अथ द्वाविंशः पटलः ।
अथोच्यते दामनकी तु पूजा वासन्तिकी तुष्टिकरीन्दुमौलेः ।
यदाश्रमं हैमवतं तु देवो देव्या विहीनश्चिरमध्युवास ॥ २२-१ ॥
नन्दीश्वराद्यैः सहितो गणेशैरुपास्यमानश्च मुनीन्द्रवृन्दैः ।
स्वात्मानमात्मन्यवलोक्य शश्वत् सबीजयोगं प्रथयन् समाधिम् ॥ २२-२ ॥
कालेऽथ तस्मिन् किल तारकाख्यो जित्वा सुरेन्द्रं सह देववृन्दैः ।
सन्तापयामास नितान्तमुग्रः कल्पान्तसूर्यप्रतिमोऽसुरेन्द्रः ॥ २२-३ ॥
अथेन्द्रमुख्यैश्च सुरैर्मुनीन्द्रैरभ्यर्थितस्तच्छमनाय वेधाः ।
प्रोवाच देवान् गिरिशाय गौरीं यतात्मने रोचयितुं यतध्वम् ॥ २२-४ ॥
नान्योऽस्ति लोके शिवयोः प्रभावाद् दैत्येन्द्रतेजःप्रशमेऽभ्युपायः ।
एतद्धि कार्यं महदेवमुक्तैर्देवैस्तथा तत् प्रतिपन्नमासीत् ॥ २२-५ ॥
तत्रेन्द्रमुख्यैरखिलैर्मरुद्भिस्तत्कर्म सम्पादयितुं नियुक्तः ।
सख्या वसन्तेन सहैव कामः स्थाण्वाश्रमं हैमवतं जगाम ॥ २२-६ ॥
समाधिभङ्गाय कृतप्रयत्ने कामे वसन्तोऽपि सहायकृत्यम् ।
समर्थयामास वनैः प्रफुल्लैः पङ्केरुहाणां पवनैश्च मन्दैः ॥ २२-७ ॥
गौरीसमक्षं गिरिशोऽपि किञ्चिद् वितर्कयंश्चित्तविकारहेतुम् ।
स्मरस्य तस्याविनयं विदित्वा कोपं प्रवृत्तं न नियन्तुमैच्छत् ॥ २२-८ ॥
अथास्य नेत्रान्निरगात् तृतीयादग्निः प्रचण्डः स च भैरवोऽभूत् ।
त्रिलोचनः शूलकपालपाणिर्भस्मावशेषं स चकार कामम् ॥ २२-९ ॥
तद् भैरवं कर्म च भैरवस्य भीमाट्टहासं रवतो विलोक्य ।
भीता विषेदुः सहसैव सर्वे दान्ताः सदेवासुरसिद्धयक्षाः ॥ २२-१० ॥
तं भैरवं देववरोऽपि रुद्रः प्रेक्ष्य प्रसन्नोऽभ्यवदत् त्वयाद्य ।
दान्तास्त्रिलोका दहतैव कामं यस्मात् त्वमस्माद् दमनोऽसि नाम्ना ॥ २२-११ ॥
अथात्र गौरीपरिचर्ययागताः स्मरस्य पत्न्या सह देवयोषितः ।
रतिः स्वपत्युर्विलयं विजज्ञुषी पपात कृत्ता कदलीव विह्वला ॥ २२-१२ ॥
तथागतां तत्र रतिं च मन्मथं क्षणादनङ्गं समवेक्ष्य पार्वती ।
शशाप कोपान्मनसैव भैरवं चिराय वीरुद् भव भूमिगोचरः ॥ २२-१३ ॥
तथा स शप्तोऽम्बिकया तथाभवत् क्षणेन वीरुद्दमनाह्वयस्तदा ।
स्मराङ्गभस्मन्यभिरामसौरभः सुकोमलाङ्गै रतिबाष्पसेकजः ॥ २२-१४ ॥
शिवस्तदामोदमतीव मोदनं विभाव्य देव्या विहितानुमोदनम् ।
स्मयन् स तस्याः शमयन् रुषं ददौ वरं वरेण्यो दमनाय वीरुधे ॥ २२-१५ ॥
वसन्तकाले सवसन्तमन्मथं यजन्ति येऽद्यप्रभृतीह मां जनाः ।
त्वदङ्गभूतैर्दमनच्छदादिभिर्भजन्तु कामानभिवाञ्छितांश्च ते ॥ २२-१६ ॥
त्वयार्चितेनाङ्ग सहोमया मया वरं द्वितीयं तव दीयते पुनः ।
तथा हरिर्ब्रह्ममुखाश्च देवतास्त्वयार्चिताः सन्त्वभिवाञ्छितप्रदाः ॥ २२-१७ ॥
न कुर्वते येऽपि च पर्व दामनं नरा वसन्ते मम शासनातिगाः ।
तदर्चनापुण्यफलं वसन्तजं गृहाण सर्वं मदनुग्रहार्पितम् ॥ २२-१८ ॥
इत्थं वृषाङ्को दमनाय दत्त्वा वरं ततोऽस्मिन् विदधे विधानम् ।
स्वच्छन्दतन्त्रे तदपि प्रसिद्धं ततस्तु शैवैरपरैश्च दृष्टम् ॥ २२-१९ ॥
अत्र सोमशम्भुः–
स्वच्छन्दभैरवे तन्त्रे यद्यपीत्थमुदाहृतम् ।
तथापीह समासत्वात् सिधान्तेऽप्युपदिश्यते ॥
इति । तद्यथा–
अष्टम्यां वा चतुर्दश्यां मधुमाधवमासयोः ।
शम्भोर्दामनकं पूर्वपक्षयोर्भुक्तिमुक्तिदम् ॥ २२-२० ॥
तत्पूर्वमेव सप्ताहात् पञ्चाहाद् वाङ्कुरार्पणम् ।
कुर्याच्चोदितसम्भारान् मण्डपादींश्च सम्भृतान् ॥ २२-२१ ॥
सप्तम्यां वा त्रयोदश्यां कृतनित्यार्चनाविधिः ।
भूषयेद् यागगेहं तं वितानस्रक्फलादिभिः ॥ २२-२२ ॥
ततो दमनकाराममशोकतरुमण्डितम् ।
गत्वाशोकतरोर्मूलं रमणीयमलङ्कृतम् ॥ २२-२३ ॥
तदभावेऽर्चनागारे कृतकारामकेऽपि वा ।
कुर्याद् वासन्तिकीं पूजां मन्त्रैरेभिरनुक्रमात् ॥ २२-२४ ॥
नैर्-ऋत्यां गणपतिमैशान्यां गुरुं चावाह्याभ्यर्च्य तदनु ॐ
अशोकाय नमस्तुभ्यं कामस्त्रीशोकनाशन! ।
शोकार्तिं हर मे नित्यमानन्दं जनयस्वमे ॥ २२-२५ ॥
इत्यनेनाशोकतरुं गन्धादिभिः दीपान्तं सम्पूज्य
त्रुट्यादियुगपर्यन्तः कालरूपोऽव्ययो विभुः ।
कलते चैव योऽनादिस्तस्मै कालात्मने नमः ॥ २२-२६ ॥
इति कालात्मानमशोकमूले समावाह्याभ्यर्च्य तत्रैव दक्षिणोत्तरकृतमण्डलयोर्धान्योपरिसूत्रितौ धूपितौ कुम्भौ गन्धजलादिपूर्णौ सहिरण्यकूर्चकुसुमौ फलवसनमाल्याक्षतालङ्-कृतौ संस्थाप्य तयोर्दक्षिणे कुम्भे वसन्तम् उत्तरे कामं चाधारशक्त्यनन्तासनधर्मादिपीठरजस्तमस्सत्त्वमयपद्मविष्टरे तत्तन्नामभिरभ्यर्च्य ॐ वसन्ताय नमः इति तन्मूलमन्त्रः । ॐ वां हृदयाय नमः इत्यादिभिः दीर्घस्वरैः पञ्चाङ्गानि जातियुक्तानि परिकल्प्य अस्त्रशुद्धकरयोर्ज्येष्ठादिकनिष्ठान्तं हृदयाद्यङ्गानि विन्यस्य, शिरोवक्त्रहृद्गुह्यपादेषु हृदयादिस्वस्थानेषु चाङ्गानि विन्यस्य मूलेन कुम्भे पूजितासने पुष्पाञ्जिलिना पद्मद्वयवरदाभयकरं हेमवर्णं रक्तवसनगन्धमाल्यहेमकिरीटकुण्डलहाराङ्गदादिभिः समलङ्कृतं युवानं वसन्तं ध्यात्वा स्वहृदयादावाह्य स्थापनसान्निध्यादिकं विधाय तस्य दक्षिणतः पद्मावतीं वामतः कुसुमावतीं च रक्तशुक्लवर्णे समलङ्कृते देव्यौ चावाह्यार्घ्यादिभिर्गन्धादिभिश्च निवेद्यान्तं मूलमन्त्रेणाभ्यर्च्य
ॐ
वसन्ताय नमस्तुभ्यं वृक्षगुल्मलताप्रिय! ।
सहस्रमुखसंवाह! कामबन्धो! नमोऽस्तु ते ॥ २२-२७ ॥
इत्यनेन पुष्पाञ्जलित्रयेण देवीभ्यां सहितं वसन्तमभिपूज्य तत्पद्मदलाग्रेषु तच्छक्तीर्वनदेवताः पूजयेत् ।
आह्लादिनीं गन्धवतीं सुरभीं चैव मालिनीम् ।
मदिरां मदयन्तीं च रमां पुष्पवतीं तथा ॥ २२-२८ ॥
वासन्तीं चापि नवमीं स्वनाम्नाभ्यर्चयेत् क्रमात् ।
सर्वाः सुवेषाभरणा ललिताङ्ग्यः स्मिताननाः ॥ २२-२९ ॥
तदनु आरामस्थं दमनकमर्चयेत् । तत्र भैरवं शूलकपालहस्तं रक्तवर्णं रक्तगन्धमाल्याम्बरालङ्कृतं सद्यःकृत्तसद्भटमुण्डमालाधरं शिञ्जन्नूपुरकिङ्किणीकमाक्रान्तकान्तपादुकं खड्गशूलडमरुकपाशहस्तं विरूढप्रभूतदमनकाङ्कितशिरसं ध्यात्वानेनार्घ्यादिभिर्गन्धादीभिश्चार्चयेत् ।
ॐ
कामभस्मसमुद्भूत ! रतिबाप्पजलाप्लुत! ।
ऋषिगन्धर्वदेवादिविमोहन! नमोऽस्तु ते ॥ २२-३० ॥
ॐ दं दमनकाय नमः इति दमनकमभ्यर्च्य ततः कामकुस्भे शक्त्यादिसत्त्वान्तं पद्मासनमभ्यर्च्य ॐ क्लीं कामाय नमः इति मूलमन्त्रः । ॐ क्लां हृदयाय नमः इत्यादिभिर्दीर्घस्वरैः जातियुक्तान्यङ्गानि प्राग्वत् करशाखासु देहे च स्वेषु स्थानेषु चाङ्गानि विन्यस्य पुष्पाञ्जलिना कामासनाय नमः इति कामासनमभ्यर्च्य दलाग्रस्थास्तच्छक्तीः पूजयेत् ।
सौभाग्यां ह्लादिनीं हर्षां धृतिं प्रीतिं तथोन्मदाम् ।
सङ्गमां चैव निर्वाणां नवमीं मध्यगां रतिम् ॥ २२-३१ ॥
ॐ क्लीं मन्मथाय विद्महे कामदेवाय धीमहि तन्नो गन्धर्वः प्रचोदयात्! इत्यनङ्गगायत्री । अथ पुष्पाञ्जलावनङ्गं ध्यात्वावाहयेत् ।
रक्तं रक्ताम्बरधरं युवानं मृष्टकुण्डलम् ।
हारकेयूरकटकमौलिकुण्डलनू पुरैः ॥ २२-३२ ॥
अन्यैश्च दिव्याभरणैर्माल्यैर्गन्धैश्च भूषितम् ।
पुष्पचापशरांश्चाथ दधतं पाशमङ्कुशम् ॥ २२-३३ ॥
वामाङ्कारोपितरतिं युवतीगणमध्यगम् ।
रूपलावण्यसौन्दर्यसौकुमार्यविभूषितम् ॥ २२-३४ ॥
एवं ध्यात्वार्चयेत् काममर्घ्यगन्धादिभिः क्रमात् ।
मूलेन चैव गायत्र्या निवेद्यान्तं यथाविधि ॥ २२-३५ ॥
तदनु ॐ
नमोऽस्तु पुष्पबाणाय जगदाह्लादकारिणे ।
मन्मथाय जगन्नेत्रे रतिप्रीतिप्रदाय ते ॥ २२-३६ ॥
अनेन पुष्पाञ्जलिभिरिष्ट्वा तं प्रार्थयेत् पुनः ।
वसन्तकामाशोकानां बाह्ये लोकाधिपान् यजेत् ॥ २२-३७ ॥
तदस्त्राणि च तद्दिक्षु पूजेयं सर्वकामदा ।
ततो दमनमादाय वसन्ताशोकमन्मथान् ॥ २२-३८ ॥
प्रोक्तैरावरणैरिष्ट्वा मन्त्रयेद् दमनं ततः ।
ॐ
हरप्रसादसम्भूत! त्वमात्रवाहितो मया ॥ २२-३९ ॥
नैतव्यं कुरु सान्निध्यं शिवार्चायां शिवाज्ञया ।
एवं दमनकमामन्त्र्य
ॐ
वसन्तकौसुमीसम्पत्सम्पादितजगत्प्रिय! ॥ २२-४० ॥
त्वया स्मरसहायेन सेव्यो देवः सहोमया ।
ॐ वं क्लीं वसन्तकामाभ्यां नमः इति सहितौ तावामन्त्र्यानुज्ञाप्य तत्र रक्षां विधाय स्वभवनं गत्वा भुञ्जीत ।
इति वसन्तपूजाधिकारः ।
अथ प्रातः समुत्थाय कृत्वा नित्यक्रियां ततः ॥ २२-४१ ॥
सायाह्ने यागवस्तूनि समाहृत्योचितानि तु ।
गत्वा दमनकारामं गृह्णीयाद् दमनं बहु ॥ २२-४२ ॥
समूलं किञ्चिदुद्धृत्य पात्रेष्वाधाय चाखिलम् ।
वसन्तस्मरकुम्भौ चाप्यविसर्जितदैवतौ ॥ २२-४३ ॥
उत्थाप्यारोपयेच्चैव गजयानादिकेऽखिलम् ।
सनृत्तगीतवादित्रमङ्गलच्छत्रचामरम् ॥ २२-४४ ॥
अलङ्कृत्य पथा यायात् पुरग्रामालयादिकम् ।
वाचयित्वा द्विजैः स्वस्ति मण्डपान्तः प्रवेश्य तु ॥ २२-४५ ॥
देवस्योभयतः कुम्भौ संस्थाप्याभ्यर्च्य पूर्ववत् ।
स्नात्वाथ तर्पणं प्राग्वत् समाप्याभ्यर्च्य भास्करम् ॥ २२-४६ ॥
शान्तिं विद्यां निवृत्तिं च प्रतिष्ठां द्वारवद् यजेत् ।
नित्योक्ताः पश्चिमद्वारे सम्पूज्य द्वारदेवताः ॥ २२-४७ ॥
पार्ष्णिघातादिपुष्पास्त्रक्षेपैरन्तः प्रविश्य तु ।
अस्त्रं विन्यस्य देहल्यामिष्ट्वा वास्त्वीशवेधसौ ॥ २२-४८ ॥
विन्यस्य दिक्षु लोकेशानिष्ट्वा विघ्नं गुरुं तथा ।
विकिरक्षेपपूर्वं तु कृत्वा कुम्भास्त्रपूजनम् ॥ २२-४९ ॥
तत्परिभ्रमणादूर्ध्वं ताविष्ट्वा ज्ञानखड्गधृक् ।
कुण्डे च मण्डले लिङ्गे शिवमिष्ट्वा विशेषतः ॥ २२-५० ॥
प्राग्वच्च नाडीसन्धानं कुर्याच्चाथाधिवासनम् ।
तद्यथा –
दमनमूलं मृदा सहितं पश्चिमे सद्येन तन्नालं गन्धामलकं चोत्तरे वामेन तत्पत्रं भस्म च दक्षिणेऽघोरेण तत्पुष्पं दन्तधावनं च प्राच्यां पुरुषेण तत्फलं गन्धपिष्टं चैशान्याम् ईशानेनान्यदपि सर्वं यागद्रव्यं यथावकाशं विन्यस्य दमनपञ्चाङ्गैरञ्जलिमापूर्य भगवन्तं प्रार्थ्यानेन तारमूलशिवायनमोन्तेनारोपयेत् ।
ॐ
आमन्त्रितोऽसि देवेश! प्रातःकाले मया विभो! ॥ २२-५१ ॥
कर्तव्यं दामनं (पू ? प)र्व पूर्णं शक्त्या तवाज्ञया ।
अथारात्रिकमुत्तार्य नैवेद्यान्तं यजेत् ततः ॥ २२-५२ ॥
पवित्रकविधानेन हुत्वा सम्पातयेद् घृतम् ।
दमनापूरिते पात्रे सम्पूज्यास्त्राभिरक्षिते ॥ २२-५३ ॥
वर्मावकुण्ठितं कृत्वा कुम्भेशाग्रे निवेश्य तु ।
भक्ष्यं च विनिवेद्यास्मै हुत्वाघोरशताहुतीः ॥ २२-५४ ॥
बलिं विकीर्य बाह्ये चाप्यविसर्जितदैवतः ।
भुञ्जीताथ हविर्भुक्त्यै मुक्त्यै चोपवसेदपि ॥ २२-५५ ॥
ध्यायन् जपन् वा सङ्गीतैः कुर्याज्जागरणं निशि ।
ततः प्रत्युषसि स्नात्वा सूर्यद्वारार्चनादनु ॥ २२-५६ ॥
शम्भुं विसृज्य सापेक्षं पञ्चशुद्धिपुरःसरम् ।
कुम्भाग्निलिङ्गाबिम्बेषु नित्यवत् पूजयेच्छिवम् ॥ २२-५७ ॥
अपनीय तु निर्माल्यमविसर्जितदैवतः ।
विभवानुगुणं शम्भोः कृत्वा वैशेषिकार्चनम् ॥ २२-५८ ॥
सूर्ये दमनमारोप्य स्वमूलेनेश्वरान्तकम् ।
द्वारेशब्रह्मवास्त्वीशकुम्भास्त्रगणनायकान् ॥ २२-५९ ॥
गुरूंश्च दमनेनेष्ट्वा स्वमूलैरीश्वरान्तकैः ।
आरात्रिकं तथोत्तार्थ देवाग्रे मण्डले स्वयम् ॥ २२-६० ॥
सकलीकृत्य दमनं स्वशिरस्यधिरोपयेत् ।
निर्गत्य बहिराचम्य प्रविश्याथोपविश्य तु ॥ २२-६१ ॥
आसनादिक्रमाच्छम्भुं यजेद् दमनकाङ्कुरैः ।
तत्पञ्चाङ्गैस्तु सद्यादिक्रमेणारोपयेच्छिवे ॥ २२-६२ ॥
पञ्चाङ्गैः पिण्डितैः पश्चात् पञ्चब्रह्मभिरर्चयेत् ।
पुनर्दमनपञ्चाङ्गैर्गन्धदूर्वाक्षतान्वितम् ॥ २२-६३ ॥
अञ्जलिं सम्यगापूर्य ध्यायेद् देवं सदाशिवम् ।
शिवविद्यात्मतत्त्वैस्तु पवित्रकविधानवत् ॥ २२-६४ ॥
क्रमादारोपयेच्छम्भोर्दमनस्याञ्जलित्रयम् ।
पुनश्चतुर्थं चापूर्य साक्षतं दमनाञ्जलिम् ॥ २२-६५ ॥
ॐ मखेश्वराय मखं पूरय पूरय शूलपाणये नमः ।
अस्यान्ते प्रणवमूलाभ्यां सर्वतत्त्वाधिपतये शिवाय नमः इत्यारोपयेत् । अथारात्रिकमुत्तार्य महानिवेद्यं दत्त्वाग्नौ हविर्हुत्वा दमनकेन परिधिविष्टरगतानाराध्याग्नावपि शिववत् स्रुचा दमनकमारोप्य विद्यापीठे च स्वमन्त्रेण तदनु स्वगुरौ सति वसनविभूषणादिभिर्दमनकेन च तमाराध्य दीक्षितलिङ्गिद्विजबन्धुजनानां दमनकं दत्त्वा यथायोग्यं भोजयित्वा दक्षिणाभिर्दानेन च सर्वमर्थिजनं परितोष्यानेन दमनकाञ्जलिर्देवं प्रार्थयेत् ।
ॐ
देवदेव! जगन्नाथ! वाञ्छितार्थप्रदेश्वर! ।
हृदिस्थान् पूरयेः कामान् मम कामेश्वरीप्रिय! ॥ २२-६६ ॥
प्रणवमूलयुतं सौम्याय शिवाय नमः इति काम्याञ्जलिं शिवपादयोः पादाम्बुजेष्वारोप्य (?) दामनकपूजाफलं च निवेद्य पुनरेवं प्रार्थयेत् ।
भगवन्नतिरिक्तं वा हीनं वा यन्मया कृतम् ।
सर्वं तदस्तु सम्पूर्णं दामनं पर्व ते विभो! ॥ २२-६७ ॥
इति विज्ञाप्य देवेशमग्निस्थं मण्डले शिवे ।
संयोज्य तं च लिङ्गस्थे कुम्भस्थं च सदाशिवम् ॥ २२-६८ ॥
आयोज्य वह्निहृत्पद्मे नत्वा स्तुत्वा महेश्वरम् ।
प्रणिपत्य क्षमस्वेति यथापूर्वं विसर्जयेत् ॥ २२-६९ ॥
अस्त्रादिद्वारलोकेशान् स्वेषु स्थानेषु योजयेत् ।
एतद् दामनकं पर्व कृत्वा चण्डं च पूजयेत् ॥ २२-७० ॥
गोमयाम्बुविलिप्तायां क्षितौ नित्यं यजेच्छिवम् ।
इत्थं वसन्तविहितं सवसन्तयागं
प्रोक्तं तदन्तमिह दामनकं हि पर्व ।
यद्वद् वसन्ततिलकं सुमनोभिरामं
तद्वन्मनोभिलषितान् फलतीह कामान् ॥ २२-७१ ॥
इति श्रीमदीशानशिवग्रुदेवपद्धतौ सिधान्तसारे उपरिभागे क्रियापादे दमनकपर्वविधिपटलो द्वाविंशः ॥ २२ ॥