मसूरं चन्द्रकान्तस्याप्यायतं मण्डलाकृति ॥ २९-८१ ॥
व्यासार्धाद् गर्भगेहं स्याच्छेषं पिण्ड्यादिकं भवेत् ।
दीर्घवृत्तं च शिखरं तत्राष्टौ पृथुनासिकाः ॥ २९-८२ ॥
अल्पनास्यश्च तावत्यः शेषं प्रागिव भूषयेत् ।
चन्द्रकान्तम् ।
ब्राह्मणविमानाधिकारः ॥
चतुःस्फुटस्याधिष्ठानं प्राग्वद् दीर्घायतं भवेत् ॥ २९-८३ ॥
व्यासपादाद् गर्भगृहं गर्भार्धं गृहपिण्डिका ।
शिष्टेनाप्तलकं चूडाखण्डहर्म्ये च कल्पयेत् ॥ २९-८४ ॥
शिखरं कोष्ठकाकारं गर्भार्धान्मध्यनासिका ।
पार्श्वे द्वे द्वे महानास्यौ कूटकोष्ठादि पूर्ववत् ॥ २९-८५ ॥
तलेतले तु स्तम्भेषु वेदिकाजालकादिकम् ।
पुरस्तान्मण्डपं तुल्यमन्तःस्तम्भं तु तद्बहिः ॥ २९-८६ ॥
लाङ्गलाकृति कुड्यं तु यथाशोभं विभूषयेत् ।
त्रितलादियुतं नैकतलमेतच्चतुःस्फुटम् ॥ २९-८७ ॥
चतुःस्फुटम् ।
मन्त्रपूतस्य वेदाश्रमायतं स्यान्मसूरकम् ।
विस्तारार्धेन गर्भाख्यं शेषात् पिण्डी जलस्थले ॥ २९-८८ ॥
हारावली च स्यात् तस्य शिखरं तु सभाकृति ।
अन्तःस्तम्भं बहिः कुण्ड्ये नानाजालकशोभितम् ॥ २९-८९ ॥
कूटकोष्ठादिकैर्दिक्षु विदिक्षु च विभूषयेत् ।
द्व्यष्टनास्यस्तु शिखरे कपोते लम्बनासिकाः ॥ २९-९० ॥
चतुर्विंशतिसङ्ख्याः स्युर्द्वाराण्यपि चतुर्दिशम् ।
पुरस्तान्मण्डपं गर्भसमं बाह्ये च कुड्यकम् ॥ २९-९१ ॥
अलिन्दं खण्डहर्म्यं च कर्णे गर्भमिताः सभाः ।
तदन्तरे महाकोष्ठैः कूटाद्यैश्च विभूषयेत् ॥ २९-९२ ॥
मन्त्रपूतम् ।
आवन्त्यस्याप्यधिष्ठानं स्वव्यासार्धायताश्रकम् ।
अष्टांशांशौ गर्भगृहं भागैः पिण्ड्यादिकं त्रयम् ॥ २९-९३ ॥
पिण्ड्याश्चापि चतुष्कर्णे लाङ्ग्लाकारभित्तिकम् ।
तदन्तरे च पूर्वाश्रस्तम्भाढ्यं शिखरं तु तत् ॥ २९-९४ ॥
सभाकारं चतुर्नासं मुखे भद्रसभान्विते ।
पक्षयोरल्पनास्यः स्युरन्तरे पृथुनासिकाः ॥ २९-९५ ॥
वल्लीमण्डलसोपानमन्तर्लीनं प्रयोजयेत् ।
गुह्यागुह्यक्रियाकुड्यस्तम्भयुक्तं तु नैकधा ॥ २९-८\९६ ॥
पादैश्च वेदीजालाद्यैर्भूषयेद् बहुभूमिकम् ।
आवन्त्यम् ।
महिषस्यायताश्रं स्यादधिष्ठानं तु तत्ततात् ॥ २९-९७ ॥
तृतीयांशाद् गर्भगृहं शेषात् पिण्ड्यादिकं त्रयम् ।
तत्पुरस्ताच्च पृष्ठे च मध्यरङ्गे तु मण्डपे ॥ २९-९८ ॥
स्यातां च परितः खण्डहर्म्यं सत्कूटजालकम् ।
मूलमण्डपकण्ठाभ्यां हस्तिसोपानमन्तरे ॥ २९-९९ ॥
पुरः स्वस्तिकवद् वंशसभाकारमथापरे ।
नवनासं तु शिखरे शालावन्महिषाननम् ॥ २९-१०० ॥
वेदीजालादिभिः शेषं प्राग्वदाभूष्य माहिषम् ।
माहिषम् ।
तन्त्रीकान्तमसूरं च चतुरश्रायतं भवेत् ॥ २९-१०१ ॥
तद्व्यासार्धं गर्भगृहं शेषं स्याद् गृहपिण्डिका ।
अप्तलं खण्डहर्म्यं च शिखरं कोष्ठमेव हि ॥ २९-१०२ ॥
सभामुखं पुरस्तात् स्यान्महानासी च पृष्ठतः ।
तत्र षोडश नास्यः स्युरष्टौ तिलकनासिकाः ॥ २९-१०३ ॥
महाद्वारे क्रमात् सिंहपञ्जराणि दशैव तु ।
कपोताधो वेदकर्णलाङ्गलाख्यसभोद्गमम् ॥ २९-१०४ ॥
मध्यं सभामुखोपेतमहानासीचतुष्टयम् ।
प्रमाणगेहविपुलनिर्गतं स्याद् यथारुचि ॥ २९-१०५ ॥
कूटाद्यैर्भूषितं स्वाङ्गैस्तन्त्रीकान्तं प्रचक्षते ।
तन्त्रीकान्तम् ।
आयताश्रमधिष्ठानं विजयाङ्गस्य तस्य तु ॥ २९-१०६ ॥
व्यासत्रिभागाद् गर्भाख्यं शेषं पिण्ड्यप्तलादिकम् ।
अष्टनासं तु शिखरं भवेत् ककरकोष्ठकम् ॥ २९-१०७ ॥
कपोते तिलनास्यः स्युश्चतुर्विंशतिसङ्ख्यया ।
सोपानमन्तर्लीनं स्याद् भूमौ भूमौ च मण्डपम् ॥ २९-१०८ ॥
गर्भप्रमाणं तद्बाह्ये खण्डहर्म्यावली भवेत् ।
युक्त्याङ्गैः शेषमाभूष्य विजयाङ्गमिति स्मृतम् ॥ २९-१०९ ॥
विजयाङ्गम् ।
विशालभद्राधिष्ठानं प्राग्वद् व्यासे दशांशके ।
द्विभागो गर्भविस्तारः शेषेण गृहपिण्डिकाम् ॥ २९-११० ॥
ब्रह्मद्वारं चूडहर्म्यं खण्डहर्म्यं च कल्पयेत् ।
पुरस्ताद् गर्भदीर्घं तु वेदाश्रं मण्डपं भवेत् ॥ २९-१११ ॥
अभितोऽर्धेन कुड्यं चाप्यप्तलं खण्डहर्म्यकम् ।
चूडीककर्णप्रासादः शृङ्गं ककरकोष्ठकम् ॥ २९-११२ ॥
कपोतशाला पिण्डिः स्यादथ पिण्ड्यास्तु निर्गतम् ।
समर्पितसभारूपं मध्यमं मण्डनं भवेत् ॥ २९-११३ ॥
गर्भव्यासं तदध्यर्धद्विगुणायाममानतः ।
हारापञ्जरपूर्वाङ्गैर्निष्क्रान्तस्य सभाकृतिः ॥ २९-११४ ॥
प्रासादमण्डपाग्रे च पृष्ठे तत्पार्श्वपत्रयुक् ।
शिखरं चाष्टनासं स्यात् तिलकान्यथ षोडश ॥ २९-११५ ॥
मण्डपोपरि रङ्गं स्यादेकानेकतलान्वितम् ।
विशालभद्रम् ।
आधष्ठानं तु वेदाश्रं चतुरंशाधिकायतम् ॥ २९-११६ ॥
गणिकादिविशालस्य शेषमर्धारिकाप्तले ।
खण्डहर्म्यं च भवति कर्णप्रासादमध्यमे ॥ २९-११७ ॥
प्राग्वन्मण्डननिर्यूहकर्णमध्ये तथान्तरे ।
स्तम्भाः स्युर्गृहपिण्ड्याश्च पुरस्तान्मण्डपं भवेत् ॥ २९-११८ ॥
नालीगृहायामसमं मध्ये रङ्गं च तस्य तु ।
शेषं हर्म्यस्थलं बाह्ये कुट्टिमं जालकान्वितम् ॥ २९-११९ ॥
पिण्डिः कपोतजाला स्यात् तस्यां षोडश नासिकाः ।
शिखरं कोष्ठकं तु स्यात् पुरे ककरभद्रकम् ॥ २९-१२० ॥
तत्राष्टौ नासयः पार्श्वे (सु?स)भद्रं वा विभद्रकम् ।
एकाद्यभीष्टतलकं राजस्त्रीणां निकेतनम् ॥ २९-१२१ ॥
गणिकाविशालम् ।
कर्णभद्रस्य च प्राग्वदधिष्ठानादिकं भवेत् ।
शिखरं च सभाकारं सचतुर्मुखनासिकम् ॥ २९-१२२ ॥
अन्तर्लीनार्कनासाः स्युर्गृहपिण्ड्यप्तलान्तरे ।
स्तम्भान्तर्लीनसोपानाः कपोतेनैकनासिकम् ॥ २९-१२३ ॥
कर्णप्रासादकाश्चूडहर्म्ये गर्भसमायताः ।
कपोतपञ्जरैः सिंहपञ्जरैर्लम्बनासिकैः ॥ २९-१२४ ॥
गूढागूढक्रियास्तम्भभित्तिद्वारैश्च तोरणैः ।
चतुष्कोणे भद्रयुक्तं दिक्षु भद्रसभान्वितम् ॥ २९-१२५ ॥
स्वस्तिभद्रकजालाद्यैर्भूषितं कर्णभद्रकम् ।
कर्णभद्रकम् ।
कर्णशालस्य च प्राग्वदधिष्ठानादिकं स्मृतम् ॥ २९-१२६ ॥
चतुष्कर्णे भद्रशाला मध्यनिर्यूहकाः सभाः ।
भारान्तरप्रयोगं च यथाविधि निवेशयेत् ॥ २९-१२७ ॥
गृहपिण्ड्या समाश्लिष्टमन्तर्लीनमलिन्दकम् ।
पिण्डिः कपोतशाला स्यात् कण लाङ्गलभित्तिकम् ॥ २९-१२८ ॥
अन्तरे स्थापयेत् स्तम्भं तद्भित्तावष्टनासिकाः ।
ऊर्ध्वभूकण्ठशिखरं सभाकारं प्रयोजयेत् ॥ २९-१२९ ॥
ककरीभद्रवक्त्राङ्गं युग्यद्वारं यथारुचि ।
त्रिभौमं सप्तभौमं वा आवृताल्पार्कनासिकम् ॥ २९-१३० ॥
वेदीजालादिभिश्चापि यथेष्टावयवैर्युतम् ।
कणशालम् ।
पद्मासनस्याधिष्ठानमायतं चतुरश्रकम् ॥ २९-१३१ ॥
पञ्चमांशाद् गर्भगृहं गर्भार्धाद् गृहपिण्डिकाः ।
शेषेणाप्तलचूडीकखण्डहर्म्याणि गर्भवत् ॥ २९-१३२ ॥
संश्लिष्टमध्यवासेन दिक्षु कर्णप्रमाणतः ।
प्रासादास्तत्र चत्वारः पृथङ्मण्डपसंयुताः ॥ २९-१३३ ॥
विविधस्तम्भवद् रङ्गं तद्बहिः कुड्यकं भवेत् ।
जालवेदीद्वारयुतं खण्डहर्म्याणि बाह्यतः ॥ २९-१३४ ॥
समांशनिष्क्रमाढ्यानि चतुष्कर्णेषु वै पृथक् ।
कूटानि स्युश्च तन्मध्ये कोष्ठकानि च योजयेत् ॥ २९-१३५ ॥
मध्यावासावृतचतुष्कर्णलाङ्गलकुड्यकम् ।
अन्तःपूर्वाश्रकस्तम्भमन्तर्लीनमलिन्दकम् ॥ २९-१३६ ॥
सभाभशिखरे वेदमहानासाः स्युरल्पकाः ।
द्वादशैव बहिष्कर्णान्मुखशालाः समन्ततः ॥ २९-१३७ ॥
यथार्हावयवैर्युक्तमेतत् पद्मवसन्तकम् ।
पद्मवसन्तकम् ।
व्यासत्रिभागदीर्घाश्रमिन्द्रकान्तस्य कुट्टिमम् ॥ २९-१३८ ॥
तद्रामांशाद् गर्भगृहं गृहपिण्ड्यादि शेषतः ।
वेदभद्रसभा दिक्षु चतुष्कर्णेषु नासिकाः ॥ २९-१३९ ॥
कपोतशालानिर्यूहमुखनास्यो भवन्ति च ।
गृहपिण्ड्यां षोडशैव शिखरं च सभाकृति ॥ २९-१४० ॥
तत्कर्णहलभित्तेः स्यात् स्तम्भनिर्यूहमन्तरे ।
मुखशोभाल्पनास्योऽष्टौ प्राग्वच्छेषं विभूसयेत् ॥ २९-१४१ ॥
इन्द्रकान्तम् ।
दीर्घाश्रं योगकान्तस्याप्यधिष्ष्थानमथोपरि ।
परिवृत्तायतं व्यासादष्टांशाद् गर्भमन्दिरम् ॥ २९-१४२ ॥
अर्धेनार्धारिका हारा खण्डहर्म्यावली भवेत् ।
शिखरं दीर्घवृत्तं पुरस्तान्नासिकाद्वयम् ॥ २९-१४३ ॥
तदर्धात् पृष्ठतस्त्वेका परितश्चाल्पनासिकाः ।
चतुःसप्ततिसङ्ख्याः स्युः सोपानं पृष्ठरोहि च ॥ २९-१४४ ॥
अन्तर्लीनं भवेदेतद् योगकान्तं नृपोचितम् ।
योगकान्तम् ।
स्यात् सर्वललितस्यापि दीर्घाश्रं हि मसूरकम् ॥ २९-१४५ ॥
व्यासत्र्यंशाद् गर्भगृहं तदर्धाद् गृहपिण्डिका ।
कपोतशालाः कर्णेषु कुर्याद् भद्रसभाः पुनः ॥ २९-१४६ ॥
तदन्तरे च शालाः स्युरन्तर्लीनं यथेष्टतः ।
सरङ्गे मण्डपे स्यातां पुरस्ताच्चास्य पृष्ठतः ॥ २९-१४७ ॥
शिखरं च सभाकारं सभद्रं वेदनासिकम् ।
शेषैरङ्गैरनल्पैश्चाप्यल्पैरपि च भूषयेत् ॥ २९-१४८ ॥
सर्वललितम् ।
प्रत्यन्तकान्ताधिष्ठानं समानचतुरश्रकम् ।
मध्ये वेदांशतः स्तम्भैरावृतं स्यात् तदर्धतः ॥ २९-१४९ ॥
गृहपिण्डिर्भवेत् तस्य कर्णेषु हलकुड्यकम् ।
अप्तलं खण्डहर्म्यं च गाभाभ्यां कर्णकोटिषु ॥ २९-१५० ॥
सभाः स्युर्मध्यतस्तासां भद्रशालचतुष्टयम् ।
स्यात् पञ्जराद्यैर्जालाद्यैर्हारामध्येषु भूषयेत् ॥ २९-१५१ ॥
वस्तुमध्यं सभाकारं मुखशालान्वितं भवेत् ।
शिखरे क्षुद्रनास्योऽष्तौ भद्रकूटैश्च भूषयेत् ॥ २९-१५२ ॥
प्रत्यन्तकान्तम् ।
अधिष्ठानं विशालस्य दीर्घाश्रं तस्य विस्तृतेः ।
त्रिभागाद् गर्भगेहं स्याच्छेषेणाम्बुतलं भवेत् ॥ २९-१५३ ॥
चूडिकाखण्डहर्म्ये च शिखरं कोष्ठकाकृति ।
पुरे पुरे च षण्णेत्रे नास्यौ तत्र नियोजयेत् ॥ २९-१५४ ॥
गृहपिण्ड्यां द्विरष्टौ स्युः कर्णेष्वपि च मध्यतः ।
विशालसमभद्रैश्च कूटाद्यैरपि भूषयेत् ॥ २९-१५५ ॥
विशालम् ।
भवेदुत्पलपत्रस्य दीर्घाश्रं तु मसूरकम् ।
नालीगृहं तृतीयांशाच्छेषांशाद् गृहपिण्डिका ॥ २९-१५६ ॥
कपोतशालासदृशी स्यात् तद्बाह्येऽप्तलादिकम् ।
शिखरं च सभाकारं तत्र नासीत्रयं भवेत् ॥ २९-१५७ ॥
कपोते परितोऽल्पाः स्युरष्टात्रिंशत् तु नासयः ।
वेदिकाजालसोपानतोरणाद्यैश्च भूषयेत् ॥ २९-१५८ ॥
उत्पलपत्रम् ।
अधिष्ठानं महाराजच्छन्दस्याप्यायताश्रकम् ।
नालीगृहं व्यासपादाच्छेषं पिण्ड्यप्तलादिकम् ॥ २९-१५९ ॥
कोष्ठकं शिखरं गर्भसमव्यासार्धनिर्गतम् ।
शालामुखस्य संस्थानं पुरस्तादपि पृठतः ॥ २९-१६० ॥
गृहपिण्ड्यां चार्धहारे चतस्रः स्वल्पनासिकाः ।
चतुर्दिशं महाशाला गर्भमानास्तु कर्णगाः ॥ २९-१६१ ॥
सभाः स्युर्भागनिष्क्रान्ताश्चान्तर्लीनाधिरोहणम् ।
निर्यूहार्धेन तत्रापि सोन्नतानतकोष्ठकैः ॥ २९-१६२ ॥
पञ्जराणि तथा कुर्यान्नासयः स्वस्तिकोपमाः ।
हस्त्यादिकानि चत्वारि सोपानानि प्रदक्षिणम् ॥ २९-१६३ ॥
श्रीखण्डचित्रखण्डाख्यौ स्तम्भौ स्यातामधस्तले ।
पद्मासनपिण्डिपादस्तम्भाश्चोपरिभूमिषु ॥ २९-१६४ ॥
नन्द्यावर्तं गजाक्षं च गवाक्षं च मरुत्पथम् ।
तले तले प्रयुञ्जीयादुत्तरं त्रिविधं तथा ॥ २९-१६५ ॥
प्रतयस्त्रिविधास्तद्वत् तोरणानि च वेदिकाः ।
सर्वकायानुकायाढ्यं सर्वाङ्गैरपि मण्डितम् ॥ २९-१६६ ॥
महाराजाह्वयच्छन्दमावासश्चक्रवर्तिनाम् ।
महाराजच्छन्दम् ।
मालीगृहस्याधिष्ठानं चतुरश्रायतं स्मृतम् ॥ २९-१६७ ॥
स्याद् वेदांशाद् गर्भगृहं गर्भार्धाद् गृहपिण्डिका ।
जलस्थलं चूडहर्म्यं खण्डहर्म्यं च शेषतः ॥ २९-१६८ ॥
शिखरं स्याद् दीर्घसभा पुरस्तान्नासिकाद्वयम् ।
पश्चादेका गेहपिण्ड्यां द्व्यष्टौ नास्यो यथार्हतः ॥ २९-१६९ ॥
निष्क्रमोपेतकूटाद्यैरुपेतं नैकभूमिकम् ।
मालीगृहम् ।
नन्दीविशालाधिष्ठानं त्र्यंशोद्रिक्तायताश्रकम् ॥ २९-१७० ॥
गर्भाख्यं व्यासरामांशाच्छेषेणार्धारिकाप्तलम् ।
चूडीकखण्डहर्म्ये च कूटकोष्ठादिभिर्युतम् ॥ २९-१७१ ॥
खण्डहर्म्याग्रतो गर्भात् कर्णप्रासादकः समः ।
पार्श्वयोर्हस्तितुण्डे च स्यातां तद्गृहपिण्डिके ॥ २९-१७२ ॥
शिखरे चापि नास्योऽष्टौ विंशतिश्च भवन्ति हि ।
शिखरं कोष्ठकं सर्वं कूटाद्यङ्गैश्च भूषयेत् ॥ २९-१७३ ॥
नन्दीविशालम् ।
पृथिवीजयसञ्ज्ञस्य वेदाश्रायतकुट्टिमम् ।
गर्भगेहं च वेदांशाद् गृहपिण्डिस्तदर्धतः ॥ २९-१७४ ॥
शिखरं कोष्ठकं मध्ये रङ्गं स्याद् गर्भमानतः ।
मुखे मुखे मण्डपं स्याच्छेषं हर्म्याप्तलादिकम् ॥ २९-१७५ ॥
गृहपिण्डीसमोद्गीर्णे कोष्ठे पूर्वापरस्थिते ।
पार्श्वयोश्च तथा मूर्ध्नि नासिकास्तिलकान्विताः ॥ २९-१७६ ॥
ऊहप्रत्यूहसहितं नैकभौममिदं स्मृतम् ।
पृथिवीजयम् ।
सर्वाङ्गसुन्दरस्यापि दीर्घाश्रं स्यान्मसूरकम् ॥ २९-१७७ ॥
नालीगृहं स्वरामांशात् तदर्धाद् गृहपिण्डिका ।
शेषं जलस्थलं चूडाखण्डहर्म्यावली तथा ॥ २९-१७८ ॥
कर्णप्रमाणप्रासादाश्चत्वारः स्युस्तदन्तरे ।
तद्व्यासद्विगुणायामवेदकोष्ठानि योजयेत् ॥ २९-१७९ ॥
आयताश्रे तु शिखरे महानास्यः षडेव हि ।
स्वल्पास्तत्परितश्चाष्टौ चत्वारिंशच्च नासयः ॥ २९-१८० ॥
प्रमुखे मण्डपं भक्तिद्वयकूटादिशोभितम् ।
शालामुखानि कोष्ठानि सोपानं समखण्डकम् ॥ २९-१८१ ॥
त्रितलादितलैर्युक्तं वेदीजालादिशोभितम् ।
उक्तानुक्तैश्च सर्वाङ्गैर्युक्तं सर्वाङ्गसुन्दरम् ॥ २९-१८२ ॥
सर्वाङ्गसुन्दरम् ।
छायागृहस्याधिष्ठानमायताश्रं तदर्धतः ।
नालीगृहं मण्डपवत् तच्छिरोहर्म्यसंयुतम् ॥ २९-१८३ ॥
गर्भार्धं गृहपिण्डी स्यात् कूटाद्यङ्गैश्च भूषितम् ।
वेदिकाजालकाद्यैश्चच्छायागृहमिदं स्मृतम् ॥ २९-१८४ ॥
छायागृहम् ।
अधिष्ठानं चायताश्रं रतिवर्धनकस्य तु ।
व्यासार्धाद् गर्भगेहं स्याच्छेषेणार्धारिकाप्तलम् ॥ २९-१८५ ॥
चूडीकखण्डहर्म्ये च कर्णे मध्येऽन्तरे पुनः ।
कूटाद्यैर्वेदिकाद्यैश्च सर्वाङ्गैरपि भूषयेत् ॥ २९-१८६ ॥
ककरीकृतकोष्ठं स्याच्छिखरं साष्टनासिकम् ।
पुरस्तान्मण्डपं तस्य गर्भव्यासायतं भवेत् ॥ २९-१८७ ॥
खण्डहर्म्यादिभिर्युक्तं नैकस्तम्भैरलङ्कृतम् ।
पिण्ड्यां तिलकसंयुक्ताश्चतुर्विंशतिनासिकाः ॥ २९-१८८ ॥
कायानुकायभूषाढ्यं रतिवर्धनकं भवेत् ।
रतिवर्धनम् ।
क्षत्त्रियविमानानि चतुर्विंशतिः ।
स्वव्यासपाददीर्घाश्रं विशालायतकुट्टिमम् ॥ २९-१८९ ॥
व्यासाष्टांशद्विभागेन गर्भगेहं तदर्धतः ।
अर्धारिकं भवेद् ब्रह्मद्वारशोभाध्वजादिभिः ॥ २९-१९० ॥
शिखरं दीर्घवृत्तं स्यात् पुरस्तान्नासिकात्रयम् ।
परितोऽष्टौ विंशतिश्च नासिकाः समनिर्गमाः ॥ २९-१९१ ॥
व्यासनिर्गतकूटानि कोष्ठानि परितस्तहा ।
शेषं तिलकनासादिहारापञ्जरकादिभिः ॥ २९-१९२ ॥
एकद्वित्रितलं ह्येतद् विशालालयसञ्ज्ञितम् ।
विशालालयः ।
आयताश्रमधिष्ठानं स्याच्चतुष्पादिकस्य तु ॥ २९-१९३ ॥
व्यासरामांशतो दीर्घं गर्भं रामैकभागतः ।
वेदाश्रं तु सभाकारं शिखरं नवनासिकम् ॥ २९-१९४ ॥
व्यासद्विगुणकायामौ पार्श्वयोः कोष्ठकौ तथा ।
शेषेणाप्तलखण्डाख्यहर्म्ये स्यातां च तत्पुरः ॥ २९-१९५ ॥
पृष्ठे च विवृतस्तम्भं सरङ्गं मण्डपं भवेत् ।
तद्वशान्निर्गतं खण्डहर्म्यं तत्कर्णकोटिषु ॥ २९-१९६ ॥
हलशालाश्चतस्रः स्युर्व्यासायामविभागके ।
कर्णकूटान्तरेष्।वष्टौ दण्डशाला भवन्ति हि ॥ २९-१९७ ॥
बहिरन्तश्च कोष्ठानि विमानस्य चतुर्दश ।
शेषं यथार्हमाभूष्य विमानं विट्चतुर्थयोः ॥ २९-१९८ ॥
चतुष्पादिकम् ।
अधिष्ठानं चायताश्रं तुरङ्गवदनस्य तु ।
व्यासत्र्यंशाद् गर्भगृहं तदर्धार्धारिका भवेत् ॥ २९-१९९ ॥
अप्तलं खण्डहर्म्यं च स्यातां शेषविभागतः ।
दिक्षु गर्भसभा चान्तः कर्णकूटादिमध्यतः ॥ २९-२०० ॥
कोष्ठानि स्युश्च शिखरं सभाकारं तु तत्पुरः ।
अश्वाननसभाकारं पुरस्ताद् वेदनासिकम् ॥ २९-२०१ ॥
सोपानमन्तर्लीनं स्यात् प्राग्वदङ्गानि योजयेत् ।
तुरङ्गवदनम् ।
अधिष्ठानादिकं प्राग्वद् गणिकापिण्डिकस्य तु ॥ २९-२०२ ॥
गर्भार्धं गृहपिण्डिः स्याच्छेषं तोयस्थलादिकम् ।
मध्ये चतुर्दिशं गर्भसभाः स्युर्गर्भमानतः ॥ २९-२०३ ॥
बाह्ये कूटं कोष्ठकं च स्वेष्टभद्रसभान्वितम् ।
अन्तर्लीनं हि सोपानं चतस्रः पृथुनासिकाः ॥ २९-२०४ ॥
मण्डपं प्राग्गर्भमितं शिखरं कोष्ठकाकृति ।
गणिकापिण्डिकम् ।
दीर्घपृष्ठमधिष्ठानं श्येनच्छन्दस्य तस्य तु ॥ २९-२०५ ॥
व्यासवेदांशतो गर्भं कुर्याच्चार्धेन पिण्डिकाम् ।
शेषेणाप्तलकं खण्डहर्म्यं च परितो भवेत् ॥ २९-२०६ ॥
श्येनाकारे तथा नास्यौ कुर्यात् तु शिखराग्रतः ।
शिखरे नासयोऽल्पाः स्युरष्टाविंशतिसङ्ख्यया ॥ २९-२०७ ॥
श्येनच्छन्दम् ।
प्राग्वत् कुक्कुटपुच्छस्याप्यधिष्ठानं तु तत्ततेः ।
तृतीयांशाद् गर्भगृहं तदर्धाद् गृहपिण्डिका ॥ २९-२०८ ॥
अप्तलं चूडहर्म्यं च शिखरं च सभाकृति ।
सोपानमन्तर्लीनं स्यादष्टाविंशतिनासयः ॥ २९-२०९ ॥
कूटादिभिः पुरोक्ताङ्गैर्युक्तं कुक्कुटपुच्छकम् ।
कुक्कुटपुच्छकम् ।
उत्पलस्याप्यधिष्ठानं व्यासार्धेनायताश्रकम् ॥ २९-२१० ॥
तत्पादांशाद् गर्भगृहं शेषेण गृहपिण्डिका ।
स्तम्भाः स्युर्विवृतास्तस्य शिखरं चाष्टनासिकम् ॥ २९-२११ ॥
कपोते नासयो द्व्यष्टौ प्राग्वेदाश्रसभा भवेत् ।
नृत्तरङ्गं च मध्ये स्याच्छेषेणाम्बुतलादिकम् ॥ २९-२१२ ॥
कूटाद्यैर्वेदिकाद्यङ्गैर्युक्तं स्यादुत्पलाह्वयम् ।
उत्पलम् ।
अधिष्ठानं त्वायताश्रं मुण्डप्रासादकस्य तु ॥ २९-२१३ ॥
व्यासत्रिभागान्नालीकं तदर्धाद् गृहपिण्डिका ।
पुरस्ताच्चतुरश्रं स्यान्मण्डपं गर्भसम्मितम् ॥ २९-२१४ ॥
शिखरं कोष्ठकं नास्यो द्वादशैव समन्ततः ।
शेषं कपोतशाला स्याच्चूडहर्म्यादिभिर्युतम् ॥ २९-२१५ ॥
एकद्वित्रितलं नाम मरुत्पथसमन्वितम् ।
मुण्डप्रासादसञ्ज्ञं तु भवनं वैश्यशूद्रयोः ॥ २९-२१६ ॥
मुण्डप्रासादम् ।
एवं तु जातीतरसञ्ज्ञितानां जात्याह्वयानामपि चालयानाम् ।
देवोचितानां च नरोचितानां प्रोक्तो ह्यलङ्कारविधिः समासात् ॥ २९-२१७ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे जातीतरजात्यलङ्कारविधिपटल एकोनत्रिंशः ॥ २९ ॥