अथाष्टादशः पटलः ।
अथ निर्वाणदीक्षार्थं कृतनित्यक्रियो गुरुः ।
सहृतोदितसंहारः सकलीकृतविग्रहः ॥ १८-१ ॥
विकिरक्षेपपूर्वेष्टशिवकुम्भास्त्रवर्धनिः ।
मण्डलेऽन्यतमे शम्भुमावाह्याभ्यर्च्य पूर्ववत् ॥ १८-२ ॥
अत्र ब्रह्मशम्भुः –
न पुष्पैर्न च गन्धेन नाक्षतैः सलिलेन वा ।
रजसां रचनाभङ्गं कुर्यात्
इति ।
त(स्या ? स्मि)न्मण्डलपर्यन्ते यजेच्चित्रपटे यथा ।
कुण्डेऽग्नौ शिवमिष्ट्वा तु प्राग्वत् सन्तर्प्य चोदितैः ॥ १८-३ ॥
विकीर्य च बलिं त्यक्त्वा पवित्रं वाग्यतो गुरुः ।
क्षलिताङ्घ्रिकरः सम्यगाचान्तो धवलाम्बरः ॥ १८-४ ॥
सोष्णीषः सोत्तरीयश्च सपवित्राङ्गुलीयकः ।
सकलीकृतदेहस्तु सामान्यार्घ्येण पूर्ववत् ॥ १८-५ ॥
प्रोक्षणनिरीक्षणभसितताडननेत्रबन्धमण्डपप्रवेश-शिष्यान्तःकरणशोधनपुष्पाञ्जलिक्षेपशिवकुम्भाग्निपूजनकुण्डो-पान्तनाडीसन्धानमन्त्रसमर्पणपुर्णाहुत्यन्तं कर्म सर्वं समयदीक्षोक्तं कृत्वा
ततो मूलाङ्गमन्त्राणां क्रमात् कुर्वीत दीपनम् ।
अग्नियुक्तशिखाबीजसम्पुटानि पृथक् पृथक् ॥ १८-६ ॥
तारादीनि फडन्तानि मूलाङ्गार्णान्युदीर्य तु ।
त्रिवारं जुहुयादाज्यं मन्त्रस्फूर्तिकरं तु तत् ॥ १८-७ ॥
अथोर्ध्वकायशिष्यस्य नवैतन्तुविनिर्मितम् ।
देहायतं तु यत् सूत्रं पाशसंयमनाय तत् ॥ १८-८ ॥
अस्त्रप्रोक्षितं कवचावगुण्ठितमभ्यर्चितं शिष्यशिखायां बद्ध्वा दक्षिणपादाङ्गुष्ठाक्रान्तं भुक्त्यर्थं लम्बयेत् पुरुषस्य । स्त्रियो वामाङ्गुष्ठाक्रान्तम् । मुमुक्षोः पादाङ्गुष्ठे पूर्वं बद्ध्वा पश्चात् शिखायां तत्सूत्रं शिष्यसुषुम्नात्मकं ध्यात्वा ॐ हुं सुषुम्नायै नमः इति शिष्यदेहात् सुषुम्नां संहारिण्या सङ्गृह्य तत्सूत्रे संयोज्य सुषुम्नात्मकं सूत्रं सम्पूज्य वर्मणावगुण्ठ्य सान्निध्यार्थं त्रिवारं जुहुयात् ।
सम्प्रोक्ष्य हृत्प्रदेशेऽस्य सन्ताड्य कुसुमास्त्रतः ।
स्वयं रेचकमार्गेण हुङ्कारं प्लुतमुच्चरन् ॥ १८-९ ॥
प्रविश्य शिष्यहृदयं नाड्या तच्चेतनां स्मरन् ।
स्फुरत्तारकसङ्काशामाच्छिद्यास्त्रेण मूलतः ॥ १८-१० ॥
आकृष्य द्वादशान्तःस्थां शिवशक्त्युपबृंहिताम् ।
हृत्सम्पुटां गृहीत्वा तु संहारिण्याथ सूत्रके ॥ १८-११ ॥
संयोज्य व्यापकं ध्यात्वा कवचेनावगुण्ठ्य तु ।
सम्पूज्य जुहुयात् तिस्रो मूलेनैवाहुतीस्ततः ॥ १८-१२ ॥
ताडनग्रहणादीनि सूत्रे कुर्यान्न विग्रहे ।
मलादिपाशांस्तत्सूत्रे पशोरस्य विभावयेत् ॥ १८-१३ ॥
भोक्तृत्वभोगविषयशरीरजननक्षमान् ।
ततश्च शान्त्यतीताद्याः कलाः सूत्रे नियोजयेत् ॥ १८-१४ ॥
तद् यथा –
बीजमूलमतीतायां मूर्ध्नि स्थानमुदाहृतम् ।
तथैव सान्तो वायुस्थो द्वादशस्वरबिन्दुमान् ॥ १८-१५ ॥
शान्तिबीजं ललाटात् तत्स्थानं कण्ठावधि स्मृतम् ।
वह्न्यारूढं शिखाबीजं विद्याबीजमिति स्मृतम् ॥ १८-१६ ॥
कण्ठादानाभि तत्स्थानं विद्या तत्र व्यवस्थिता ।
सान्तं लान्तसमारूढं चतुर्थस्वरबिन्दुमत् ॥ १८-१७ ॥
बीजमुक्तं प्रतिष्ठाया नाभेरागुल्फकस्थितिः ।
पृथ्वीदीर्घयुतं सान्तं निवृत्त्या बिन्दुशेखरम् ॥ १८-१८ ॥
बीजं स्यात् स्थानमप्युक्तं गुल्फात् पादतलान्तकम् ।
तारादिकैः कलाबीजैः कलाख्याः सचतुर्थिकाः ॥ १८-१९ ॥
ताडने हुम्फडन्ताः स्युर्नमोन्ताः स्युर्नियोजने ।
स्वाहान्ताश्चैव होमे स्युरेवं सूत्रे नियोजयेत् ॥ १८-२० ॥
एवं मूर्धादिषूक्तस्थानेषु पुष्पास्त्रेण सन्ताड्यातीताद्याः कलाः संहारिण्या मुद्रया संहृत्य तत्र तत्र सूत्रे क्रमेण नियोजयेत् । तदनु व्याप्यव्यापकभावं विभावयेत् । तत्र तत्त्वभुवनपदवर्णमन्त्राः व्याप्याः मलकर्ममायेशा व्यापकाः । पुनर्मलादयो व्याप्याः शान्त्यतीतादयो व्यापकाः । अत एव व्यापकानां ग्रहणात् तत्त्वाद्या मलादयश्च सङ्गृहीता भवन्तीत्युपस्थापिताभिः सन्निहिताः शोधिताभिः शुद्धाः स्युः ।
अथ सूत्रस्थितान् पाशान् स्वमन्त्रादभिपूज्य तु ।
उद्दीपनं विधातव्यं वक्ष्यमाणक्रमेण तु ॥ १८-२१ ॥
ताराघोरकलाबीजैः कलानाम चतुर्थियुक् ।
हुम्फडन्तं क्रमादुक्त्वा जुहुयादाहुतित्रयम् ॥ १८-२२ ॥
अतीतादिकलानां स्यादेवमुद्दीपनं ततः ।
पाशबन्धो विधातव्यस्त्वतीतादिकलाक्रमात् ॥ १८-२३ ॥
तद् यथा – प्राग्वत् पुष्पास्त्रेण सन्ताड्य प्रणवपूर्वं मूलसम्पुटान्यतीतादिकलाबीजान्युच्चार्य भगवन् ! शान्त्यतीतकला-पाशमलमायाकर्मशक्तितत्त्वभुवनमन्त्रवर्णपदा(ध्व)व्यापकं बन्ध बन्ध हुम्फडित्यतीतादिकलास्थाने सूत्रे ग्रन्थिं कुर्यात् । एवं शान्त्यतीतादिनिवृत्त्यन्तं क्रमेण पाशबन्धनाय ग्रन्थिं कुर्यात् । तदनु,
शरावसम्पुटे कृत्वा पाशांस्तन्मन्त्रहोमतः ।
सम्पात्य मण्डले शम्भोर्निवेद्याभ्यर्च्य देशिकः ॥ १८-२४ ॥
तस्माच्च नीत्वा रक्षार्थं शिवकुम्भे निवेदयेत् ।
अत्र मन्त्रदीपनसूत्रावलम्बनसुषुम्नासंयोगशिष्यचैतन्य-योजनमलादिसङ्कल्पशान्त्यतीतादिताडनग्रहणसंयोगपूजासमर्-पणोद्दीपनपाशबन्धनसम्पातशिवकुम्भसमर्पणानि चतुर्दश कर्मणि विधाय,
ततः कुम्भशिवाग्नीनां प्र(माणं ?णामं) कारयेदमुम् ॥ १८-२५ ॥
मण्डपाद् बाह्यतः प्राच्यां पृथङ्मण्डलकत्रये ।
क्रमात् समुपविष्टाय शिष्याय प्राङ्मुखाय तु ॥ १८-२६ ॥
पञ्चगव्यं चरोरंशं दन्तकाष्ठं च दापयेत् ।
पलाशपत्रे मुक्त्यर्थं भुक्तयेऽश्वत्थपत्रके ॥ १८-२७ ॥
तत्राष्टग्रासमात्रं चरुं प्राशयेन्नाधिकमिति केचित् ।
दन्तकाष्ठाग्रपातेन ज्ञेयमस्य शुभाशुभम् ।
सोमेन्द्रेशाग्रपातस्तु शुभोऽन्याशास्वशोभनः ॥ १८-२८ ॥
अशुभे शान्तिहोमं तु कुर्यान्मूलाङ्गदक्षिणैः ।
सुलिप्तायां क्षितौ दर्भसंस्तरे सोत्तरच्छदे ॥ १८-२९ ॥
प्राचीनेऽस्त्रशतालब्धे भुक्तये प्राक्छिराः स्वपेत् ।
मुमुक्षुर्भस्मशय्यायां स्वपेद् दक्षिणमस्तकः ॥ १८-३० ॥
हृन्मन्त्रेणालभेतैनं बध्नीयात् तच्छिखां हृदा ।
अस्त्रेणाच्छादयेच्चैनं सितसूक्ष्मेण वाससा ॥ १८-३१ ॥
तिलसर्षपरक्षाभिः शय्याबाह्ये त्रिवर्तुलम् ।
प्राकारवद् विलिख्यास्त्राद् दत्त्वा भूतबलिं ततः ॥ १८-३२ ॥
स्वयं च पञ्चगव्यादि प्राश्याचम्य गुरुः स्वपेत् ।
तत्र प्रातः समुत्थाय स्नात्वानुष्ठितनैत्यकः ॥ १८-३३ ॥
शिवानुज्ञातमानीय शिष्यं स्वप्नान् विचारयेत् ।
अनुमोद्य शुभे स्वप्ने त्वशुभे तस्य शान्तये ॥ १८-३४ ॥
तिलाज्यचरुसिद्धार्थैर्मन्त्रसंहितया शतम् ।
अघोरेण तथास्त्रेण हुत्वा दत्वा च दक्षिणाम् ॥ १८-३५ ॥
द्विजेभ्यश्चैव लिङ्गिभ्यः सुस्वप्नोऽस्त्विति वाचयेत् ।
अथस्वप्नास्त्वशुभाः शुभाश्च कथ्यन्ते ।
श्रुतो दृष्टोऽनुभूतश्च प्रार्थितः कथितस्तथा ॥ १८-३६ ॥
एष्यंश्च सूचकश्चेति स्वप्नः सप्तविधः स्मृतः ।
पञ्चैषु विफलाः पूर्वे फलदौ चेष्यसूचकौ ॥ १८-३७ ॥
स्वाङ्गकेशनखानां च दन्तप्रासादवेश्मनाम् ।
देवचन्द्रार्कवृक्षाणां पातश्चोच्चात् तथात्मनः ॥ १८-३८ ॥
क्षौराभ्यङ्गविवाहाश्च शृङ्गिभिर्दंष्ट्रिभिः खगैः ।
पीडनं वा खरोष्ट्राश्वडोलारोहणकानि च ॥ १८-३९ ॥
दक्षिणाभिमुखं यात्रा गर्तपङ्काप्सु मज्जनम् ।
अनुत्थानं ततो मार्गविधानं पतितस्य च ॥ १८-४० ॥
रण्डाभिर्वाथ मुण्डाभिर्विकृताभिरथापि वा ।
अतिकृष्णातिरौद्राभिः कृष्णरक्ताम्बरायसैः ॥ १८-४१ ॥
भूषिताभिरसौम्याभिः स्त्रीभिः सङ्गोपगूहनम् ।
कर्षणं च सरित्सिन्धुसमुद्राणां च शोषणम् ॥ १८-४२ ॥
दीपाग्निज्योतिषां नाशः प्रतिमालिङ्गभेदनम् ।
कृष्णस्रगम्बरालेपरक्तवस्त्रादिधारणम् ॥ १८-४३ ॥
हरिद्रालेपनं स्थौल्यं देहाङ्गानां च खण्डनम् ।
कार्पासतिलपिण्याकसुवर्णमरिचान्धसाम् ॥ १८-४४ ॥
लाभो विरेचनं चैव घृतं मत्स्यं च शासनम् (?) ।
मधुतैलेक्षुतक्राणां पानं गीतं च नर्तनम् ॥ १८-४५ ॥
इष्टैर्वियोगोऽनिष्टैश्च योगो देवद्विजन्मभिः ।
पितृभिर्लिङ्गिनश्चापि भर्त्सनं ताडनादिकम् ॥ १८-४६ ॥
अपूपसक्तुशुष्कान्नभक्षणं सलिलादिभिः ।
निर्वापणं वा दीपादेः पतनं पादचर्मणोः ॥ १८-४७ ॥
दिग्वाससमासौम्यानां मुण्डानां कृष्णवाससाम् ।
काषायिणां कपीनां च दर्शनस्पर्शनादिकम् ॥ १८-४८ ॥
खरोष्ट्रकोलमहिषाद्यारोहस्तद्रथस्य वा ।
गोमयोन्मज्जनालेपावसौम्यशिशुसङ्ग्रहः ॥ १८-४९ ॥
समाजः पानगोष्ठ्यादौ मृतैरप्युपगूहनम् ।
इत्येवमादिकं स्वप्ने विनाशभयदुःखदम् ॥ १८-५० ॥
स्वस्थानामपि रोगाय मरणायाथवा भवेत् ।
अतःपरं शुभाः स्वप्नाः कथ्यन्ते सिद्धिसूचकाः ॥ १८-५१ ॥
शुक्लस्रगम्बरालेपदीपदर्पणसङ्ग्रहः ।
दधिक्षीराज्यताम्बूलफलतण्डुलवाससाम् ॥ १८-५२ ॥
ब्रीहिशालियवानां च शङ्खमौक्तिकयोषिताम् ।
सुरूपशुक्लवेषाणां लाभश्च रुधिरार्द्रता ॥ १८-५३ ॥
नद्यब्धितोयतरणं प्रज्वलद्वह्निदर्शनम् ।
चन्द्रार्कतारकास्पर्शो नरयानाधिरोहणम् ॥ १८-५४ ॥
वृक्षाद्रिहस्तिप्रासादफलक्षीरमहीरुहाम् ।
अस्थितुङ्गविमानानामारोहो नृगवामपि ॥ १८-५५ ॥
विशिष्टलिङ्गिविप्रेन्द्रपितृदेवाद्यनुग्रहः ।
लिङ्गाक्षसूत्रप्रतिमाविशिष्टायुधसङ्ग्रहः ॥ १८-५६ ॥
स्वाङ्गवस्त्रगृहादीनामनिर्वाणाग्निदीपनम् ।
तेष्वान्त्रवेष्टनं वापि विडालेपः स्वविग्रहे ॥ १८-५७ ॥
मृतिर्वा कुणपस्पर्श आर्द्रमांसस्य भक्षणम् ।
दंशः स्वदक्षिणकरे शुक्लवर्णेन भोगिना ॥ १८-५८ ॥
पौष्करे स्वर्णपात्रे वा घृतपायसभोजनम् ।
दधिक्षीराशनं पानं मैरेयस्यामृतस्य वा ॥ १८-५९ ॥
तत्पूर्णकुम्भलाभो वाप्यगम्यस्त्रीनिषेवणम् ।
बलाकाकुक्कुटीक्रौञ्चीहंसीलाभः सुतागमः ॥ १८-६० ॥
मन्त्रपुस्तकविद्यानां वीणायाश्चौषधस्य वा ।
छत्राणां चामुराणां च लाभस्तीर्थावगाहनम् ॥ १८-६१ ॥
इत्यादिदर्शनं स्वप्ने सिद्धिश्रीसुखसूचकम् ।
ब्राह्मणाश्चैव देवाश्च पितरो लिङ्गिनस्तथा ॥ १८-६२ ॥
यद् यद् वदन्ति हि स्वप्ने तत् तथैव भविष्यति ।
इति स्वप्नाधिकारः ।
अथ शिष्यं स्नातं निर्वर्तितसन्ध्योपासनं शम्भुकुम्भशिवाग्नीनां कृतप्रणामार्चनं प्राग्वदालम्बितपाशसूत्रं शिवानुज्ञया मण्डपं प्रवेश्य कुण्डान्तिक
उपवेश्य ॐ हाम् आधारशक्तये नमः इति तामग्नावावाह्य स्वाहान्तेन तेनाज्यं त्रिवारं जुहुयात् ।
तस्यामाधारशक्तौ तु विन्यसेदध्वपञ्चकम् ॥ १८-६३ ॥
तद्व्यापिकां निवृत्तिं च विभागोऽस्यैव कथ्यते ।
पृथ्वीतत्त्वं क्षवर्णश्च मन्त्रौ हृदयसद्यकौ ॥ १८-६४ ॥
अष्टाविंशतिसङ्ख्यानि पदान्यन्त्याद् विलोमतः ।
कालाग्न्यादीनि काल्यन्तं भुवनाष्टोत्तरं शतम् ॥ १८-६५ ॥
स्वमन्त्रेण निवृत्तिं तु सूत्रात् संहृत्य तेन तु ।
वह्नौ शक्तौ निवेद्येष्ट्वा सान्निध्यायाहुतित्रयम् ॥ १८-६६ ॥
तेनैवाग्निप्रियान्तेन हुत्वा तत्र विभावयेत् ।
मलं कर्म च तन्मायारूपपाशात् पशोः पुनः ॥ १८-६७ ॥
भोक्तृत्वभोगदेहादिजनकं च शिवेच्छया ।
सङ्कल्प्य भुवनेष्वेषु योनीर्नानाशरीरिणीः ॥ १८-६८ ॥
भुवनानुगुणं याः स्युरन्ताः कर्मसम्भवाः ।
तद्व्यापिकां च वागीशीं
ॐ हां वागीश्वर्यै नमः
अनेनावाह्य पूजयेत् ॥ १८-६९ ॥
अनेनैव स्वाहान्तेन त्रिवारं हुत्वा भगवति ! वागीश्वरि ! पशोरनुग्रहाय सन्निहिता भवेति सम्प्रार्थ्यार्घ्याम्बुभिरस्त्रेण सम्प्रोक्ष्य पुष्पास्त्रेण हृदि सन्ताड्य रेचकेन स्वयं शिष्यहृदयं सुषुम्ना प्रविश्य तच्चैतन्यमस्त्रेणाच्छिद्याङ्कुशमुद्रयोत्कृष्य मूलेन द्वादशान्ते बिन्दुरूपे संयोज्य प्रणवसम्पुटितं हंसं समुच्चारयंस्तच्छिष्यचैतन्यं पूरकेण स्वहृदयपद्ममानीय मूलमन्त्रं स्मृत्वा कुम्भकं च कृत्वा ततो मूलेन सङ्गृह्य रेचकेन द्वादशान्तं नीत्वा भवमुद्रया जरायुजाण्डजस्वेदजोद्भिज्जमानसीषु सर्वास्वनन्तासु योनिषु पूर्वोक्तासु तच्छरीरग्रहणव्यक्तिरूपेण शिष्यचैतन्यस्य युगपत् संयोगं कुर्यात् । तदनु
तारमूलं शिवायाग्नेर्जायासप्ताक्षरस्त्वयम् ।
योनिसंयोगगर्भाप्तिजन्मादौ मन्त्र ईरितः ॥ १८-७० ॥
होमे प्रयोज्यस्त्वस्यान्ते
भगवन् ! अस्यात्मनः सर्वासु योनिषु युगपत् संयोगं कुरु कुर्विति ।
इमं मन्त्रमुदीरयेत् ।
तत्रास्यात्मनःपदादूर्ध्वं सर्वासु योनिषु संयोगमित्यस्मिन् स्थाने गर्भनिष्पत्तिगर्भजन्मादीनि वक्ष्यमाणानि कर्माणि तत्तन्नामधेयेन संयोज्य कुरुकुर्वित्युच्चार्य तत्तत् कर्म निष्पादयेत् । सर्वत्र मूलेनाहुतित्रयं हुत्वा सप्ताक्षरेण च त्रिवारं हुत्वा भगवन्नादिकं त्रिवारमुच्चार्य प्रार्थयेत् । तत्र सर्वयोनिसंयोगं गर्भनिष्पत्तिं सर्वगर्भजननं च क्रमान्निष्पाद्य
ततः सर्वशरीराणां युगपद् वृद्धिमादितः ॥ १८-७१ ॥
भोगनिष्पत्तये स्मृत्वा प्राक्कर्मागामिकर्म च ।
सर्वयोनिशरीरेषु भोगकर्मार्जनं स्मरेत् ॥ १८-७२ ॥
तत्र प्राग्वद्धुत्वा भगवन्नादौ नानाभोगदायकं कर्मार्जनं कुरु कुर्विति लोकधर्मिकायां प्राक्कर्मागामिकधर्माधर्मरूपकर्मार्जनं विभाव्य होतव्यम् ।
अपि साधकदीक्षायां प्राक्कर्मागामिकं स्मरन् ।
हुत्वा तद्देशकालाप्तशरीरविषयक्रियाः ॥ १८-७३ ॥
भेदेन नानारूपाढ्याः प्राक्तनागामिकर्मणाम् ।
भोक्तृत्वालिङ्गितस्यास्य ह्यात्मनः सुखदुःखयोः ॥ १८-७४ ॥
वेदनादस्य भोगस्य विषयासक्तिनिघ्नताम् ।
संस्मृत्य तिस्रो जुहुयान्मूलेनाब्ध्यर्णकेन च ॥ १८-७५ ॥
तत्र पशोरस्य सर्वभोगनिष्पत्तिं कुरु कुर्विति ।
अत्र भोजराजः – लोकधर्मिकायां प्रागागामिकधर्माधर्मजनितदेशकालशरीरविषयभेदेन नानारूपं भोगं सञ्चिन्त्याहुतीर्दद्यात् । साधकदीक्षायां प्राक्कर्मणैव जनितदेशकालशरीरविषयभेदेन नानारूपं भोगं सञ्चिन्त्याहुतिदानं कर्तव्यमिति ।
ततो लयं च भोगेषु परमप्रीतिलक्षणम् ।
अभिसन्धाय जुहुयात् प्राग्वत् तल्लयकारणात् ॥ १८-७६ ॥
भोगेषु परमप्रीतिरूपं लयं कुरु कुर्विति । तदनु
जात्यायुर्भोगसंस्कारसिद्ध्यर्थं हृदयेन तु ।
शतं जुहोतु चात्राह ब्रह्मशम्भुः प्रयोजनम् ॥ १८-७७ ॥
उपयुक्तोदकस्येव शरन्मेघस्य लाघवम् ।
शुद्धिरस्य विनिर्दिष्टा तत्त्वस्य क्षीणकर्मणः ॥
अपुनःप्रसवित्वं च निष्कृतिश्चेति सोच्यते ।
हृदयेनाहुतीनां तु तदर्थं जुहुयाच्छतम् ॥
इति ।
ततो मूलेन त्रिवारं हुत्वा सप्ताक्षरेण च भगवन्नादिना निष्कृत्य सर्वकर्मशुद्धिं कुरु कुर्विति प्रार्थयेत् ।
भोगाभावं च सङ्कल्प्य मायापाशाद् बहिर्गतः ।
तद्विश्लेषं च सञ्चिन्त्य मूलसप्ताक्षरादिभिः ॥ १८-७८ ॥
हुत्वाथ भोक्तृतामस्य विषयासक्तिलक्षणम् ।
मलकायं विभाव्यास्य विशुद्ध्यै जुहुयाद् दश ॥ १८-७९ ॥
मूलेन मलविश्लेषं सङ्कल्प्य जुहुयात् त्रयम् ।
कर्मणोऽपि विशुद्धस्य विश्लेषायाहुतित्रयम् ॥ १८-८० ॥
मूलसप्ताक्षराभ्यां तु भगवन्नादिना पुनः ।
मायामलकर्मरूपस्य पाशत्रयस्य विश्लेषं कुरु कुर्विति पाशविश्लेषं विधाय मलादितत्त्वादिव्यापकस्य निवृत्तिपाशस्यास्त्रेण मूलेन सप्ताक्षरेण च त्रिवारं हुत्वा भगवन्नादिना निवृत्तिपाशच्छेदं कुरु कुर्विति तत्पाशच्छेदं विभाव्य तदनु
सर्वयोनिशरीराणां विनाशात् तद्गतात्मनः ॥ १८-८१ ॥
एकत्वं परिभाव्याथ वौषड्जातियुतेन तु ।
मूलेन पूर्णां हुत्वा तु सतारं ब्रह्मणे नमः ॥ १८-८२ ॥
इत्युक्त्वावाह्य सम्पूज्य
ॐ ब्रह्मन् शब्दस्पर्शौ गृहाण स्वाहा ।
इति हुत्वाहुतित्रयम् ।
तदनु
कारणेश त्वया नास्य यातुः पदमनामयम् ॥ १८-८३ ॥
प्रतिबन्धो विधातव्य आज्ञैषा पारमेश्वरी ।
एवं शिवाज्ञां दत्त्वा निवृत्तिकलापाशादिकारणेशं ब्रह्माणं विसर्जयेत् ।
एवं तु शिष्यचैतन्यं विशुद्धं स्फटिकप्रभम् ॥ १८-८४ ॥
निवृत्तिपाशनिर्मुक्तं स्मृत्वोद्धारं समाचरेत् ।
प्राग्वद्धुत्वा तु भगवन्नादिना निवृत्तिकलापाशादुद्धारं कुरु कुर्विति ।
संहारिण्या तदुद्धृत्य चैतन्यं पूरकेण तु ॥ १८-८५ ॥
कृत्वात्मस्थं गुरुः पश्चाद् रेचकेनोद्धृतं क्षणात् ।
योजयेत् सूत्रदेहेऽस्य स्थैर्यार्थं त्रिर्जुहोतु च ॥ १८-८६ ॥
ततो वागीश्वरीमिष्ट्वा त्रिस्रो हुत्वा स्वमन्त्रतः ।
तां विसृज्याथ सन्दध्यात् कलां शुधामशुद्धया ॥ १८-८७ ॥
बीजं निवृत्त्याः शुद्धाया ह्रस्वमुच्चारयेत् ततः ।
विशुद्धायाः प्रतिष्ठाया दीर्घान्तं नामनी क्रमात् ॥ १८-८८ ॥
समस्य तु चतुर्थ्यन्तं नम इत्यभिपूज्य तु ।
अनेनैवाग्निजायान्तं हुत्वा वारत्रयं ततः ॥ १८-८९ ॥
लीनां निवृत्तिं संशुद्धां प्रतिष्ठायां विभावयेत् ।
इति निवृत्तिकलाशोधनम् ।
उक्तानां कर्मणामत्र क्रमपाठो विधीयते ॥ १८-९० ॥
प्रतिष्ठादिकलानां च य एव स्याद् विशोधने ।
आधारशक्तिस्तत्त्वं च वागीश्या नैकयोनिता ॥ १८-९१ ॥
शिष्यात्मनः समादानं योजनं सर्वयोनिषु ।
गर्भनिष्पत्तिजनने कर्मार्जनमतःपरम् ॥ १८-९२ ॥
ऐश्वर्यं भोगसिद्धिश्च लयो निष्कृतिरेव च ।
विश्लेषश्च मलादीनां पाशच्छेदश्च पूर्णया ॥ १८-९३ ॥
कारणेशार्पणोद्धारग्रहणैक्यान्यतः परम् ।
नियोजनं सूत्रदेहे वागीश्वर्या विसर्जनम् ॥ १८-९४ ॥
शुद्धतत्त्वात्मतालोकः कलासन्धानपूजने ।
इति कर्मक्रमस्तुल्यः प्रतिष्ठादिकलास्वपि ॥ १८-९५ ॥
अथ शक्तिं समाराध्य स्वमन्त्रेण प्रतिष्ठामावाह्य संस्थाप्याभ्यर्च्य सान्निध्याय तेन त्रिवारं हुत्वा मलकर्ममायापाशरूपं भोक्तृत्वभोगशरीरादिजनकं
प्रतिष्ठया व्याप्तं सञ्चिन्त्याबादिप्रकृत्यन्ते तत्त्वाध्वनि षट्पञ्चाशद् भुवनान्येकविंशतिपदानि वर्णानां त्रयोविंशतिः शिरोवामौ प्रतिष्ठया व्याप्ताश्चिन्तनीयाः । मूलसप्ताक्षराभ्यां त्रिवारं हुत्वा भगवन्नस्यात्मनो मलादितत्त्वानि प्रतिष्ठाकलायां सन्निधिं कुरु कुर्विति । तदनु षट्पञ्चाशद्भुवनेषु नानाविधा योनीः सङ्कल्प्य तद्व्यापिनीं वागीश्वरीमावाह्य संस्थाप्याभ्यर्च्य सान्निध्याय त्रिवारं हुत्वा प्रोक्षणताडनप्रवेशनच्छेदाकर्षण-ग्रहणादीनि पूर्ववत् कृत्वा पूरकेणात्मस्थं शिष्यचैतन्यं कुम्भीकृत्य रेचकेन द्वादशान्तगतं सङ्गृह्य पूर्ववत् सर्वासु योनिषु युगपद् व्यक्तिमापाद्य मूलसप्ताक्षराभ्यां त्रिवारं हुत्वा भगवन्नादिना च सर्वयोनिषु संयोगगर्भनिष्पत्तिजननकर्मार्जन-भोगलयांश्च पृथक् पृथक् प्राग्वन्निष्पाद्य निष्कृतौ शिरसा शतं हुत्वा निष्कृतिं च प्राग्वदापाद्य भोगाभावान्मायापाशाद् बहिर्निष्क्रमणाद् विश्लेषं च पूर्ववद्धुत्वापाद्य मलकार्यभोक्तृत्वादिभ्यो बहिर्निर्गमाद् विश्लेषं ध्यात्वा तद्विशेषं च पूर्ववद्धुत्वापाद्य कर्मणो विश्लेषं तथैवापादयेत् । ॐ विष्णो ! अस्यात्मनः पुर्यष्टकं गृहाण स्वाहेति त्रिवारं हुत्वा कारणेशत्वयेत्यादिनाज्ञां विश्राव्य विसर्जयेत् । ततो मूलसप्ताक्षराभ्यां प्राग्वद्धुत्वा भगवन्नादिना प्रतिष्ठापाशादुद्धारं कुरु कुर्वित्युद्धृत्य तच्चैतन्यं प्राग्वदात्मस्थं कृत्वा सूत्रशरीरे प्रवेशयेत् । वागीश्वरीमिष्ट्वा विसृज्य कलासन्धानं च प्रतिष्ठाविद्याभ्यां स्वबीजोच्चारणादिना विधाय सम्पूज्य हुत्वा प्रतिष्ठां विद्यायां लीनां चिन्तयेत् । अथ विद्याकलां शोधितुं शक्तिमभ्यर्च्य स्वमन्त्रेण विद्याकलामावाह्य संस्थाप्याभ्यर्च्य तेन त्रिवारं हुत्वा व्याप्तिमवलोकयेत् । पुरुषादिमायान्तं सप्त तत्त्वानि सप्त वर्णाः सप्तविंशतिर्भुवनानि शिखाघोरौ मन्त्रौ पदानां विंशतिश्च मलादित्रयं च सर्वं विद्याकलया व्याप्तं विभाव्य सर्वयोनिव्यापिकां स्वमन्त्रेण वागीशीमावाह्य संस्थाप्याभ्यर्च्य तत्सान्निध्याय त्रिवारं हुत्वा प्रोक्षणताडनादिकं च सर्वयोनिसङ्कल्पसंयोगगर्भनिष्पत्तिजनन-भोगलयान्तं कर्म सर्वं मूलेन सप्ताक्षरेण त्रिवारं त्रिवारं हुत्वा भगवन्नादिना च यथायोगं विधाय निष्कृतौ शिखया शतं हुत्वा मूलेन सप्ताक्षरेण च प्राग्वन्निष्कृतिमापादयेत् । तत्र निष्कृत्या सर्वापाशशुद्धिं कुरु कुर्विति तथैव विश्लेषपाशच्छेदपूर्णाहुतीः प्राग्वद् विधाय ततो रुद्राय नम इत्यावाह्य संस्थाप्याभ्यर्च्य त्रिवारं हुत्वा ॐ रुद्र ! रूपगन्धौ गृहाण स्वाहेति त्रिर्जुहोति । ततः कारणेशेत्यादिनाज्ञां श्रावयित्वा तं विसृज्यपूर्ववद् विद्याकलापाशादुद्धृत्यात्मस्थं कृत्वा द्वादशान्तात् सूत्रे देहे निवेश्य
स्थिरीकरणाय त्रिवारं हुत्वा वागीशमभ्यर्च्य हुत्वा विसृज्य प्राग्वद् विद्याशान्तिबीजे ह्रस्वदीर्घे सन्धाय सन्निधीकृत्य मूलेन त्रिवारं हुत्वा विद्यां शान्तिकलायां विलीनां विभाव्य शान्तिं शोधयेत् ।
ततः शक्तिं समभ्यर्च्य हुत्वा सप्ताक्षरेण तु ।
शान्तिं स्वमन्त्रेणावाह्य संस्थाप्येष्ट्वा जुहोति च ॥ १८-९६ ॥
सन्निधानाय मूलेन हुत्वा ध्यात्वाध्वपञ्चकम् ।
सदाशिवान्तं तत्त्वानि पुराण्यष्टादशैव तु ॥ १८-९७ ॥
एकादश पदान्यत्र मन्त्रौ कवचपूरुषौ ।
त्रयो वर्णाश्च विज्ञेयाः शान्त्या व्याप्ताः पृथक् पृथक् ॥ १८-९८ ॥
ततो वागीश्वरीं नानायोनिसञ्जननीं स्मरन् ।
आवाह्याभ्यर्च्य हुत्वाथ मूलेन प्राग्वदाहुतीः ॥ १८-९९ ॥
तदनु प्रोक्षणताडनप्रवेशच्छेदाकर्षणग्रहणयोजनगर्भ-जन्मकर्मार्जनैश्वर्यभोगलयांश्च पूर्ववद् विधाय निष्कृतौ वर्मणा शतं हुत्वा मूलसप्ताक्षराभ्यां भगवन्नादिना निष्कृत्य सर्वपाशशुद्धिं कुरु कुर्विति समाप्य
भोगाद् बहिर्निर्गमनान्मूलसप्ताक्षरादिभिः ।
विश्लेषं सर्वभोगेभ्यः कृत्वाथ मलकर्मणोः ॥ १८-१०० ॥
विश्लेषायाहुतीर्हुत्वा पाशच्छेदेऽस्त्रतस्तथा ।
मूलात् सप्ताक्षराद्धुत्वा भगवन्नादिनात्मनः ॥ १८-१०१ ॥
मलादितत्त्वादिव्यापकस्यच्छेदनं कुरु कुर्विति समाप्य
प्राग्वत् पूर्णाहुतिं दत्त्वा
ॐ ईश्वराय नम इति
आवाह्याभ्यर्चयेदमुम् ।
हुत्वा च बुद्ध्यहङ्कारौ गृहाणेति तदाख्यया ॥ १८-१०२ ॥
हुत्वा त्रिवारं संश्राव्य कारणेशादिना ततः ।
तं विसृज्यैश्वरं शिष्यं शान्तिपाशैर्वियोजितम् ॥ १८-१०३ ॥
मूलसप्तार्णहोमेन भगवन्नादिनात्मनः ।
प्राग्वच्छान्तिकलापाशादुद्धारं कुरु कुर्विति ॥ १८-१०४ ॥
संहारिण्या तदुद्धृत्य पूरकेणात्मयोजितम् ।
रेचकेनोद्धृतं पाशसूत्रदेहे प्रवेशयेत् ॥ १८-१०५ ॥
स्थिरीकृत्य तु मूलेन हुत्वा वागीश्वरीमपि ।
सम्पूज्य हुत्वा चोत्सृज्य कलासन्धानमाचरेत् ॥ १८-१०६ ॥
प्राग्वध्रस्वं च दीर्घं च शुद्धाशुद्धविभागतः ।
शान्त्याश्च शान्त्यतीतायाः प्राग्वदिष्ट्वा जुहोतु च ॥ १८-१०७ ॥
शान्तिं लीनामतीतायां कृत्वातीतां च शोधयेत् ।
शान्त्यतीतामथावाह्य संस्थाप्येष्ट्वा जुहोतु च ॥ १८-१०८ ॥
प्राग्वद् व्याप्तिं स्मरेदत्र मलकर्मविमिश्रिताम् ।
शक्त्यन्तोऽध्वा त्रयो मन्त्रा वर्णाः षोडश वै पदम् ॥ १८-१०९ ॥
एकं तु भुवनानां च चिन्त्यं पञ्चदशैव हि ।
बिन्दुनादकलाशक्तिव्यक्तान्येतान्यतीतया ॥ १८-११० ॥
व्याप्तानि तत्सन्निधाने मूलेन त्रिर्जुहोत्वथ ।
वागीशीं भुवनेष्वेषु व्याप्तामावाह्य चार्चयेत् ॥ १८-१११ ॥
तत्सान्निध्याय जुहुयात् त्रिवारं पूर्ववद् घृतम् ।
तदनु प्रोक्षणताडनच्छेदाकर्षणयोनिसंयोगगर्भजन्मक-मैश्वर्यभोगलयान्तं तिसृभिस्तिसृभिराहुतिभिर्मूलसप्ताक्षराभ्यां हुत्वा भगवन्नादिना तत्तत्कर्माभिसन्धाय सम्पाद्य निष्कृतौ मूलेन शतं हुत्वा प्राग्वन्निष्कृतिं कुरु कुर्विति च शान्त्यतीतापाशेभ्यो बहिर्निर्गमाद् विश्लेषं ध्यात्वा मूलेन त्रिवारं हुत्वातीतापाशस्य मलादिव्यापकस्य प्रणवेनाहुतित्रयं हुत्वा तत्पाशच्छेदाय मूलसप्ताक्षराभ्यां च भगवन्नस्यात्मनः शान्त्यतीतापाशच्छेदं कुरु कुर्वित्युक्त्वा मूलेन पूर्णां हुत्वा कलानां शुद्ध्यर्थं समयसमयाचारपाशं सादेशे सङ्कल्प्य शोधयेत् ।
ॐ समयसमयाचारपाशाधिपेभ्यो गणेभ्यो नम इत्यावाह्य संस्थाप्याभ्यर्च्यानेन स्वाहान्तेन सन्निधानाय त्रिवारं हुत्वा सप्ताक्षरेण च ततः प्रणवमूलादिकं सदाशिवपूर्यष्टकांशं मनः सङ्गृहाण स्वाहेति त्रिवारं हुत्वा कारणेशेत्यादिना संश्राव्य तं विसर्जयेत् । ततः शिवास्त्रेण प्रणवसम्पुटेन रेचकेनातीतापाशात् संहृत्यात्यन्तं निर्मलमात्मस्थं शिष्यस्थं च विधाय तच्छिरस्युदकबिन्दुं
दत्त्वाथ वागीशीमभ्यर्च्य सन्तर्प्य विज्ञापयेत् । भगवति ! पञ्चतत्त्वखेदितासि गच्छेदानीं स्वविषयमिति विसृज्य शान्त्यतीतकलां शक्तितत्त्वे विलीनां ध्यात्वा मायातत्त्वान्तमात्मतत्त्वमुपस्थापयेत् । प्रणवमूलादिकमात्मतत्त्वाय नम इति सन्निधीकृत्य सप्ताक्षरेणोच्चैरुच्चारयन्नाहुतिशतं हुत्वैवं विधिवैकल्यकर्मशुद्धिर्भवेत् ।
ततः सदाशिवान्तं विद्यातत्त्वं स्वमन्त्रेणावाह्य स्थापयित्वाभ्यर्च्य तेनैवोपांशूच्चारणेनाष्टोत्तरशतं हुत्वा मन्त्रोच्चारणवैकल्यं शुध्यति । ततः शक्त्यन्तं शिवतत्त्वमुपस्थाप्यावाह्य स्थापयित्वाभ्यर्च्य तेनैव मानसोच्चारणेनाष्टोत्तरशतं हुत्वा मनोविज्ञानवैकल्याच्छुध्यति । ततस्तु
विश्वाध्वव्यापिकां शक्तिमध्वान्तःस्थां विभावयेत् ॥ १८-११२ ॥
सर्वकारणरूपां च तदग्रे शिष्यपुद्गलम् ।
विशुद्धमणिसङ्काशं विचिन्त्याभ्यर्च्य तं गुरुः ॥ १८-११३ ॥
कर्तरीं शिखयामन्त्र्य बुभुक्षोर्द्वादशाङ्गुलात् ।
परतस्तु शिखां छिन्द्यान्मोक्षायाष्टाङ्गुलात् परम् ॥ १८-११४ ॥
शिखयैव शिखां छित्त्वा स्नायाच्छिष्यो विशुद्धये ।
गुरुश्च धौतपाण्यङ्घ्रिराचान्तः प्रोक्षणाच्छुचिः ॥ १८-११५ ॥
ततो गुरुः प्रविश्यान्तः सशिष्यः सकलीकृतः ।
सपाशसूत्रां तु शिखां छन्नां गोमयगोलके ॥ १८-११६ ॥
स्रुचि स्रुवेण विहितां कृत्वा पूर्णाहुतिं यथा ।
हुत्वा बहिस्ततो गत्वा क्षालयेत् सुक्स्रुवावपि ॥ १८-११७ ॥
कर्तरीं च समाचम्य शिवमिष्ट्वा विशेषतः ।
विज्ञापयेद् भो भगवन्नध्वशुद्धिस्त्वदाज्ञया ॥ १८-११८ ॥
अस्यात्मनः कृता देव ! लूनपाशशिखा यतः ।
शिवत्वं च परं धाम यात्वयं त्वदनुग्रहात् ॥ १८-११९ ॥
आज्ञा मे दीयतामस्य शिवत्वगुणयोजने ।
एवं कुरुष्वेति भगवतानुज्ञातः प्रहृष्टोऽर्घ्यपात्रहस्तः शिष्यसहितोऽग्निसमीप उपविश्य प्राग्वत् प्रोक्षणताडनान्तःकरण-सकलीकरणनादीसन्धानमन्त्रतर्पणानि
स्वयं विद्यातत्त्वास्पद इन्धिका दीपिका रोचिका मोचिका ऊर्ध्वगामिनी सूक्ष्मा सुसूक्ष्मा अमृता ऋता शक्तिरिति नादशक्तिकलास्तद्व्यापिनी व्योमरूपा अनन्ता अनाथा अनाश्रिता चेति बहिष्करणं विभाव्यान्तःकरणशुद्धात्मतत्त्वस्तत्त्वत्रयापूर्ण-तनुः पूरककुम्भकेन कृत्वा तालुके जिह्वां संयोज्य किञ्चिद्विवृतवक्त्रो दन्तैर्दन्तानसंस्पृशन् ऋजुकायः शिष्यचैतन्यमात्मनि संयोज्य सुषुम्नायामन्यनाडीः प्राणवायुनैकीकृत्य शिष्यात्मानं समन्त्रं शुद्धस्फटिकनिभं विचिन्त्य मूलमन्त्रं हंसं चोच्चारयन् हृत्कण्ठतालुबिन्दुमूर्धगतान् ब्रह्मादिकारणेशानतीत्य शिष्यात्मानं पूर्णाहुत्या बहिः कुम्भकेन शिवे संयोज्य शिष्यं शिवीभूतं ध्यात्वा तस्मै शिवविषयान् षडङ्गगुणानापादयेत् । तद्यथा –
ॐ हुम् आत्मन् ! सर्वज्ञो भव स्वाहा इत्याज्याहुतिं हुत्वा एवमिव परितृप्त अनादिबुद्ध स्वतन्त्र अलुप्तशक्ति अनन्तशक्ति इत्येकैकाहुतिं हुत्वा शिवीभूतं सार्वज्ञ्यादिगुणसम्पन्नं शिष्यं विभाव्य मूलेनार्घ्यजलेन मन्त्रसंहितया तमभिषिच्याष्टौ समयान् ज्ञापयेत् ।
तद्यथा –
माहेश्वरांश्च तच्छास्त्रसमयाचारसाधकान् ॥ १८-१२० ॥
शिवं गुरुं च तद्भक्तान् न निन्देत् प्रथमस्त्वयम् ।
विमानगुरुलिङ्गानां (जा ? छा)यां लिङ्गिगवामपि ॥ १८-१२१ ॥
न लङ्घयेच्च निर्माल्यं नाश्नीयात् पतितादिभिः ।
पुष्पिकासौतिकाशौचिस्पृष्टं नाद्यान्न तान् स्पृशेत् ॥ १८-१२२ ॥
अयं द्वितीयः समयः ।
समयान् समयाचारान् मन्त्रतन्त्राण्यदीक्षितैः ।
न लेखयेच्छ्रावयेद् वा तृतीयः समयस्त्वयम् ॥ १८-१२३ ॥
द्विकालं वा त्रिकालं वाप्येककालं शिवं गुरुम् ।
पूजयित्वैव भुञ्जीत चतुर्थः समयस्त्वयम् ॥ १८-१२४ ॥
अनापतितशक्तींश्च पतितान् वाथ नास्तिकान् ।
न दीक्षयेत् पापशीलान् समयः पञ्चमः स्मृतः ॥ १८-१२५ ॥
शिवाग्निगुरुविद्यानां यदिष्टं नवमेव च ।
अन्नाद्यं कुसुमाद्यं वा नानिवेद्य चरेत् स्वयम् ॥ १८-१२६ ॥
तद्वद् बालाबलावृद्धरोगार्तकृपणानपि ।
अतिथीनन्नपानाद्यैस्तर्पयित्वा स्वशक्तितः ॥ १८-१२७ ॥
शुककाकश्वचण्डालेभ्योऽन्नं दद्यानुग्रहात् ।
इति षष्ठं तु शैवानां विज्ञेयं समयव्रतम् ॥ १८-१२८ ॥
अष्टमीपर्वभूतासु स्त्रीक्षौराभ्यङ्गवर्जनम् ।
कांस्यपात्राशनं पानं मत्स्यं मांसं मधूनि च ॥ १८-१२९ ॥
सर्वथा सर्वदा वर्ज्यं समयस्त्वेष सप्तमः ।
यमानां नियमानां च यथायोगनिषेवणम् ॥ १८-१३० ॥
चतुर्दश्यष्टमीपर्वग्रहविष्वयनादिषु ।
पवित्रचैत्रकादौ च विशेषविधिपूजनम् ॥ १८-१३१ ॥
कुर्यान्नक्तं दिवा वापि सकृत् सङ्कल्प्य भोजनम् ।
शरणागतरोगार्तपथिकत्रस्तविह्वलान् ॥ १८-१३२ ॥
शिवभक्तानथाप्यन्यान् साधून् गोब्राह्मणानपि ।
पोष्यान् भृत्यादिकाञ् शक्त्या पालयेदिति चाष्टमः ॥ १८-१३३ ॥
समयः कथितो ह्येष पालनीयः प्रयत्नतः ।
इति गुरुसमयानां प्राप्य शिक्षां तु शिष्यो
गुरुभिमतवित्तैः प्रश्रयैस्तोषयित्वा ।
प्रणतिमतिविधायानुज्ञया तस्य शश्वत्
प्रियहितविनिविष्टः शम्भुपूजां विदध्यात् ॥ १८-१३४ – ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे निर्वाणदीक्षापटलोऽष्टादशः ॥ १८ ॥