२०

अथ विंशः पटलः ।

अथ प्रमादस्खलितविस्मृतिच्युतजन्मनाम् ।
दोषाणां प्रशमायात्र प्रायश्चित्तं निगद्यते ॥ २०-१ ॥

हस्तान्निपतिते लिङ्गे स्पृष्टेऽन्यैर्वाप्यदीक्षितैः ।
अघोरायुतजापी स्यात् सविशेषार्चनाच्छुचिः ॥ २०-२ ॥

विशेषार्चनशब्देन पञ्चगव्यपञ्चामृतस्नपनमहा-नैवेद्याग्निकार्यान्तमर्चयेदिति यावत् ।

द्विहस्तात् पतिते लक्षं जपेत् सम्प्रोक्षणात् परम् ।
द्वित्रिलक्षादिजापी स्यादतश्चोच्चात् पतेद् यदि ॥ २०-३ ॥

भिन्ने लिङ्गेऽथवा पीठे प्रायश्चित्तं न विद्यते ।
तत एवाप्र(मो ? मा)देन रक्षणीयं प्रयत्नतः ॥ २०-४ ॥

तथा विशीर्णलिङ्गादेर्महापातकशान्तये ।
प्रायश्चित्तं दशगुणं कृत्वा कृच्छ्रेण शुध्यति ॥ २०-५ ॥

अविसर्जित एवेशे स्थण्डिलादावुपद्रुते ।
अघोरपञ्चसाहस्रं जपेद्धुत्वा दशांशतः ॥ २०-६ ॥

नष्टे दग्धेऽथवा भ्रष्टे लिङ्गे चोरादिभिर्हृते ।
लक्षं जपित्वा सम्प्रोक्ष्य लभ्यं चेत् तद् यजेत् पुनः ॥ २०-७ ॥

तदलाभेऽन्यलिङ्गं वा प्रतिष्ठाप्याभिपूजयेत् ।
सन्ध्यालोपे तु नीरोगः सोपवासः शतं जपेत् ॥ २०-८ ॥

पूजोपकरणे वाग्नौ पादस्पृष्टे च लङ्घिते ।
जपेत् पञ्चसहस्रं तच्छोधयेत् क्षालनेन च ॥ २०-९ ॥

पुष्पाम्बुगन्धमृत्पात्रक्षीरान्नाज्यं परित्यजेत् ।
एकाहमर्चनालोपे त्रिरात्रोपोषितो जपेत् ॥ २०-१० ॥

सहस्रं द्विदिनाद्यर्चालोपेऽप्येवं समूहयेत् ।
पञ्चाहादधिकभ्रंशे कृत्वास्मादपि षड्गुणम् ॥ २०-११ ॥

सहस्रं जुहुयाज्जापस्तत्सङ्ख्यो ब्रह्मणां स्मृतः ।
अकामात् सङ्कराणां तु ब्रह्मपञ्चशतं जपेत् ॥ २०-१२ ॥

सोपवासः शुचिः पञ्चगव्यं प्राश्य जुहोति च ।

तत्र

निर्माल्यसङ्करे जाते पञ्चब्रह्मशतं जपेत् ॥ २०-१३ ॥

अकामाद् भक्षणे तस्य सार्धसाहस्रकं जपेत् ।
कामादनन्तयागेन दीक्षया च पदाध्वनः ॥ २०-१४ ॥

शुध्येदतस्तु निर्माल्यं नाश्नीयान्न स्पृशेदपि ।

अनन्तयागो नाम अनन्तेशादिविद्येश्वरपरिवृतस्य शिवस्य पञ्चब्रह्ममण्डलेऽस्मिन्नेव पटले वक्ष्यमाणो यागो निर्दिष्टः ।

निर्माल्यभेदाः कथ्यन्ते षड्विधास्तेऽपि तद् यथा ॥ २०-१५ ॥

देवद्रव्यं च देवस्वं नैवेद्यं च निवेदितम् ।
चण्डद्रव्यं च निर्माल्यं तेषां लक्षणमुच्यते ॥ २०-१६ ॥

वस्त्रभूषणगन्धाद्यं देवद्रव्यमिति स्मृतम् ।
देवस्वं देवसम्बन्धि ग्रामक्षेत्रादि गोधनम् ॥ २०-१७ ॥

देवार्थं कल्पितान्नाद्यं नैवेद्यं नाम तत् पुनः ।
निवेदिताख्यमुत्सृष्टं चण्डद्रव्यं च तद्गतम् ॥ २०-१८ ॥

गर्भागाराद् बहिःक्षिप्तं निर्माल्यं तन्न संस्पृशेत् ।
षड्विधं चापि निर्माल्यं नोपयुञ्ज्यात् कदाचन ॥ २०-१९ ॥

अत्र भोजराजः –

षड्विधमपि निर्माल्यं न जिघ्रेन्न लङ्घयेत् नाद्यान्न विक्रीणीयात् क्रव्यादो भवति भुक्त्वा मातङ्गो लङ्घनेऽसिद्धिराघ्राणे वृकः स्पर्शने स्त्रीत्वमथ चण्डालो विक्रये शवरः इति ।

शिवनिर्माल्यवत् सौरं चण्डे दत्तं ततोऽधिकम् ।

गुरुपुस्तकवह्नियक्षनागयोगीन्द्रगणमातृगौरीषु शिवनिर्माल्यवद् न भवति । अचरेष्वपि दशस्थानेषु गुरुव्याख्याकाले शिवकुम्भे देवप्रदक्षिणे विसर्जितेऽपि देवे लिङ्गस्था पूजा । चललिङ्गे अघटितलिङ्गे आस्थाप्यलिङ्गे चित्ररत्नजे हेमजे अन्यस्मिन्नपि सद्यः प्रतिष्ठेति चतुर्थीकर्मावधि निर्माल्यं न भवतीति भोजराजः ।

पूजायां गन्धधूपादेरवशाघ्राणदर्शने ॥ २०-२० ॥

नास्ति दोषो नदीवेगादागतस्पर्शनादिषु ।
दीक्षितः सूतके वाथ शावाशौचे च भुक्तवान् ॥ २०-२१ ॥

न कामतः सोपवासो वामदेवसहस्रकम् ।
जपेत् कामकृते तस्मात् त्रिगुणं शुद्धये स्मृतम् ॥ २०-२२ ॥

आत्मसम्बन्धिकेऽशौचे तं जनं न स्पृशेत् स्वयम् ।
पृथक् पाकमुपाश्नीयात् स्नानपूजादि कर्म च ॥ २०-२३ ॥

निर्वाणदीक्षितो ज्ञानी निशङ्कः प्राग्वदाचारेत् ।
निर्बीजदीक्षया चापि सामय्या दीक्षितोऽपि वा ॥ २०-२४ ॥

स्वयं न संस्पृशेल्लिङ्गमग्निं चान्येन पूजयेत् ।
दीक्षितेनैव शिष्येण पुत्राद्यैर्वाथ बन्धुभिः ॥ २०-२५ ॥

निर्वर्त्य पूजाहोमाद्यं स्नातः संयतवाङ्मनाः ।
मनसैवोच्चरन् मन्त्रान् सकलीकरणादिकम् ॥ २०-२६ ॥

कृत्वा पुष्पाञ्जलिक्षेपैः शिवं तु कृतमण्डले ।
सम्पूज्य मनसा मन्त्रं जपित्वाग्निं प्रणम्य च ॥ २०-२७ ॥

पृथक्पाकेन भुञ्जानः सूतकादिदिनं नयेत् ।
सम्यग् ज्ञानी न दुष्येत् तु सूताशौचशतैरपि ॥ २०-२८ ॥

तृणकाष्ठचयच्छन्नो यथा प्रज्वालितोऽनलः ।
प्रमादात् सूतकाशौचे भुक्त्वैकाहमुपोषितः ॥ २०-२९ ॥

जपेत् सहस्रं कामेन भुक्त्वा तत्त्रिगुणाच्छुचिः ।
भुक्त्वा तु सूतकाशौचे तत्समो ह्यशुचिर्भवेत् ॥ २०-३० ॥

तद्दिनान्ते तु तावन्ति दिनानि निशि यावकम् ।
अश्नंस्त्रिकालस्नायी स्यात् प्रत्यहं त्रिशतं जपेत् ॥ २०-३१ ॥

प्रतिषिद्धान्नभुक्तावप्ययमेव विधिः स्मृतः ।
रेतः स्कन्देद् यदि निशि सहस्रं पुरुषं जपेत् ॥ २०-३२ ॥

दिवसे द्विगुणं तस्माद् दद्याच्च यवसं गवाम् ।
वर्णानां ब्राह्मणादीनां जातीशाः पुरुषादयः ॥ २०-३३ ॥

अत्र स्वयमुच्छिष्टस्य समानजातीयोच्छिष्टस्पर्शे स्नात्वा स्वजातीश्वरशतजपाच्छुद्धिर्भवेत् । अदीक्षितोच्छिष्टस्पर्शे द्विशतं जपेत् । स्वस्मादनन्तरवर्णोच्छिष्टस्पर्शे त्वेकाहमुपोष्य स्वजातीश्वरं स्पृष्टवर्णेश्वरं चाप्येकीकृत्य शतं जपेत् । तत्रैकान्तरवर्णोच्छिष्टस्पर्शे त्वेकाहमुपोष्य स्वजातीश्वरं स्पृष्टवर्णेश्वरं चाप्येकीकृत्य शतं जपेत् । तत्रैकान्तरवर्णोच्छिष्टस्पर्शे द्विरात्रं द्व्यन्तरे त्रिरात्रमुपोष्य प्राग्वज्जपेत् । एतेषामदीक्षितानां स्पर्शे द्विगुणम् । तद्वत् स्वोत्तरवर्णोच्छिष्टस्पर्शेऽपि पादहीनमर्धं च जपोपवासौ विधेयौ । उच्छिष्टः स्वयमुच्छिष्टमन्त्यजं स्पृशेद् यदि त्रिरात्रोपोषितः स्नातः स्वजातीश्वरायुतं जपेत् ।

एकोच्छिष्टे तदर्धं स्यादनुलोमे तदर्धकम् ।
अन्त्यजाः प्रतिलोमाः स्युः कर्माररजकादयः ॥ २०-३४ ॥

चण्डालोच्छिष्टसंस्पर्शे तीर्थे कृच्छ्रं समाप्य तु ।
अघोरस्यायुतजपाच्छक्त्या दत्त्वा च शुध्यति ॥ २०-३५ ॥

अत्र स्वयमनुच्छिष्टः प्रोक्तानामुच्छिष्टानां स्पर्शे यथोक्तात् पादं चरेत् । स्वयमुच्छिष्टस्त्वेषामनुच्छिष्टानां स्पर्शे अर्धं प्रायश्चित्तं चरेत् । यद्वा अन्येषामुच्छिष्टं भुक्त्वा पञ्चब्रह्ममण्डले ब्रह्माण्यभिपू(ज्य) जात्युद्धारेण दीक्षयेत् । तच्च मण्डलं चतुर्हस्तं चतुर्द्वारं विधेयम् । तस्मिन् यथादिशं पुरुषादीन् संस्थाप्य मध्ये स्वजातीश्वरमीशानं तत्स्थाने यथावदभिपूज्य स्वजातीश्वरमन्त्रेण फडन्तेन संशोध्य जातिमुद्धृत्य स्वाहान्तेन तेनैव मण्डलस्थस्वजातीशे प्रक्षिप्योद्धृत्य संसोध्यात्मनि तथैव संयोजयेत् । एवं जातिमुद्धृत्य सामध्या दीक्षया गुरुणा दीक्षयेत् । असन्निहितगुरुः स्वयमेवात्मानं दीक्षयेत् । एवं दीक्षयितुमसामर्थ्ये षडहान्युपोष्य वन्याशनः स्वजातीश्वरलक्षं जपेत् । अत्र सजातीयस्योच्छिष्टं भुक्त्वैकाहमुपोष्य शतं जपेत् । अनन्तरस्य द्व्यहमुपोष्य सहस्रं जपेत् । एकान्तरस्य त्र्यहं द्विसाहस्रं च । द्व्यन्तरस्य द्विगुणमयुतं जपः । ब्राह्मणः शूद्रोच्छिष्टं भुक्त्वा पञ्चरात्रमुपोष्य जात्युद्धारदीक्षितो लक्षं जपित्वा कृच्छ्रेण शुद्ध्यति । अनुलोमानामप्येवमुह्यं प्रायश्चित्तम् । अन्त्यजोच्छिष्टभोजने प्रायश्चित्ताभावात् पतत्येव । तस्माद् यत्नेन तत् परिहरेत् । एवं परलिङ्ग्यन्नभोजने तज्जातीश्वरस्यायुतं जपेत् । ते चार्हतशाक्यपाशुपतकापालिकाः । एतेषां सद्योजातादयः पतयः । तत्र च कापालिकान्नभोजने कृच्च्छ्रचान्द्रायणे कृत्वा ईशानं लक्षं जपित्वा जातीश्वरमण्डलेऽन्यलिङ्गेश्वरमभिपूज्य

जात्युद्धारदीक्षितः शुध्यति । अन्यलिङ्गिसंसृष्टान्नभोजने त्रिलक्षजपं चान्द्रायणं कुर्यात् ।

परायत्तगृहस्थस्य स्वायत्ताद् द्विगुणो जपः ।
स्वायत्तस्यैतदेव स्यादाचार्य(स्यैक ? स्येति) सूचितम् ॥ २०-३६ ॥

अर्धं समयिनः प्रोक्तं त्रिपादं पुत्रकस्य तु ।
अनुक्तानां च पापानामबुद्धिकरणे तु यत् ॥ २०-३७ ॥

प्रायश्चित्तं बुद्धिपूर्वे ततोऽपि द्विगुणं स्मृतम् ।

तत्रैकभुक्तनक्तान्नायाचितोपवासानां पृथक् पृथक् क्रमेण त्रिगुणानुष्ठानं कृच्छ्रद्वादशरात्रमिति यावत् । चान्द्रायणं च शुक्लप्रतिपदं प्रारभ्य त्रिषवणस्नायी नियतेन्द्रिय एकग्रासात्प्रभृति प्रतिदिवसं ग्रासवृद्ध्या पौर्णमास्यां पञ्चदश ग्रासान् भुक्त्वा तद्वदपरपक्षे प्रतिपदं प्रारभ्य प्रत्यहमेकग्रासह्रासादमावास्यायामेकग्रासं भुक्त्वा समाप्य यवमध्यं भवति । एतद्विपरीतेन शुक्लप्रतिपदि पञ्चदश ग्रासान् भुक्त्वा प्रतिदिनं ग्रासह्रासेन पौर्णमास्यामेकग्रासभोजी कृष्णप्रतिपदं प्रारभ्य ग्रासवृद्ध्यामावास्यायां पञ्चदश ग्रासान् भुक्त्वा पिपीलिकमध्यं चान्द्रायणं भवति । सर्वेषां दुष्कृतानामनुक्तानामपि तत्तत्पापशुद्ध्यर्थं व्रतोपवासकृच्छ्र-चान्द्रायणजपहुतदानतीर्थसेवाशिवार्चनादिप्रायश्चितानि तत्तद्दोषगौरवानुगुणं धर्मशास्त्रोक्तानि विधेयानि । तान्यत्र ग्रन्थगौरवभयान्न लिख्यन्ते । प्रायश्चित्तेषु रोगपीडयातिवार्द्धकेन वा स्वयमसमर्थः शिष्यपुत्रभ्रातृमातृपितृभागिनेयादिभिरात्म-नोऽर्थमुपवासजपादिकं कारयेत् ।

प्रायश्चित्तं त्वेवमुक्तं तु येषां दोषाणां तच्छुद्धये तान् प्रयत्नात् ।
बुद्ध्या बुद्ध्वा वर्जयेदेव विद्वान् पङ्कास्पर्शः क्षालनाद् यद् वरिष्ठः ॥ २०-३८– ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिधान्तसारे उपरिभागे क्रियापादे प्रायश्चित्तपटलो विंशः ॥ २० ॥