अथ त्रयोविंशः पटलः ।
अथ भूः सर्ववर्णानामुपजीव्या तथाश्रया ।
प्रतिष्ठादिक्रियाचक्रं यतो यस्यां प्रवर्तते ॥ २३-१ ॥
तस्मात् तल्लक्षणं सम्यक् सङ्क्षेपादिह कथ्यते ।
पुण्यक्षेत्रनदीतीर्थपर्वताद्यन्विता मही ॥ २३-२ ॥
प्रयच्छत्यधिकां सिद्धिं यतस्तामाश्रयेद् बुधः ।
स्वतः कृष्णमृगैर्युक्ता कुशकाशैरलङ्कृता ॥ २३-३ ॥
वेदविद्भिर्द्विजैर्जुष्टा यज्ञियैस्तरुभिर्वृता ।
प्रागुदक्प्रवणा रम्या प्रभूतसलिलाशया ॥ २३-४ ॥
नीरन्ध्रा चैव सुस्निग्धा समित्पुष्पफलान्विता ।
स्वारामगोकुलकुला भूः सामान्या प्रशस्यते ॥ २३-५ ॥
पूर्णा सुपद्मा भद्रा च धूम्रा चेति चतुर्विधा ।
भूमिः स्यादानुपूर्व्येण तासां लक्षणमुच्यते ॥ २३-६ ॥
अङ्कोलाशोकबकुलशिंशपानिम्बकिंशुकैः ।
माधवीगुल्मनिष्पावैः संयुक्ताल्पजलाशया ॥ २३-७ ॥
पूर्णा(स्यात्) पुष्टिदा भूमिः पर्वतानूपशायिनी ।
चन्दनागरुकर्पूरकदम्बार्जुनकेसरैः ॥ २३-८ ॥
तिलकैः केतकीकुन्दैः पद्माढ्यैश्च जलाशयैः ।
कौबेर्यामन्विता भूमिः सुपद्मा प्राक्प्लवा भवेत् ॥ २३-९ ॥
अब्धेः समीपे वा नद्याः सूतीर्थसलिलाशया ।
यज्ञियैः फलवृक्षैश्च पश्चिमस्थैरलङ्कृता ॥ २३-१० ॥
क्षेत्रैर्दक्षिणसंस्थैश्च भद्रा भूमिः सुखप्रदा ।
स्नुहिश्लेष्मातकैरर्कैः पीलुवेणुविभीतकैः ॥ २३-११ ॥
अन्विता सोषरा रूक्षा परुषा शर्करोपलैः ।
श्येनगृध्रवराहर्क्षकाकगोमायुसङ्कुला ॥ २३-१२ ॥
धूम्रा नाम मही निन्द्या शोकदुःखभयावहा ।
न तत्र स्थापयेल्लिङ्गं न मन्त्रं साधयेदपि ॥ २३-१३ ॥
चातुर्वर्ण्यजनस्तत्र न वासमभिरोचयेत् ।
भुजङ्गवक्त्रा शूलाभा मध्यनिम्ना त्रिकोणका ॥ २३-१४ ॥
शूर्पाभा कूर्मपृष्ठाभा षडश्रा निर्जलाथवा ।
यमवह्निमरुद्रक्षोदिक्प्लवा नित्यकर्दमा ॥ २३-१५ ॥
चण्डवाताहता नित्यं वामावर्तजला च या ।
दुर्गन्धा केशकीटास्थिभस्मवल्मीकदूषिता ॥ २३-१६ ॥
सङ्कीर्णा नाम सा भूमिः सर्ववर्णैर्विगर्हिता ।
विप्रादिवर्णभेदेन चतुर्धा भूरथोच्यते ॥ २३-१७ ॥
श्वेताज्यगन्धा मधुरा कुशकाशैरलङ्कृता ।
सौम्येशानप्लवैः स्निग्धा पलाशौदुम्बरान्विता ॥ २३-१८ ॥
चतुरश्राकृतिः प्रोक्ता विप्रभूमिस्तु शान्तिदा ।
रक्ता रुधिरगन्धा या कषाया प्राक्प्लवा मही ॥ २३-१९ ॥
साश्वत्था क्षत्रिया प्रोक्ता व्यासाष्टांशाधिकायता ।
पीता गोमूत्रगन्धाढ्या तिक्तावाम्लरसा च या ॥ २३-२० ॥
प्राक्प्लवा प्लक्षवृक्षाढ्या षडंशाधिकमायता ।
वैश्यभूमिः समुद्दिष्टा नानासस्यविभूषिता ॥ २३-२१ ॥
कृष्णा या मधुगन्धा भूः कटुका प्राक्प्लवोदका ।
शूद्रजातिरिति ज्ञेया ह्यथवा पश्चिमप्लवा ॥ २३-२२ ॥
गोवीथी प्राक्प्लवा भूमिरग्निनिम्ना तथानला ।
याम्या यमप्लवा ज्ञेया नागवीथिस्तु नैर्-ऋते ॥ २३-२३ ॥
पश्चात्प्लवा वारुणी स्यात् भूतवीथिर्मरुत्प्लवा ।
धनवीथिः सौम्यनिम्ना धान्यवीथिः शिवप्लवा ॥ २३-२४ ॥
विप्रादीनां च देवानां प्रागैशान्योत्तरप्लवाः ।
शस्ताः स्युर्वीथयः शेषा वर्ज्याः स्युरशुभा यतः ॥ २३-२५ ॥
इत्थं भूमेस्तु लक्ष्मोक्तं सामान्येनाथ कथ्यते ।
कुशशैलविशिष्टाद्रितीर्थक्षेत्रवनाश्रया ॥ २३-२६ ॥
न्यायेनैवार्जिता शस्तप्लवा वर्णसमा समा ।
अलाभे धवला रम्या सर्ववर्णहितावहा ॥ २३-२७ ॥
अगर्हानूषरा सर्पवल्मीकान्त्यजवर्जिता ।
श्मशानाङ्गाररहिता सुस्वादुसलिलान्विता ॥ २३-२८ ॥
न्यग्रोधोदुम्बराश्वत्थप्लक्षाः पूर्वादिगाः शुभाः ।
सर्वत्र केसराश्चूताः पुन्नागा नागडाडिमाः ॥ २३-२९ ॥
मनसाश्चम्पकाः पूगा नालिकेराश्च शोभना ।
प्राच्यां निषिद्धो हि गिरिस्तच्छाया ह्युदये रवेः ॥ २३-३० ॥
यत्रापतति तत्रापि ग्रामाद्यं न प्रशस्यते ।
अम्भः कुम्भगतं श्रेष्ठं मध्यमं मीनमेषयोः ॥ २३-३१ ॥
मकरे च वृषे नीचं ग्रामादेरालयस्य वा ।
धान्यपूर्णामकुम्भं तु निधायेष्ट्वास्य चोपरि ॥ २३-३२ ॥
आमे शरावे कुडुबं गव्यमाज्यं विनिक्षिपेत् ।
चतुर्दिक्षु क्षिपेद् वर्तीः शुद्धाः कार्पासवस्रजाः ॥ २३-३३ ॥
सितरक्तपीतकृष्णाश्चतस्रः समवर्तिताः ।
ऐन्द्रदक्षिणसौम्याप्यवर्त्यो विप्रादिकाः क्रमात् ॥ २३-३४ ॥
पुरुषाद्यैस्तु जातीयैर्युक्तास्तन्मन्त्रमन्त्रिताः ।
सङ्कल्प्य ज्वालयेद् दीपान् गन्धाद्यैः पूजयेदपि ॥ २३-३५ ॥
याममात्रावधिं कृत्वा सुलिप्ते भूतले न्यसेत् ।
यस्य वर्णस्य या वर्ती सा ज्वलन्ती सुखावहा ॥ २३-३६ ॥
निर्वापिता चेद् वर्ज्या स्याद् विमानकरणादिषु ।
ज्वलन्ति यदि सर्वास्ताः सर्ववर्णसुखावहाः ॥ २३-३७ ॥
हस्तमात्रं समं खातं तन्मृदा पूरयेत् पुनः ।
मृत्स्नयाधिकया श्रेष्ठा समया मध्यमा हि भूः ॥ २३-३८ ॥
न्यूनया त्वधमा त्याज्या त्रिधैवं परिकल्पयेत् ।
तत्खातं वा जलापूर्णं कृत्वा पदशतं व्रजेत् ॥ २३-३९ ॥
पुनरागच्छतः प्राग्वत् पूर्णं चेद् भूमिरुत्तमा ।
यवन्यूना मध्यमा स्यात् त्याज्या न्यूना ततोऽधिकम् ॥ २३-४० ॥
एवं विचार्य रहितां कथितैश्च दोषैः
शस्तैर्गुणैश्च सहितां धरणीं सुरम्याम् ।
तस्यामभिष्टफलसिद्धिकरं विदध्याद्
यागं शिवस्य भवनं च यथोक्तमार्गात् ॥ २३-४१ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे भूलक्षणपटलस्त्रयोविंशः ॥ २३ ॥