अथ चतुर्विंशः पटलः ।
अथोत्तरायणस्थेऽर्के प्रशस्ते दिवसोदये ।
गृहीतवास्तुं खात्वा तु शल्यमुद्द्धृत्य शोधयेत् ॥ २४-१ ॥
सर्वतः सुसमं कृत्वा स्थलं दर्पणसन्निभम् ।
तन्मध्ये दण्डमात्रं व जलावस्थानतः समम् ॥ २४-२ ॥
तद्यथा –
सच्छिद्रमध्यं तु घटं भाराम्बुपरिपूरितम् ।
यन्त्रिकाधारगं कृत्वा स्थलमध्ये समं न्यसेत् ॥ २४-३ ॥
ततः परिस्रुताम्भोभिः समं सिक्ते तु भूतले ।
अन्यूनाधिकसंस्थानं यथा ज्ञेयं तदम्भसाम् ॥ २४-४ ॥
बिन्दुं कृत्वा स्थलं मध्ये तस्मिन् शङ्कुं समं न्यसेत् ॥
तद्यथोक्तं चान्यैः –
भ्रमविरचितवृत्तस्तुल्यमूलाग्रभागो द्विरददशनजन्मा सारदारूद्भवो वा ।
सममृजुरवलम्बादव्रणः षट्कवृत्तः समतल इह शस्तः शङ्कुरर्काङ्गुलोच्चः ॥
इति ।
शङ्को पुच्छाग्रयोर्मध्ये यवस्थूलायते समे ॥ २४-५ ॥
लोहजे घटयेत् सूच्यौ तच्छायामध्यसिद्धये ।
शङ्कुमानायतं सूत्रं बिन्दौ तस्मिन् निधाय तु ॥ २४-६ ॥
भ्रमयेत् परितस्तेन बिन्दौ स्थित्वा सुवर्तुलम् ।
तन्मध्यबिन्दौ तं शङ्कुं स्थापयेदुदये रवेः ॥ २४-७ ॥
तद्बिम्बवृत्तरेखायां शङ्कुच्छायाशिरो यदा ।
ह्रासाद् विंशतिपूर्वाह्णे तत्र च्छायाग्रमङ्कयेत् ॥ २४-८ ॥
तथापराह्णे च्छायायां निर्गच्छन्त्यां तु मण्डलात् ।
संस्पृशन्त्यां तु तद्रेखां प्राग्वत् तत्रापि लाञ्छयेत् ॥ २४-९ ॥
तयोरास्फालयेत् सूत्रमृजुं पूर्वापराङ्कयोः ।
दिशौ प्राक्पश्चिमे स्यातां ब्राह्मी प्राची स्मृता हि सा ॥ २४-१० ॥
पाश्चात्याङ्कस्थितं सूत्रमर्धरक्षोघ्नमानतः ।
प्रागङ्काद् दक्षिणे न्यस्य सा दिगैन्द्रीति कथ्यते ॥ २४-११ ॥
प्रागङ्कादुत्तरे तद्वदैशी काष्ठा तु सा भवेत् ।
शिवालयादिकरणेष्वैशी प्राचीति केचन ॥ २४-१२ ॥
विप्राद्यावासकरणे स्यादैन्द्रीत्यपरे जगुः ।
ब्राह्मी दिगेव सर्वेषां नैकतन्त्रनिदर्शनात् ॥ २४-१३ ॥
निरक्षदेशे लङ्कादौ स्यादयं दिग्विनिर्णयः ।
इत्याहुः केचिदित्यस्मात् साक्षदेशस्य कथ्यते ॥ २४-१४ ॥
विशेषः साक्षदेशानामस्त्येवार्कापसर्पणात् ।
उक्तं चान्यैः –
याति भानुरपमण्डलवृत्त्या दक्षिणोत्तरदिशोरनुवेलम् ।
तेन सा दिगनृजुः प्रतिभाति स्यादृजुः पुनरपक्रममौर्व्या ॥
इति । उत्तरगोलस्थ उत्तरां दिशमपक्रममण्डलेन गच्छति । दक्षिणगोलस्थो दक्षिणां दिशमपक्रममण्डलेन चरति । तस्मात् सा दिगनृजुः प्रतिभाति । तस्मादिदानीमपक्रमज्यया दिगार्जवं प्रतिपादयन्नाह –
छायानिर्मनप्रवेशसमयार्काक्रान्तिजीवान्तरं
क्षुण्णं सश्रवणेन लम्बकहृतं स्यादङ्गुलाद्यं फलम् ।
पश्चाद् बिन्दुरनेन रव्ययनतः सञ्चालयेद् व्यत्ययात्
स्पष्टा प्राच्यपराथवायनवशात् प्राग्बिन्दुमुत्सारयेत् ॥
इति । यावतीभिर्वृत्ताभिर्घटिकाभिर्वृत्तरेखां स्पृशति शङ्कुच्छाया यावतीभिः वृत्तान्निर्गच्छति स खलु च्छायानिर्गमनप्रवेशसमयः । तयोः कालयोरर्काक्रान्तिजीवान्तरं नामार्कघटिकामानमित्यर्थः । तत् स्वश्रवणेन प्रवेशनिर्गमनकालच्छायायाः कर्णेन गुणितं लम्बकहृतं लम्बज्यया हृतमङ्गुलाभ्यां फलं भवति । तेन फलेन पश्चाद् बिन्दुं प्राप्ताङ्गुलप्रमाणेन रवेरयनस्य व्यत्ययात् सञ्चालयेत् । अयनव्यत्ययश्चोत्तरायणे दक्षिणेन दक्षिणायने तूत्तरेण सञ्चालयेदित्यर्थः । तथास्फालितं सूत्रं साक्षदेशे स्पृष्टा प्राची भवति । अथार्कावलम्बकैर्विनापि प्रकारान्तरेण दिक्परिज्ञानार्थमुच्यते –
छायात्रयाग्रोद्भववृत्तमध्यस्पृक्सूत्रयोर्यत्र युतिः प्रदेशे ।
याम्योत्तरा शङ्कुदिशा ककुप् स्यात् क्रमेण सौम्येतरगोलयोः स्यात् ॥ २४-१५ ॥
पूर्वकपाले वापरकपाले च्छायात्रयाग्रं दृष्ट्वा तैर्वृत्तत्रये लिखिते यन्मत्स्यद्वयमुत्पद्यते तयोर्मुखपुच्छानुसारिसूत्रद्वयं यस्मिन् प्रदेशे संयुक्तं तिष्ठति तत आरम्भ्य शङ्कुमूलपर्यन्तं सूत्रमास्फालयेत् । सा दक्षिणोत्तरा दिग् भवति । रवावुत्तरगोलस्थे शङ्कुमूलाद् दक्षिणा भवति । दक्षिणगोलस्थे शङ्कुमूलादुत्तरा भवति । अत्र पुनः स्पष्टमुच्यते । तद् यथा– जलसमीकृते स्थले
प्रोक्तप्रमाणं शङ्कुं विन्यस्य पूर्वाह्णे वापराह्णे छायाग्रेष्वभिनिविष्टेषु त्रिषु त्रयो बिन्दवः कार्याः । तत एकं बिन्दुं मध्ये कृत्वेष्टप्रमाणेन वृत्तमालिखेत् । तावतैव द्वितीयं बिन्दुमवलम्ब्य द्वितीयं वृत्तं तद्वत् तृतीयं बिन्दुं मध्ये कृत्वा तृतीयं वृत्तमालिखेत् । ततस्तावत्प्रमाणमेव वृत्तम् । तथाचालिखेद् यथा मध्यबिन्दुवृत्तं पार्श्वद्वयबिन्दुवृत्तद्वयस्य खण्डमुत्पादयति । तथाकृते मत्स्यद्वयमुत्पद्यते । तयोश्च यस्यां दिशि महदन्तरं ते मुखे भवतः । तयोर्यस्यां दिशि सन्निकर्षस्ते पुच्छे भवतः । मुखयोः सूक्ष्मकीलकौ विन्यस्य तयोः सूत्रे बद्ध्वा पुच्छमध्यगे निःसार्य स्वगत्यैकैकं नयेत् । तयोः सूत्रयोर्मुखपुच्छगत्यनुसारेण यत्र सन्निपातः सा दक्षिणा दिग् भवति शङ्कुतला(न्यु ? दु)त्तरगोलस्थेऽर्के ततो दक्षिणगोलस्थे सवितरि । तथा मध्यगतसूत्रयोर्युति बिन्दुः शङ्कुमूलादेवोत्तरा दिग् भवति । एवं शङ्कुमूलयुति बिन्द्ववगाहि सूत्रं प्रसार्य रेखां कुर्यात् सा दक्षिणोत्तरा दिग् भवति । तत एकैकं बिन्दुं मध्ये कृत्वा वृत्तद्वयेन मत्स्यमुत्पादयेत् । तस्य मुखपुच्छावगाहिसूत्रं पूर्वापरा दिग् भवति । एवं साक्षदेशे दिक्साधनमुक्तम् । निरक्षदेशे तु पूर्वोक्तैव पूर्वापरा दिग् भवति । तत्सूत्रस्य मध्यबिन्दौ स्थित्वा दशाङ्गुलमानेन सूत्रमध्ये पूर्वापरादङ्कौ कृत्वा तयोरङ्कयोरन्तरसमानसूत्रमङ्कयोर्निधाय दक्षिणोत्तरयोः परिभ्रम्योत्पन्नयोर्मत्स्ययोः सूत्रमास्फाल्य दक्षिणोत्तरा दिग् भवतीत्यलम् । अपि च
नरच्छायानुसारेण कल्प्यं चार्कापसर्पणम् ॥ २४-१६ ॥
गणयित्वा धनुर्ज्यावद् ज्ञेयं स्यादर्कमार्गयोः ।
अर्धाङ्गुलमपच्छाया वृषयुग्माङ्गनासु च ॥ २४-१७ ॥
तुलालिचापेष्वृद्धा स्याद्धीना कर्किमृगादिषु ।
तच्च प्रतिदिनमिति यावत् ।
द्वयमेकं न नैकं द्वे नेत्राग्निश्रुतिसङ्ख्यया ॥ २४-१८ ॥
वेदाग्निद्वयमानेन द्वयमेकं न किञ्चन ।
नैकनेत्राब्धिरामाक्षियुगबाणर्तुसङ्ख्यया ॥ २४-१९ ॥
षट्सप्ताष्टकमानेन चाष्टर्षिरससङ्ख्यया ।
ऋतुबाणश्रुतिसमं वेदाग्न्यक्षिमितं क्रमात् ॥ २४-२० ॥
अर्धार्धपादमानेन मेषादिद्वादशस्वपि ।
दशके दशके त्वह्नां नरच्छायामितिं त्यजेत् ॥ २४-२१ ॥
अत्र
समीक्ष्य भानोर्गमनं सराशिकं त्यजेत् पुरोक्ताङ्गुलमत्र युक्तितः ।
ततस्तु काष्ठामुपगृह्य तद्वशाद् विसृज्य सूत्रं विदधीत वस्त्वलम् ॥ २४-२२ ॥
स्थलं समं जलवशाल्लम्बसूत्रात् स्थितार्जवम् ।
भुजासमत्वं स्यात् कर्णैस्त्रिनरात् तिर्यगार्जवम् ॥ २४-२३ ॥
प्राचीसूत्रात् प्रसिद्ध्यन्ति दिशोऽन्याश्चतुरश्रगाः ।
शङ्कुच्छायाधिकारः ।
परमाणुरजोरोमलिक्षायूकायवाष्टकैः ॥ २४-२४ ॥
क्रमान्मानाङ्गुलं ज्ञेयं वितस्तिर्द्वादशाङ्गुला ।
मानाङ्गुलद्वादशकं वितस्तिर्वितस्तियुग्मं खलु सीकष्कुञ्ज्ञम् ।
हस्तो भवेद्धस्तचतुष्टयं स्याद्धनुश्च दण्डोऽपि स एव नाम्ना ॥ २४-२५ ॥
दण्डपञ्चाशतायामो गव्यूत्यर्धं निगद्यते ॥ २४-२६ ॥
द्विगुणं तत् तु गव्यूतिस्तद्द्वयं क्रोश उच्यते ।
योजनं तु चतुष्क्रोशं द्विष्क्रोशं चार्धयोजनम् ॥ २४-२७ ॥
अत्रार्यभटः –
हस्तोऽङ्गुलविंशत्या चतुरुत्तरया चतुष्करो दण्डः ।
तद्द्विसहस्रं क्रोशो योजनमेकं चतुष्क्रोशम् ॥
इति ।
प्राजापत्याख्यहस्तः स्यात् पञ्चविंशतिकाङ्गुलः ।
षट्सप्ताधिकविंशत्या धनुर्मुष्टिधनुर्ग्रहौ ॥ २४-२८ ॥
आ सन्धेर्बद्धमुष्टिस्तु रत्निः कर उदाहृतः ।
स एवारत्निरुद्दिष्टा सृष्टा चेत् तत्कनिष्ठिका ॥ २४-२९ ॥
प्रादेशतालगोकर्णवितस्त्यः स्युर्यथाक्रमम् ।
तर्जन्यादिकनिष्ठान्तमाङ्गुष्ठाग्रात् प्रसारिता ॥ २४-३० ॥
यन्मध्यमामध्यमपर्वदैर्घ्यान्मानेन मात्राङ्गुलमायतं स्यात् ।
तत्पर्वमानेन तदेव तिर्यङ्मात्राङ्गुलं तच्च तताभिधानम् ॥ २४-३१ ॥
देहोपलब्धाङ्गुलमिष्यते यत् तन्मानयुक्त्या प्रतिमासु विद्यात् ।
दण्डानामष्टकं रज्जुः सा च सीमादिषु स्मृता ।
किष्कुहस्तेन यानादिशयनीयादिसाधनम् ॥ २४-३२ ॥
अत्राह मयः –
याने च शयने किष्कुः प्राजापत्यं विमानके ।
वास्तूनां तु धनुर्मुष्टिर्ग्रामादीनां धनुर्ग्रहः ॥
सर्वेषामपि वास्तूनां किष्कुर्हस्तोऽथवा भवेत् ।
इति ।
दण्डेन तु ग्रामनिवेशनाद्यं पुराणि खेटं निगमं च कुर्यात् ।
हस्तेन वेश्मादिषु मानमुक्तं स्वल्पेन चैवाङ्गुलकैर्यवैर्वा ॥ २४-३३ ॥
देवालयगृहादीनि कुर्यान्मात्राङ्गुलेन हि ॥ २४-३४ ॥
कुण्डादिकानामपि मण्डलानां सर्वत्र मात्राङ्गुलमानतः स्यात् ।
निर्माणमित्यत्र यथावदुक्ता तत्तत्क्रियाभेदविशेषसिद्धिः ॥ २४-३५ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे शङ्कुच्छायाङ्गुलादिविधिर्नाम चतुर्विंशः पटलः ॥ २४ ॥