अथ एकविंशः पटलः ।
सर्वपूजाविधिच्छिद्रच्युतस्खलितपूर्तिदम् ।
पवित्रारोपणं कुर्यात् प्रतिसंवत्सरं बुधः ॥ २१-१ ॥
उपेक्षयाथवाज्ञानाद् यो न कुर्यात् पवित्रकम् ।
स सिद्धभ्रंशमाप्नोति विघ्नैश्च परिभूयते ॥ २१-२ ॥
विघ्नापहारपूर्णादि फलमस्येति देशिकैः ।
साधकैः पुत्रकैश्चान्यैः कर्तव्यं हि पवित्रकम् ॥ २१-३ ॥
पूजाजपाग्निकार्यादेश्च्युतस्खलितदोषतः ।
यत् कृतं पावयत्येनं तस्मादुक्तं पवित्रकम् ॥ २१-४ ॥
अपि मोहात् प्रमादाद् वा पवित्रं न करोति यः ।
स त्रिलक्षं जपेत् कृष्णं दशांशं जुहुयाद् घृतम् ॥ २१-५ ॥
अत्र मोहशूरोत्तरे –
पवित्रेण विना पूजा तामसी परिकीर्तिता ।
राजसी च भवेदिन्द्रपरमीकरणं विना ॥
पत्रिकाभिः प्रसूनैर्वा कुशैर्वा परिकल्पयेत् ।
पवित्रं प्रत्यहं शम्भोर्महापुण्यजिगीषया ॥
इति नित्यपवित्रं स्यात् नैमित्तिकमथोच्यते ।
आषाढस्य सिते पक्षे श्रावणस्य सितेऽसिते ॥
सप्तम्यां वा त्रयोदश्यां कुर्याद् गन्धपवित्रकम् ।
पवित्रमथ भूतायामाषाढे नियतं स्मृतम् ॥
दीक्षादिस्थापनं चैव पवित्रादि शतक्रतोः ।
अधिमासे न कुर्वीत यदीच्छेच्छुभमात्मनः ॥
पर्वत्रयं भवेद् यत्र रविसङ्क्रान्तिवर्जितम् ।
अधिमासः स विज्ञेयः सर्वकर्मबहिष्कृतः ॥
इति ।
सिनीवालीद्वयं यत्र रविसङ्क्रान्तिमध्यतः ।
अधिमासस्तु स ज्ञेयः सर्वकर्मबहिष्कृतः ॥ २१-६ ॥
अथ पौष्करेऽपि –
आषाढादित्रिमासेषु श्रेष्ठमध्याधमं क्रमात् ।
पवित्रफलमुद्दिष्टं नान्यदा काल इष्यते ॥
इति ।
वसन्तेषु यजेतेति यथासौ वैदिको विधिः ।
व्यावृत्तिमन्यकालस्य दर्शयत्येव नान्यदा ॥ २१-७ ॥
एतस्मादाषाढश्रावणभाद्रपदानां सितासितपक्षेष्वष्टम्यां चतुर्दश्यां वा शम्भोः पवित्रं करणीयम् । तदपि मुमुक्षुभिः कृष्णपक्षे बुभुक्षुभिः शुक्लपक्षे विधेयम् । अन्येषामपि देवानां स्वास्वेव तिथिषु पवित्रकं विधेयम् ।
सौवर्णं राजतं ताम्रं सूत्रमुक्तं कृतादिषु ।
युगेष्वत्र कलौ शस्तं सूत्रं कार्पासजं नवम् ॥ २१-८ ॥
नातिस्थूलं नातिसूक्ष्मं विकेशं हिमपाण्डरम् ।
कर्तितं द्विजकन्याभिर्मुख्यं सूत्रं पवित्रके ॥ २१-९ ॥
मध्यं क्षत्त्रियवैश्याभिः शूद्राभिरधमं स्मृतम् ।
अधमाङ्कितसूत्रं च ग्राह्यं शक्त्यनुकूलतः ॥ २१-१० ॥
दर्भमुञ्जादिभिर्वापि सूत्राभावे पवित्रकम् ।
विदधीत पवित्रं तत् सर्वथा न विलोपयेत् ॥ २१-११ ॥
सूत्रितं गन्धसूत्रे स्यादन्यत्र नवतन्तुकम् ।
सम्पाद्य तद्दिनात् पूर्वं सप्तमे पञ्चमेऽह्नि वा ॥ २१-१२ ॥
कृत्वाङ्कुरार्पणं सम्यक् तत्सम्भारान् समाहरेत् ।
चतुरश्रं चतुर्द्वारं मण्डपं कारयेच्छुभम् ॥ २१-१३ ॥
बृहतीमुनिहस्तं वा पञ्चहस्तमथाधमम् ।
चतुस्तोरणसंयुक्तमर्धहस्तोच्छ्रितं स्थलम् ॥ २१-१४ ॥
दुकूलपट्टदेवाङ्गैरथवा वसनैः सितैः ।
सवितानं तु तत् कृत्वा मुक्तादामोपशोभितम् ॥ २१-१५ ॥
नानाविधैः फलैः पुष्पैः मालाभिश्चावलम्बितम् ।
विलिप्तं गोमयाम्भोभिर्दर्पणोदरकुट्टिमम् ॥ २१-१६ ॥
अग्न्यगारं च तत्प्राच्यामैन्द्रकुण्डं मनोहरम् ।
दर्भमालावृतं कुर्यात् स्रुक्स्रुवौ चोक्तलक्षणौ ॥ २१-१७ ॥
कलशान् करकं कुम्भान् वर्धनी(भ?भा)ण्डगड्डुकान् ।
विकेशनववासांसि होमपात्रादिकं च यत् ॥ २१-१८ ॥
चन्दनागरुकर्पूरगुग्गुलूंश्च घृतं मधु ।
शर्करालाजसिद्धार्थतिलशालीयवादिकम् ॥ २१-१९ ॥
शालिजांस्तण्डुलान् शुक्लान् समित्कुशफलानि च ।
दीपधूपनिवेद्यादावन्यदप्युपयोगि यत् ॥ २१-२० ॥
सम्पाद्य तत्कर्मकरं जनं तत्र नियोजयेत् ।
ततः सूत्रमुपादाय गत्वा भूरि जलं शुचिः ॥ २१-२१ ॥
क्षाराम्बुशोधितं सम्यक् क्षालितं शुचिभिर्द्विजैः ।
गीतवाद्यादिसंयुक्तं पीठे संस्थाप्य पूजयेत् ॥ २१-२२ ॥
सामान्यार्घ्येण गन्धाद्यैरभ्यर्च्य च गणेश्वरम् ।
सद्येन क्षालयेत् सूत्रमघोरेण विशोषयेत् ॥ २१-२३ ॥
अभ्यर्च्य हेमपात्रादौ वैणवे वा निधाय तत् ।
आरोप्य गजयानादौ छत्रचामरशोभिते ॥ २१-२४ ॥
शङ्खतूर्यादिनिर्घोषैः सङ्गीतध्वनिमङ्गलैः ।
अलङ्कृतनरस्त्रीकमुच्छ्रितध्वजशोभितम् ॥ २१-२५ ॥
ग्रामं वा नगरं वान्यच्छनैः कृत्वा प्रदक्षिणम् ।
गत्वा यागालयद्वारं ब्राह्मणैः स्वस्ति वाचयेत् ॥ २१-२६ ॥
संस्थाप्य पीठे सूत्रं तु पुण्याहं वाचयेत् ततः ।
सूत्रे तु नवतन्तूनां देवताश्च विभावयेत् ॥ २१-२७ ॥
प्रणवश्चन्द्रमा वह्निर्ब्रह्मा नागा गुहो रविः ।
सादेशः सर्वदेवाश्च तन्तूनां नव देवताः ॥ २१-२८ ॥
पृथिव्याद्या मूर्तयोऽष्टौ शिवश्चाप्यधिदेवताः ।
वामाद्याः शक्तयस्त्वेषां ताः शक्तीर्नव संस्मरेत् ॥ २१-२९ ॥
एतेषां नामभिस्तन्तून् नमोन्तैरभिपूजयेत् ।
कालात्मानं ततः सूत्रे नवभेदं च तन्तुषु ॥ २१-३० ॥
तुटिं लवं निमेषं च काष्ठां चैव कलामपि ।
घटिकां च मुहूर्तं च दिवसं च निशां यजेत् ॥ २१-३१ ॥
नक्षत्रतिथिवारांश्च पक्षौ मासानृतूनपि ।
संवत्सरं च क्रमशस्तन्तुसंस्थान् प्रपूजयेत् ॥ २१-३२ ॥
तारहृदयादिभिः स्वनामभिर्नमोन्तैः पूजयेत् प्रार्थयेच्च ।
तुट्यादिरब्दपर्यन्तः कालात्मा विश्वगो विभुः ।
अनाद्यन्तश्च योः नित्यस्तस्मै कालात्मने नमः ॥ २१-३३ ॥
इति सूत्रे यजेद् देवं कालतत्त्वात्मकं शिवम् ।
सान्निध्यं तस्य संस्मृत्य यावदारोप्यते शिवे ॥ २१-३४ ॥
तदनु
शिवहस्तं विधायाग्रे परमीकरणान्वितम् ।
कुर्यात् पवित्रनिर्माणं वामदेवं स्मरन् जपन् ॥ २१-३५ ॥
तत्र गन्धपवित्रं स्यादेकग्रन्थ्यल्पतन्तुकम् ।
कनिष्ठसङ्ख्यमित्येके त्रिसूत्रेण विनिर्मितम् ॥ २१-३६ ॥
हस्तादिनवहस्तान्तलिङ्गानां स्यात् पवित्रकम् ।
अष्टाविंशतिमारभ्य यावदष्टोत्तरं शतम् ॥ २१-३७ ॥
दशवृद्धिक्रमात् कुर्यात् पवित्रं नवतन्तुभिः ।
अयं हि पाक्षिकः कल्पो मुख्यपक्षोऽभिधीयते ॥ २१-३८ ॥
सर्वेषां स्थिरलिङ्गानामव्यक्तानां विशेषतः ।
चलानां च यथा सूत्रैरष्टोत्तरशतैः स्मृतः ॥ २१-३९ ॥
अथैकाशीतिसङ्ख्यैर्वा पञ्चाशद्भिस्ततः परम् ।
षट्त्रिंशत्सङ्ख्यसूत्रैर्वा श्रेष्ठमध्याधमो विधिः ॥ २१-४० ॥
प्रोक्तः कनिष्ठलिङ्गेषु कनिष्ठार्चनशक्तिषु ।
तस्माच्छक्त्यनुसारेण विदधीत पवित्रकम् ॥ २१-४१ ॥
स्थिराणामिह लिङ्गानां लिङ्गमस्तकमानतः ।
शिरःपवित्रत्रितयं कुर्यात् तत्त्वत्रयात्मकम् ॥ २१-४२ ॥
चतुर्थं सार्वतत्त्वं तु कुर्याद् गङ्गावतारकम् ।
निश्शेषपिण्डिकास्पर्शालम्बितं लिङ्गमस्तकात् ॥ २१-४३ ॥
कथ्यते चललिङ्गानां स्थण्डिलानां पवित्रके ।
उत्तमाद्यर्चनाभेदाद् विस्तारो हि यथा भवेत् ॥ २१-४४ ॥
द्वादशाष्टचतुःसङ्ख्यैरङ्गुलैर्विस्तृतानि तु ।
श्रेष्ठमध्याधमानि स्युः पवित्राणि यथाक्रमम् ॥ २१-४५ ॥
द्वादशाङ्गुलान्यष्टाङ्गुलानि चतुरङ्गुलानीति भोजराजः ।
शिरःपवित्रत्रितयमुत्तमादित्रयं भवेत् ।
एकस्मिन्नेव लिङ्गे तत् प्रयोज्यं मकुटाकृति ॥ २१-४६ ॥
गङ्गावतारकं तत्र कुर्यात् तत्त्वाङ्गुलैः समम् ।
अत्र पवित्रग्रन्थिपरिमाणे सोमशम्भुः –
ग्रन्थयो दश कर्तव्या अथवा तत्त्वसङ्ख्यया ।
अन्तरं वा यथाशोभमेकद्विचतुरङ्गुलम् ।
अधिका वा यथाकामं कर्तव्या ग्रन्थयः समाः ॥
दशग्रन्थीनां नामधेयानि चाह –
प्रकृतिः पौरुषी वीरा चतुर्थी त्वपराजिता ।
पञ्चमी तु जया षष्ठी अजिता सप्तमी क्रिया ॥
शिवा मनोन्मनी चैव दशमी सर्वतोमुखा ।
इति ।
गङ्गावतारकस्यापि ग्रन्थयो द्वादशाथवा ॥ २१-४७ ॥
तत्तन्तुसङ्ख्यया वा स्युर्यथाशोभं च तद् भवेत् ।
कुर्यादव्यक्तलिङ्गानां पवित्राणां चतुष्टयम् ॥ २१-४८ ॥
तथैव मुखलिङ्गानां व्यक्तेष्वेकैकमेव वा ।
स्वमूर्तौ च गणाधीशे गुरुपङ्क्तौ च पुस्तके ॥ २१-४९ ॥
शिवकुम्भेऽस्त्रवर्धन्यां दिक्पालास्त्रवृषेष्वपि ।
द्वारेशानां तथैकैकं पवित्रं परिकल्पयेत् ॥ २१-५० ॥
कण्ठादानाभिलम्बीनि तानि व्यक्तेषु कल्पयेत् ।
गौर्याश्चैव महालक्ष्म्या दुर्गायाश्चाष्टमातृषु ॥ २१-५१ ॥
सरस्वत्याः पवित्राणि त्रीणि त्रीणि प्रकल्पयेत् ।
गङ्गावतारहीनानीति यावत् ।
विष्णुभास्करवह्निनां चण्डेशस्कन्दवेधसाम् ॥ २१-५२ ॥
शिवतुल्यं पवित्राणां पृथगुक्तं चतुष्टयम् ।
एवं कृत्वा पवित्राणि तद्ग्रन्थीनथ रञ्जयेत् ॥ २१-५३ ॥
कर्पूरकुङ्कुमनिशारोचनागरुगैरिकैः ।
यथालाभं समं पिष्ट्वा पुरुषेणाभिरञ्जयेत् ॥ २१-५४ ॥
अथ मृद्दारुवंशादिपात्रव्रातं पुरातनम् ।
परित्यज्य नवं सर्वं ग्राह्यं पुजोपयोगि यत् ॥ २१-५५ ॥
स्रुक् पुराणाप्यदुष्टैव स्रुवं कुर्यान्नवं शुभम् ।
इति पौष्करे ।
विहाय स्रुक्स्रुवौ शक्र ! त्यजेत् सर्वं पुरातनम्
इति मोहशूरोत्तरे ।
तदनु सप्तम्यां त्रयोदश्यां वा सोपवासः कृतस्नानसन्ध्याविधिः स्नानपटलोक्तमार्गेण कृतमन्त्रादिविशेषतर्पणो यागधामादिकं सर्वं त्रिवृत्सूत्रेणावेष्ट्य परिगृहीतभूप्रदेशे प्राग्भागे सूर्यं यथावदभ्यर्च्य तदनन्तरं नित्यविधिना शिवमग्निं च सम्पूज्य मण्डपस्य प्राग्दक्षिणोत्तरपश्चिमेषु ऋग्यजुःसामाथर्वविदो विशुद्धान् ब्राह्मणान् पवित्रारोपणमङ्गलाङ्गतया भवद्भिरध्ययनं कर्तव्यमिति गन्धपुष्पादिभिरभ्यर्च्याध्ययने नियोज्य प्रक्षालितपाणिपादो नैमित्तिकपूजार्थं यागमण्डपद्वाराण्यस्त्रेण सम्प्रोक्ष्य तत्र प्राच्यां शान्तिकलाद्वारं दक्षिणे विद्यां पश्चिमे निवृत्तिमुत्तरे प्रतिष्ठां च तारहृद्बीजादिकं तत्कलानाम्ना द्वाराय नमोन्तं सम्पूज्य तत्तच्छाखाश्रयौ द्वारपालौ च नन्दीशादिकौ तन्नामभिर्नमोन्तमर्चयेत् ।
नन्दीशं च महाकालं भृङ्गीशं गणनायकम् ।
वृषभं षण्मुखं देवीं चण्डं पूर्वादितो यजेत् ॥ २१-५६ ॥
ततस्तु पश्चिमे द्वारे नित्योक्तान् द्वारपान् यजेत् ।
नाराचास्त्रं प्रयुज्याथ पार्ष्णिघातत्रयेण च ॥ २१-५७ ॥
छोटिकातर्जनीभिश्च विघ्नानुत्सार्य दक्षिणाम् ।
शाखामाश्रित्य गेहान्तः प्रविश्यास्त्रं यथापुरम् ॥ २१-५८ ॥
विन्यस्य देहलीमध्ये परिक्रामन् प्रदक्षिणम् ।
वास्तुपं वेधसं चेष्ट्वा स्वासन च यथापुरम् ॥ २१-५९ ॥
अथ वेदिकायामुदङ्मुख उपविश्य कृतात्मशुद्धिः सकलीकृत्य विशेषार्घ्यमभ्यर्च्य स्वशिरश्च पूजोपकरणान्यर्घ्यजलैरस्त्रेण सम्प्रोक्ष्य वर्मणावकुण्ठ्य द्रव्याश्रयमन्त्रशुद्धिं प्राग्वद् विधाय विधृतभस्मत्रिपुण्ड्रचन्दनतिलकसितकुसुमः सोत्तरीयो गृहीतज्ञानखड्गः सुप्रतिष्ठादिपञ्चकोष्ठेषु दीक्षोक्तमार्गेण विहितपञ्चगव्यो निरीक्षणप्रोक्षणताडनाभ्युक्षणखननावकिरण-पूरणसमीकरणसेचननिकुट्टनसम्मार्जनोपलेपनवज्रीकरणानि हृदयास्त्रवर्ममूलैः क्रमेण विधाय पञ्चगव्येन सम्प्रोक्ष्यैवं मण्डपं संस्कृत्य दीक्षोक्तमार्गेण विकिरणक्षेपपूर्वं कुम्भवर्धन्यौ चलाचलासनस्थावभिपूज्य तदनु मण्डपान्तर्यथादिशं कृतमण्डलधान्योपरि त्रिसूत्रवेष्टितचूतादिपल्लवफलविधानगन्धाक्षतपुष्पकूर्चाढ्येषु सलिलपूर्णकुम्भेषु लोकपालानावाह्याभ्यर्च्य तदस्त्राणि च तेषां शिवाज्ञाः श्रावयेत् ।
भो भो शक्र! त्वया स्वस्यां दिशि विघ्नप्रशान्तये ।
स्थातव्यं सावधानेन ह्यायागान्तं शिवाज्ञया ॥ २१-६० ॥
इति संश्राव्य लोकेशान् परिभ्रम्यास्त्रकुम्भकौ ।
अस्त्रदुर्गमनुस्मृत्य स्थिरासनगतौ यजेत् ॥ २१-६१ ॥
संस्मृत्य च तयोर्योगं मुद्रया प्रागुपात्तया ।
कुम्भेशे ज्ञानखड्गं तं समर्प्य प्रार्थयेच्छिवम् ॥ २१-६२ ॥
ॐ
आयागान्तं त्वया शम्भो! स्थातव्यं शिवया सह ।
ससुतेन गणैः सार्धं योगाध्यक्षेण शङ्कर! ॥ २१-६३ ॥
इति विज्ञाप्य निवेद्यान्तमभ्यर्च्य सन्निरोध्य यथास्थानमुपवेश्य लिङ्गशुद्धिप्रभृत्यावाहनादिभिश्च पञ्चगव्यपञ्चामृतगन्धजलाभिषेकैरुपचारपटलोक्तमार्गेण संस्नाप्य वसनभूषणगन्धादिभिश्च लिङ्गस्थं शिवं निवेद्यान्तमभ्यर्च्याथ मध्ये वैशान्यामुत्तरे वा भद्रकलिङ्गोद्भवाद्यन्यतमे मण्डले च शिवमासनावाहनादिभिः स्नपनवर्जं निवेद्यान्तमभिपूज्याग्निकार्यपटलोक्तमार्गेण प्राच्यां कुण्डेऽग्निमाधाय शिवमावाह्याभ्यर्च्य यथावत् सन्तर्प्य मण्डलस्थशिवशिखानिर्गतज्योतिषा वह्निस्थशिवनासाग्निनिर्गतज्योतिः स्वनाडीमार्गेणाविच्छिन्नं विद्युल्लतासंस्थानं सञ्चिन्त्य सन्धायाग्नेर्हृदये शिवमभिपूज्याथ चरुं श्रपयेत् ।
तद् यथा–
कुण्डात् पश्चिमतश्चुल्लिं दक्षिणे वोपलिप्य तु ।
अस्त्रेणोल्लिख्य चावोक्ष्य कवचेनावकुण्ठयेत् ॥ २१-६४ ॥
मार्जयित्वोपलिप्याथ चुल्लिं शक्तिं विभावयेत् ।
धर्माधर्मभुजामेवं कल्पिताशेषविग्रहाम् ॥ २१-६५ ॥
अभ्यर्च्य गन्धधूपाद्यैस्ततोऽग्निं पूर्वमुद्धृतम् ।
संस्कृतं पञ्चसंस्कारैस्तस्यां चुल्ल्यां नियोजयेत् ॥ २१-६६ ॥
शिवमग्निं च तां शक्तिमुभावभ्यर्चयेत् पुनः ।
औदुम्बरीं मृन्मयीं वा चरुस्थालीं तु निर्व्रणाम् ॥ २१-६७ ॥
धौतामस्त्रेण कवचेनावकुण्ठ्य निरीक्षिताम् ।
सम्प्रोक्ष्याभ्युक्ष्य सन्ताड्य गन्धेनालिप्य धूपयेत् ॥ २१-६८ ॥
कुशदाम्ना तु तत्कण्ठे वर्मणावेष्ट्य मण्डले ।
प्रोक्षितेऽस्त्रेण कवचेनावृतेऽस्त्राभिमन्त्रिते ॥ २१-६९ ॥
स्थापयेत् तामधोवक्त्रां षडुत्थे दर्भविष्टरे ।
तस्यां साङ्गं शिवं चेष्ट्वा प्रोत्तानामाज्यरूषिताम् ॥ २१-७० ॥
सद्योदुग्धेन गव्येन शुद्धक्षीरेण पूरयेत् ।
स्थालीमारोप्य तच्चुल्ल्यां धवलाञ्शालितण्डुलान् ॥ २१-७१ ॥
पञ्चप्रसरमात्रांस्तु धौतान् क्षीरे विनिक्षिपेत् ।
आग्नेय्यामुपविश्याथ चालनोद्घाटनं क्रमात् ॥ २१-७२ ॥
दर्व्यास्त्रेण सकृत् कुर्याद्ध्रस्वप्रासादमुच्चरन् ।
तं चरुं श्रपयित्वाथ मन्त्रसंहितया चरौ ॥ २१-७३ ॥
सुसंस्विन्नो भवेत्युक्त्वा घृतेनैवाभिधारयेत् ।
तप्ताभिघारं कृत्वैवं मण्डले दर्भविष्टरे ॥ २१-७४ ॥
अवतार्य द्वितीये तं चरुं संहितया पुनः ।
शीतो भवेति आज्येन कृत्वा शीताभिघारणम् ॥ २१-७५ ॥
मृदम्भोभिर्बहिः स्थालीं सम्मृज्यास्त्रेण रक्षया ।
त्रिपुण्ड्राङ्कां विधायैनाममृतीकृत्य मुद्रया ॥ २१-७६ ॥
कुण्डस्य पश्चिमे किञ्चिन्मण्डले पूर्ववन्न्यसेत् ।
हृदाभ्यर्च्य घृतं हुत्वा शिवाङ्गैस्तु सकृत् सकृत् ॥ २१-७७ ॥
सम्पातयेच्चरौ तस्मिन् मूलेनाष्टोत्तरं शतम् ।
हुत्वा सम्पात्य तं पश्चात् त्रिभागं विभजेच्चरुम् ॥ २१-७८ ॥
शिवाग्न्योर्मधुसर्पिर्भ्यामात्मभागं घृतेन तु ।
आयोज्य शिवभागं तु हृदा सम्पूज्य विन्यसेत् ॥ २१-७९ ॥
तदनु देवसमीपं गत्वाष्टपुष्पिकां दत्त्वा दन्तकाष्ठताम्बूले प्राच्यां पुरुषेण भस्माक्षमालादण्डकौपीनभिक्षापात्राणि दक्षिणेऽघोरेण मृत्कुशाम्बुहोमद्रव्याणि पश्चिमे सद्येन धात्रीफलरोचनाकुङ्कुमशलाकाकङ्कतकज्जलान्युत्तरे वामेन पञ्चगव्यपादुकाछत्रयोगपट्टासनान्यैशान्यामीशानेन विन्यस्यार्चयेत् ।
एतेषां यदसम्पन्नं मनसा तत् प्रकल्पयेत् ।
देवांशं तु चरुं शस्त्रप्रोक्षितं वर्मरक्षितम् ॥ २१-८० ॥
हृदाभ्यर्च्यामृतीकृत्य ब्रह्मभिस्तं निवेदयेत् ।
ततः पवित्राण्यादाय हेमवेत्रादिपात्रके ॥ २१-८१ ॥
कृष्णाजिनदुकूलादिच्छादिते विन्यसेद्धृदा ।
प्रोक्ष्यास्त्रात् संहितामन्त्रैरालभ्याभ्यर्च्य संस्मरेत् ॥ २१-८२ ॥
संवत्सरात्मकं शम्भुं सर्वकृत्यैकसाक्षिणम् ।
गोप्तारमव्ययं विश्वभोगमोक्षफलप्रदम् ॥ २१-८३ ॥
कृताकृतसमुत्सृष्टकृष्टकर्माभिपूरकम् ।
विभावयेत् पवित्रेषु ततः प्रकृतिसङ्ख्यया ॥ २१-८४ ॥
हुत्वाग्नौ तत्र मूलेन तेषु सम्पातयेद् घृतम् ।
सम्पातशोधितान्येवमिष्ट्वा संहितया ततः ॥ २१-८५ ॥
प्राक् पूजिताय सूर्याय दद्याद् गन्धपवित्रकम् ।
सुधूपितं सपुष्पं तन्मूलकुम्भामृतीकृतम् ॥ २१-८६ ॥
रेचान्तमूलमन्त्रेण तारं सर्वात्मनेन्तकम् ।
उत्तार्यारात्रिकं पश्चादाचान्तः सकलीतनुः ॥ २१-८७ ॥
त्रिसूत्र्या वेष्टयेत् सर्वं प्रासादं मण्डपं तथा ।
पूजोपकरणव्रात्ं सर्वं तारेण वेष्टयेत् ॥ २१-८८ ॥
नन्द्यादिद्वारपालेभ्यो वास्तुपब्रह्मणोरपि ।
लोकेशेभ्यस्तदस्त्रेभ्यो दत्त्वा गन्धपवित्रकम् ॥ २१-८९ ॥
तदनु कुण्डसमीपात् पवित्राणि पात्रस्थान्यादाय शिवकुम्भाग्रे संस्थाप्य रक्षार्थं कुम्भस्थाय शिवायानेन समर्पयेत् ।
ॐ
भगवन्! संस्कृतान्यत्र पवित्राणि यथाविधि ।
समर्पयामि तानीह तुभ्यं रक्षस्व शङ्कर ! ॥ २१-९० ॥
इति समर्पयेत् ।
तदनु तस्माद् गन्धपवित्राणि गृहीत्वा शिवकुम्भास्त्रवर्धनी-गणपतिगुरुपङ्क्तिषु तत्तन्मन्त्रैः सर्वतत्त्वात्मने नमोन्तैरारोप्य पृथगारात्रिकमुत्तार्य कृतमण्डलके देवाभिमुखः स्वयमुपविश्य स्वात्मन्यनेन पवित्रमारोपयेत् ।
ॐ
सांवत्सरस्य यागस्य परिपूर्तिकरे व्रते ।
पवित्रके पवित्रात्मा पवित्रं धारयाम्यहम् ॥ २१-९१ ॥
इत्युक्त्वा तारमूलशिवाय नमोन्तमात्मन्यारोप्याचम्य देवाभिमुख उपविश्य तदर्थं निर्मितं गन्धपवित्रकं गन्धपङ्कानुरञ्जितं सुधूपितं सदूर्वाक्षतमञ्जलिनादाय मन्त्रसंहितयामृतीकृत्यानेनाभिमन्त्र्यारोपयेत् ।
ॐ समस्तविधिच्छिद्रपूरणेशमघं प्रति ।
प्रभोऽद्यामन्त्रयामि त्वां (त्व?म)दिच्छावाप्तिकारक! ॥ २१-९२ ॥
तत्सिद्धिमनुजानीहि यजतश्चिदचित्पते! ।
सर्वथा सर्वदा शम्भो! नमस्तेऽस्तु प्रसीद मे ॥ २१-९३ ॥
इति रेचकेणामृतीकृत्य तारमूलं च शिवाय नमोन्तमुच्चार्य भगवते गन्धपवित्रमारोपयेत् । अनन्तरमारात्रिकमुत्तार्यानेन प्रार्थयेत् ।
ॐ
आमन्त्रितोऽसि देवेश! सह देव्या गणेश्वरैः ।
मन्त्रेशैर्लोकपालैश्च सहितः परिवारकैः ॥ २१-९४ ॥
निवेदयाम्यहं तुभ्यं प्रभाते तु पवित्रकम् ।
नियमं च करिष्यामि परमेश! तवाज्ञया ॥ २१-९५ ॥
इति शिवं प्रार्थ्य तथास्त्विति शिवेनानुज्ञातः तदनु विभवानुगुणं विशेषनैवेद्यं देवाय निवेद्य ताम्बूलमुखवासान्तं गीतनृत्तादिभिरभिनन्द्य भगवतानुज्ञातः बहिर्निर्गत्याग्नये च मेखलायां गन्धपवित्रमारोप्य चरोरंशमपि हुत्वा तच्छेषेण तत्समीपे अग्निकार्यबलिं निक्षिप्यानुज्ञाप्य बहिर्निर्गत्य सगन्धकुसुमजलधूपदीपं पात्रशेषान्नेन संहितामन्त्रैर्दशदिक्षु बलिं दद्यात् ।
ओमिन्द्राय प्रतिगृह्ण नम इत्यादिभिः । पुनश्च,
ॐ पूर्वादिदिग्वासिभ्यो दिगीश्वरभूतमातृगणरुद्रक्षेत्रपालादिकेभ्यः स्वाहेति दशदिक्षु बलिं विकीर्य समाचम्यच्छिद्रपूरणकप्रायश्चित्तमङ्गैस्त्रिष्कृत्वो मूर्तिभिः पञ्चकृत्वो मूलेन दशकृत्वोऽघोरेणाष्टोत्तरशतं तिलसिद्धार्थलाजघृतैर्हुत्वा पूर्णा चाथ व्याहृतीभिश्चाग्नये सोमायाग्नीषोमाभ्यामग्नये स्विष्टकृते चेति हुत्वाभ्यर्च्य वह्निस्थशिवं संहितया नाडीमार्गेण मण्डलस्थशिवे संयोज्य देवमभिपूज्य सिद्धान्तपुस्तकाधिष्ठिते विद्यापीठे शिववद् विद्यानामभिरभ्यर्चिते दशाक्षरीवागीश्वर्या प्रणवहृदयमूलविद्यातत्त्वात्मने नमोन्तं गन्धपवित्रमारोप्यारात्रिकमुत्तार्याथास्नवर्मसम्पुटे पात्रे महापवित्राणि संस्थाप्य मन्त्रसंहितयाभि मन्त्र्यास्त्रवर्मभ्यां संरक्ष्याभिपूज्य कुम्भस्थाय रक्षां विज्ञाप्य भगवन्तं प्रणम्य क्रियां समर्प्य निश्छिद्रं कर्म मेऽस्त्विदमिति भगवतानुज्ञातो बहिर्निर्गत्य प्राचीनेषु त्रिषु मण्डलेषु दीक्षोक्तमार्गेण पञ्चगव्यं चरुं दन्तधावनं च भजेत् ।
तत्रोपवासस्य नियतत्वाच्चरोः शेषभक्षणस्य प्राप्तत्वाच्च प्राणाहुतिपञ्चकमात्रमेव प्राश्नीयात् ।
अत्र पौष्करे–
उपवासे तु नियते सम्प्राप्ते शेषभक्षणे ।
प्राणाग्निहोत्रमात्राशी सोपवासो न दुष्यति ॥
इति ।
अन्यत्रापि श्राद्धप्रकरणे–
उपवासो यदा नित्यः श्राद्धं नैमित्तिकं भवेत् ।
उपवासं तदा कुर्यादाघ्राय पितृसेवितम् ॥
इति । अथाचम्य दर्भशय्यायां प्राचीनमस्तको बुभुक्षुः मुमुक्षुर्भस्मशय्यायामुपविशेत् ।
अत्र सोमशम्भुः–
आचान्तो मन्त्रसन्नद्धः कृतसङ्गीतजागरः ।
आसीतानुस्मरन्नीशं बुभुक्षुर्दर्भसंस्तरे ॥
अनेनैव प्रकारेण मुमुक्षुरपि संविशेत् ।
केवलं भस्मशय्यायां सोपवासः समाहितः ।
इति । कृतसङ्गीतजागर इत्युक्तत्वात् स्वापो न कर्तव्यः ।
मोहशूरोत्तरे च –
क्रियासमर्पणं कृत्वा शिवाग्रे क्षपयेन्निशाम् ।
जपध्यानरतो भूत्वा स्तुतिगीतपरोऽथवा ॥
इति । एतस्माद् दर्भविष्टरस्थेन देवाग्रे सोपवासेन जागरिणा भवितव्यम् ।
अथ सूर्योदयात् पूर्वं स्नातः सन्ध्यां समाप्य च ।
सामान्यार्घ्येण सम्पूज्य गन्धसूत्राण्यनुक्रमात् ॥ २१-९६ ॥
अविसर्जित एवेशे ऐशान्यां मण्डले न्यसेत् ।
देवं विसृज्य सापेक्षं निर्माल्यमपनीय च ॥ २१-९७ ॥
समानचम्य यथापूर्वं कृत्वात्मादिविशोधनम् ।
इष्ट्वा सूर्यं ततो द्वारलोकेशास्त्रार्चनादनु ॥ २१-९८ ॥
पञ्चगव्यादिभिर्देवं यजेन्नित्यविधान्तः ।
कुम्भास्त्रमण्डलेशाग्नीनिष्ट्वा पूर्णां बलिं तथा ॥ २१-९९ ॥
कृत्वा नित्यं समाप्यैवं नैमित्तिकमुपक्रमेत् ।
तत्राविसर्जित एव देवे अग्नौ च निर्माल्यमपनीय चरुबर्जं दन्तकाष्ठादिकं च यथास्थानं विन्यस्य यन्त्रलिङ्गहेमगोलकपट्टस्रग्गन्धादिभिर्यथाविभवं देवमलङ्कृत्याघोराष्टशतं प्रायश्चित्तं हुत्वा पूर्णां चाथ सूर्याय स्वमन्त्रेण महापवित्राणि धूपितान्यारोप्यारात्रिकमुत्तार्याचम्य प्राग्वद् द्वारेशवास्तुपब्रह्मलोकेशास्त्रगणपतिगुरूणां स्वस्वमन्त्रैः प्राग्वदारोप्यात्मनि च पूर्ववन्मन्त्रेण पवित्रमारोप्याचम्य स्वयं सदाशिवात्मा देवाभिमुखमुपविश्यार्घ्यं दत्त्वाष्टपुष्पिकयाभ्यर्च्य कालात्मानं त्रुटिलवनिमेषकाष्ठाघटिकामुहूर्ताहोरात्रपक्षमासर्त्वयनसंवत्-सरविग्रहं सर्वशरीरेन्द्रियार्थव्यवहारकारणं
कृताकृतसमुत्सृष्टक्लिष्टकर्मैकसाक्षिणम् ॥ २१-१०० ॥
क्षेत्रगोप्तारमीशानं शरण्यं शुद्धमानसः ।
एवम्भूतं शिवमनुस्मरन् शिरःपवित्रं प्रथममादाय धूपयित्वा सपुष्पाक्षतदूर्वाग्रं किञ्चित् कुम्भाभिमुखशिवमनेन विज्ञाप्यारोपयेत् ।
ॐ
कालात्मना त्वया देव ! यद् दृष्टं मामके विधौ ॥ २१-१०१ ॥
कृतं श्लिष्टं समुत्सृष्टं धृतं गुप्तं च मत्कृतम् ।
तदस्तु क्लिष्टमक्लिष्टं कृतं पुष्टं सुसत्कृतम् ॥ २१-१०२ ॥
सर्वात्मनामुना शम्भो ! पवित्रेण त्वदिच्छया ।
ॐ पूरय पूरय मघव्रतनियमेश्वराय स्वाहा । तारमूलं शिवतत्त्वायाधिपतये शिवाय नमः इत्यनेनैकं पवित्रमारोप्यान्यत् पवित्रद्वयमप्येवं विद्यातत्त्वात्मतत्त्वाधिपतये नमः इत्यारोपयेत् ।
शिवतत्त्वे शिवान्ते तु रुद्रकारणपालिते ॥ २१-१०३ ॥
मूलं शिवान्तमुच्चार्य पवित्रमधिरोपयेत् ।
विद्यातत्त्वे तु विद्यान्ते विष्णुकारणपालिते ॥ २१-१०४ ॥
ईश्वरान्तं समुच्चार्य द्वितीयमधिरोपयेत् ।
आत्मतत्त्वे प्रकृत्यन्ते ब्रह्मकारणपालिते ॥ २१-१०५ ॥
मूलं सदाशिवान्तं स्यात् तृतीयं चाधिरोपयेत् ।
सर्वतत्त्वाधिपान्तं तत् सर्वकारणपालितम् ॥ २१-१०६ ॥
मूलं शिवान्तमुच्चार्य देयं गङ्गावतारकम् ।
भुक्तिकामस्य चैवं स्याद् विपरीतं हि मुक्तये ॥ २१-१०७ ॥
आत्मविद्याशिवैस्तत्त्वैः पवित्राण्यधिरोपयेत् ।
अथारात्रिकमुत्तार्य देवं विज्ञापयेत् सुधीः ॥ २१-१०८ ॥
त्वं गतिः सर्वभूतानां संस्थितस्त्वं चराचरे ।
अन्तश्चारेण सर्वेषां द्रष्टा त्वं परमेश्वर! ॥ २१-१०९ ॥
कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम ।
मन्त्रहीनं क्रियाहीनं द्रव्यहीनं च यत् कृतम् ॥ २१-११० ॥
जपहोमार्चनाहीनं कृतं नित्यं मया तव ।
स्तुतिभक्तिविहीनं च तत् पूरय महेश्वर! ॥ २१-१११ ॥
सुपूतस्त्वं सुरेशान! पवित्रं पापनाशनम् ।
त्वया पवित्रितं सर्वं जगत् स्थावरजङ्गमम् ॥ २१-११२ ॥
खण्डितं यन्मया देव! व्रतं वैकल्ययोगतः ।
एकीभवतु तत् सर्वं त्वदाज्ञासूत्रयोजितम् ॥ २१-११३ ॥
इत्यस्यान्ते सर्वतत्त्वात्मने सर्वकर्मसाक्षिणे सर्वपरिपूरणाय सर्वफलप्रदाय सर्वज्ञाय शिवाय नम इति विज्ञाप्य सजलेन पुष्पाञ्जलिना पवित्रपूजामात्मानं च शिवपादाम्बुजयोः समर्प्य दण्डवत् प्रणमेत् ।
चतुरस्त्रीनथो मासान् द्वौ मासं पक्षमेव वा ।
सप्ताहं पञ्चरात्रं वा द्विरात्रं वैकरात्रकम् ॥ २१-११४ ॥
व्रतं सङ्कल्प्य देवाग्रे करोम्येतावदित्यपि ।
तथेत्युक्तः शिवेनापि निर्गत्य तदनुज्ञया ॥ २१-११५ ॥
लोकपालास्त्रनन्द्यादिद्वाःस्थानिष्ट्वा पवित्रकैः ।
अग्नौ च विद्यापीठे च पवित्राण्यधिरोपयेत् ॥ २१-११६ ॥
ततो व्याहृतिभिश्चाग्निं सोमाग्नीषोमयोरपि ।
हुत्वा स्विष्टकृते चैव बलिं प्राग्वद् विनिक्षिपेत् ॥ २१-११७ ॥
अथ गुरौ सति शिववत् तमभिपूज्य वसनाभरणधनादिभिः परितोष्य पवित्रं च तस्मिन्नतिशोभनमारोप्य तदभावे तत्पादुकादावभ्यर्च्यारोपयेत् । ततश्चाध्ययनहोमादिफलं तैस्तैरुदकपूर्वं स्वहस्ते गृहीत्वा देवपादाब्जयोः समर्प्य तेषां दक्षिणाश्च सूत्राणि च दद्यात् । दीक्षितब्राह्मणलिङ्गिनां बन्धुजनानां च सूत्राणि प्रदाय दीक्षितब्राह्मणलिङ्गिनो हेमवस्त्रादिभिः परितोष्य दीनान्धकृपणादिभ्यश्चार्थिभ्यो यथाशक्ति सर्वेभ्यो हिरण्यादिकं दत्त्वा सर्वानपि भोजयित्वा तद्भोजनदानफलमशेषमनेन शिवे समर्पयेत् ।
ॐ,
वित्तशाठ्यविहीनस्य भक्त्या शक्त्यनुरूपतः ।
दानेनानेन दत्तेन प्रीयतां मे सदाशिवः ॥ २१-११८ ॥
इति दानादिकं शम्भोः पादाम्भोजे समर्पयेत् ।
यावद्व्रतान्तं तावन्नित्यमेवं सविभवमभ्यर्च्य प्रतिदिनं पवित्राणि देवस्योपरि प्रथमबन्धनसूत्रमूले समुद्धृत्य लम्बयित्वा निर्माल्यमपनीय स्नदनं विधाय पुनः पवित्राण्यारोपयेत् ।
अथ व्रतान्ते सविशेषमभिपूज्य
ॐ,
पवित्रकव्रतं चीर्णं यथासङ्कल्पितं मया ॥ २१-११९ ॥
त्वत्प्रसादेन कर्मेदं गमास्तु फलसाधकम् ।
इत्यर्पयेद् भुक्तिकामो मुक्तिकामोऽपि शम्भवे ॥ २१-१२० ॥
निवेदयीत पादाब्जे मास्तु मे कर्म बन्धकम् ।
इति ।
तदनु मन्त्रतर्पणान्तं कर्म कृत्वा पूर्णां हुत्वा वह्निस्थं भगवन्तं नाडीमार्गेण शिवे संयोजयेत् ।
ब्राह्मणः क्षत्रियो वापि वैदिकश्चेज्जयादिभिः ॥ २१-१२१ ॥
हुत्वाग्निं वैदिकैर्मन्त्रैः प्रायश्चित्तैर्जुहोति च ।
ततोऽग्नेर्मन्त्रान् संहृत्य द्वादशान्तं नीत्वा हृदि सन्निवेश्य वह्निं च द्वादशान्ते संयोज्य परिधिविष्टरस्थानुद्वास्य समाचम्य कृतसकलीकरणोऽन्तः प्रविश्य शिवकुम्भास्त्रवर्धन्योर्मन्त्रान् संहृत्य तत्रस्थं शिवं च शिवे लिङ्गस्थे संयोज्य दिक्पालादीनपि विसृज्य सति चण्डे पवित्राणि सप्ताक्षरेण तन्मन्त्रेणारोयासति
स्थण्डिले समावाह्याभ्यर्च्य तन्निर्माल्यादिकमशेषं चण्डनाथाय समर्पयेत् ।
अथवा स्थण्डिले चण्डं पीठस्थं * * पूजयेत् ।
इति सोमशम्भुः ।
ॐ,
यत् किञ्चिद् वार्षिकं कर्म कृतं न्यूनाधिकं मया ॥ २१-१२२ ॥
सर्वं तदस्तु सम्पूर्णं चण्डनाथ! तवाज्ञया ।
इति तं प्रार्थयेत् पश्चाद् गन्धाद्यैरर्चयेदपि ॥ २१-१२३ ॥
पायसं च निवेद्यास्मै नत्वा स्तुत्वा विसर्जयेत् ।
तन्निर्माल्यादिकं सर्वमन्धकूपेऽथवाम्भसि ॥ २१-१२४ ॥
प्रभूते निक्षिपेत् तन्तूञ्जप्त्वा छित्त्वा विशेषतः ।
अथ संशोध्य भूमिं तु सलिलैर्गोमयाप्लुतैः ॥ २१-१२५ ॥
ततस्त्वष्टोत्तरशतैः कलशैर्वाथ शक्तितः ।
नवकेनाथवा देवं स्नपयेदुक्तमार्गतः ॥ २१-१२६ ॥
सविशेषं च सम्पूज्य प्राप्नोत्यविकलं फलम् ।
पवित्रमेवं प्रतिवत्सरं तु यः करोति भक्त्या स्खलिताभिपूरणम् ।
अवाप्य पूजादिफलं स चाखिलं प्रयाति शम्भोः पदमव्ययं शिवम् ॥ २१-१२७– ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे पवित्रारोपणपटल एकविंशः ॥ २१ ॥