अथ अष्टाविंशः पटलः ।
अथात्र लिख्यते लक्ष्म प्रासादानां समासतः ।
देवादीनां नराणां च येषु रम्यतया चिरम् ॥ २८-१ ॥
मनांसि च प्रसीदन्ति प्रासादास्तेन कीर्तिताः ।
नानामानविधानत्वाद् विमानं शास्त्रतः कृतम् ॥ २८-२ ॥
पितामहेन मुनिभिर्मयेन च यथा पुरा ।
मुख्यादीनि विमानानि कथितान्यनुपूर्वशः ॥ २८-३ ॥
यानि तान्यत्र कथ्यन्ते देवादीनां समासतः ।
तत्रेशब्रह्मविष्णूनां मुख्यानां मुख्यविंशतिः ॥ २८-४ ॥
जातीतराणि द्वात्रिंशत् सार्वदेवानि तान्यपि ।
अथ जातिविमानानां द्वादशैव द्विजन्मनाम् ॥ २८-५ ॥
राज्ञां सङ्कृतिसङ्ख्यानि तथाष्टौ वैश्यशूद्रयोः ।
क्षुद्राल्पाख्यान्यसामर्थ्ये सर्वेषां विहितानि हि ॥ २८-६ ॥
तत्र मुख्यादिषण्णवतिविमानानां नामानि भवन्ति ।
तद्यथा–
नलिनं च प्रलीनं च स्वस्तिकं च चतुर्मुखम् ।
ततः स्यात् सर्वतोभद्रं हस्तिपृष्ठं समुज्जवलम् ॥ २८-७ ॥
श्रीच्छन्दं वृत्तभद्रं च श्रीकान्तं श्रीप्रतिष्ठितम् ।
शिवभद्रं शिवच्छन्दमष्टाङ्गं पद्मकाकृति ॥ २८-८ ॥
विष्णुच्छन्दं च सौभद्रं छन्दे कैलासरुद्रयोः ।
ततो ललितभद्राख्यं विमानं चेति विंशतिः ॥ २८-९ ॥
मेरुमन्दरकैलासा जयाङ्गविमलाकृती ।
कुम्भाख्यां विमलाङ्गं च वृषच्छन्दं सुदर्शनम् ॥ २८-१० ॥
हंसच्छन्दं पद्मकान्तं गरुडच्छन्दमेव च ।
भोगिच्छन्दं पद्मभद्रं ततः कैलासकान्तकम् ॥ २८-११ ॥
रुद्रकान्तं स्कन्दकान्तं योगभद्रं च मङ्गलम् ।
विन्ध्यच्छन्दं मेरुकूटं महेन्द्रं चित्रकूटकम् ॥ २८-१२ ॥
श्रीमण्डनं च सौमुख्यं नीलं निषधसञ्ज्ञितम् ।
ततो ललितकान्ताख्यं विजयं श्रीकरं तथा ॥ २८-१३ ॥
श्रीविशालं च कथितं तथैव जयमङ्गलम् ।
जातीतराणि द्वात्रिंशद् विमानानि दिवौकसाम् ॥ २८-१४ ॥
द्वात्रिंशद् देविकविमानानि ।
नागाभागाह्वयच्छन्दे कुड्यावर्तं त्रिकूटकम् ।
श्रीवर्धनं पद्मगृहं प्रेक्षागृहमुखं तथा ॥ २८-१५ ॥
अत्यन्तभानुचन्द्राणां कान्तानि क्रतुवर्धनम् ।
वृत्तं च द्वादशैतानि विमानानि द्विजन्मनाम् ॥ २८-१६ ॥
ब्राह्मणविमानानि द्वादश ।
चतुष्कुटं मन्त्रपूतमावन्त्यं माहिषं तथा ।
तन्त्रीकान्तं कर्णभद्रं विजयाङ्गं विशालकम् ॥ २८-१७ ॥
विशालभद्रं गणिकाविशालं कर्णशालकम् ।
पद्मासनं चेन्द्रकान्तं स्यात् सर्वललितं ततः ॥ २८-१८ ॥
योगप्रत्यन्तकान्ताख्ये ततश्चोत्पलपत्रकम् ।
महाराजाह्वयच्छन्दं मालागृहमतःपरम् ॥ २८-१९ ॥
पृथिवीविजय चाथ भवेन्नन्दिविशालकम् ।
सर्वाङ्गसुन्दरं चापि छायागृहमतःपरम् ॥ २८-२० ॥
रतिवर्धनमित्येवं चतुर्विंशतिकं स्मृतम् ।
चतुर्विंशतिर्विमानानि क्षत्रियाणाम् ।
विशालालयसञ्ज्ञं च चतुष्पादिकमेव च ॥ २८-२१ ॥
तुरङ्गवदनं तद्वद् गणिकापिण्डिकं तथा ।
श्येनच्छन्दं चोत्पलाग्रं ततः कुक्कुटपुच्छकम् ॥ २८-२२ ॥
(मुण्डप्रासादकाभिख्यं विमानं तु ततः परम् ।)
इत्यष्टौ जातिहर्म्याणि वासार्थं वैश्यशूद्रयोः ।
विट्शूद्रविमानान्यष्टौ ।
उक्तानां तु विमानानामलङ्कारो निगद्यते ॥ २८-२३ ॥
आदौ नलिनकाख्यस्य चतुरश्रं समं शुभम् ।
अधिष्ठानं तत्त्रिभागाद् गर्भागारं तदर्धतः ॥ २८-२४ ॥
अर्धारिका च हारा स्यादथ गर्भं नवांशतः ।
अधिकायतवृत्तं स्यात् स्तूपिभिः शिखरं त्रिभिः ॥ २८-२५ ॥
कण्ठश्च शिखराभः स्याद् वेदांशार्धारिकांशतः ।
निर्गमो मध्यबिम्बस्य स्यात् ततो गर्भसद्मनः ॥ २८-२६ ॥
पुरो वृत्तस्फुटितकं तच्चतुर्भागनिर्गतम् ।
ततो द्विगुणविस्तारनिर्गमा पृथुनासिका ॥ २८-२७ ॥
पुरस्तादथ पार्श्वाभ्यां षोडशैवाल्पनासिकाः ।
तदर्धव्यासनिर्याणा पश्चिमस्थैकनासिका ॥ २८-२८ ॥
अर्धारिकाव्यासतोऽर्धनिर्गते द्विगुणायते ।
सोदरे नासिके पार्श्वकोष्ठके मूर्ध्नि चार्पयेत् ॥ २८-२९ ॥
गृहपिण्ड्यर्धतश्चान्तर्लीनमूर्ध्वाधिरोहणम् ।
प्रादक्षिण्येन सोपानं भवेत् प्रतितलं क्रमात् ॥ २८-३० ॥
गृहपिण्डिः साष्टनासा महा(पा ? हा)रक्रियान्विता ।
अत्र पराशरः – गृहपिण्डेरधस्तात् कूटकोष्ठपञ्जरगजवृत्तस्फुटित-क्षुद्रशालाहारातोरणस्तम्भतोरणकुम्भलतादिभिर्हर्म्यं, हर्म्यात् प्रभृत्यामूलतलं यथोचितभागेन योजयेदिति ।
समं त्रिपादमर्धं वा प्रासादस्य तु मण्डपम् ॥ २८-३१ ॥
पुरस्तादुक्तमानान्तं त्रिद्व्येकतलकं तु वा ।
प्रासादतुल्यालङ्कारं तत्समाङ्गं च मण्डयेत् ॥ २८-३२ ॥
त्रितलादि यथेच्छातः प्रासादं भूषयेत् तलैः ।
कर्णे मध्येऽन्तरे भित्तेर्बाह्ये वा मानसूत्रतः ॥ २८-३३ ॥
निर्गतैरुक्तमानेन कूटकोष्ठकपञ्जरैः ।
गजपृष्ठादिभिश्चोक्तैः कुर्यादवयवैर्युतम् ॥ २८-३४ ॥
गलादुपरि वेदाश्रं वृत्तमष्टाश्रकं तु वा ।
कर्णाश्रितं मध्यमैकनासिकास्तूपिकान्वितम् ॥ २८-३५ ॥
प्रासादावयवं प्राज्ञाः कूटं नाम प्रचक्षते ।
सायतं समुखपट्टिकमर्ध(विस्पष्टवि?)स्पष्टकोटियुतमध्यमनासम् ।
शक्ति * ध्वजमपि त्रिमुखं तत् पार्श्वयोर्बहुशिखं खलु कोष्ठम् ॥ २८-३६ ॥
शिखाशब्देन स्तूपिकोच्यते ।
मुखे शालामुखं चैव स्तूपिकं हस्तिपृष्ठवत् ॥ २८-३७ ॥
पञ्जरं नाम तत् प्रोक्तमत्र प्राह पराशरः ।
तदेव पाशमुखं हस्तितुण्डं कूटकोष्ठयोरन्तरे विहितं क्षुद्रकोष्ठं च । कूटकोष्ठयोरन्तरे हारा भागेन भागार्धेन वा कार्या । वृत्तस्फुटितकमपि पञ्जरमिव तदर्धनिर्गतवृत्तरूपं स्यात् इति ।
समानकण्ठशिखरस्तूपिकं सर्वमेव हि ॥ २८-३८ ॥
जातिक्रमोऽयं भवति प्रासादानां समासतः ।
कर्णे कोष्ठं मध्यकूटमन्तरे पञ्जरादिकम् ॥ २८-३९ ॥
सान्तःप्रस्तरकं यत् तद् विकल्पमभिधीयते ।
तैरेव मिश्र आभासः सर्वतः सममेव हि ॥ २८-४० ॥
प्रासादमुखशोभां तु जलावस्थितचन्द्रवत् ।
योजयेत् तु विमानानां भेदः संस्थानभेदतः ॥ २८-४१ ॥
शिखरस्य तु भेदेन सर्वेषां भेदमुद्दिशेत् ।
यथार्हं तु यथाशोभं सर्वमन्यत् समं स्मृतम् ॥ २८-४२ ॥
मरुत्पथं योजयेच्च यथाशोभं यथोचितम् ।
मुखे मुखे महानास्या युक्तं तत् स्याद्धि पक्षयोः ॥ २८-४३ ॥
अर्धकोष्ठद्वयाद् व्योम्नि प्लवमानविहङ्गवत् ।
विमानं नलिनं त्वेतत् कथितं शिववल्लभम् ॥ २८-४४ ॥
नलिनकम् ।
प्रलीनकस्याधिष्ठानं समानचतुरश्रकम् ।
तद्व्यासेऽष्टांशके भागैस्त्रिभिर्गर्भगृहं भवेत् ॥ २८-४५ ॥
वेदाश्रे गर्भशिखरे गर्भार्धं निर्गतायता ।
स्यात् पुरस्तान्महानासी पार्श्वयोश्चाल्पनासिकाः ॥ २८-४६ ॥
चतस्रश्चापरे भागे महत्येकैव नासिका ।
गर्भपादांशविस्तारे कोष्ठके द्विगुणायते ॥ २८-४७ ॥
पार्श्वयोर्मूर्ध्नि च स्यातां गर्भाद् रामांशतस्ततम् ।
खण्डहर्म्यं च तत्तुल्यं द्विगुणं द्राघिमा तयोः ॥ २८-४८ ॥
अन्तर्लीनं तु सोपानं गृहपिण्ड्यर्धरोहणम् ।
अर्धारिहा(रि ? र)मध्येऽन्तर्गृहं निर्व्यूहतः समम् ॥ २८-४९ ॥
एकत्र पक्षे तल्पं स्यात् त्रिपक्षे त्वप्तलं भवेत् ।
कुण्ड्यं चैव यथाशोभं शेषं प्रागिव योजयेत् ॥ २८-५० ॥
तदधिष्ठानपार्श्वाभ्यां सोपाने हस्तितुण्डके ।
पक्षबन्धं छत्रशीर्षं गृहपिण्डिं महाक्रिया(?) ॥ २८-५१ ॥
तस्यामष्टौ चाल्पनास्यः सर्वास्ताः स्वस्तिकान्विताः ।
प्रतिबन्धमधिष्ठानं स्तम्भाः स्युश्चतुरश्रकाः ॥ २८-५२ ॥
प्लवमानामिषग्राहिविहङ्गसदृशाकृति ।
कूटकाद्यैरवयवैः प्राग्वद् युक्त्या विभूषयेत् ॥ २८-५३ ॥
पार्श्वयोरर्धकोष्ठाभ्यां नासीषट्केण मूर्धनि ।
प्लवमानामिषग्राहिविहङ्गवदवस्थितम् ॥ २८-५४ ॥
एकादितलसम्पन्नं प्रलीनं शिवमन्दिरम् ।
प्रलीनकम् ।
स्वस्तिकस्याप्यधिष्ठानं व्यासपादांशमायतम् ॥ २८-५५ ॥
चतुरश्रं तु तद्व्यासादष्टनन्दांशतः क्रमात् ।
द्वित्र्यंशं स्याद् गर्भगृहं गृहपिण्ड्यादि पूर्ववत् ॥ २८-५६ ॥
शिखरं दीर्घवेदाश्रं पुरा गर्भार्धमानतः ।
निर्गता स्यान्महानासिस्तदर्धात् पार्श्वनासिका ॥ २८-५७ ॥
शिखरे चाल्पनास्योऽष्टौ सर्वा नास्यः सभद्रकाः ।
कोष्ठानि खण्डहर्म्याणि स्वस्तिकाभानि योजयेत् ॥ २८-५८ ॥
कूटकोष्ठाद्यवयवं प्राग्वत् सर्वं तु कारयेत् ।
स्वस्तिकम् ।
अधिष्ठानादिशिखरात् समवृत्तं चतुर्मुखम् ॥ २८-५९ ॥
नालीगृहार्धारिकाद्यं स्वस्तिकोक्तप्रमाणतः ।
दिक्षु वेदमहानास्यो गर्भपादांशनिर्गताः ॥ २८-६० ॥
शिखरे मध्यतस्तासां तदर्धेनाल्पनासिकाः ।
नालीगृहव्याससमां समांशकांशनिर्गमाम् ॥ २८-६१ ॥
गृहपिण्डिं चतुर्दिक्षु मध्ये च परिकल्पयेत् ।
समभद्राः कर्णसभाश्चतस्रः कल्पयेत् समाः ॥ २८-६२ ॥
कूटकोष्ठादिकं प्राग्वद् यथाशोभं तु योजयेत् ।
चतुर्दिक्षु मुखाकारैर्भद्रैर्युक्तं चतुर्मुखम् ॥ २८-६३ ॥
चतुर्मुखम् ।
चतुरश्रमिधिष्ठानं सर्वतोभद्रकस्य तु ।
तद्दिङ्नन्दाष्टभागैः स्याद् गर्भं वेदाग्निनेत्रतः ॥ २८-६४ ॥
गृहपिण्ड्यादिकं प्राग्वत् पिण्डिः षोडश सौष्ठिकाः ।
अष्टाश्रे कण्ठशिखरे स्यातां तत्राष्टनासिकाः ॥ २८-६५ ॥
तले तले चतुर्दिक्षु मध्यं भद्रान्वितं भवेत् ।
पञ्चमूर्तिविधानार्थं गर्भविस्तारमानतः ॥ २८-६६ ॥
तद्दिक्षु कर्णकूटानि त्रिमुखाभानि योजयेत् ।
चतस्रस्तत्र शालाः स्युः कूटकोष्ठादि पूर्ववत् ॥ २८-६७ ॥
त्वव्यासार्धात् सभद्राणि कूटादीन्यस्य योजयेत् ।
तस्याष्टदिक्षु वा मध्ये नव लिङ्गानि वा न्यसेत् ॥ २८-६८ ॥
अव्यक्तव्यक्तलिङ्गानां सर्वतोभद्रमीरितम् ।
सर्वतोभद्रम् ।
वेदाश्रं हस्तिपृष्ठस्याप्यधिष्ठानं तदायतम् ॥ २८-६९ ॥
व्यासपादांशतः प्राग्वद् गृहपिण्ड्यादिकं स्मृतम् ।
कूटकोष्ठाद्यवयवं प्राग्वत् सर्वं समूहयेत् ॥ २८-७० ॥
वृत्तं पृष्ठे तु शिखरमग्नं द्व्यश्रं समं शुभम् ।
स्थितहस्तिसमाकारं शालाकारमुखं च तत् ॥ २८-७१ ॥
पार्श्वयोः पृष्ठतोऽपि स्युस्तिस्रस्तिस्रश्च नासिकाः ।
गर्भवेदांशविस्तारास्तदर्धं च विनिर्गताः ॥ २८-७२ ॥
ब्रह्मद्वारपताकाभिः कपोताद्यैश्च भूषयेत् ।
एकानेकतलं वैतद् ब्रह्मविष्ण्वीशमन्दिरम् ॥ २८-७३ ॥
हस्तिपृष्ठम् ।
समुज्ज्वलस्याधिष्ठानं समवेदाश्रकं स्मृतम् ।
तत्तृतीयांशतो गर्भं तत्त्रिभागार्धपिण्डिकम् ॥ २८-७४ ॥
अलिन्दं चैव हारं च तन्मानेनैव योजयेत् ।
गर्भत्रिभागविस्तारा अर्धनीप्राश्च नासिकाः ॥ २८-७५ ॥
चतस्रः स्युस्तदर्धेन तावत्यः क्षुद्रनासिकाः ।
वृत्तं शिखरसंस्थानं पिण्ड्यां नास्यस्तु षोडश ॥ २८-७६ ॥
गृहपिण्डेरधो मूलतलं कूटादिभिः पृथक् ।
अलङ्कृत्य चतुर्दिक्षु महाकोष्ठैर्विभूषयेत् ॥ २८-७७ ॥
तले तले सौष्ठिकाग्रमण्डलं मुख्यमण्डपम् ।
अन्तर्मुखं हि तत् कुर्याच्छेषं पूर्ववदाचरेत् ॥ २८-७८ ॥
अत्र पराशरः–
समुज्ज्वलं तत् सकलेशमन्दिरं सुवृत्तसौष्ठ्यग्रशिरोगलान्वितम् ।
सभद्रशालं सकलाङ्गमण्डितं जयर्द्धिकीर्तिद्युतिदं मनोहरम् ॥
समुज्ज्वलम् ।
श्रीच्छन्दस्याप्यधिष्ठानं समानचतुरश्रकम् ।
अष्टाश्रं शिखरे साष्टनासिकं स्याद् गलेऽपि च ॥ २८-७९ ॥
अष्टाश्रसुष्ठिकाग्रं च शुकनासिकयान्वितम् ।
शेषं समुज्ज्वलस्येव कुर्यादेतच्छिवप्रियम् ॥ २८-८० ॥
श्रीच्छन्दम् ।
अधिष्ठानादाशिखराद् वृत्तभद्रे तु वर्तुलम् ।
मध्ये नालिगृहं वृत्तं तन्मध्ये च चतुर्दिशम् ॥ २८-८१ ॥
कोष्ठानि समभद्राणि प्रमाणभवनं तथा ।
समविस्तारनिर्याणं तयोर्मध्ये विभूषयेत् ॥ २८-८२ ॥
अत्र पराशरः – तयोरन्तरे हस्तिपृष्ठक्षुद्रकोष्ठादिभिर्महाविन्यासेषु परितो मण्डनीयं तन्मुखमण्डपं सभद्रं समसूत्रं बहुतुलं सर्वदेवानां प्रशस्तमेव इति ।
वृत्तभद्रम् ।
श्रीकान्तस्याप्यधिष्ठानं समवेदाश्रकं स्मृतम् ।
विस्तारेऽष्टनवांशे तु द्वित्र्यंशाद् गर्भमन्दिरम् ॥ २८-८३ ॥
अर्धारिकार्धहारा वा भागार्धाः स्युश्च भागतः ।
वेदाश्रं गर्भभवनं शिखरे चार्धनिर्गमम् ॥ २८-८४ ॥
शिखरे वेदनास्यः स्युस्तावत्यश्चाल्पनासिकाः ।
गृहपिण्ड्यां द्व्यष्टनास्यः कर्णकूटचतुष्टयम् ॥ २८-८५ ॥
चतुरश्राष्टवृत्तं स्यात् तदन्तः कोष्ठकानि च ।
निर्गतैः पञ्जरैर्मध्ये चतुर्दिक्षु नियोजयेत् ॥ २८-८६ ॥
क्षुद्रकोष्ठैर्हस्तितुण्डैः सार्धपञ्जरजालकैः ।
तोरणैरपि सोपानैरधिष्ठानपदैरपि ॥ २८-८७ ॥
भूषयेद् युक्तितस्त्वेतच्छ्रीकान्तं सार्वदैवतम् ।
श्रीकान्तम् ।
अधिष्ठा(दि?दा)शिखरं वृत्तं स्याच्छ्राप्रतिष्ठिते ॥ २८-८८ ॥
विस्तारत्रिचतुर्भागाद् भागो गर्भगृहं भवेत् ।
गृहपिण्ड्यलिन्दहाराश्चैकैकांशेन कल्पयेत् ॥ २८-८९ ॥
गर्भवेदांशविस्ताराः सभद्रा वेदनासिकाः ।
गृहपिण्ड्यां षोडश स्युः क्षुद्रनास्यस्तु पूर्ववत् ॥ २८-९० ॥
वेदाश्रं बाह्यसंस्थानमन्तर्लीनप्ररोहणम् ।
चतुर्दिक्ष्वपि गर्भार्धव्यासनिर्गमकोष्ठकैः ॥ २८-९१ ॥
प्रमाणभवनाङ्गानि सौष्ठिकान्तानि योअजयेत् ।
श्रिप्रतिष्ठितकं नाम्ना विमानं विष्णुमन्दिरम् ॥ २८-९२ ॥
श्रीप्रतिष्ठितम् ।
चतुरश्रमधिष्ठानं शिवभद्रस्य तस्य तु ।
विस्तारेऽष्टनवांशे तु द्वित्र्यंशं गर्भमन्दिरम् ॥ २८-९३ ॥
गर्भं वेदाश्रक्ं वृत्तं शिखरं वेदनासिकम् ।
कुर्याद् गर्भचतुर्थांशं व्यासनास्योऽर्धनिर्गमाः ॥ २८-९४ ॥
गर्भार्धत्र्यंशभागेन गृहपिण्ड्यादयस्त्रयः ।
खण्डहर्म्यैश्च कूटाग्रैः परिभूष्य समन्ततः ॥ २८-९५ ॥
प्राणषोडशकं पिण्ड्यां तिलकस्वस्तिकाङ्कितम् ।
नानाधिष्ठानपादाद्यैरलङ्कृत्य तलानि तु ॥ २८-९६ ॥
वेदवस्वश्रवृत्ताग्रकर्णकूटानि योजयेत् ।
द्वित्रिदण्डानि कोष्ठानि समभद्राणि योजयेत् ॥ २८-९७ ॥
अन्तर्लीनं हस्तिसञ्ज्ञं सोपानमथ तस्य तु ।
प्रासादाङ्गसमोपेतं मण्डपं प्रमुखे भवेत् ॥ २८-९८ ॥
एकनानातलं वा स्यादूहप्रत्यूहसंयुतम् ।
खण्डहर्म्यं तथा कुर्याच्छिव भद्रमिदं स्मृतम् ॥ २८-९९ ॥
शिवभद्रम् ।
शिवच्छन्दस्य तु प्राग्वदधिष्ठानादिकं भवेत् ।
अभद्राण्येव कोष्ठानि मध्ये पञ्जरभद्रकैः ॥ २८-१०० ॥
युक्तानि स्युर्बहुतलैः प्रोक्तं युक्त्या नियोजयेत् ।
शिवस्यैव शिवच्छन्दं सर्वालङ्कारसंयुतम् ॥ २८-१०१ ॥
शिवच्छन्दम् ।
अष्टाङ्गस्याप्यधिष्ठानं शिवभद्रसमं भवेत् ।
गर्भगेहादिकं तद्वद् विशेषोऽत्र निगद्यते ॥ २८-१०२ ॥
कपोतपञ्जरोपेतभद्राङ्गान्येव षोडश ।
मुण्डनास्यौ तथा द्वे द्वे गलादुपरि शीर्षकम् ॥ २८-१०३ ॥
भवेदामलकाकारं तत्राष्टौ नासयः समाः ।
गर्भवेदांशविस्तारास्तदर्धसमनिर्गमाः ॥ २८-१०४ ॥
अल्पनास्यस्तथैवाष्टौ मध्ये स्याच्चतुरश्रकम् ।
गृहीपिण्यादिकं प्राग्वत् पुरः पक्षद्वयोर्ध्वगम् ॥ २८-१०५ ॥
सोपानकर्मकोणाभ्यां हस्तितुण्डविभूषितम् ।
साष्टमङ्गलं कुर्यान्मध्यद्वारं सतोरणम् ॥ २८-१०६ ॥
वृद्धसोपानमप्यन्तर्लीनमत्र नियोजयेत् ।
नानामसूरकस्तम्भवेदिकादिमरुत्पथैः ॥ २८-१०७ ॥
अष्टाश्रसौष्ठिकं कर्णे मस्तकान्यत्र योजयेत् ।
अल्पानल्पक्रियोपेतं त्रितलादितलान्वितम् ॥ २८-१०८ ॥
सर्वाङ्गालङ्कृतं ह्येतदष्टाङ्गं देवमन्दिरम् ।
अष्टाङ्गम् ।
चतुरश्रमधिष्ठानं व्यासवेदांशकायतम् ॥ २८-१०९ ॥
वसुनन्दांशके द्वित्रिभागान्नालीगृहं स्मृतम् ।
तदप्यायतवृत्तं स्यात् प्राग्वदर्धारिकायतम् ॥ २८-११० ॥
गृहपिण्ड्यश्चतुर्दिक्षु पादभद्रकनासिकाः ।
पृत्तायतं तु शिखरं तस्मिन् गर्भार्धभागतः ॥ २८-१११ ॥
सभद्रका महानास्यः प्राग्वत् कूटादिकं स्मृतम् ।
गृहपिण्यां षोडशैव कपोते तिलनासिकाः ॥ २८-११२ ॥
कर्णकूटादिकैः प्राग्वद् भूषयेत् पद्मकाकृतौ ।
पद्माकृति ।
विष्णुच्छन्दस्य च प्राग्वदधिष्ठानं तदायतम् ॥ २८-११३ ॥
व्यासवेदांशरामांशगर्भागारं षडश्रकम् ।
पद्मबन्धमधिष्ठानमूर्ध्ववेदाश्रसौष्ठिकम् ॥ २८-११४ ॥
गृहपिण्।यादिकं प्राग्वच्छिखरं च षडश्रकम् ।
षडेव नासयस्तस्मिन् कण्ठश्चापि षडश्रकः ॥ २८-११५ ॥
स्वविस्तारार्धनिष्क्रान्तं खण्डहर्म्यं च सौष्ठिकम् ।
ब्रह्मद्वारपताकाभिर्गूढं गूढक्रियान्वितम् ॥ २८-११६ ॥
कपोतेऽपि च नास्यः स्युः समभद्राश्च सर्वतः ।
भोगभूमियुतं दारुक्रियानिर्माणशोभितम् ॥ २८-११७ ॥
चतुष्कोणेषु मध्ये च पञ्चमूर्तिविधानतः ।
चतुष्कोणे सौष्ठिकानि वृत्तायतशिरांसि च ॥ २८-११८ ॥
सर्वाङ्गालङ्कृतं ह्येतद् विष्णुच्छन्दं हि वैष्णवम् ।
तले तले च कूटानां शिखरं वृत्तमायतम् ॥ २८-११९ ॥
इष्टकादारुकर्माढ्यं सर्वाङ्गपरिमण्डितम् ।
विष्णुच्छन्दम् ।
सौभद्रस्याप्यधिष्ठानं समानचतुरश्रकम् ॥ २८-१२० ॥
चतुस्त्र्यंशैकभागेन गर्भव्यासस्ततोऽपि च ।
द्वित्रिभागैकभागैः स्युर्गृहपिण्ड्यादयः क्रमात् ॥ २८-१२१ ॥
शिखरं चतुरश्रं तु सभाकारं चतुर्दिशम् ।
गर्भवेदांशविसृताः पादभद्रकनासयः ॥ २८-१२२ ॥
चतस्रोऽल्पाश्च नास्योऽष्टौ सर्वाः सस्वस्तिभद्रकाः ।
कूटकोष्ठादिकं सर्वं पादार्धत्र्यंशभद्रवत् ॥ २८-१२३ ॥
वेदाष्टषोडशाश्राः स्युर्वृत्ताः स्तम्भास्तलक्रमात् ।
अप्तलं खण्डहर्म्यं च प्रोक्तालङ्कारभूषितम् ॥ २८-१२४ ॥
सौभद्रम् ।
कैलासच्छन्दकस्यापि चतुरश्रं मसूरकम् ।
व्यासाष्टांशे त्रिभागेन गर्भागारं समन्ततः ॥ २८-१२५ ॥
शेषैः स्युर्गृहपिण्ड्याद्या वेदाश्रं गर्भमन्दिरम् ।
अष्टाश्रं स्याद् गलादूर्ध्वं पृथक् स्वल्पाष्टनासिकम् ॥ २८-१२६ ॥
द्विगुणं गृहपिण्ड्यां स्यादथ कर्णाग्रसौष्ठिकम् ।
चतुरष्टाश्रवृत्ताभं नासीयुक्तं तले तले ॥ २८-१२७ ॥
मध्यमण्डनमंशेन विस्तारार्धविनिष्क्रमम् ।
श्रीबन्धाख्यमसूरेण त्वलङ्कृत्य तदन्तरे ॥ २८-१२८ ॥
महापञ्जरकक्षुद्रशालागजमुखैरपि ।
नानामसूरकस्तम्भवेदिकाजालतोरणैः ॥ २८-१२९ ॥
प्राग्वदङ्गैरलङ्कृत्य खण्डहर्म्यं यथार्हतः ।
एकादितलवृद्ध्या तु हीने हीने नियोजयेत् ॥ २८-१३० ॥
ब्रह्मद्वारपताकाभिः कूटकोष्ठादिभिस्तथा ।
पुरस्तात् सान्तरालं तु प्रासादाङ्गोपमं पुनः ॥ २८-१३१ ॥
सन्मण्डपं नैकतलमन्तर्लीनाधिरोहणम् ।
जातिच्छन्दविकल्पादिक्रमसर्वाङ्गयोजितम् ॥ २८-१३२ ॥
उन्नतावनतैः कूटकोष्ठैर्मध्यमभद्रकैः ।
नानाशिखरसंस्थानैः कैलासगिरिसन्निभम् ॥ २८-१३३ ॥
कैलासच्छन्दमुद्दिष्टं शिवस्यैव शिवङ्करम् ।
कैलासच्छन्दम् ।
चतुरश्रमधिष्ठानं रुद्रच्छन्दस्य पूर्ववत् ॥ २८-१३४ ॥
नालीगृहादिकं प्राग्वत् कर्णे मध्येऽन्तरे तथा ।
कूटकोष्ठादयो योज्या व्यासपादांशनिर्गमाः ॥ २८-१३५ ॥
ब्रह्मद्वारं तु भागेन विसृतं पिण्डिसंश्रितम् ।
अलङ्कारोच्चशीर्षं स्यान्नानाङ्गरथ भूषयेत् ॥ २८-१३६ ॥
अधिष्ठानस्तम्भवेदीजालतोरणपूर्वकैः ।
चतुरष्टाश्रवृत्ताः स्युः क्रमान्मूलादिभूमयः ॥ २८-१३७ ॥
गलं च शिखरं वृत्तं पुरः पार्श्वे च नासिकाः ।
गर्भत्र्यंशैकविस्तारास्तिस्रः स्युरथ पश्चिमे ॥ २८-१३८ ॥
तन्मानार्धेन नासी द्वे तिस्रस्तिस्रश्च पार्श्वयोः ।
तिलकैरन्विताः शेषं रुद्रच्छन्दस्य योजयेत् ॥ २८-१३९ ॥
रुद्रच्छन्दम् ।
चतुरश्रमधिष्ठानमुक्तं ललितमद्रके ।
तद्विस्तारेऽष्टनन्दांशे द्वित्र्यंशैर्गर्भमन्दिरम् ॥ २८-१४० ॥
गृहपिण्ड्यादयः शेषैर्भागैर्वेदाश्रकाणि च ।
अष्टाश्रमस्य शिखरमल्पानल्पाष्टनासिकम् ॥ २८-१४१ ॥
स्वव्याससमनिर्यूहकोष्ठकानि चतुर्दिशम् ।
मध्ये तेषां तृतीयांशं सृताः शालास्त्रिभिर्मुखैः ॥ २८-१४२ ॥
कर्णप्रासादविपुलत्र्यंशैकांशेन विस्तृतम् ।
मध्यभद्रं तदर्धार्धनिर्गमं स्यात् तदन्तरे ॥ २८-१४३ ॥
सिंहपञ्जरकक्षुद्रकोष्ठादीनपि योजयेत् ।
सकर्णसौष्ठिकाग्रं तदष्टाश्रप्रतिमं भवेत् ॥ २८-१४४ ॥
तले तले स्वस्तिकाभा योज्यास्तिलकनासयः ।
गृहपिण्ड्यादिकं प्राग्वत् कूटाद्यैर्भूषयेदपि ॥ २८-१४५ ॥
हस्तिसोपानमेवान्तर्लीनं ललितभद्रकम् ।
ललितभद्रम् ।
इत्थं समासान्नलिनादिकानि प्रोक्तान्यलङ्कारयुतानि तानि ।
शम्भोर्विमानान्युचितानि मुख्यान्यम्भोजगर्भस्य हरेश्च तानि ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे मुख्यविमानादिलक्षणपटलोऽष्टविंशः ॥ २८ ॥