१९

अथैकोनविंशः पटलः ।

अथोच्यते क्रियावत्या दीक्षया दीक्षितस्य तु ।
सम्यग्विज्ञाततन्त्रस्य साधकस्याभिषेचनम् ॥ १९-१ ॥

अत्र ब्रह्मशम्भुः –

त्रिपदार्थां चतुष्पादां भुक्तिमुक्तिफलोदयाम् ।
संहितां यो विजानाति शिष्योऽसौ सेकमर्हति ॥

इति । इष्टदिवसमुहूर्तादौ यथावच्छिष्यमधिवास्य कुम्भमण्डलाग्नी-नां पूजां कारयित्वा प्राच्यामैशान्यामुदीच्यां वा नवसप्तपञ्चहस्तान्यतमे चतुरश्रे मण्डपे अर्धहस्तोच्छ्रितचतुस्त्रि-द्विहस्तान्यतमचतुरश्रवेदिकायामक्षतैर्यवैर्वा चतुष्कोणविरचितस्वस्तिकायां विद्येश्वरसदाशिवाधिष्ठितं कलशनवकं वा ब्रह्मभिर्निवृत्त्यादिकलाभिश्चाधिष्ठितं कलशपञ्चकं वा संस्थाप्य सर्वरत्नौषधिगन्धमिश्रित तीर्थजलैरापूर्य सितवसनाभ्यामाच्छाद्य कुशकूर्चाश्वत्थचूतपल्लवबीजपूरफलानि कलशमुखेषु निधाय शक्तिं शिवं साध्यमन्त्रं च तेषु सम्पूज्य वेद्यां दक्षिणतः शिवमुपवेश्य सिद्धार्थाक्षततिलदूर्वाज्यचरुभिः क्रमात् साध्यमन्त्रेण हुत्वाथ सम्पाताज्यं कलशेषु किञ्चिन्निर्वाणदीक्षोक्तमार्गेण निवृत्त्यादिकलात्रयं शिष्यदेहे संशोध्य ततः शान्त्यतीतां शोधयित्वा विद्यादेहं सदाशिवं ध्यात्वा शिष्यहृदये समावाह्य संस्थाप्य सकलीकृत्यासनादिक्रमेणाभ्यर्च्य पूर्णां हुत्वा अथ शान्तिकलां शोधयेत् । तदनु

प्रणवं च ततो मूलमात्मञ्छब्देन योजितम् ।
अणिमादिगुणाख्यान्ते ते भवन्त्यग्निजायया ॥ १९-२ ॥

अणिमादिगुणानां तु पृथक्पृथगुदीर्य तु ।
हुत्वा चाष्टाहुतीः शिष्यं कुर्यादष्टगुणैर्युतम् ॥ १९-३ ॥

अणिमा महिमा चैव लघिमा प्राप्तिरेव च ।
प्राकाम्यं च तथेशित्वं वशित्वं च ततः परम् ॥ १९-४ ॥

यत्रकामावसायित्वमित्यैश्वर्यगुणाष्टकम् ।
ततः शिष्यं तु साङ्गेन साध्येन सकलीकृतम् ॥ १९-५ ॥

शिवेन च तथा शक्त्या समधिष्ठितविग्रहम् ।
गन्धाद्यैरभिपूज्याथ गीतवाद्यसमन्वितम् ॥ १९-६ ॥

वर्णपिष्टकृतैर्वस्त्रैवज्राद्यैः पात्रयोजितैः ।
प्राज्यप्रदीपैर्नीराज्य प्राङ्मुखं तमुदङ्मुखः ॥ १९-७ ॥

तदनु

दधिगोमयसिद्धार्थदूर्वाचन्दनपङ्कजैः ।
वल्मीकमृत्स्नारक्षाभिर्निर्मृज्य सलिलाप्लुतैः ॥ १९-८ ॥

धूपान्तमभिपूज्यैनं कलशैरभिषेचयेत् ।
अनन्तादिनिवृत्त्यादिक्रमात् तन्मन्त्रयोजितैः ॥ १९-९ ॥

परिस्रवत्सुधाधारामैक्येनास्य सुषुम्नया ।
पातयंश्चिन्तयेत् तत्तन्मन्त्रमूर्तिप्रवेशनम् ॥ १९-१० ॥

परमामृतविष्यन्दक्षालिताशेषकल्मषम् ।
तद्धृदम्भोजचिद्व्याप्तां मन्त्रमूर्तिं च भावयेत् ॥ १९-११ ॥

अत्र ब्रह्मशम्भुः –

अमृतं तोयमाधारः शक्तिस्तस्य तु कुण्डली ।
अभिषेक्ता शिवो ज्ञेय अभिषिच्यस्तु पुद्गलः ॥

इति । ततः शिष्यं परिवर्तितशुक्लाम्बरं प्रक्षालितपाणिपादमाचान्तं देवस्य दक्षिणवेद्यां श्रीपर्ण्यादिमये परिकल्पितानन्तासने प्राङ्मुखमुपवेश्य भूतशुद्धिं विधायोपवीतभूषणगन्ध-पुष्पैरलङ्कृत्य सकलीकृत्याभ्यर्च्यारात्रिकं च दधिदूर्वाक्षतार्चितं त्रिवारमुद्भ्राम्य शीताम्बुचुलुकत्रयेण मङ्गलाष्टकं सवन्दनं स्पर्शयेत् । तच्च

रोचना चन्दनं दूर्वाः सुमनोदधिपायसम् ।
यवाः सिद्धार्थकाश्चेति कथितं मङ्गलाष्टकम् ॥ १९-१२ ॥

ततः संयोजयेच्छिष्यमधिकारेण साधनैः ।
कटकं चोत्तरीयं च छत्रं चामरपादुके ॥ १९-१३ ॥

पुस्तकं चाक्षसूत्रं च भृङ्गारं यानवाहने ।
अन्यच्च राजचिह्नं यत् सर्वमर्हति साधकः ॥ १९-१४ ॥

आचार्यस्यापि तुल्योऽयमधिकारः परिच्छदे ।
विशेषस्तस्य मकुट उष्णीषं करणी तथा ॥ १९-१५ ॥

तदनु गुरुः स्वसव्यहस्तेन तस्य दक्षिणकरं गृहीत्वा पश्चिमद्वारेण प्रविश्य शम्भुकुम्भमण्डलशिवानां प्रदक्षिणत्रयं पूजां च कारयित्वा जानुभ्यां प्रणामेनावनिं गतस्य शिष्यस्याञ्जलौ सगन्धकुसुमसलिलं साध्यमन्त्रमुच्चार्याञ्जलिना सोपदेशं मन्त्रं दद्यात् । सोऽपि तमञ्जलिं स्वशिरसि निधाय गुरवे नमस्कृत्य सुषुम्नामार्गेण सृष्टिक्रमेणानीय स्वहृदयकमले निवेश्य द्वादशान्तामृतेनाप्लाव्य मन्त्रसंहितयाज्येन हुत्वा शिवकुम्भाग्नीनां दक्षिणतः पद्मासने साध्यमन्त्रं साङ्गमावाह्य स्थापयित्वा शिववत् पूजयित्वा तस्मान्मन्त्रमुद्धृत्य साधकः स्वदेहे शक्त्यादिक्रमेण विचिन्त्य स्थापयेत् ।

यथा ब्रह्मशम्भुः –

शिवाच्छक्तिं ततो बिन्दुं बिन्दोर्नादं च नादतः ।
अर्धचन्द्रं हकारं च षष्ठमाद्यस्वरं तथा ॥
तदथो द्विपदं ब्रह्म कलाकारणमक्षरम् ।
मन्त्रबीजमनुच्चार्यं सृष्टिसंहारकारणम् ॥

इति । एतेषां नव ग्रन्थिस्थानानि विज्ञेयानि द्वादशान्तशिखारन्ध्र-ललाटभ्रूमध्यतालुगलहृदयनाभिवस्तीनि । एतेषां स्थानेषु पद्मेषु क्रमं ध्यात्वामृतेनाप्लावयेत् । अथ तं समयाचारान् गुरुर्ग्राहयेत् । ते च निर्वाणदीक्षितस्योदिताः साधकस्यापि समाना एव । अस्यापि सेवाव्रतधारणं विशिष्टलिङ्गपरिग्रहो विशुद्धाहारसेवा सङ्गपरित्यागो निग्रहानुग्रहेष्वनास्था च निषिद्धवर्जनं विहितानां कर्मणामपरित्यागश्चेति सङ्क्षेपः ।

अथाग्निं संहितामन्त्रैः सन्तर्प्य च विसर्जयेत् ।
मण्डलस्थं तदाज्ञातः शिवकुम्भे नियोजयेत् ॥ १९-१६ ॥

भूतेभ्योऽथ बलिं दिक्षु विकीर्य स्वस्वमन्त्रतः ।
ततः शिष्यं यथापूर्वमासनस्थं तु पूजितम् ॥ १९-१७ ॥

मङ्गलैः शिवकुम्भेन गुरुस्तमभिषेचयेत् ।
अनेनैव विधानेन राज्यश्रीविजायाप्तये ॥ १९-१८ ॥

आयुरारोग्यसौभाग्यपुत्रस्त्रीपुष्टयेऽपि वा ।
नृपं वापि नरानन्यान् स्त्रियश्चाप्यभिषेचयेत् ॥ १९-१९ ॥

तत्तदाप्नोत्ययत्नेन शिवभक्तस्तु नान्यथा ।
प्राप्ताभिषेकमन्त्रोऽथ प्राप्यानुज्ञां गुरोस्ततः ॥ १९-२० ॥

साधकः साधयेन्मन्त्रं दृष्टादृष्टफलाप्तये ।
शस्तर्क्षतिथिवारादौ स्वानुकूले विशेषतः ॥ १९-२१ ॥

समभ्येत्य शिवक्षेत्रं भूरिपुष्पकुशाम्बुमत् ।
दक्षिणोत्तरदिग्द्वारं लिङ्गं यत्नेन वर्जयेत् ॥ १९-२२ ॥

ब्रह्मस्कन्देन्द्रनन्दीशवृषविष्णुगणेश्वरैः ।
मातृभास्करदुर्गाभिर्युक्तं लिङ्गं तु कीलतम् ॥ १९-२३ ॥

वर्जयेदित्यर्थः । अपिच साधकान्तरसेवितं मानुषप्रतिष्ठितं पूजारहितं म्लेच्छान्त्यजननदूषितं चलितभिन्नादिदोषदुष्टमनेक-लिङ्गं च वर्ज्यम् । एकलिङ्गं पश्चिमद्वारं स्वयम्भुलिङ्गं च श्रेष्ठम् । पूर्वं दैवमार्षं च बाणं च मध्यमम् । असुरराक्षसपिशाचादिप्रतिष्ठितं कनिष्ठम् । एतेषु लिङ्गेषु सर्वार्थमन्त्रसाधारणतया मन्त्रसङ्करो नास्तीत्यतः स्वमन्त्रमेषु विन्यस्य पूजयेत् । अज्ञातमन्त्रलिङ्गेषु प्रणवं मातृकां वापि विन्यस्य स्वहृदये पूरकेण समानीय रेचकेन द्वादशान्ते लयं नीत्वा प्रतिष्ठाविधानेन स्वमन्त्रं विन्यस्य पूजयेत् । त्रिविधलिङ्गानामसम्भवे शक्तिमस्ता गुरुणा वात्मनान्येन वा प्रतिष्ठितं सान्निध्यवल्लिङ्गमप्याश्रयणीयमिति चतुर्थः पक्षः । तदनु

साङ्गं कृत्वास्त्रयागं तु हुत्वाज्येन तिलैरपि ।
वास्तुपूजां विधायादौ वास्तुदेवाभिरक्षिते ॥ १९-२४ ॥

अष्टौ तिलान् हस्तमात्रान् लोकेशास्त्रैरधिष्ठितान् ।
दिक्षु तत्क्षेत्ररक्षार्थं निखनेत् तत्तदस्त्रतः ॥ १९-२५ ॥

सूत्रेण वर्मालभेन शङ्कुना वेष्टयेद्बहिः ।
हस्तेन सप्तबीजानि विकीर्य परितः पुनः ॥ १९-२६ ॥

रेखां च भस्मना कुर्याद् यवमिश्रैस्तिलैरपि ।
प्राकारं परिकल्प्यात्र दत्त्वा भूतबलिं तथा ॥ १९-२७ ॥

अकृष्टमन्नमक्षारलवणं शुचि यल्लघु ।
सकृदश्नन् परिमितं स्नाने त्रिषवणे रतः ॥ १९-२८ ॥

सन्नियम्येन्द्रियग्रामं साधयेन्मन्त्रमीप्सितम् ।
सिद्धमन्त्रः पुनस्तस्मिञ्छिवमाराध्य भक्तितः ॥ १९-२९ ॥

कीललोकाधिपास्त्राणि विसृज्य प्रणतः शिवम् ।
अनुज्ञाप्य व्रजेदिष्टं देशं तत्रैव वा वसेत् ॥ १९-३० ॥

साधकदीक्षाधिकारः ।

अथाचार्योऽभिषेकार्हो वृत्तवाञ्छीलवाञ्छुचिः ।
प्रशस्तदेशजो विद्वान् प्रशस्तोदितलक्षणः ॥ १९-३१ ॥

सबीजदीक्षया सम्यग् दीक्षितो विजितेन्द्रियः ।
सम्यक् साधितमन्त्रश्च निग्रहानुग्रहक्षमः ॥ १९-३२ ॥

विज्ञाताशेषतन्त्रार्थ उदारः करुणारसः ।
शिवपूजापरः शान्तः समयाचारपालकः ॥ १९-३३ ॥

स निर्गत्य गृहात् पूर्वं तीर्थयात्रां समाचरेत् ।
देशकालवयश्शक्तिसामर्थ्यानुगुणं क्रमात् ॥ १९-३४ ॥

निर्वर्त्य तीर्थसेवां तु गङ्गादेः सरितस्तटे ।
शिवक्षेत्रेऽथवा शैले तत्राचार्यव्रतं चरेत् ॥ १९-३५ ॥

उदङ्मार्गगते सूर्ये शुक्लपक्षे शुभे दिने ।
गणेश्वरं गुरुं चेष्ट्वा सविशेषं यजेच्छिवम् ॥ १९-३६ ॥

अस्त्रयागं च निर्वर्त्य स्नाने त्रिषवणे रतः ।
गोमूत्रेण तथा स्नायादथ त्रिदिनसङ्ख्यया ॥ १९-३७ ॥

एकभुक्तेन नक्तेन तथैवायाचितेन च ।
केवलं पञ्चगव्येन तत्सिद्धचरुणा पुनः ॥ १९-३८ ॥

उपवासेन च त्रीणि दिनानि क्षपयेत् पृथक् ।
पक्षं चतुर्थकालाशी षष्ठकालाशनस्तथा ॥ १९-३९ ॥

एवं पक्षद्वयादूर्ध्वं क्षपयेद् दिवसत्रयम् ।
भस्मदर्भशयो नित्यं भस्मस्नानरतः सदा ॥ १९-४० ॥

अक्षारलवणं यावमन्नं भुक्त्वोदितक्रमात् ।
समाप्तौ दीक्षितान् विप्रान् भोजनाछादनादिभिः ॥ १९-४१ ॥

परितोष्य यथाशक्त्या सादेशः प्रीयतामिति ।
ततो यथोदिते देशे शुद्धे सूद्धृतशल्यके ॥ १९-४२ ॥

नवहस्तं तथा सप्तपञ्चहस्तमथापि वा ।
अर्धहस्तोछ्रितं कृत्वा मण्डपं सुमनोरमम् ॥ १९-४३ ॥

न्यग्रोधोदुम्बराश्वत्थप्लक्षैः पूर्वादितोरणम् ।
पलाशामलकौ चैव मधूको बिल्व एव च ॥ १९-४४ ॥

आग्नेयादिषु कोणेषु तोरणांस्तैः प्रकल्पयेत् ।
ध्वजांश्च दश दिक्पालवर्णहेतिविलक्षणान् ॥ १९-४५ ॥

मण्डपस्य वितानं च विचित्रं धवलं शुचि ।
घण्टाकिङ्किणिकाजालमुक्तादामविराजितम् ॥ १९-४६ ॥

पर्यन्तपट्टवसनमणिकन्दुकचामरैः ।
अलङ्कृतं दुकूलादिकृतप्रतिसरान्वितम् ॥ १९-४७ ॥

प्राच्यामग्न्यालयं तस्य कुर्यात् कुण्डं च शोभनम् ।
द्वारेषु कलशांस्तस्य न्यसेच्चाङ्कुरपालिकाः ॥ १९-४८ ॥

वास्तुपूजां च निर्वर्त्य पुण्याहं वाचयेत् ततः ।
विकिरक्षेपपूर्वं तु कुम्भास्त्रे चाभिपूज्य तु ॥ १९-४९ ॥

दिक्षु संस्थाप्य लोकेशान् वज्रादीन्यायुधानि च ।
पञ्चगव्यं च सम्पाद्य पञ्चकोष्ठोदितक्रमात् ॥ १९-५० ॥

प्रोक्ताष्टादशसंस्कारैः संस्कृते कुण्डे शिवाग्निमाधाय यथावत् सन्तर्प्य तस्मिन् यथोक्तं सदाशिवमावाह्याभिपूज्य समिदाज्यचरुतिलैः पञ्चपञ्चाहुतीर्हुत्वा पूर्णां च विधाय

मध्येऽस्य सर्वतोभद्रं भद्रकं वा लिखेच्छुभम् ।
विप्रादीनां क्रमात् पञ्चचतुस्त्रिद्विकरैर्मितम् ॥ १९-५१ ॥

रजोभिरपि तावद्भिस्तन्मध्येऽब्जं च पाण्डुरम् ।
विप्रादीनां स्मृतं मुख्यं द्वारं प्रागादिदिग्गतम् ॥ १९-५२ ॥

पीठस्य बाह्यवीथ्यां तु वल्लीपत्रादिकं लिखेत् ।
मण्डलाद् बाह्यदिक्ष्वष्टौ लिखेच्छङ्खान् सुपाण्डरान् ॥ १९-५३ ॥

तेषां नामानि चानन्दः सुनन्दो नन्द एव च ।
नन्दिवर्धननामा च श्रीमुखो विजयस्तथा ॥ १९-५४ ॥

तारः सुतारश्चैतेषां मन्त्राः स्युः प्रणवास्त्रयः ।
आकाराद्याः स्वरा दीर्घाः सानुस्वाराः स्वनाम च ॥ १९-५५ ॥

आत्मनेन्ते नमः शब्दस्त्वेभिरावाह्य पूजयेत् ।
शङ्खानां मध्यदेशेषु विलिखेत् कलशाष्टकम् ॥ १९-५६ ॥

मण्डलाभिमुखं तच्च शुक्लं चित्रं च वर्णकैः ।
सुभद्रश्च विभद्रश्च सुनन्दः पुष्पनन्दकः ॥ १९-५७ ॥

जयोऽथ विजयः पूर्णः पूर्णकुम्भश्च ते क्रमात् ।
तेषां च मन्त्रान् स्वाख्याभिः शङखानामिव योजयेत् ॥ १९-५८ ॥

तोरणानां तथाष्टानां लोकेशाख्यान्वितं पृथक् ।

तत्रायं विशेषः – ॐ आम् ईं रूं न्यग्रोधात्मने सुराधिपतोरणाय नमः ।

एवमेव पलाशादिष्वपि मन्त्रा भवन्ति हि ॥ १९-५९ ॥

ततः पीठाद् ब(लि ? हि)र्वीथ्यां शङ्खान् षोडश विन्यसेत् ।
तद्बाह्ये कलशानष्टौ स्थापयेद् दिग्विदिग्गतान् ॥ १९-६० ॥

सर्वर्त्नौषधीबीजैर्गण्डैर्मृद्भिर्जलैरपि ।
शङ्खांश्च कलशानेतान् पूरयेत् स्वस्वमन्त्रतः ॥ १९-६१ ॥

वस्त्रस्रग्दामकण्ठांश्च चन्दनाक्षतचर्चितान् ।
पञ्चपल्लववक्त्रांश्च बीजपूरफलाननान् ॥ १९-६२ ॥

अत्र षोडशशङ्खानामष्टकलशानां च नामान्युच्यन्ते – यान्येव प्रणवदीर्घस्वरत्रयादिकानि आत्मनेनमश्शब्दान्तानि तत्तन्मन्त्रा भवन्ति । तद् यथा –

आयतः आनन्दः नन्द्यायतः सुनन्दः महाकुक्षिः नन्दी सुनाभिः नन्दिवर्धनः ह्रस्वनाभिः श्रीमुखनाभिः मण्डली विजयः सुघोषः तारः उत्तारः सुतारश्च षोडश शङ्खाः पूरणीयाः । मन्थरः सुभद्रः पृथुलोष्ठः सुदन्तः ह्रस्वोष्ठः मन्थरग्रीवः जयो विजयश्च कलशा एते पृथक् पृथक् शालिदर्भविष्टरेषु स्थाप्याः । अथौषध्यः कथ्यन्ते – जया विजया जयन्ती अपराजिता विष्णुक्रान्ता शङ्खपुष्पी हेमपुष्पी नाकुली विशाला बला अतिबला गन्धनाकुली सहा सह देवा वाराही शतावरी मेदा महामेदा वृधिश्चर्धिः काकोलीसञ्ज्ञा यथालाभमोषधयो ग्राह्याः । रत्नानि माणिक्यमुक्तागोमेदकमरकतपुष्यरागवज्रनीलप्रवालस्फटिकानि । बीजानि शालियवमुद्गमाषतिलसिधार्थगोधूमा इति सप्त । चन्दनकुङ्कुमागरुकर्पूरकुष्ठमांसीकच्चोरोशीराण्यष्टौ गन्धाः । वल्मीकाग्रगन्धपर्वताग्रनदीतीरमहानदीसङ्गमबिल्वमूलगज-दन्तगोशृङ्गेभ्यो गृहीता मृदोऽष्टौ । इत्येभिर्द्रव्यैर्मिश्रितैः शङ्खांश्च कलशांश्च तीर्थजलैरापूर्य षोडशस्वरैः शङ्खान् क्रमेणापूरयेत् । अष्टवर्गैः कलशान् शङ्खेषु पृथिव्यादिमूर्त्यष्टकमष्टदिक्षु विदिक्च्छङ्खेषु वामादिशक्त्यष्टकं बहिः कलशाष्टके विद्येश्वराष्टकं च सर्वान् समावाह्य संस्थाप्य विधिवदर्चयेत् । मध्ये पद्मकर्णिकायां सुवर्णरजतताम्रमृन्मयाद्यन्यतमे शक्त्यनुगुणे कुम्भे सर्वौषधीबीजरत्नगन्धपुष्पान्विते सहिरण्ये तीर्थजलैः मन्त्रसंहितया द्वादशान्तामृतं स्मृत्वापूर्य मनोन्मनीं शक्तिं साङ्गमूर्तिमूलमन्त्रं सदाशिवमासनादिक्रमेण यथावदावाह्य सर्वत्र कूर्चानि पल्लवफलानि च निधायाहतवस्त्रैरावेष्टितकण्ठमालाभिरलङ्कृत्य यथावन्नैवेद्यान्तं सम्पूज्य, तत्र रत्नादीनां प्रक्षेपमन्त्रा उच्यन्ते । ॐ आम् ईम् ऊं सर्वरत्नेभ्यो विश्वात्मकेभ्यो नमः । प्राग्वत् सर्वबीजेभ्य इन्द्रात्मकेभ्यो नमः । प्राग्वत् सर्वौषधिभ्यः सोमात्मकेभ्यो नमः । सर्वगन्धेभ्यः पार्थिवात्मकेभ्यो नमः, सर्वमृद्भ्यः पृथिव्यात्मकेभ्यो नमः इति विन्यसेत् । एवं कलशशङ्खतोरणरत्नादीन्यभिमन्त्र्य सम्पूज्य नियोजयेत् । तदनु शिष्यं कृतोपवासं कृतस्नाननित्यविधिं निर्वर्तितनैत्यकशिवार्चाग्निकार्यं शुक्लाम्बरं प्रक्षालितपाणिपादं मण्डपस्य प्रदक्षिणं कारयित्वा प्रागादि शान्तिकलाद्वाराणां तोरणानां च कृतपूजं प्रागादिस्वर्णानुगुणद्वारेण प्रवेश्य शिवकुम्भास्त्राग्नीनां कृतार्चनप्रणामं स्वयं मन्त्रसंहितया

सहितस्य सृष्टिक्रमेण सुषुम्नया शिष्यहृदये प्रवेशव्याप्तिं च शिवस्य भावयेत् ।

ततश्चास्त्रवर्धन्यास्य परितो रक्षां विधाय शिवकुम्भेनापि तद्वदभिषेचयेत् ततो निवर्तिताम्बरस्य वर्णसङ्ख्यया यज्ञोपवीतं दत्त्वोष्णीषमकुटहारमुकुराङ्गुलीयच्छत्रचामरगजाश्वशिबिका-भृङ्गारकपादुकादीनि चिह्नानि दत्त्वा गजन्धादिभिरभ्यर्च्य स्वर्णादिपात्रनिहितैर्वज्राद्यायुधपिष्टप्रदीपाभिः कन्याभिर्वधूभिश्चोपनीतैरेनं मङ्गलवाद्यघोषैर्नीराजयेत् ।

तदनु शिवाभिमुखं नीत्वा सदक्षिणं प्रणामं कारयित्वा देयं विज्ञापयेत् –

त्वत्प्रसादेन भगवन् ! एष प्राप्तस्त्वदाज्ञया ।
महाभिषेकमाचार्यो भवत्वद्यप्रभृत्ययम् ॥ १९-६३ ॥

इति विज्ञाप्त्य देवेशं शिवेनोक्तस्तथास्त्विति ।
विसृज्य देवमग्निं च कलशान् शङ्घतोरणान् ॥ १९-६४ ॥

लोकेशांश्च यथाकामं सम्पूज्य तु बलिं क्षिपेत् ।
विसर्जयेत् ततस्त्वेनान् मूर्तिधारांश्च लिङ्गिनः ॥ १९-६५ ॥

विप्रांश्च हेमवस्त्रान्नैः दीनानाथांश्च शक्तितः ।
परितोष्य गुरुं त्वेनं स्वाधिकारे नियोजयेत् ॥ १९-६६ ॥

इदं स्थानमिमे धर्माश्चैते पुस्तकसञ्चयाः ।
दासीदासादयश्चैते परिपाल्या यथा पुरा ॥ १९-६७ ॥

अधिकारानुरूप्येण दीक्षाभिर्दीक्षयेज्जनान् ।
कर्षणादिप्रतिष्ठानं कर्मचक्रं प्रवर्तयन् ॥ १९-६८ ॥

व्याख्येयानि च शास्त्राणि दीक्षितेभ्यो न चान्यथा ।
पालयन् समयाचाराननुग्रहपरो भव ॥ १९-६९ ॥

इति ।

इति सन्दिश्य तं पूर्वो गुरुर्नवगुरुं ततः ।
शिवमिष्टवा विशेषेण मूलमन्त्रायुतं जपेत् ॥ १९-७० ॥

अनेनैव विधानेन राज्यकामं तदाप्तये ।
भ्रष्टैश्वर्यपुत्रं च स्त्रियं सौभाग्यसिद्धये ॥ १९-७१ ॥

अभिषिञ्चेच्छिवे भक्तान् दीक्षयित्वा न चान्यथा ।

इत्याचार्यमहाभिषेकाधिकारः ।

एवं कर्तुमशक्तस्याप्याचार्यत्वाभिलाषिणः ॥ १९-७२ ॥

चीर्णाचार्यव्रतस्यैवमसमर्थस्य तद्व्रते ।
दत्तद्विगुणदानस्य युक्त्या शक्त्यानुरूपतः ॥ १९-७३ ॥

मण्डपे सर्वतोभद्रं लिखित्वा मण्डलं शुभम् ।
ऐशान्यां विकिरक्षेपात् कुम्भास्त्रे च न्यसेद् यजेत् ॥ १९-७४ ॥

मध्यपद्मेऽस्य तु शिवं यथावदभिपूजयेत् ।
मण्डलाद् बाह्यतो दिक्षु स्वस्तिकाद्यैरलङ्कृते ॥ १९-७५ ॥

पश्चिमोत्तरयाम्यैन्द्रशिवदिक्षु विधानतः ।
कलशान् पञ्च विन्यस्य भूम्यम्ब्वग्निमरुद्वियत् ॥ १९-७६ ॥

निवृत्त्यादिकलाङ्गैश्च सद्याद्यैश्चाभिपूजितान् ।
सर्वरत्नौषधीबीजमृद्गन्धकुसुमान्वितान् ॥ १९-७७ ॥

स्सहेमफलकूर्चोक्तफलपल्लवशोभितान् ।
सवस्त्रमालाभरणानासनादिक्रमेण तु ॥ १९-७८ ॥

परमीकरणान्तेष्वाबाह्य तु कलाः क्रमात् ।
मूर्त्यङ्गान्यभिसम्पूज्य कुण्डे वह्निं च पूर्ववत् ॥ १९-७९ ॥

इष्ट्वा पञ्चाहुतीर्हुत्वा पृथ्व्यादीनां स्वनामभिः ।
कलानामङ्गमूर्तीनां तारहृन्मूलपूर्वकम् ॥ १९-८० ॥

समिदाज्यचरून् लाजतिलान् हुत्वा बलिं क्षिपेत् ।
शिवमग्निं च सन्धाय पूर्णां हुत्वा यथोदिताम् ॥ १९-८१ ॥

अनुज्ञाप्य शिवं पश्चान्मण्डलाद् दक्षिणेऽम्बुजे ।
कृतनित्यविधिं शिष्यं स्वस्तिकाद्यैः सुवर्चिते ॥ १९-८२ ॥

भद्रानन्तासने प्राग्वत् सकलीकृत्य पूजयेत् ।
सिधार्थदधिमृद्भस्मदूर्वागोमयगोलकैः ॥ १९-८३ ॥

निर्मथ्य गन्धतोयेन प्रक्षाल्याभ्यर्च्य धूपितम् ।
पृथङ्मूलशतालब्धैस्तैः कुम्भैः स्वस्वमन्त्रतः ॥ १९-८४ ॥

अभिषिच्यात्तवसनमनन्तासनगतं पुनः ।
सकलीकृत्य सम्पूज्य दत्त्वोष्णीषादिसाधनम् ॥ १९-८५ ॥

अधिकारं च विज्ञाप्य शिवायास्मै समर्पयेत् ।
अनुज्ञाप्य शिवं पश्चाद् गत्वा कुण्डान्तिकं पुनः ॥ १९-८६ ॥

पञ्च पञ्चाहुतीराज्यं कलानां च जुहोत्यथ ।
पूर्णां च हुत्वा तद्धस्तं दक्षिणं परिगृह्य तु ॥ १९-८७ ॥

दर्भोल्मुकेन पञ्चाङ्गैः कनिष्ठादिषु लाञ्छयेत् ।
प्राग्वच्छिवं तथैवाग्निं कुम्भास्त्रे च विसर्जयेत् ॥ १९-८८ ॥

हेमवस्त्रान्नपानाद्यैः परितोष्याथ तज्जनम् ।
शिवगुर्वाज्ञया लब्धमधिकारं प्रवर्तयेत् ॥ १९-८९ ॥

इत्थं दीक्षाः साभिषेका यथावत् प्राधान्येनात्रोदितास्तन्त्रसिधाः ।
याभिर्विश्वक्लेशहानिं च विन्देद् भोगैश्वर्याण्यप्ययत्नेन मोक्षम् ॥ १९-९० ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे साधकदीक्षाचार्याभिषेकपटल एकोनविंशः ॥ १९ ॥