२५

अथ पञ्चविंशः पटलः ।

अथातः पदविन्यासः कथ्यते वस्तुसिद्धये ।
सकलं पेचकं पीठं महापीठोपपीठके ॥ २५-१ ॥

उग्रपीठं स्थण्डिलं च मण्डूकं परशायिकम् ।
आसनं चेति दशधा ग्रामादिन्यासचण्डितम् ॥ २५-२ ॥

प्रान्तसूत्रचतुष्कान्तरेकं स्यात् सकलं पदम् ।
प्राच्योदीच्यैकसूत्रादिवृद्ध्या तत् स्याच्चतुष्पदम् ॥ २५-३ ॥

एवं प्रागुत्तरपदपङ्क्तिवृद्धिं क्रमान्नयेत् ।
चतुष्पदं पेचकं स्यात् पीठं नवपदं स्मृतम् ॥ २५-४ ॥

महापीठं षोडशभिः पञ्चविंशतिभिः पदैः ।
उपपीठं तु षट्त्रिंशत्पदैः स्यादुग्रपीठकम् ॥ २५-५ ॥

स्थण्डिलं ह्यूनपञ्चाशन्मण्डूकं चाष्टकाष्टकैः ।
एकाशीतिपदैः ख्यातं क्षेत्रं परमशायिकम् ॥ २५-६ ॥

आसनं शतकोष्ठैः स्याद् ग्रामाद्यं त्वेषुं सिद्ध्यति ।
चतुरश्राष्टदण्डा भूः काकणी तच्चतुर्गुणः ॥ २५-७ ॥

माषो वेदगुणं तस्माद् भवेद् वर्तनकाह्वयम् ।
तत्पञ्चगुणिता वाटी कुडुबं तच्चतुर्गुणम् ॥ २५-८ ॥

भूमानमेवं कथितं दण्डमानं तु कथ्यते ।
महाग्रामस्योत्तमस्य पर्यन्तो लक्षदण्डवान् ॥ २५-९ ॥

तस्माद् विंशतिसाहस्रदण्डह्रासात् क्रमेण तु ।
ग्रामाणां पञ्चधा मानं मुख्यं त्वेवमुदीरितम् ॥ २५-१० ॥

दण्डविंशतिसाहस्राद् दण्डपञ्चशतस्य तु ।
क्रमह्रासाद् ग्राममानान्या पञ्चशतदण्डतः ॥ २५-११ ॥

चत्वारिंशत्प्रभेदानि मध्यमाने भवन्ति हि ।
ग्रामाधिवासक्षेत्रादेः सीमामानमिदं स्मृतम् ॥ २५-१२ ॥

प्राकारान्तरथावाससीमामानमिहोच्यते ।
ग्रामश्च खेटकश्चाथ खर्वटं दुर्गमेव च ॥ २५-१३ ॥

नगरं राजधानी च पत्तनं द्रोणिकामुखम् ।
शिबिरं स्कन्धवारश्च स्थानीयं च विडम्बकम् ॥ २५-१४ ॥

निगमश्चाथ निर्दिष्टः स्याच्छाखानगरं ततः ।
एषां चतुर्दशानां च लक्षणं पृथगुच्यते ॥ २५-१५ ॥

अष्टाष्टदण्डविस्तारो ग्रामः स्यादधमाधमः ।
द्विगुणत्रिगुणौ तस्माद् ग्रामौ मध्योत्तमौ स्मृतौ ॥ २५-१६ ॥

षट्पञ्चाशच्च द्विशतं दण्डाः खेटेऽधमे स्मृताः ।
विंशत्या त्रिशतैर्दण्डैर्मध्यश्चतुरशीतिभिः ॥ २५-१७ ॥

त्रिभिः शतैश्चोत्तमः स्यात् खेटस्त्वेवं त्रिधा स्मृतः ।
अष्टौ च चत्वारिंशच्च दण्डास्तद्वच्चतुःशतम् ॥ २५-१८ ॥

हीने तु खर्वटे ज्ञेया मध्ये पञ्चशताधिकम् ।
द्वादशैवोत्तमे षड्भिः सप्तत्या पञ्चभिः शतैः ॥ २५-१९ ॥

हीनदुर्गं षट्शतैश्च चत्वारिंशद्भिरन्वितम् ।
चतुर्दण्डोत्तरैः सप्तशतैर्दुर्गं तु मध्यमम् ॥ २५-२० ॥

अष्टषष्टियुतैः सप्तशतैर्दुर्गमिहोत्तमम् ।
सद्वात्रिंशद्वसुशतैः षण्णवत्याष्टभिः शतैः ॥ २५-२१ ॥

षडुत्तरैर्नवशतैर्नीचत्रिनगराणि वै ।
सहस्रेण च सार्धेन द्विसहस्रेण च क्रमात् ॥ २५-२२ ॥

नीचं मध्यं तथा श्रेष्ठं नगरं मध्यमत्रये ।
त्रिचतुष्पञ्चसाहस्रैर्नगराण्युत्तमत्रये ॥ २५-२३ ॥

षट्सप्ताष्टसहस्रैस्तु दण्डैः स्युश्चोत्तमोत्तमे ।
नगराणां त्रये तानि नगराणि यथाक्रमम् ॥ २५-२४ ॥

विकारदण्डवृद्ध्या तु प्रत्येकं नवधा पुनः ।
ग्रामादीनां प्रमाणानि प्रोक्तादूर्ध्वं भवन्ति हि ॥ २५-२५ ॥

राजधान्यादिकानां तु मान नगरवद् भवेत् ।
एतावन्मानुषेष्वेव मानं ग्रामादिषु स्मृतम् ॥ २५-२६ ॥

देवासुरपुरादीनां मानं न ज्ञायते नरैः ।
विस्तारात् पादमर्धं वा त्रिपादद्विगुणं तु वा ॥ २५-२७ ॥

मुखायामो भवेदेषां ग्रामादिनगरान्तकम् ।
एतेषां विपुलायामावयुग्मैरेव दण्डकैः ॥ २५-२८ ॥

विधातव्यावतः शेषं वाटीसञ्चारभूमिका ।
नद्यादेर्दक्षिणाद्ये तु तीरे ग्रामान् निवेशयेत् ॥ २५-२९ ॥

ग्रामयोरन्तरे खेटं राष्ट्रमध्ये तु खर्वटम् ।
पर्वतान्तर्वने वाब्धौ दुर्गं स्याद् वा जलावृतम् ॥ २५-३० ॥

दुर्गं तु पार्वतं वन्यमौदकं चैरिणं तथा ।
दैविकं धान्वनं चैव कृतकं चेति सप्तधा ॥ २५-३१ ॥

राष्ट्रस्य मध्ये नद्या वा समीपे नगरं स्मृतम् ।
तदेव शङ्कुपङ्काद्यैः परिखाभिर्दुरासदम् ॥ २५-३२ ॥

उच्चप्राकारकाट्टालगोपुरक्षेपणीहुलैः ।
शतघ्नीभिश्च परितः परिस्तीर्णोच्छ्रिताट्टकम् ॥ २५-३३ ॥

एकद्वित्रिचतुर्द्वारं राजधानीति कथ्यते ।
नानापण्यधनाकीर्णं सागरानूपसंश्रितम् ॥ २५-३४ ॥

सांयानिकवणिग्जुष्टं पत्तनं परिचक्षते ।
तदेवाब्धेश्च नद्याश्च सङ्गमागतपोतकम् ॥ २५-३५ ॥

द्वीपान्तरवणिग्जुष्टं विदुर्द्रोणमुखं बुधाः ।
परराष्ट्रे स्वदेशे वा चतुर्विधबलान्वितम् ॥ २५-३६ ॥

विजिगीषोः सन्निवेशं शिबिरं तत् प्रचक्षते ।
नातिदूरे तदेव स्यान्नृपयोर्युध्यतोर्मिथः ॥ २५-३७ ॥

सेनानिवेशस्तु पृथक् स्कन्धावार इति स्मृतः ।
पर्वतस्याथवा नद्याः पार्श्वे राजबलान्वितम् ॥ २५-३८ ॥

राष्ट्रान्ते सान्तपालं यत् तत् स्थानीयं विदुर्बुधाः ।
कृषीवलादिकावासो ग्रामोपान्ते विडम्बकम् ॥ २५-३९ ॥

चातुर्वर्णैः कर्मकारैर्नानाकर्मोपजीविभिः ।
पण्यैश्च धनधान्याद्यैर्युक्तस्तु निगमः स्मृतः ॥ २५-४० ॥

वने वा नगरोपान्ते नागरैस्तु जनैर्वृतम् ।
क्षेत्रारामाकरोपेतं शाखानगरमिष्यते ॥ २५-४१ ॥

सहस्रैर्जगतीपङ्तिवसुसङ्ख्यैर्द्विजन्मनाम् ।
श्रेष्ठोत्तमः श्रेष्ठमध्यो ग्रामः श्रेष्ठाधमस्तथा ॥ २५-४२ ॥

सप्तषट्पञ्चसाहस्रैर्ग्रामा मध्योत्तमादयः ।
चतुस्त्रिद्विसहस्रैस्तु ग्रामाः स्युरधमे त्रयः ॥ २५-४३ ॥

विप्राणां दशसप्तेषुशतैर्नीचोत्तमादयः ।
ग्रामा भवन्त्यथ क्षुद्रास्तेऽप्येकादशधा स्मृताः ॥ २५-४४ ॥

चतुस्त्रिद्विशतैरष्टशतैश्चतुरशीतिकैः ।
सचतुष्षष्टिपञ्चाशद्द्वात्रिंशत्त्र्यष्टकैरपि ॥ २५-४५ ॥

विकारादित्यसङ्ख्यैश्च ब्राह्मणैस्तु निवेशितैः ।
एकद्विजाद्यादशान्तास्त्वेकभोगादिका दश ॥ २५-४६ ॥

सकलाद्यासनान्ते तु ग्रामादिन्यासचण्डिते ।
युग्मे सूत्रे तु विथ्यः स्युरयुग्मे पदपङ्क्तिषु ॥ २५-४७ ॥

द्वयोर्न सङ्करं कुर्यात् सङ्करश्चेद् विनाशकृत् ।
दण्डकः स्वस्तिकश्चैव प्रस्तरश्च प्रकीर्णकः ॥ २५-४८ ॥

नन्द्यावर्तः परागश्च पद्माख्यः श्रीप्रतिष्ठितः ।
ग्रामादीनां तु सामान्याद् विन्यासास्त्वेवमष्टधा ॥ २५-४९ ॥

ग्रामपर्यन्तवीथिस्तु ख्याता मङ्गलवीथिका ।
नगरे जनवीथी स्याद् रथ्याख्या खेटकादिषु ॥ २५-५० ॥

एकद्वित्रिचतुष्पञ्चदण्डैः स्याद् वीथिविस्तृतिः ।
प्रागुत्तराभ्यां वीथीभ्यां ककरीबद्धमध्यमम् ॥ २५-५१ ॥

सचतुर्द्वारपर्यन्तवप्राढ्यो दण्डकाह्वयः ।
यस्मिन्नेकैव वीथी स्यात् प्राचीना सोऽपि दण्डकः ॥ २५-५२ ॥

पदानां पञ्चविंशत्या ग्रामे तन्मध्यकोष्ठकात् ।
प्रागादिषु चतुर्दिक्षु पृथग् लुम्पेत् पदद्वयम् ॥ २५-५३ ॥

तस्मात् पदद्वयं बाह्ये प्रागाद्यं तु प्रदक्षिणम् ।
विलोप्य स्वस्तिकाकारो विन्यासः सिद्ध्यति स्फुटम् ॥ २५-५४ ॥

प्राक्प्रत्यगायतास्तिस्रः सौम्यास्तिस्रोऽथ वीथयः ।
चतस्रः पञ्च वा षड् वा सप्त वा प्रस्तरे स्मृता ॥ २५-५५ ॥

चतस्रो वीथयः प्राच्याः सौम्याः द्वादश वीथयः ।
रुद्रदिङ्नन्दवसुभिर्मिताः स्युर्वा प्रकीर्णके ॥ २५-५६ ॥

प्राक् प्रत्यग्वीथयः पञ्च सौम्याश्च स्युस्त्रयोदश ।
शक्वर्या चातिशक्वर्या चाष्ट्यात्यष्ट्या च सम्मिताः ॥ २५-५७ ॥

नन्द्यावर्ते तु विन्यासे ग्रामादेः प्रभवन्ति हि ।
प्राच्याः षड् वीथयो यस्मिन् सौम्या धृत्यादिसङ्ख्यया ॥ २५-५८ ॥

आकृत्यन्तं समा यत्र परागः सोऽभिधीयते ।
प्राचीना वीथयः सप्त त्रयोविंशादितः क्रमात् ॥ २५-५९ ॥

ॐ सप्तविंशतेः सौम्या विन्यासे पद्मके स्मृताः ।
प्राचीना वीथयोऽष्टौ स्युरष्टविंशतिमादितः ॥ २५-६० ॥

आद्वात्रिंशमुदीच्याः स्युर्विन्यासे श्रीप्रतिष्ठिते ।
महेन्द्रे गृहरक्षे च भल्लाटे पुष्पदन्तके ॥ २५-६१ ॥

महाद्वाराणि चैव स्युरुपद्वाराणि सन्ति चेत् ।
भृशे पूषणि भृङ्गाख्ये दौवारे शोषनागयोः ॥ २५-६२ ॥

दितावपि च पर्जन्ये जलमार्गास्त्वथैन्द्रतः ।
ईशार्गलान्तं शस्ताः स्युः प्रागुदीचीप्लवो यथा ॥ २५-६३ ॥

सूर्ये सूर्यो भृशे विष्णुरग्नौ काली यमे गुहः ।
विष्णोर्मध्ये च वरुणे सुग्रीवे सुगतालयः ॥ २५-६४ ॥

भृङ्गे जिनस्य ज्येष्ठाया वायौ चाण्ड्यास्तु मुख्यके ।
कुबेरस्य महाकाल्या मातॄणां च निशाकरे ॥ २५-६५ ॥

अदितौ वास्तुचामुण्ड्याः शस्त ऐशे शिवालयः ।
निर्-ऋतौ वा जयन्ते वा विघ्नेशस्य गृहं भवेत् ॥ २५-६६ ॥

अथवा देवतानां तु विन्यासमपरे जगुः ।
तद्ग्रामपुरराष्ट्राणां स्यान्मध्ये ब्राह्मणो गृहम् ॥ २५-६७ ॥

प्राच्यां वा पश्चिमे विष्णोर्ग्रामादीनां च सम्मुखम् ।
पराङ्मुखं स्यादैशान्यां मानुषं शिवमन्दिरम् ॥ २५-६८ ॥

स्वयम्भुदैविकं चार्षं यत्र तत्र स्थितं तु वा ।
न दोषाय भवेत् तस्याप्यग्रं वर्ज्यं शुभार्थिभिः ॥ २५-६९ ॥

प्राच्यामैशेऽथवा मध्ये गौर्याः सूर्यस्य च श्रियः ।
मातॄणां दक्षिणे धाम शास्तुः काल्याश्च नैर्-ऋते ॥ २५-७० ॥

षण्मुखस्य तु वारुण्यां ज्येष्ठायास्तदनन्तरम् ।
वायौ सौम्ये च दुर्गाया लोकेशानां स्वगोचरे ॥ २५-७१ ॥

इन्द्रेशसोममध्ये वा क्षेत्रपालनिकेतनम् ।
देशग्रामपुरादीनामेवमृद्धिकरं भवेत् ॥ २५-७२ ॥

गोशाला दक्षिणे प्राच्या वापी त्वैशे तथोत्तरे ।
सर्वत्र वा जलं शस्तमुत्तरे पुष्पवाटिका ॥ २५-७३ ॥

दक्षिणे गणिकावाटः परितः शूद्रजन्मनाम् ।
वैश्यानां वणिजां प्राच्यां मध्ये राजापणो भवेत् ॥ २५-७४ ॥

प्रागुदीच्योः कुलालानां नापितानां च तत्र हि ।
जालिकानां च वायव्ये सूनानां पश्चिमे गृहम् ॥ २५-७५ ॥

तैलविक्रयिणां सौम्ये तक्ष्णां वाप्यनिलेऽनले ।
वायव्ये कारुकादीनां कुविन्दानां तु पश्चिमे ॥ २५-७६ ॥

क्रोशद्वये वा क्रोशे वा बहिश्चण्डालपक्कणम् ।
प्रागुत्तरेण तु क्रोशाद् बहिः पितृवनं भवेत् ॥ २५-७७ ॥

अनुक्तानां तथान्येषां युक्त्या वासं प्रकल्पयेत् ।
राजधान्यां नृपावासो ब्रह्मांशादपरांशके ॥ २५-७८ ॥

तस्य प्राच्यां तु बाह्यालिरिन्द्रकोशसभान्वितः ।
पाकशालान्तरिक्षेऽग्नौ शयनं गृहरक्षके ॥ २५-७९ ॥

अस्त्रशाला च निर्-ऋतौ वरुणे भोजनालयः ।
विहारशाला वायौ स्याद् भल्लाटे कोशसञ्चयः ॥ २५-८० ॥

कोष्ठागारं तथा सौम्ये व्यायामोऽप्यर्गले स्मृतः ।
पर्जन्ये स्नानभवनमैशे होमार्चनागृहे ॥ २५-८१ ॥

नृत्तशाला तु गान्धर्वे गजशाला तु पूषणि ।
दित्यदित्योस्तुरङ्गाणां स्त्रीणां सौम्ये च पश्चिमे ॥ २५-८२ ॥

मध्ये प्रपां मण्डपं वा युक्त्यान्यच्चापि कारयेत् ।
ब्राह्मणक्षत्रियविशां शूद्राणां धनिनामपि ॥ २५-८३ ॥

वक्ष्यमाणास्तु ये जातिप्रासादाः सम्पदां पदम् ।
अशक्तानां तु शालाः स्युस्तत्तद्युक्त्या विनिर्मिताः ॥ २५-८४ ॥

इत्थं ग्रामपुरादिमानमखिलं प्रोक्तं तथा लक्षणं
ब्रह्मागस्त्यपुरन्दरैरपि यथा त्वष्ट्रा मयेनोदितम् ।
यद् विज्ञाय निवेशितेषु विधिना धामस्वशेषामरैः
सम्पूज्यो मुनिभिस्तथैव मनुजैर्देवो मृडानीपतिः ॥ २५-८५ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे पदविन्यासग्रामपुरलक्षणं नाम पञ्विंशः पटलः ॥ २५ ॥