२७

अथ सप्तविंशः पटलः ।

अत्रास्य पूजां विदधीत वास्तौ वास्तोष्पतेस्तद्गतदेवतानाम् ।
तन्नामभिश्चाप्यथ वक्ष्यमाणैर्द्रव्यैर्यथावच्च बलिं विकीर्य ॥ २७-१ ॥

उद्दिष्टदेशे नवगोमयाम्भस्सेकोपलिप्ते चतुरश्रमादौ ।
कृत्वाष्टधा तद् विभजेदथैवमुक्तं चतुष्षष्टिपदं तु तत् स्यात् ॥ २७-२ ॥

तस्मिन् विभक्ते नवधा तु सूत्राण्यास्फाल्य शालीयकपिष्टमिश्रम् ।
एकोत्तराशीतिपदं तदुक्तं देवालयानामपि भूमिपानाम् ॥ २७-३ ॥

कृत्वा चतुष्षष्टिपदं तु तस्य कोणेषु सूत्रे विनिवेश्य तस्मिन् ।
मध्ये पदानां हि चतुष्टये स्याद् ब्रह्माभिपूज्यस्तदनन्तरं च ॥ २७-४ ॥

प्राक् कोष्ठयुग्मे स मरीचिनामा याम्ये विवस्वान् वरुणे च मित्रः ।
महीधरः सौम्यपदद्वयस्थः कोणार्धयुग्मेषु वदामि देवान् ॥ २७-५ ॥

सावित्रः सविता च वह्निहरिति स्यातां पदार्धे गता –
विन्द्रश्चेन्द्रजयश्च राक्षसदिशि ख्यातावथो मारुते ।
रुद्रो रुदजयस्तथेशदिशि चाप्यापापवत्साह्वयौ
बाह्ये कोणचतुष्टयेऽपि च पुनर्वक्ष्यामि देवाष्टकम् ॥ २७-६ ॥

शर्वः स्कन्दोऽर्यमाह्वश्च जम्भकः पिलिपिञ्जकः ।
चरकी च विदारी च पूतना पापराक्षसी ॥ २७-७ ॥

अथ प्रान्तचतुष्पादीद्वात्रिंशत्कोष्ठदेवताः ।
प्रागादिक्रमशो ज्ञेयाश्चतुर्धैव चतुर्दिशम् ॥ २७-८ ॥

प्राच्यामीशानपर्जन्यजयन्तेन्द्रार्कसत्यकाः ।
भृशान्तरिक्षाचित्यष्टौ देवताः स्युः प्रदक्षिणम् ॥ २७-९ ॥

अग्निः पूषाथ वितथो यमश्च गृहरक्षकः ।
गन्धर्वभृङ्गराजौ च मृगाख्योऽपि च दक्षिणे ॥ २७-१० ॥

निर्-ऋतिर्दौवारिकश्च सुग्रीववरुणावपि ।
पुष्पदन्तासुरौ शोषः पापयक्ष्मा च पश्चिमे ॥ २७-११ ॥

मारुतो नागमुख्यौ च भल्लाटश्च निशाकरः ।
अर्गलश्च दितिस्तद्वददितिश्चोत्तरस्थिताः ॥ २७-१२ ॥

ईशानेऽस्य शिरो निवेशितमभूद् वास्तोष्पतेर्मारुते
वह्नौ चापि करद्वयं पदयुगं नक्तञ्चरे स्थापितम् ।
पर्जन्यो नयनेऽदितिश्च वदनेऽस्यापापवत्सौ गले
कर्णे चापि दितिर्जयन्तसहिताविन्द्रार्गलावंसयोः ॥ २७-१३ ॥

सूर्यश्चापि निशाकरश्च भुजयोर्भल्लाटसत्यादिभिः
सावित्रश्च तथैव रुद्रसहितस्तत्पार्श्वयोः संस्थितौ ।
नाभौ स्याच्चतुराननोऽस्य कुचयोर्भूभृन्मरीचिस्तथा
मित्रश्चापि विवस्वता तदुदरे गुह्येन्द्रकश्चापरः ॥ २७-१४ ॥

ऊर्वोरस्य तु जङ्घयोश्च निहिता गन्धर्वपूर्वास्त्रयो
दौवारः सुगलस्तथैव वरुणः शिष्टास्तु पार्श्वस्थिताः ।
एतस्माद् गर्भविन्यासं वास्त्वङ्गेषु न कारयेत्
अज्ञानाद् वा यदा कुर्यात् तदा सर्वविनाशकृत् ॥ २७-१५ ॥

ईशानपूजा तु घृताक्षताद्भिः पर्जन्यकस्योत्पलगन्धतोयैः ।
पीता जयन्तस्य भवेत् पताका रक्तान्नदीपैश्च यजेन्महेन्द्रम् ॥ २७-१६ ॥

सूर्यस्य पीतान्नवितानकाभ्यां सत्यस्य साज्येन तथौदनेन ।
गोधूमकान्नेन भृशस्य पूजा कर्त्यान्तरिक्षस्य तु मांसमाषैः ॥ २७-१७ ॥

अग्निं स्रुचाभ्यर्च्य तथैव लाजैः पूषाख्यमिष्ट्वा वितथं च हेम्ना ।
मध्वोदनाभ्यां गृहरक्षकाख्यं मांसौदनाभ्यां यममर्चयेच्च ॥ २७-१८ ॥

गन्धर्वमिष्ट्वा कुसुमैः सगन्धैः स्यात् पक्षिजिह्वा त्वथ भृङ्गराजे ।
पूजा मृगस्यापि तिलैर्यवैर्वा सिद्धं निर्-ऋत्यै कृसरं यथावत् ॥ २७-१९ ॥

दौवारिकं शोभनदन्तकाष्ठैः सुग्रीवमिष्ट्वा तु यवैः सधूपैः ।
स्तम्बैः कुशानामपि पुष्पदन्तं तद्वज्जलेशं सितपुण्डरीकैः ॥ २७-२० ॥

मध्वक्षताभ्यामसुराय पूजा शोषाय चाम्नं घृतमिश्रितं स्यात् ।
नीवारकान्नं त्वथ पापयक्ष्मण्याज्येन वायोरपि मण्डकाः स्युः ॥ २७-२१ ॥

नागप्रसूनैरपि नागपूजां कुर्यात् तु मुख्याय तु मोदकैश्च ।
भल्लाटसञ्ज्ञस्य समुद्गमन्नं सोमाय राज्ञे मधुपायसाज्यम् ॥ २७-२२ ॥

शाल्यक्षतैरर्गलमर्चयित्वा संरक्तशाल्यन्नघृतैर्दिति च ।
माषान्नभक्ष्यैरदितिं यथावद् द्वात्रिंशदित्थं क्रमशोऽर्चयित्वा ॥ २७-२३ ॥

आपास्तु दुग्धेन तथापवत्सः पूज्यस्तु दघ्ना घृतलड्डुकैश्च ।
सावित्रमिष्ट्वा तु कुशैर्गुलान्नैस्तथा सवित्रे यजनं विदध्यात् ॥ २७-२४ ॥

हारिद्रमन्नं सघृतं तथेन्द्रे शुद्धान्नमेवेन्द्रजयाय शस्तम् ।
रुद्राय मांसं विहितं तु पक्वं मांसं तथा रुद्रजये त्वपक्वम् ॥ २७-२५ ॥

अथाभिपूज्याः समरीचिकाद्यास्ते लड्डुकालोहितशुक्लभक्तैः ।
तथैव माषैः सघृतैर्यथावत् स्वस्वप्रदेशे विधिवत् क्रमेण ॥ २७-२६ ॥

ब्रह्माणमाज्याक्षतपञ्चगव्यैः पुष्पैः सगन्धैश्चरुणा तिलैश्च ।
सम्पूज्य तु प्राग् घृतपायसेन शर्वाह्वयं स्कन्दमथो यजेत् ॥ २७-२७ ॥

याम्येऽर्यम्णे समांसाज्यं ततः पीतस्रगामिषे ।
जम्भकाय तु वारुण्यां पिलिपिञ्जाय चोत्तरे ॥ २७-२८ ॥

सान्द्रलोहितपुष्पान्नैर्बलिमित्थं प्रदापयेत् ।
मांसौदनघृतापूपैरैशान्यां चरकीबलिः ॥ २७-२९ ॥

बाह्ये पित्तेन मांसेन विदार्यै वह्निदिग्बलिः ।
पूतनायास्तु राक्षस्यां दधिरक्तोदनैर्दिशि ॥ २७-३० ॥

क्षीरपित्तास्थिरक्तान्नैर्वायव्यां प्राप्य राक्षसीम् ।
यजेत् सर्वान् स्वनाम्नैव नमोन्तं सोपचारकम् ॥ २७-३१ ॥

बाह्ये त्वष्टविधेभ्योऽथ भूतेभ्यो बलिमाहरेत् ।
प्रत्येकमुक्तद्रव्याणामलाभे कुसुमाक्षतैः ॥ २७-३२ ॥

सुगन्धधूपदीपैश्च शुद्धान्नेन स्मृतो बलिः ।
स्वैर्नामभिस्तु प्रणवादियुक्तैर्नमोन्तकैरर्चनमेषु कृत्वा ।
पञ्चोपचारैर्निशि शुक्लवासा विशुद्धभावस्तु बलिं प्रदद्यात् ॥ २७-३३ ॥

इत्थं वास्तुशरीरस्था देवताः सम्यगर्चिताः ॥ २७-३४ ॥

तत्तत्कर्मसु संसिद्धिं प्रयच्छन्ति च शान्तिकम् ।

एकाशीतिपदेषु पूर्ववदमुं विन्यस्य वास्तोष्पतिं
मध्ये तस्य तु वेधसं नवपदेष्वभ्यर्च्य तद्बाह्यतः ।

कोणेष्वत्र पदद्वयेष्वधिगताः सावित्रपूर्वाः सुरा-
स्तन्मध्ये समरीचपूर्वकसुराश्चत्वार उक्ताः क्रमात् ॥ २७-३५ ॥

पूर्वाद्यासु दिशासु बाह्यवृतिका एकैककोष्ठस्थिता
द्वात्रिंशत् पृथगीशपूर्वकसुराः पूज्याः पुरोवत् क्रमात् ।
बाह्येऽन्याः पदवर्जितास्तु चरकी चैशे विदार्यानले
कोणे रक्षसि पूतनाथ पवनस्याशागता राक्षसी ॥ २७-३६ ॥

शर्वस्कन्दादिचत्वारः पदव(र्ज्यं ? र्जं) बहिःस्थिताः ॥ २७-३७ ॥

प्राग्याम्यवरुणाशासु कौबेर्यां च क्रमाद् यजेत् ।
अनयोर्मार्गयोरेकमाश्रित्याबाह्य वास्तुपम् ॥ २७-३८ ॥

तदङ्गपदगाश्चापि देवताः क्रमशोऽर्चयेत् ।

वास्तुपूजाधिकारः ।

इत्थं सम्पूज्य वास्त्वीशं ब्राह्मणांस्तत्र भोजयेत् ॥ २७-३९ ॥

लिङ्गिनश्च यथाशक्ति शिल्पिकर्मकरानपि ।
ततः प्रासादसीमान्तं स्थलं यत् तदशेषतः ॥ २७-४० ॥

उद्बाहुनरमात्रं तु खात्वोद्धृत्य त्यजेन्मृदम् ।
जलान्तं शर्करान्तं वा खानयेदिति केचन ॥ २७-४१ ॥

अत्र प्रतिष्ठापद्धतौ–

शर्करान्तं जलान्तं वा खानयेद् देवसद्मनि ।
पुरुषार्थं गृहे वाथ यावद् भूमिर्विशुध्यति ॥

इति ।

खातं सम्प्रोक्ष्य चास्त्रेण पूर्वमष्टाङ्गुलं मृदा ।
लोष्टाद्यदुष्टयापूर्य शुद्धया चाविवर्णया ॥ २७-४२ ॥

ततस्तु वृत्तपाषाणैर्मृज्जलान्तरितं क्रमात् ।
हस्तप्रमाणमास्तीर्य सिकताभिर्मृदा पुनः ॥ २७-४३ ॥

आप्लाव्य सलिलेनाथ गजैराक्रामयेत् स्थलम् ।
प्रशस्ततरुसम्भूतैर्हस्तिपादैर्दृढैः समम् ॥ २७-४४ ॥

आक्कोट्याघर्सयेच्चैव सुदृढं चिनुयात् स्थलम् ।
वेदांशशेषिते खाते स्थापयेत् प्रथमेष्टकम् ॥ २७-४५ ॥

प्रासादादुत्तरे कृत्वा मण्डपं चतुरश्रकम् ।
चतुर्द्वारं चतुस्तम्भं चतुस्तोरणभूषितम् ॥ २७-४६ ॥

कृतनित्यक्रियः स्नातो गुरुर्मूर्तिधरैर्युतः ।
सामान्यार्घ्यकरः पश्चाद् द्वारे द्वाधिपान् यजेत् ॥ २७-४७ ॥

अस्त्रं क्षिप्त्वा प्रविश्यान्तः पुन्याहं तत्र वाचयेत् ।
शुद्धात्मस्थानमन्त्रस्तु ज्ञानखड्गधरो गुरुः ॥ २७-४८ ॥

पञ्चगव्यविशेषार्घ्यप्रोक्षितद्वामण्डपः ।
वास्त्वीशपद्मजौ मध्ये प्राच्यां लक्ष्मीं गणेश्वरम् ॥ २७-४९ ॥

दक्षिणे पश्चिमे दुर्गां क्षेत्रेशं चोत्तरे यजेत् ।
विकिरक्षेपपूर्वं तु कुम्भास्त्रयजनादनु ॥ २७-५० ॥

कुम्भेषु लोकपालांश्च ध्वजेष्वस्त्राणि च न्यसेत् ।
शिवाज्ञा श्रावयेत् तेषां भोमोःशक्रादिमन्त्रतः ॥ २७-५१ ॥

अस्त्रकुम्भभ्रमादूर्ध्वं स्थिरे कुम्भास्त्रके यजेत् ।
संस्पृश्य मुद्रया कुम्भे ज्ञानखड्गं समर्षयेत् ॥ २७-५२ ॥

प्राच्यां वेदाश्रकुण्डेऽग्नावावाहितशिवे घृतम् ।
हुत्वा तु संहितामन्त्रैरिघ्मं पञ्चाक्षरेण च ॥ २७-५३ ॥

तारादाधाराज्यभागौ पुनः पञ्चाक्षरैः पृथक् ।
स्वाहान्तैस्तारपूर्वैस्तु हुत्वाज्यं त्रिस्त्रिराहुतीः ॥ २७-५४ ॥

समिदाज्यचरूल्लाञ्जान् ब्रह्मभिः पञ्चभिः पृथक् ।
शतं शतं पृथग्धुत्वा शतं व्याहृतिभिर्घृतम् ॥ २७-५५ ॥

लोकपालास्त्रमन्त्रैश्च प्रत्येकं त्वाहुतिद्वयम् ।
नक्षत्रेभ्योऽथ भूतेभ्यो नागेभ्योऽपि सकृत् सकृत् ॥ २७-५६ ॥

विश्वेभ्यश्चापि सर्वाभ्यो दैवताभ्यः स्वनामभिः ।
नमःस्वाहान्तकं हुत्वा पुनः पञ्चाक्षरेण तु ॥ २७-५७ ॥

हुत्वा व्यागृतिभिः पूर्णां स्विष्टकृत्पूर्विकां घृतम् ।
हुत्वा चलिं विकीर्यात्र जपेदेकादशात्मकम् ॥ २७-५८ ॥

पञ्चाक्षरं च तत्सङ्ख्यं ततः प्रासादभूतले ।
चतुरश्रे चतुष्कोष्ठे कोणसूत्रे प्रसार्य तु ॥ २७-५९ ॥

एकाशीतिपदं तत्र कृत्वा मर्माणि कल्पयेत् ।
सिराश्च वास्तोरङ्गानि तेषु न स्थापयेच्छिलाः ॥ २७-६० ॥

स्तम्भं प्राथमिकं वापि मर्मादिषु न विन्यसेत् ।
प्राक्सूत्रमूर्ध्ववंशाख्यं वंशाः कोणरज्जवः ॥ २७-६१ ॥

पार्श्ववंश उदक्सूत्रं सूत्राण्यस्य सिरा मताः ।
सन्धयस्तत्र मर्माणि पूर्वोक्तैर्वाङ्गकल्पना ॥ २७-६२ ॥

प्रथमेष्टकादिविन्यासे तानि परिहरणीयानीत्यतोऽङ्गानि वास्त्वीशस्य पुनरप्युच्यन्ते । तद्यथा– ईशाने शिरः प्राणिद्वयमग्निमारुतयोः पर्जन्यदिती नयने मुखमापे आपवत्से कण्ठः कर्णयोरदितिः जयन्तार्गलयोरंसौ सूर्यसोमादयो भुजौ रुद्रः पृष्ठे सावित्रसवितारौ रोगशोषौ च प्रकोष्ठयोः ब्रह्मा नाभौ तनयोर्भूभृदर्यमणौ मित्रविवस्वन्तावुदरे इन्द्रेन्द्रजयौ गुह्ये पादद्वयं निर्-ऋतावित्येतस्माद् वास्तुपुरुषस्याङ्गभूतानेतान् देवांश्च सिरा मर्माणि च परिहृत्य प्रथमेष्टकाः स्थापयेत् । तद्वत् प्रथमस्तम्भं मण्डपगृहादिषु स्थापयेत् ।
अत्र विश्वकर्मीये–

यद्यज्ञानात् प्रमादाद् वा वास्त्वङ्गे स्थापयेच्छिलाम् ।
स्थाननाशो कर्तुर्दुःखं मरणमेव वा ॥

इति ।

द्वाराद् दक्षिणतस्तस्मादन्तरा भुजवंशयोः ।
पादावशिष्टे खाते तु स्थापयेत् प्रथमेष्टकाः ॥ २७-६३ ॥

शिरःपृष्ठविभक्ताङ्ग्यो निर्दोषाः शुभलक्षणाः ।
करायतास्तदर्धं च विस्तृताष्टाङ्गुलोच्छ्रिताः ॥ २७-६४ ॥

सुपक्वा लोहितरुचः ख्ण्डस्फोटादिवर्जिताः ।
नवसङ्ख्यास्तु वा पञ्च कार्याः स्युः प्रथमेष्टकाः ॥ २७-६५ ॥

उत्तमोत्तमलिङ्गस्य प्रासादे चोत्तमोत्तमे ।
ऐष्टकोऽयं विधिः प्रोक्त उत्तमादिष्वथोच्यते ॥ २७-६६ ॥

अङ्गुलैः सङ्ख्यया दीर्घाः जगतीपङ्क्त्यनुष्टुभाम् ।
क्रमात् तदर्धविस्तारा विस्तारार्धसमुच्छ्रयाः ॥ २७-६७ ॥

उत्तमादिविमानानां निर्दिष्टाः प्रथमेष्टकाः ।
स्थूलमूलेष्टका स्त्री स्यादग्रस्थूला नपुंसकम् ॥ २७-६८ ॥

सर्वत्र समविस्तारस्थौल्या स्यात् पुरुषेष्टका ।
पुंसां पुमिष्टका शस्ता स्त्री स्त्रीणामिति केचन ॥ २७-६९ ॥

पुमिष्टकैव सर्वेषां सर्वाभिप्रायसिद्धिदा ।
शैले देवालये वा स्युः शैलेयाः प्रथमेष्टकाः ॥ २७-७० ॥

अथ मण्डपमध्ये तु स्थण्डिले शालिभिः कृते ।
दर्भैस्तारासने कॢप्ते विन्यसेदिष्टकास्तु ताः ॥ २७-७१ ॥

तत्र सामान्यार्घ्येणेष्टकाः सम्प्रोक्ष्यास्त्रेण सन्ताड्य कवचेनोल्लिख्य मृद्भिः प्रक्षल्य गोमयगोमुत्रपञ्चगव्यपञ्चामृत-सुवर्णरत्नफलगन्धाम्बुभिर्जलधूपान्तरितैः संस्नाप्य गन्धैर्विलिप्य प्रत्येकं हेमकौतुकसूत्राभ्यां बद्ध्वा अहतवस्त्रैराच्छाद्य प्रोक्तस्थण्डिले यथादिशं संस्थाप्य त्रिखण्डं तासु भावयेत् । तत्र भुद्ध्यादिगन्धान्तं पुर्यष्टकं च पृथिव्यादिव्योमान्तं मूर्त्यष्टकं च शर्वादिभीमान्तं मूर्तिपाष्टकं च शिवविद्यात्मतत्त्वैश्च रुद्रविष्णुब्रह्मकारणेश्वरैः क्रमेण सहितं तत्तन्नामभिः प्रत्येकं प्रणवादिनमोन्तैः स्वनामभिः सचतुर्थिकैरिष्टकास्वष्टासु मूलमध्याग्रेष्वावाह्य विभाव्यार्चयेद् ॐ बुद्धये नम इत्यादिगन्धान्तम् । ॐ शिवतत्त्वाय नमः ॐ शिवतत्त्वाधिपतये रुद्राय नमः इति प्रथमखण्डमूलेषु ॐ पृथिवीमूर्तये नमः इत्यादि व्योमान्तमष्टौ ॐ विद्यातत्त्वाय नमः विद्यातत्त्वाधिपतये विष्णवे नम इति मध्येषु ॐ पृथिवीमूर्त्यधिपतये शर्वाय नम इति भीमान्तम् ॐ

आत्मतत्त्वाय नमः ॐ आत्मतत्त्वाधिपतये ब्रह्मणे नम इत्यग्रेषु एवमिष्टकामूलमध्याग्राणि कुशास्त्रेण स्पृष्ट्वाथ मध्येष्टकायां सर्वतत्त्वसर्वमूर्तिमूर्तीश्वरत्रितत्त्वाधिपाय शिवाय नम इति विन्यस्यार्चयेत् ।
रक्षादर्भतिलैः परितो रक्षां विधायाथ कुण्डाग्र उपविश्य बुद्ध्यादिपृथिव्यादिशर्वादितत्त्वत्रयं पत्रेश्वरान् स्वनामभिस्तारादिसचतुर्थिकस्वाहान्तैराज्येन प्रत्यांहुतित्रयेण सन्तर्प्य तच्छेषं पात्रे सम्पात्य इष्टकासु त्रिखण्डे तु सम्पातयेत् ।
अथ सान्निध्यार्थं तत्त्वसन्धानं कुर्यात् । ॐ आम् ईम् आत्मतत्त्वविद्यातत्त्वाभ्यां नमः । ॐ ईम् ऊम् विद्यातत्त्वशिवतत्त्वाभ्यं नम इति सन्धायाथेष्टकासङ्ख्यातुल्यान् नव वा पञ्च वा ताम्रमयान् निधिकुम्भांस्त्रिमधुरापूर्णान् नवपक्षे सुभद्रविभद्रसुनन्दपुष्पदन्तजयविजयजयन्तपूर्णसं-ज्ञेष्वष्टसु कुम्भेषु पद्ममहापद्ममकरकच्छपमुकुन्दानन्त-नीलशङ्खाख्यानष्टौ निधीनाअवाह्य मध्येऽनन्तकुम्भे शक्तिनिधियुक्ते लवणारूढमूलेनाधोऽनन्तमुपरि ब्रह्माणं चार्चयेत् । एतेषु निधिषु अष्टौ लोकपालानिन्द्रादीनावाह्याभ्यर्चयेत् । अथ पञ्चपक्षे धर्मज्ञान वैराग्यैश्वर्यसर्वसिद्धिसञ्ज्ञकुम्भेषु नन्दाभद्राजयारिक्तापूर्णाख्यतिथिमत्सु पद्ममहापद्ममकरशङ्खसमुद्रसञ्ज्ञपञ्चनिधीनावाह्य ब्रह्मादिपञ्चकारणेशान् पञ्चनिधिष्वावाह्य सम्यगभ्यर्च्य सर्वेष्वपि कुम्भेषु नवरत्नानि नववसुपञ्चरत्नानि च पञ्चपक्षे प्रक्षिप्य यथादिशं गर्तेष्वामुखात् प्रतिष्ठाप्यार्घ्यादिभिर्निधींश्च लोकपालान् वा कारणेशान् वार्चयेत् ।
अथेष्टकाः स्थण्डिलगताः क्रमादानीयोद्दिष्टमुहूर्ते निधिकुम्भानां मुखेषु तत्तन्निधिलोकपालनामभिस्तारादिनमोन्तैः पूर्वाग्रमुत्तराग्रं च संस्थापयेत् । प्रादक्षिण्येन पूर्वादीशान्तं मध्ये च पञ्चपक्षे पूर्वादुत्तरान्तं मध्ये च सर्वाश्च निम्नोन्नतविवर्जिताः सुसमाश्चिनुयात् । असमासु राष्ट्रभयं कर्तुः स्थानस्य च दुःखमावहेत् । इत्येतस्मात् सममेव संस्थाप्य शिवकुम्भाम्भसा ताः संस्नाप्य गन्धोदकेन गर्तमापूर्य प्रणवेनैकं पुष्पं प्रक्षिप्य तत् पश्येत् । प्रदक्षिणावर्तं चेच्छोभनं वामावर्ते होमजपदानैः शान्तिं कुर्यात् । अथ यथोद्दिष्टं शिलाभिः इष्टकाभिर्वा स्थलस्य चयनमुद्दिष्टहस्तान्तमुच्छ्रितं कृत्वा समतलं विधायाचार्यमूर्तिधरशिल्पिनः सम्पूज्य निशि दर्भशय्यायां स्वप्नं दृष्ट्वाशुभस्वप्ने शान्तिं कुर्यात् । शुभस्वप्ने पुनश्च वास्तुयागं कृत्वा गर्भन्यासं कुर्यात् ।

इति प्रथमेष्टकाधिकारः ।

अथ गर्भस्य विन्यासं कुर्यादायतनादिषु ।
बीजभूतो हि यस्तस्य प्रकृतिश्च समृद्धिदः ॥ २७-७२ ॥

इन्द्रपावकयोर्मध्ये द्वाराद् दक्षिणतो भुवि ।
कुर्वीरन् गर्भविन्यासं सर्वे वर्णाः समृद्धये ॥ २७-७३ ॥

प्रतेरुपरि विप्राणामुपानोपरि भूभुजाम् ।
विशां चाथ चतुर्थानां भूमावित्यपि केचन ॥ २७-७४ ॥

दृढां ताम्रमयीं फेलां कुर्याद् गर्भस्य भाजनम् ।

अत्र मञ्जर्याम्–

अष्टाङ्गुलं चार्धसमुच्छ्रयं तत्पादोनमूर्ध्वे विहितोच्छ्रयं च ।
हस्तायतं पात्रमथोत्तमं स्यात् त्रैराशिकेनोच्छ्रयमत्र कल्प्यम् ॥

इति ।

सपिधानं तु तत् कुर्याद् घनं विंशतिभागतः ॥ २७-७५ ॥

विस्तारोऽस्य चतुर्थांशादुच्छ्रयः कोष्ठभित्तिषु ।
अथायामसमोत्सेधमुत्तमं त्विति केचन ॥ २७-७६ ॥

त्रिपादहीनं मध्यं स्यादधमं चार्धमुच्छ्रितम् ।
तृतीयांशं पिधानं स्यात् सर्वत्र च समं दृढम् ॥ २७-७७ ॥

प्रक्षाल्य पञ्चगव्येन पात्रं तत्रावटं हृदा ।
गोमयेनोपलिप्याथ पुण्याहमपि वाचयेत् ॥ २७-७८ ॥

अनन्तनागमालिख्य पिष्टेनास्य फणोपरि ।
विन्यस्य गर्भपात्रं तद् बाह्यतश्चतुरङ्गुलम् ॥ २७-७९ ॥

शालिभिः स्थण्डिलं कृत्वा तस्मिन् सागरमृत्स्नया ।
सप्तद्वीपार्णववतीं लिखेद् भूमिं सपर्वताम् ॥ २७-८० ॥

गर्भपात्रस्य मूलेऽन्तःकॢप्ताभिकृतिकोष्ठके ।
मध्यकोष्ठे स्थितो ब्रह्मा वसुकोष्ठेषु तद्बहिः ॥ २७-८१ ॥

समरीचकसावित्रविवस्वच्छक्रमित्रकाः ।
रुद्रपृथ्वीधरौ तद्वदापवत्सश्च कोष्ठगाः ॥ २७-८२ ॥

तद्बाह्ये स्वरकोष्ठेषु स्थिताः षोडश देवताः ।

ते च –

ईशानश्च जयन्तश्च प्राच्यां सूर्यो भृशस्तथा ॥ २७-८३ ॥

अग्निर्वितथकीनाशभृङ्गराजाश्च दक्षिणे ।
पश्चान्निर्-ऋतिसुग्रीववरुणाः शोष एव च ॥ २७-८४ ॥

वायुर्मुख्यश्च सोमश्चाप्यदितिश्चोत्तरे स्थिताः ।
वज्रमौक्तिकवैडूर्यशङ्खान् मरतकं तथा ॥ २७-८५ ॥

स्फटिकं च महानीलं प्रवालं च न्यसेत् क्रमात् ।
समरीचादिकेष्वष्टौ माणिक्यं ब्रह्मणि न्यसेत् ॥ २७-८६ ॥

यवान् मनःशिलां शालीहरिताले च पूर्वतः ।
नीवारमञ्जनं चैव तुवरं च प्रियङ्गुभिः ॥ २७-८७ ॥

दक्षिणे न्यसेदिति यावत् ।

श्यामाकं सीसकं माषान् सौराष्ट्रं पश्चिमे न्यसेत् ।
कुलस्थं रोचनां सौम्ये निष्पावं गैरिकं न्यसेत् ॥ २७-८८ ॥

सुवर्णं तारताम्रायस्त्रपुकूर्माम्बुजानि च ।
शूलं च दिक्षु कोणेषु तथाष्टौ विन्यसेत् क्रमात् ॥ २७-८९ ॥

खट्वाङ्गार्धेन्दुवृषभपिनाकाब्जपरश्वधान् ।
सौवर्णान् हरिणं चक्रं ब्रह्मस्थाने क्रमान्न्यसेत् ॥ २७-९० ॥

गिरितीर्थनदीनां च मृदस्तद्वद्ध्रदस्य च ।
पूर्वादिदिक्षु विन्यस्य ततः कार्कटकाद् बिलात् ॥ २७-९१ ॥

वल्मीकादम्बुधेः पाराद् वृषशृङ्गाच्च मृत्तिकाः ।
गजदन्ताच्च वह्न्यादिकोणेषु विनिधाय तु ॥ २७-९२ ॥

वृषशृङ्गेभदन्तोत्थे मृदौ मध्ये तु विन्यसेत् ।
सरोजनीलोत्पलयोः कुमुदस्योत्पलस्य च ॥ २७-९३ ॥

तगरस्य च मूलानि दिक्षु मध्ये च विन्यसेत् ।
अथ सद्यादिभिर्दिक्षु समिदाज्यचरूंस्तिलान् ॥ २७-९४ ॥

मूर्तिपा जुहुयुर्द्वौ द्वौ जपेयुश्च विभागशः ।
मण्डपाद् दक्षिणे कुण्डे त्वावाहितशिवेऽनले ॥ २७-९५ ॥

मन्त्रसंहितयाचार्यो हुत्वाज्यं त्रिस्त्रिराहुतीः ।
समिदाज्यचरूल्ला।जान् पृथगेकादशाहुतीः ॥ २७-९६ ॥

हुत्वा पञ्चाक्षरेणापि व्योमव्यापिदशाक्षरात् ।
अष्टात्रिंशत्कलाभिश्च ब्रह्मभिश्च सकृत् सकृत् ॥ २७-९७ ॥

हुत्वाज्यमथ रत्नानां बीजानां च सकृत् सकृत् ।
ओषधीनां च धातूनां मूलानां च मृदामपि ॥ २७-९८ ॥

लोकेशानां तथास्त्राणां दीपाब्धीनां दिशामपि ।
पातालानां च नागानां सर्वशब्दपुरःसरम् ॥ २७-९९ ॥

ताराद्यैर्नामभिः स्वैः स्वैः स्वाहान्तैः सचतुर्थिकैः ।
सर्वाहुतीनां शेषाज्यं पात्रे सम्पात्य तद् घृतम् ॥ २७-१०० ॥

तारेण गर्भे प्रक्षिप्य तं ध्यात्वा पृथिवीमयम् ।
गन्धादिभिरथाभ्यर्च्य स्पृष्ट्वा पञ्चाक्षरं जपेत् ॥ २७-१०१ ॥

रात्रावखण्डनक्षत्रे स्थिरराशौ गुणान्विते ।
तां फेलां पृथिवीं देवीं सप्तद्वीपार्णवान्विताम् ॥ २७-१०२ ॥

चतुर्विधैर्भूतवर्गैर्जङ्गमाजङ्गमैर्युताम् ।
उद्दिष्टायतनादेस्तु बीजगर्भात्मिकां स्मरेत् ॥ २७-१०३ ॥

ॐ हां ह्लां पृथिव्यै सर्वभूतधारिण्यै नमः ।

अनेनावाह्य सद्येन स्थापयेत् सोत्तरेण तु ।
साघोरेण निरुध्यैनां सवक्त्रेणाभिपूज्य तु ॥ २७-१०४ ॥

सेशानेनावगुण्ठ्याथ गन्धाद्यैः पुनरर्चयेत् ।

सर्वभूतधरे! कान्ते! पर्वतस्तनमण्डिते! ॥ २७-१०५ ॥

समुद्रवसने ! देवि ! वसुधे ! गर्भमाश्रय ।

अनेन पूर्वोक्तमन्त्रान्तेन पृथिवीं स्थिरां फेलगतामभिमन्त्रयेत् । अत्र मञ्जर्याम्–

उच्चार्यैवमिमं च मन्त्रमसकृद् ध्यात्वा महीमण्डलं
गोमूत्रेण परिप्लुते तु विधिवद् गर्भं निधायावटे ।
गर्भाधानमिमं प्रकल्प्य विधिवत् सन्तोष्य वित्तैर्गुरुं
प्रासादं सुदृढं च लक्षणयुतं कुर्यात् ततः शिल्पिभिः ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे वास्तुपूजाप्रथमेष्टकागर्भन्यासपटलः सप्तविंशः ॥ २७ ॥