अथ षड्विंशः पटलः ।
अथ लिङ्गप्रतिष्ठायै प्रासादकरणं प्रति ।
कर्षणादिक्रियाचक्रं ज्ञेयं तल्लिख्यतेऽधुना ॥ २६-१ ॥
गुणवद्देशकालाप्तिरवेक्ष्यास्मिन् विशेषतः ।
सुक्षेत्रे चोदिते काले बीजमुप्तं हि रोहति ॥ २६-२ ॥
जलसेकादिभिः कृत्यैरभीष्टफलदं च तत् ।
कर्षणादिक्रियासिद्धे प्रासादे लक्षणान्विते ॥ २६-३ ॥
विशिष्टदेशे काले च विधिनैव प्रतिष्ठिते ।
लिङ्गे करोति सान्निध्यं शिवः कर्तुश्च भूतये ॥ २६-४ ॥
अत्रोत्तरयणः कालो नियतः कर्षणादिके ।
मासाश्चानधिकाः पक्षः शुक्लस्तु तिथयः शुभाः ॥ २६-५ ॥
पर्वरिक्ताष्टमीविष्टिप्रतिपद्वर्जितास्तु याः ।
करणानि विना विष्टिं शकुनिं च चतुष्पदम् ॥ २६-६ ॥
नागकिंस्तुघ्नकौ हित्वा शस्तानि सुखदानि च ।
चन्द्रज्ञगुरुशुक्राणां वारद्रेक्काणकांशकाः ॥ २६-७ ॥
शस्ता गुरुज्ञकाव्यानां होराश्चोदयदृष्टयः ।
पापानामंशदिवसद्रेक्काणोदयदृष्टयः ॥ २६-८ ॥
होराश्चाशोभनाः सर्वे ग्रहा(स्त्वो?स्त्वा)य गताः शुभाः ।
त्रिषष्ठायगताः पापाः शस्ता नेष्टास्ततोऽन्यतः ॥ २६-९ ॥
षट्सप्तदशगः शुक्रो नेष्टोऽन्यत्र शुभावहः ।
सर्वेऽप्यष्टमगा नेष्टाः शुक्रस्तत्रापि शोभनः ॥ २६-१० ॥
द्वितीयपञ्चगश्चन्द्रो ज्ञः सप्तनवपञ्चगः ।
द्विसप्तपञ्चनवमे गुरुश्चैते शुभावहाः ॥ २६-११ ॥
सौम्यादित्याश्वितिष्याणि हस्तपौष्णे त्रिरुत्तराः ।
रोहिणी श्रवणं स्वाती मैत्रं चेष्टानि भानि वै ॥ २६-१२ ॥
ग्रहमुक्तं ग्रहयुतं ग्रहेणाकाङ्क्षितं त्यजेत् ।
तद्यथा–
उल्कापातं सूर्याद् दशमे नक्षत्रे भूकम्पः । सप्तमे ब्रह्मदण्डः । पञ्चदशे मोघम् । एकविंशतिके शुक्रात् सप्तमे नक्षत्रे मृत्युः राहोरेकादशमे च । शनैश्चरयुक्तनक्षत्राद् दशमषष्ठविंशति(खा?भा)नि च खण्डनक्षत्राणि वर्ज्यानि । बुधादष्टममष्टादशकं चतुर्विंशे त्रिकं च महाकण्ठकाख्यानि । भौमात् पञ्चमसप्तमनवमचतुर्दशत्रिकभानि ज्वालाग्निगुरोर्नवमं रोगाख्यं च वर्ज्यम् । अपि च
अश्वे चित्रे च रोहिण्यां घनिष्ठायां तथोत्तरे ॥ २६-१३ ॥
अर्कादियोगो दग्धाख्यो ज्येष्ठायां चापि पूषभे ।
द्वादश्येकादशी तद्वत् पञ्चमी च द्वितीयया ॥ २६-१४ ॥
षष्ठ्यष्टमी च नवमी दग्धाः सूर्यादिभिर्युताः ।
अनुराधा वैश्वदेवं शतभाश्वीन्दुसर्पभम् ॥ २६-१५ ॥
हस्तं चार्कादिसंयोगान्मृत्युयोगा भवन्ति हि ।
मखा विशाखाथार्द्रा च मूला शतभिषक् तथा ॥ २६-१६ ॥
रोहिणी चोत्तराषाढा विषयोगास्त्विनादिभिः ।
अर्केऽग्निपञ्चमीयोगः सोमे चित्राद्वितीयया ॥ २६-१७ ॥
भौमे च रोहिणी पूर्णा बुधे याम्येन सप्तमी ।
गुरौ ज्येष्ठा प्रतिपदं शुक्रे षष्ठी च वैष्णवम् ॥ २६-१८ ॥
शनौ पौष्णाष्टमीयोगो मृतयोगस्त्यजेदिमान् ।
प्राजापत्यं तृतीयायां सौम्यं षष्ठ्यां तु तिष्यभम् ॥ २६-१९ ॥
दशम्यां द्वादशी मैत्रं पञ्चम्यां श्रवणं तथा ।
सप्तम्यां पौष्ण(भा?भं) याम्यमष्टभ्यां चोग्रसञ्ज्ञिताः ॥ २६-२० ॥
चित्रा विशाखा चाग्नेयमजैकपदवैष्णवे ।
शतोडुमच्चाहिर्बुध्न्यमश्विना भरणी तथा ॥ २६-२१ ॥
रोहिण्यार्द्रादितीशानि शून्यान्यृक्षाण्यजादिषु ।
मासेष्वेतानि वर्ज्यानि क्रमाद् द्वादश भान्यपि ॥ २६-२२ ॥
विष्कम्भशूलगण्डाश्चाप्यतिगण्डोऽथ वज्रकम् ।
व्याघातश्चैषु योगेषु त्रिपञ्चर्तुरसैर्मितम् ॥ २६-२३ ॥
नवापि नव हित्वैषां घटिकाः शुभदाः पराः ।
विष्कम्भशूलयोरादौ मध्ये गण्डातिगण्डयोः ॥ २६-२४ ॥
व्याघातवज्रयोरन्ते त्यजेदुक्तास्तु नाडिकाः ।
व्यतीपातं च परिघं वैधृतिं चाखिलं त्यजेत् ॥ २६-२५ ॥
यावदर्कारयोर्मूलं मूलात् तत्सङ्ख्यतारकम् ।
दग्धं च कण्टकं स्थूणं प्रतिष्ठादिषु वर्जयेत् ॥ २६-२६ ॥
सर्पाश्विपित्र्यपौष्णानि ज्येष्ठा मूलं परस्परम् ।
याम्याहिर्बुध्निमैत्राणि पुष्पपूर्वाप्यभान्यपि ॥ २६-२७ ॥
श्रोणाप्रजेशशतभहस्तार्द्रास्वातयो मिथः ।
पादभं पादभाविद्धमर्धर्क्षं चार्धभाहतम् ॥ २६-२८ ॥
ग्रहैरेषु स्थितैरेषां वेधं ज्ञात्वा विवर्जयेत् ।
नाना(रा ? यो)गे यथासङ्ख्यं पक्षयोस्तिथियोजिते ॥ २६-२९ ॥
मुनिसङ्ख्याविभक्तेऽस्मिञ् ज्ञेयाः श्रीदिवसादयः ।
श्रीदिवसः कलिदिवसो नन्दीदिवसश्च कालकर्णी च ॥ २६-३० ॥
जयदिवसो वधदिवसो धनार्णवश्चैव सप्तैते ।
कलिश्च कालकर्णी च वधसञ्ज्ञश्च वर्जितः ॥ २६-३१ ॥
यमो नागः सनः पारं खलश्चेति प्रसङ्ख्यया ।
नन्दादिषु क्रमान्नाडीस्तिथिरूपाह्वयास्त्यजेत् ॥ २६-३२ ॥
हारी सानुर्मयो नेत्रं सूनुर्मौनी कपिः पटुः ।
हरो हारी नरः सञ्ज्ञा मान्यो मृत्युः पटुर्नरिः ॥ २६-३३ ॥
नग्ना सेनामयास्थेयं योग्या सञ्ज्ञार्थिनां मृदः ।
दूरे जरामुनिश्चेति ऋक्षरूपांश्च वर्जयेत् ॥ २६-३४ ॥
अश्विन्यादिषु नक्षत्रेषु वाक्यसङ्ख्यघटिकान्ते घटिकाद्वयं वर्ज्यम् ।
घटिकाद्वयमृक्षान्ते दिनान्ते पञ्च नाडिकाः ।
मासान्ते द्विदिनं त्याज्यमयनान्ते दिनत्रयम् ॥ २६-३५ ॥
पक्षं संवत्सरान्ते च प्रतिष्ठादिषु वर्जयेत् ।
नागो नाभिर्वरः कोपो नीलो नीरं नगो नगः ॥ २६-३६ ॥
अरं दया खरः क्रूरः पापो भूयो नयो भयम् ।
नारी प्रिया नरो नीप्रं नारं देयं द्वयो भयम् ॥ २६-३७ ॥
वारं दिशा वरश्चेति प्रोक्ताः स्युर्विषनाडिकाः ।
कृत्तिकादिषु वाक्यान्ते चतस्रो नाडिकास्त्यजेत् ॥ २६-३८ ॥
अर्धप्रहारमपि वेसरमन्दगीतैः शम्भुर्गुरुः पथि जनैर्यमकण्टकं च ।
साक्षाच्छिवं गुरुपदैर्गुलिकं च विद्यात् सूर्यादिवारदिवसाष्टमभागयुक्त्या ॥ २६-३९ ॥
ब्रह्माण्याद्यास्तु योगिन्यः पार्थरम्भाम्बुशान्तिदैः ।
वेद्याः प्रागादिरव्यादिवह्निदुर्गादिकं तिथौ ॥ २६-४० ॥
भूपरिग्रहयात्रादौ शिलास्वीकरणादिषु ।
योगिन्यभिमुखं यात्रां परिहृत्य व्रजेत् सदा ॥ २६-४१ ॥
अमावास्यादिकानां तु तिथीनां दशकत्रिके ।
तिथयो नन्ददिक्सङ्ख्यास्त्वाकाशं च रसातलम् ॥ २६-४२ ॥
आकाशे चापि पाताले शुभकर्म न कारयेत् ।
दोषोनेतांस्तथान्यांश्च ज्योतिःशास्त्रविनिश्चितान् ॥ २६-४३ ॥
पञ्च दोषांश्च चक्रार्धं षडशीतिमुखं तथा ।
ग्रहणे विषुवे तद्वत् सङ्क्रान्तीश्चायने त्यजेत् ॥ २६-४४ ॥
सर्वदोषवियुक्तं तु स्वतो न सुलभं दिनम् ।
लग्नं वातो बहुगुणं स्वल्पदोषं समाश्रयेत् ॥ २६-४५ ॥
दोषाणां शतसाहस्रं लग्नस्थः शमयेद् गुरुः ।
शुक्रः पञ्चसहस्राणि बुधः पञ्चशतानि च ॥ २६-४६ ॥
तस्माच्छुभे बलवति लग्नस्थे कर्षणादिकम् ।
कुर्यात् स्थानविवृद्ध्यर्थं कर्तुः कारयितुस्तथा ॥ २६-४७ ॥
सम्भवे शुभयोगानां कुर्वीत स्थापनादिकम् ।
तद्यथा–
मूलं द्वितीया चार्केण श्रोणा प्रतिपदिन्दुना ॥ २६-४८ ॥
कुजे तृतीयाहिर्बुध्न्यं कृत्तिकासु बुधेऽष्टमी ।
गुरावदितिपञ्चम्यौ चतुर्थ्यां भृगुफल्गुनी ॥ २६-४९ ॥
शनिः स्वातिश्च सप्तम्यां योगाः स्युरमृताः शुभाः ।
हस्तसौम्याश्विमैत्राणि पुष्यं पौष्णं च रोहिणी ॥ २६-५० ॥
सूर्यादिवारसंयुक्ताः सिद्धयोगाः शुभाः स्मृताः ॥
उक्तं चान्यैः –
ज्वलनपवनचित्रारेवतीवारुणानां
फणिहरनिर्-ऋतीनामेकमेकं क्रमेण ।
यदि रविकुजयोर्वा योगमभ्येति नन्दा
स भवति परयोगः कर्मणां सिद्धिहेतुः ॥
इति । तस्माच्चोदितमासपक्षतिथिकरणनक्षत्रवारादिवसयोगशुभ-ग्रहांशकहोराद्रेक्काणनिरीक्षणोदयानां समस्तानां व्यस्तानां वा यथासम्भवं गुणवति काले कर्षणादीनि प्रतिष्ठान्तं कर्माणि विदध्यात् ।
इति देशकालाधिकारः ।
लिङ्गप्रतिष्ठामन्विच्छन् यजमानो गुणान्वितः ॥ २६-५१ ॥
न्यायोपार्जनसंशुद्धधनधान्यादिसाधनः ।
विशुद्धाशयमाचार्यं प्रोक्तलक्षणभूषणम् ॥ २६-५२ ॥
सम्पूज्य हेमवसनैर्गन्धैर्माल्यैः फलैरपि ।
वरयेत् तं प्रतिष्ठार्थं स्वानुकूलदिनोदये ॥ २६-५३ ॥
देवागारेऽथवा रम्ये नदीतीरे निवेश्य तम् ।
साधकैर्दीक्षितैर्वापि श्रेष्ठलक्षणलक्षितैः ॥ २६-५४ ॥
अष्टसङ्ख्यैर्मूर्तिधरैः शुद्धैर्विप्रैः समन्वितम् ।
पाद्यादिभिस्तु धूपान्तं मन्त्रैरेभिस्तु पूजयेत् ॥ २६-५५ ॥
अत्र मञ्जर्यां –
तानष्टमूर्तीनथ मूर्तिपांश्च सङ्कल्प्य सम्पूज्य यथाक्रमेण ।
मन्त्रैरमीभिः प्रणिपातपूर्वं सन्तोषयेदंशुकभूषणाद्यैः ॥
इति ।
ॐ
पृथ्वी धारयते लोकान् लोकाः पृथ्वीमयाः स्मृताः ।
सर्वगं पृथिवीरूपं पृथ्वीमूर्ते ! नमोऽस्तु ते ॥ २६-५६ ॥
ॐ
अग्निर्धारयते लोकान् लोका अग्निमयाः स्मृताः ।
सर्वगं चाग्निरूपं ते अग्निमूर्ते ! नमोऽस्तु ते ॥ २६-५७ ॥
ॐ
आत्मा यजति वै यज्ञैर्लोका यज्ञमयाः स्मृताः ।
सर्वगं यज्ञरूपं ते यज्ञमूर्ते ! नमोऽस्तु ते ॥ २६-५८ ॥
ॐ
सूर्यो धारयते लोकान् लोकाः सूर्यमयाः स्मृताः ।
सर्वगं सूर्यरूपं ते सूर्यमूर्ते! नमोऽस्तु ते ॥ २६-५९ ॥
ॐ
जलं धारयते लोकान् लोका जलमयाः स्मृताः ।
सर्वगं जलरूपं ते जलमूर्ते! नमोऽस्तु ते ॥ २६-६० ॥
ॐ
वायुर्धारयते लोकान् लोका वायुमयाः स्मृताः ।
सर्वगं वायुरूपं ते वायुमूर्ते! नमोऽस्तु ते ॥ २६-६१ ॥
ॐ
सोमो धारयते लोकान् लोकाः सोममया स्मृताः ।
सर्वगं सोमरूपं ते सोममूर्ते! नमोऽस्तुते ॥ २६-६२ ॥
ॐ
व्योम धारयते लोकान् लोका व्योममयाः स्मृताः ।
सर्वगं व्योमरूपं ते व्योममूर्ते! नमोऽस्तु ते ॥ २६-६३ ॥
एवं क्ष्माग्न्यात्मसूर्याम्बुवाय्विन्दुव्योमसञ्ज्ञिताः ।
मूर्तयोऽष्टौ शिवस्योक्ता जगद्यन्त्रप्रवर्तिकाः ॥ २६-६४ ॥
शर्वो रुद्रः पशुपतिरीशानश्च तथा भवः ।
उग्रश्चैव महादेवो भीमश्चेत्यष्ट मूर्तिपाः ॥ २६-६५ ॥
एवं क्षित्यादिशर्वादिमूर्तिमूर्तीश्वरात्मकान् ।
अभ्यर्च्य ब्राह्मणानष्टौ गन्धपुष्पाम्बरादिभिः ॥ २६-६६ ॥
आचार्यं च विशेषेण सम्पूज्याभिप्रणम्य च ।
ततस्तु वरयेदेतान् यजमानः प्रसन्नधीः ॥ २६-६७ ॥
शिवलिङ्गप्रतिष्ठार्थमाचार्यं त्वामहं वृणे ।
एभिर्मूर्तिधरैः सार्धं प्रसादं कुरु मे विभो ! ॥ २६-६८ ॥
इत्युक्त्वा यजमानस्तान् प्रणम्य वरयेच्च ते ।
आचार्यसहिता ब्रूयुर्यजमानं तथास्त्विति ॥ २६-६९ ॥
ततः सङ्कल्पिते देशे स्वानुकूलदिनादिके ।
भूमेः प्राकारसीमान्तं ज्ञात्वा कुर्यात् परिग्रहम् ॥ २६-७० ॥
तद्यथा–
चतुरश्रं चतुर्हस्तं चतुःस्तम्भं तु मण्टपम् ।
प्रासादगर्भादैशान्यां कृत्वा कुण्डं च शोभनम् ॥ २६-७१ ॥
द्वाराणीष्ट्वा प्रविश्यान्तः कुण्डे त्वाधाय पावकम् ।
हुत्वाज्यं संहितामन्त्रैर्लोकेशास्त्राह्वयैरपि ॥ २६-७२ ॥
अघोरास्त्रेण न्व पुनः सहस्रं शतमेव वा ।
अथ मण्डपमध्ये पञ्चकोष्ठेषु मध्ये पद्मं दिक्षु स्वस्तिकचतुष्टय चालिख्य तेषु पञ्च कुम्भान् सप्तधान्योपरि संस्थाप्य यथाविधि तीर्थजलैरापूर्य तेषु हिरण्यरत्नगन्धपुष्पाक्षतप्रशस्तौषधीर्निक्षिप्य बिल्वाश्वत्थादिपञ्चपल्लवकुश कूर्चफलवदनान् सवसनमाल्यालङ्कृतकण्ठान् साङ्गमूलासनादिक्रमेणावाहितशिवान् यथावदभिपूज्य तेषामैशान्यां कृतमण्डलपीठपङ्कजे सप्तधान्योपरि शिवकुम्भं विधिवत् प्रतिष्ठाप्यापूर्यालङ्कृत्य तस्मिन्नपि साङ्गं शिवं चलाचलासनमावाह्याभ्यर्च्य वह्निस्थं शिवं साङ्गं कुम्भजलेष्वायोज्य प्रासादगर्भमध्ये क्म्भजलैरीशानेनाप्लाव्य पूर्वदक्षिणपश्चिमोत्तरप्रासादसीमासु पूर्वादिकुम्भजलैः पुरुषादिभिराप्लाव्य स्वीकृतवास्तोरग्निपदस्थानमुदङ्मुखेन शिल्पिना कुन्दालेन खानयित्वा तन्मृदं वेणुवेत्रादिपिटकेनोद्धृत्य नैर्-ऋतपदे सप्तकृत्वः प्रक्षिप्य कुम्भावशिष्टाम्भसा खातमापूर्य शिष्टजलेन खनित्रादिकं संस्नाप्य स्नातस्याहताम्बरस्य विप्रस्य शिरसि स्कन्धे वा शिवकुम्भमुद्धृत्य निधायानेकजनसाक्षिकं गीतवाद्यवेदघोषपुरस्सरं प्राकारपूर्वसीमान्तं कुम्भं नीत्वा तत्र क्षणमात्रं स्थित्वा तस्मादाग्नेयादिदिक्षु प्रदक्षिणवृत्त्या क्रमादीशान्तं कुम्भं परिभ्रम्य सीमाकोणचतुष्टये शङ्कुचतुष्टयं संस्थाप्य रात्रौ भूतक्रूरेण भूतेभ्यो बलिं दिक्षु विकीर्याचार्यस्तत्रस्थानि भूतान्यन्यत्र निवासायानेन प्रस्थापयेत् ।
ॐ भूतराक्षसा यक्षाः पिशाचा ब्रह्मराक्षसाः ॥ २६-७३ ॥
ये चान्येऽत्रावतिष्ठन्ते सर्वे तेऽन्यत्र यान्त्वतः ।
अद्यप्रभृति यत् स्थानमिदं देवस्य शूलिनः ॥ २६-७४ ॥
ॐ हः हुं फड् इति भूतवर्गं प्रस्थाप्य प्रतिष्ठमानानां तेषां बलिं पुनर्विकीर्य प्रभातायां रजन्यां सुमुहूर्ते कर्षणं विदध्यात् । तद्यथा–
कपिलैर्वा वृषैः शुक्लैर्बलिभिर्लक्षणान्वितैः ।
क्षीरवृक्षयुगैर्युक्तैः खदिरासनलाङ्गलैः ॥ २६-७५ ॥
स्नातैर्नवाम्बरैः पुम्भिस्तैश्च सर्वैरलङ्कृतैः ।
गुरुस्तल्लाङ्गलं स्पृष्ट्वा त्वजातेनाभिमन्त्रयेत् ॥ २६-७६ ॥
ततः प्राचीनरेखाभिः कर्षणं तैः प्रवर्तयेत् ।
जपित्वा वामदेवेन सप्त धान्यानि वापयेत् ॥ २६-७७ ॥
जलैरघोरेणासिच्य रक्षामीशेन कल्पयेत् ।
तानि सस्यानि पक्वानि गोभिर्वक्त्रेण घासयेत् ॥ २६-७८ ॥
अथात्र मञ्जर्यां –
भूयस्तत्र निधाय गोनिवसनं नीत्वा च संवत्सरं
मुद्गादीनि पुनश्च तत्र निवपेद्धान्यानि पूर्वक्रमात् ।
भूयस्तान्यथ भक्षयेच्च पशुभिः शुद्धे मुहूर्ते ततः
खात्वा शल्यविमोचितामतिदृढां भूयो विदध्यान्महीम् ॥
इति ।
कर्षणाधिकारः ।
यावत् प्रासादसीमान्तं तावत् कृत्वा समं भुवम् ।
दर्पणोदरसङ्काशां विलिप्तां गोमयाम्बुभिः ॥ २६-७९ ॥
शङ्कुना दिक्परिच्छेदं विधायात्रोदितक्रमात् ।
शङ्कून् पुन्नागनागादिदृढशस्ततरूद्भवान् ॥ २६-८० ॥
हस्तायतांश्चतुर्थांशपरिणाहान् सुवर्तुलान् ।
नवसङ्ख्यांस्तु गन्धाद्यैः पूजितान् मध्यमादितः ॥ २६-८१ ॥
न्यसेदैन्द्रादिदिक्ष्वष्टावग्न्यादिष्विति केचन ।
शङ्कून् प्रासादसीमासु विन्यस्य प्रथमं गुरुः ॥ २६-८२ ॥
ताडयेल्लोहकूटेन मुद्गरेणाथवा समम् ।
नाश्मना न च काष्ठेन ताडयेद् दोषकृद् यतः ॥ २६-८३ ॥
अष्टमङ्गलसंसिद्ध्यै प्राङ्मुखोष्टैव ताडयेत् ।
ततः शिल्पी यथेष्टं तु शङ्कून् कूटेन ताडयेत् ॥ २६-८४ ॥
सहसा प्रविशेच्छङ्कुर्न विशेद् वात्र विघ्नकृत् ।
शनैर्विशेदृजुः शङ्कुः कर्मसिद्धिं तदा वदेत् ॥ २६-८५ ॥
भिन्ने शीर्णेऽथवा रुग्णे तस्य पुत्रस्य वा मृतिः ।
पूर्वादिदिक्षु प्रणते धनं चाग्निभयं मृतिम् ॥ २६-८६ ॥
धनक्षयं भयं रोगमृद्धिं सौख्यं च निर्दिशेत् ।
अविशीर्णोच्छ्रितशिखे स्थानवृद्धिं समादिशेत् ॥ २६-८७ ॥
कार्पाससूत्ररज्जुः स्यात् प्रशस्ता सुदृढा समा ।
शाणी कौश्यथवा मौञ्जी तया सूत्रं प्रसारयेत् ॥ २६-८८ ॥
रेखा सूत्रानुगा कार्या स्फुटं हेमशलाकया ।
राजत्याप्यथवा दध्नाप्यक्षतैर्वा यथादिशम् ॥ २६-८९ ॥
नियुक्तः सूत्रपाते यो यजमानोऽथवा परः ।
निर्विकारौ यदा स्यातां निःशल्यां भुवमादिशेत् ॥ २६-९० ॥
कण्डूयनादिविकृतौ शल्यमस्तीति निर्दिशेत् ।
श्वसृगालाजगोश्वादीन् सहसैव तदागतान् ॥ २६-९१ ॥
यदि पश्येदधस्तत्र शल्यमस्तीति निर्दिशेत् ।
तद्यथा –
शिरःकण्डूयने शिरसोऽस्थि तालद्वयखाते, मुखस्पर्शे काष्ठं कपालं वा द्विहस्ते, ग्रीवायां लोहशृङ्खला करत्रये, असयोर्बाह्वोर्वा सार्धहस्तद्वये तदस्थि, प्रकोष्ठयोर्जानुमात्रे खट्वापादः कपालमस्थि वा, कटिमात्रे कटिस्पर्शे लोहम्, ऊर्वोरस्थि दारु वा तन्मात्रे, उरोहृदयाभ्यां तावति तदस्थि, जान्वोर्हस्तमात्रे स्तम्भः, जङ्घयोर्नापितोपस्करं जङ्घास्थि वा, पद्भ्यां कुञ्जरास्थि, अङ्गुष्ठे घटिका रीतिका वा, अङ्गुलिष्वश्वपादः सार्धताले कांस्यं वा, मिश्रचेष्टाभिः शल्यमपि विमिश्रं ब्रूयात् । मार्जारलङ्घने रभसास्थि(?) तत्प्रमाणे, शुना गवास्थि, अजेनाजं शौनं वास्थि, अश्वेन माहिषं, माहिषेण जाम्बुकं, जाम्बुकेन वाराहं, वाराहेण वैयाघ्रं, वैयाघ्रेणैभम्, इभेन नारं, नारेण गार्दभं, गार्दभेनाजं, सूत्रलङ्घनेन क्षेत्रप्रवेशेन वा दर्शनेन तत्कीर्तनेन चाप्येवं ब्रूयात् । भस्मतुषाङ्गारादीनि पक्षिणां प्रवेशान्निर्दिशेत् ।
एवमादिशल्येष्वनुद्धृतेष्वेव देवालयगृहादिकं यदि कुर्यात् तत्र देवतायाः सान्निध्यहानिः कर्तुश्च तद्वंश्यानामनभ्युदयात्ययरोगप्रवासनैर्धान्याविना शपरिक्लेशादयो दोषा भवन्ति । तानि ग्रन्थगौरवभयान्न विविच्योच्यन्ते अथ शोभनानि च शल्यानि भवन्ति । अत्र यथा ब्रह्मशम्भुः –
जीवन्मत्स्यस्तु धान्याप्तिं कूर्मो योगं प्रवर्तयेत् ।
नित्यं श्रियं च मण्डूको मूषिको धर्मशीलताम् ॥
अपि च
मत्स्यमण्डूककूर्मांश्च सुवर्णं पारतं मणीन् ।
खातान्नाभ्युद्धरेत् तस्मादुद्धरेच्चेदनर्थकृत् ॥ २६-९२ ॥
इति शल्योद्धाराधिकारः ।
अथात्र शल्यमुद्धृत्य वास्तुपूजां प्रवर्तयेत् ॥ २६-९३ ॥
अत्र ब्रह्मशम्भुः –
वास्तुर्वस्तुतनुर्दैत्यः कोपजो दैत्यमन्त्रिणः ।
श्रूयते वास्तुविद्यासु तथापि च शिवागमे ॥
इति ।
पुरा सुरासुरे युद्धे पुरन्दरमुखैः सुरैः ।
विष्णो प्रभावभूम्नैव भग्ना नेशुः पुरासुराः ॥ २६-९४ ॥
गुरुर्भृगुसुतस्तेषां संरम्भाद् भृशकोपनः ।
जुहाव हव्यं हव्याशे छागं चैकं सलक्षणम् ॥ २६-९५ ॥
स्वेदाम्हो जुह्वतस्तस्य यत् पपात हविर्भुजि ।
तत्तेजसा स तु च्छागश्छागवक्त्रोऽसुरोऽभवत् ॥ २६-९६ ॥
भूमिं दिवं च सञ्छाद्य भैरवाभोगवर्ष्मणा ।
उदतिष्ठन्मुनिश्रेष्ठं किं करोमीति चाब्रवीत् ॥ २६-९७ ॥
तमाबभाषे भृगुजो जृम्भमाणं भयानकम् ।
विबुधानबुधप्रज्ञान् भ्रंशयेथास्त्रिविष्टपात् ॥ २६-९८ ॥
इत्युक्तस्तर्जयन् नादैर्निर्गच्छन् स्वमुखानलैः ।
भर्जयन्निव लोकांस्त्रीन् निर्जरानभ्यधावत ॥ २६-९९ ॥
ऋ(षभो ? भवो)ऽपि भयात् तस्य विभावैर्भ्रंशितैः स्वकैः ।
अभिजग्मुर्विभुं शम्भुमभयं भूतिभूषणम् ॥ २६-१०० ॥
भवोऽप्यभयदस्तेषां भार्गवामिभवाद् भृशम् ।
भग्नानां भूतयेऽथाक्ष्णस्तृतीयादग्निमुत्थितम् ॥ २६-१०१ ॥
आदिशद् भूतरूपं तद् भग्नीकृत्य भृगोः सुतम् ।
ततश्छागासुरं क्रुरं प्रवृद्धं दग्धुमर्हसि ॥ २६-१०२ ॥
इत्युक्तः क्वाप्यसक्तोऽग्निरभिदुद्राव भार्गवम् ।
विप्रद्रुतो भयात् सोऽपि बभ्राम भुवनत्रयम् ॥ २६-१०३ ॥
न लेभेऽभयदं कञ्चिदृते भसितभूषणात् ।
ततस्तनीयसीं कृत्वा तनुं स्वां योगशक्तितः ॥ २६-१०४ ॥
विवेश शर्मणे शम्भोः श्रवणेन शिवां तनुम् ।
स तस्योदरमाविश्य शङ्करस्य शिवङ्करम् ॥ २६-१०५ ॥
ददृशे च जगद्विश्वं विश्वस्तं च समाश्वसत् ।
देवोऽपि दिव्यदर्शी तं निशम्य शरणागतम् ॥ २६-१०६ ॥
अविस्मयः स्मयन्नाहायुगाक्षस्तु योगिनम् ।
मा भैर्भार्गव! तुष्टोऽहं नयबुद्ध्यानया तव ॥ २६-१०७ ॥
अत्रोषितोऽसि पुत्रो मे निर्गच्छ स्वेच्छया ह्यतः ।
अग्र्यं ग्रहपदं दत्तं तदैश्वर्यं महत् तव ॥ २६-१०८ ॥
नयानयौ तथा वर्षमवर्षं च जगत्त्रये ।
प्रवर्तयेथाः सततमित्युक्त्वा तं त्रिलोचनः ॥ २६-१०९ ॥
असृजच्छुक्लमार्गेण शुक्रोऽभून्नामतस्ततः ।
अथ शुक्रः प्रणम्येशं विज्ञायेष्टं व्यजिज्ञपत् ॥ २६-११० ॥
कृतार्थोऽनुगृहीतोऽस्मि धन्यः कोऽन्यतरो मया ।
यदेवं देवदेवेन प्रसादादभिनन्दितः ॥ २६-१११ ॥
इत्युक्त्वा प्रणतं प्रीतः शुक्रं वक्रेन्दुशेखरः ।
वरमन्यं वृणीष्वेति सोऽब्रवीद् ब्राह्मणं विभुः ॥ २६-११२ ॥
सोऽपि वव्रे वरं तत्र त्रस्तं छागासुरं पुरा ।
पुरारेः पातयन् पद्भ्यामभयं तस्य भूतये ॥ २६-११३ ॥
अथाधोवदनं दैत्यं दण्डवत् पतितं क्षितौ ।
प्राह प्रसन्नः सन्नन्तेऽभयं दग्नि? वरं च यत् ॥ २६-११४ ॥
वाञ्छितं छाग! तत् तुभ्यमित्युक्तः शम्भुनासुरः ।
व्यजिज्ञपद् यदज्ञानान्मयेश! दुरनुष्ठितम् ॥ २६-११५ ॥
क्षन्तुमर्हसि तत् क्ष्मायां वसेयं त्वत्प्रसादतः ।
अविरोधेन देवानां वरमेतत् प्रयच्छ मे ॥ २६-११६ ॥
मयि ब्रह्मादयो देवा वसन्तः सन्तु पूजिताः ।
श्रुत्वैतच्छूलहस्तोऽपि प्राह वस्तुं वरं त्वया ॥ २६-११७ ॥
वृतोऽहं यत् ततो नाम्ना वास्तुपोऽसि तथास्तु ते ।
वसेर्धातोर्निवासार्थादावस त्वं वसुन्धराम् ॥ २६-११८ ॥
वसन्तु च त्वयि प्रीताः शतानन्दादिदेवताः ।
अद्यप्रभृति भूलोके दैवं वान्यच्च मानुषम् ॥ २६-११९ ॥
कुर्वते वास्तु वासार्थं प्रथमं त्वां यजन्तु ते ।
पुष्पैश्च धूपदीपैश्च बलिभिश्च विलक्षणैः ॥ २६-१२० ॥
त्वं च त्वद्देहसंस्थाश्च पूज्याः स्युर्देवताः क्रमात् ।
एवं मयैव विहितं कुर्वतां वास्तुपूजनम् ॥ २६-१२१ ॥
तदायतनवेश्मादौ वसतां सन्तु सम्पदः ।
अकृत्वा वास्तुयजनं प्रासादभवनादिकम् ॥ २६-१२२ ॥
कृतं तदासुरं सर्वं भूयात् तत्र च यत् कृतम् ।
इति दत्त्वा वरं देवः शुक्रवास्तुपयोः पृथक् ॥ २६-१२३ ॥
वस्तुं देवान् नियुज्यास्मिंस्तत्रैवान्तरधीयत ।
यद्देशदिङ्मुखं शम्भोः प्रणतः पातितोऽसुरः ॥ २६-१२४ ॥
शुक्रेण देवैरुषितं तदैवाभूद् विभोर्वरात् ।
तथैवाधोमुखोऽद्यापि वास्तुरीशानदिक्छिराः ॥ २६-१२५ ॥
प्रसार्य पादौ नैर्-ऋत्यामधिशेते स्म काश्यपीम् ।
इत्थं हि वास्तोष्पतिना पुरेशाल्लब्धं वरं तद् यदभूदभीष्टम् ।
इष्टो विमानादिविधावतस्तद्यज्ञः सुराणामपि मानवानाम् ॥ २६-१२६– ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे देशकालकर्षणशल्योद्धारवास्तूत्पत्तिविधिपटलः षड्विंशः ॥ २६ ॥