अथ सप्तदशः पटलः ।
अथ निर्वाणदीक्षादिक्रियानिष्पत्तिसाधनम् ।
यथावदध्वनां षण्णां स्वरूपं तु निरूप्यते ॥ १७-१ ॥
तत्त्वाध्वा चैव वर्णाध्वा मन्त्राध्वाध्वा च भौवनः ।
पदाध्वा च कलाध्वा च षट्प्रकारोऽध्वनिर्णयः ॥ १७-२ ॥
व्याप्यास्तत्त्वादयः पञ्च मलाद्या व्यापकास्त्रयः ।
पुनर्मलादयो व्याप्याः कलाध्वा व्यापकः स्मृतः ॥ १७-३ ॥
तत्र तत्त्वानि षट्त्रिंशत् तत्त्वाध्वा स्याद् विलोमतः ।
क्षकारादिरकारान्तो वर्णाध्वाक्षरसन्ततिः ॥ १७-४ ॥
सद्यादिकानि ब्राह्माणि मन्त्राश्च हृदयादयः ।
मूलमन्त्रश्च मन्त्राध्वा प्रागेवात्र प्रदर्शितः ॥ १७-५ ॥
कालाग्न्यादीनि शक्त्यन्तं भुवनानि शतद्वयम् ।
सचतुर्विंशतिपुरं भुवनाध्वेति कथ्यते ॥ १७-६ ॥
व्योमव्यापिपदान्यत्र यान्येकाशीतिसङ्ख्यया ।
विलोमतः पदाध्वा स्यान्मन्त्रोद्धारे स चोदितः ॥ १७-७ ॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च पञ्चमी ।
शान्त्यतीतेति हि कलाः कलाध्वा सोऽपि दर्शितः ॥ १७-८ ॥
तन्त्रेऽस्मिन् प्रागनुक्तत्वाद् भुवनाध्वाथ कथ्यते ।
कालाग्निसञ्ज्ञं कूष्माण्डं हाटकं ब्राह्मवैष्णवे ॥ १७-९ ॥
रौद्रं च भुवनान्यत्र ब्रह्माण्डान्तःस्थितानि षट् ।
ब्रह्माण्डमूले कालाग्निभुवनं दशकोटि भिः ॥ १७-१० ॥
योजनैर्विस्तृतं तस्य विमानं लक्षयोजनम् ।
तस्य सिंहासनं पञ्चसहस्रैः साग्निमण्डलम् ॥ १७-११ ॥
अत्र मञ्जर्यां –
कालाग्निः स च योजनायुततनुर्लोकान् दिधक्षुः स्थितो-
ऽभ्युद्गीर्णाग्निशिखैस्त्रिनेत्रविकटैर्वक्त्रैश्च दंष्ट्रोज्ज्वलैः ।
सत्पाशाङ्कुशखड्गखेटकशरेष्वासाग्निखट्वाङ्गकै –
र्दोर्भिः शूलकपालसाभयवरैर्नानाहिभूषान्वितः ॥
इति । अपि च
अनतिकृशकृशानुश्रेणिविद्युद्वितान –
द्युतिकपिलजटाभिर्विप्रकीर्णाभिरुग्रः ।
प्रतिभयभटमुण्डस्रग्धरः कृत्तिवासाः
सितभसितसिताङ्गो भाति कालाग्निरुद्रः ॥ १७-१२ ॥
सप्तकोटिगणैर्भीमैरात्मवेषानुकारिभिः ।
रुद्रैः परिवृतो देवस्तेषां चैव दशेश्वराः ॥ १७-१३ ॥
धूम्रेश्वरश्च कपिलः कालकोऽधीश्वरस्तथा ।
जलदश्चञ्चलोऽर्थेश ईशोऽनन्तश्च पद्मभूः ॥ १७-१४ ॥
एते पूर्वादिदशदिक्षु प्रतिसप्ततिलक्षगणानामधिपतयः सपरिवारास्तिष्ठन्ति ।
कालाग्निभुवनादूर्ध्वं कूष्माण्डभुवनं स्थितम् ।
योजनानां नवतिभिर्लक्षैस्तद्विस्तृतोच्छ्रितः ॥ १७-१५ ॥
तन्मध्ये पञ्चसाहस्रयोजनस्तस्य चालयः ।
कूष्माण्डस्तु सहस्रयोजनतनुस्त्र्यक्षैस्त्रिभिश्चाननै –
र्दंष्ट्राभीषणदन्तुरैश्च दहनज्वालाट्टहासात्मवान् ।
विद्युत्पिङ्गजटः करैर्डमरुकं खट्वाङ्गपाशाङ्कुशान्
बिभ्रच्छूलकपालवह्निभुजगानान्त्रास्थिमालाधरः ॥ १७-१६ ॥
अपिच,
घण्टाशृङ्खलबद्धकेशवसनः प्रेतासने संस्थितो
भस्मोद्धूलितविग्रहश्च भुजगैर्नानाविधैर्भूषितः ।
भूतप्रेतपिशाचजम्भकगणैः षट्कोटिसङ्ख्यैर्वृतो
भीमः स्वे भुवने विभाति भगवान् कुष्माण्डरुद्रः स्थितः ॥ १७-१७ ॥
तस्याधस्तात् परितः पञ्चकोटिसङ्ख्यया
नरकाण्यतिदुःखानि पच्यन्ते येषु पापिनः ॥ १७-१८ ॥
तेषामपि च मुख्यानि द्वात्रिंशन्नरकाणि तु ।
तेषामपि त्रयो वर्गाः स्युस्तेषां चाधिपास्त्रयः ॥ १७-१९ ॥
रौरवः कुम्भीपाकोऽवीचिश्च । तानि च रौरवमहारौरव-शीतोष्णसन्तापनविदारणपङ्कमहापङ्कासिपत्रवनसूचीमुख-कालसूत्रक्षुरधारसञ्ज्ञान्येकादश रौरवप्रधानानि । तद्वत् कुम्भीपाकाङ्गारनिचयश्वभक्षणासृक्पूयपङ्कक्रकचपाटन-तप्तलोहतप्तवालुकास्थिभङ्गसूकरखमांसभक्षणावाङ्मुख-लम्बनानि
कुम्भीपाकप्रधानान्येकादश । अवीचिक्रिमिनिचयकूटशल्मलिनि-रुच्छ्वासामेध्यकूपक्रिमिकूपान्धकूपनिरालम्बनपतनशूलप्रोत-वैतरणिसञ्ज्ञान्यवीचिप्रधानानि दश ।
कूश्माण्डरुद्रः सर्वेषां नरकाणां प्रभुः स्मृतः ।
तेषां नवतिलक्षाणि प्रत्येकं विस्तृतिः स्मृता ।
उपर्युपरि सप्तापि पातालानि स्थितानि हि ॥ १७-२१ ॥
अतलं चैव पातालं नितलं च गभस्तितम् ।
महातलं च सुतलं रसातलमतःपरम् ॥ १७-२२ ॥
तानि च क्रमाद्धेममाणिक्केन्द्रनीलपुष्यरागरजतस्फटिकमयानि ।
रसातलं तु शैलमयं मुक्ताफलाकीर्णमिति विद्यात् ।
दैतेया दानवा नागाः कृतपुण्यास्तु ये पुरा ।
पातालेषु वसन्त्येषु हरपादार्चने रताः ॥ १७-२३ ॥
विरोचनहिरण्याक्षप्रह्लादबलिशम्बराः ।
वृत्राद्याश्चैव दैत्येन्द्राः पातालस्वर्गवासिनः ॥ १७-२४ ॥
भूमेश्च धारणे युक्तो विष्णुर्योऽनन्तविग्रहः ।
सोऽप्यास्ते भवने दिव्ये नागेन्द्रैरर्चितः सदा ॥ १७-२५ ॥
तत्र भोगवती नाम वासुकेर्नगरी शुभा ।
हेमरत्नमयी दिव्या दिव्यभोगसमन्विता ॥ १७-२६ ॥
क्रमात् पातालानामधिपतयः सप्त रुद्रास्तत्र तत्र निवसन्ति । ते च चण्डविजयज्येष्ठामयाथर्वपदमहारुद्रनैर्-ऋतसञ्ज्ञाः । सामान्येन सर्वपातालानामधिपतिर्हाटकेश्वरदेवः ।
हैमं तु हाटकेशस्य पुरं दिव्यगणावृतम् ।
विस्तारायामतस्तुल्यं सहस्रद्वययोजनैः ॥ १७-२७ ॥
तस्य विमानं द्विशतयोजनप्रमाणम् ।
तन्मध्ये कनकद्युतिस्त्रिनयनः सिंहासनस्थो भुजै –
र्बिभ्राणो वरदाभये च हरिणम् उङ्कं च दिव्याकृतिः ।
धुर्धूरेन्दुकलाभुजङ्गवलयस्रग्जाटजूटोज्ज्वलः
पार्वत्या सहितस्तु हाटकशिवो दिव्यैर्गणैरावृतः ॥ १७-२८ ॥
दैत्यदानवनागेन्द्रकन्याभिश्च कुमारकैः ।
अभ्यर्च्यमानः सततं सुगन्धकुसुमोत्करैः ॥ १७-२९ ॥
तस्योर्ध्वं खलु भूलोकादासत्यात् सप्तधा स्थितम् ।
ब्राह्मं तु भुवनं प्रोक्तं ब्रह्मसृष्ट्यभिपूरितम् ॥ १७-३० ॥
तस्य दशलक्षयोजनघना भूमिः पञ्चाशत्कोटियोजनविस्तृता पद्माकारावस्थिता ।
मध्येऽस्याः कर्णिकाकारो मेरुः कनकपर्वतः ।
स्थितः षोडशसाहस्रयोजनं त्ववनावधः ॥ १७-३१ ॥
चतुरशीतिसाहस्रं योजनानां तथोच्छ्रितः ।
मूले षोडशसाहस्रं योजनं विस्तृतश्च सः ॥ १७-३२ ॥
ततोऽपि द्विगुणं मूर्ध्नि विस्तृतः स महागिरिः ।
चतुर्दशसहस्रैस्तु योजनैर्ब्रह्मणः पुरी ॥ १७-३३ ॥
मध्येऽत्र मानसी दिव्या नानारत्नप्रभोज्ज्वला ।
तस्याः पूर्वाद्यष्टदिक्षु इन्द्रादिलोकपालानामष्टौ पुर्यो विश्वकर्मविनिर्मिताः । ताश्चामरावती तेजोवती सांयमनी कृष्णावती शुद्धावती गन्धावती महोदया यशोवतीसञ्ज्ञाः ।
किञ्चित् पश्चिमतस्तत्र विष्णोरपि पुरं महत् ॥ १७-३४ ॥
तद्वत् पूर्वोत्तरे भागे ज्योतिःशिखरसञ्ज्ञितः ।
पर्वतोऽष्टसहस्राणां योजनानां प्रमाणतः ॥ १७-३५ ॥
तत्र दिव्यविमानेषु पार्वत्या सहितो हरः ।
गणेश्वरैः परिवृतो रमतेऽभ्यर्चितः सुरैः ॥ १७-३६ ॥
स्वर्गादापतिता गङ्गा प्लावयन्तीन्दुमण्डलम् ।
तस्मिन् हरजटाजूटे पतितास्माच्च निर्गता ॥ १७-३७ ॥
ख्याता सीता गता प्राचीं भद्राख्या चोत्तरां दिशम् ।
याम्यामलकनन्दाख्या सुचक्षुः पश्चिमां गताम् ॥ १७-३८ ॥
चतुर्दिक्षु गत्वा लवणसागरं प्रविष्टा इति यावत् ।
पूर्वेण मन्दरो मेरोर्दक्षिणे गन्धमादनः ।
विपुलः पश्चिमगिरिः सुपार्श्वश्चोत्तरे स्थितः ॥ १७-३९ ॥
एते चत्वारोऽपि मेरोर्विष्कम्भगिरयः प्रत्येकमष्टसहस्रयोजनप्रमाणा रत्नबहुला दिव्यजनसेव्याः । तेषु क्रमाद् देवोद्यानानि सरांसि च । यथा –
वनं चैत्ररथं प्राच्यां दक्षिणे गन्धमादनम् ।
वैभ्राजं विपिले तद्वत् सुपार्श्वे नन्दनं स्मृतम् ॥ १७-४० ॥
अरुणोदं सुभद्रं च सितोदमथ मानसम् ।
सरांसि देवभोग्यानि मन्दरादिष्वनुक्रमात् ॥ १७-४१ ॥
मन्दरादिषु तद्वच्च वृक्षाणां तु चतुष्टयम् ।
विद्यात् कदम्बो जम्बूश्च पिप्पलोऽथ वटस्तथा ॥ १७-४२ ॥
ते च प्रत्येकं द्विसहस्रयोजनविष्कम्भोच्छ्रयाः ।
गन्धमादनसंस्थस्तु जम्बूद्वीपस्थपादपः ।
जम्बूस्तन्नामधेयेन जम्बूद्वीपोऽयमुच्यते ॥ १७-४३ ॥
महागजप्रमाणानि स्वादूनि रसवन्ति च ।
सार्वकालं फलान्यस्य निपतन्ति सहस्रशः ॥ १७-४४ ॥
तस्मिन् फलरसोद्भूता नाम्ना जम्बूनदी सरित् ।
प्रवृत्ता देवगन्धर्वसिद्धचारणसेविता ॥ १७-४५ ॥
तज्जलस्पर्शनात् काष्ठमृत्तिकाशर्करादिकम् ।
जाम्बूनदाख्यं भवति स्वर्णं षोडशवर्णकम् ॥ १७-४६ ॥
तज्जलस्नानपानेन प्राणिनो ये चतुर्विधाः ।
सर्वे भवन्ति सौवर्णा निर्जराश्चायुतायुषः ॥ १७-४७ ॥
मेरोस्तु परितः ख्यातो लक्षयोजनविस्तृतः ।
जम्बूद्वीपस्य खण्डानि नव वर्षाणि तानि हि ॥ १७-४८ ॥
लावणेन समुद्रेण द्वीपोऽयं वेष्टितो बहिः ।
नवानामपि वर्षाणां मध्यमं स्यादिलावृतम् ॥ १७-४९ ॥
मेरुश्च तन्मध्यगतः केसराचलसङ्गतः ।
इलावृताद् दक्षिणतो हरिकिम्पुरुषाह्वये ॥ १७-५० ॥
(भारतं) नव वर्षाणि त्रीणि तेष्वचलास्त्रयः ।
निषधो हेमकूटश्च हिमवांश्चात्र दक्षिणे ॥ १७-५१ ॥
पूर्वापरायताः सर्वे पूर्वापरसमुद्रगाः ।
रम्यहैरण्यकुरवो वर्षत्रयमिलावृतात् ॥ १७-५२ ॥
उत्तरे गिरय(स्ते च) प्राग्वत् प्रागायतास्त्रयः ।
नीलः श्वेतस्त्रिशृङ्गी च वर्षसीमास्ववस्थिताः ॥ १७-५३ ॥
प्राच्यामिलावृताद् वर्षो ह्येको भद्राश्वसञ्ज्ञितः ।
पश्चिमे केतुमालश्च तयोर्द्वौ वर्षपर्वतौ ॥ १७-५४ ॥
आनीलनिषधायामौ माल्यवद्गन्धमादनौ ।
इलावृते पद्मवर्णा जम्बूफलरसाशिनः ॥ १७-५५ ॥
त्रयोदशसहस्रायुस्तेषां पूज्यश्च शङ्करः ।
भद्राश्वे मानवाः शुक्ला दिव्यरूपायुतायुषः ॥ १७-५६ ॥
दिव्याम्रभोजना देवं यजन्ति च महेश्वरम् ।
कुसुम्भकुसुमप्रख्या हरिवर्षेऽयुतायुषः ॥ १७-५७ ॥
विष्णुं यजन्ते मनुजाः सर्वे चैक्षवभोजिनः ।
किम्पूरुषे हैमवर्णा नरास्ते चायुतायुषः ॥ १७-५८ ॥
प्लक्षवृक्षफलाहारा ब्रह्माणं पूजयन्ति ते ।
भारते नैकवर्णास्तु नानाभाषाशनायुषः ॥ १७-५९ ॥
नानादेवार्चनाः सर्वे नानाकर्मकरास्तथा ।
माहेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥ १७-६० ॥
विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ।
मुख्यशोऽत्र तथा नद्यो गङ्गा गोदावरी तथा ॥ १७-६१ ॥
यमुना नर्मदा तापी कृष्णवेष्णा सरस्वती ।
तुङ्गभद्रा च कावेरी सिन्धुताम्रादिकास्तथा ॥ १७-६२ ॥
स्पृष्टाः पीतास्तथा स्नाताः सर्वाः पापापहाः स्मृताः ।
इदं तु भारतं वर्षं नवद्वीपविभूषितम् ॥ १७-६३ ॥
कुमारीहिमवन्मध्ये द्वीपोऽयं पुण्य उच्यते ।
कर्मभूमिरियं स्वर्गमपवर्गं च गच्छताम् ॥ १७-६४ ॥
अन्ये म्लेच्छजनाकीर्णा द्वीपास्ते भारतस्य ये ।
इन्द्रद्वीपः कशेरुश्च ताम्रवर्णो गभस्तिमान् ॥ १७-६५ ॥
नागः सौम्यश्च गान्धर्वो वारुणश्चाष्टमः स्मृतः ।
अस्मिन् कुमारीद्वीपे तु देवर्षीणां तु मुख्यशः ॥ १७-६६ ॥
स्थानानि यानि तानि स्युः सङ्क्षेपादत्र तान्यपि ।
अप्तत्त्वादिषु वक्ष्यन्ते षट्पञ्चाशत् पुराण्युत ॥ १७-६७ ॥
अमरेशादिसञ्ज्ञाभिर्दृश्यन्तेऽत्रापि तानि ह ।
शम्भोः स्थानानीति यावत् । अत्र
महेन्द्रे जामदग्न्यश्चाप्यगस्त्यो मलयाचले ॥ १७-६८ ॥
सह्ये ब्रह्महरीशानाः कुमारः शुक्तिमद्गिरौ ।
ऋक्षे शिवो निवसति पारियात्रे नृकेसरी ॥ १७-६९ ॥
विन्ध्ये दुर्गा हिमवति नरनारायणाश्रमः ।
केतुमाले नरा नीलाः स्त्रियश्चोत्पलसन्निभाः ॥ १७-७० ॥
क्षीरान्नभोजिनो रुद्रभक्तास्ते चायुतायुषः ।
रम्ये रजतसङ्काशाः पञ्चसाहस्रजीविनः ॥ १७-७१ ॥
मध्वाशा ब्रह्मभक्तास्ते रम्याङ्गाः स्थिरयौवनाः ।
हिरण्यके हेमवर्णा द्राक्षाशाश्चायुतायुषः ॥ १७-७२ ॥
सूर्यभक्ता नरास्तद्वत् कुरुवर्षे सुरोपमाः ।
श्यामवर्णा मिथुनजाः कल्पवृक्षोपजीविनः ॥ १७-७३ ॥
आयुर्द्वादशसाहस्रं तेषां पूज्यौ शिवौ स्मृतौ ।
कैलासे हेमकूटे च हिमवत्युत्तरेऽपि च ॥ १७-७४ ॥
त्रिशृङ्गे मन्दरे नीले गन्धमादनपर्वते ।
कर्णिकारवने चैव पुराणि पुरशासितुः ॥ १७-७५ ॥
हेमरत्नविमानानि प्राधान्येन भवन्ति हि ।
अलकाख्या तु कैलासे धनदस्य पुरी शुभा ॥ १७-७६ ॥
वसुधारे वसूनां च रत्नाधारे सुरर्षिणाम् ।
एकशृङ्गे ब्रह्मणस्तु जैगीषव्यस्य चाश्रमः ॥ १७-७७ ॥
गजशैले तु दुर्गायां सुनीले रक्षसां पुरी ।
सुमेघे देवराजस्य श्वेताद्रौ गरुडस्य च ॥ १७-७८ ॥
षण्मुखस्य च तत्रैव क्रौञ्चे जारुधिपर्वते ।
यक्षाणां शतशृङ्गे तु त्रिशृङ्गाद्रौ तथा श्रियः ॥ १७-७९ ॥
सहस्रशिखरेऽद्रीन्द्रे विद्याधरपुराणि हि ।
महालक्ष्म्याः परिजाते सरस्वत्याः सुपार्श्वके ॥ १७-८० ॥
अञ्जनाद्रावप्सरसां गन्धर्वाणां च पाण्डरे ।
कुमुदाद्रौ तु रुद्राणां जारुधौ भास्करस्य च ॥ १७-८१ ॥
पिञ्जराद्रौ गणपतेर्हंसकूटे तु वेधसः ।
तत्रैव सनकादीनां दैत्यानां पञ्चशैलके ॥ १७-८२ ॥
दक्षिणे लवणाम्भोधौ लङ्काख्या रक्षसां पुरी ।
ऐक्षवाब्धौ गणेशस्य द्वीपाः सन्ति पुराणि च ॥ १७-८३ ॥
सुराब्धौ भद्रकाल्याश्च भैरवाणां पुराण्यपि ।
वीरभद्रस्य मातॄणां क्षेत्रेशस्यापि तत्र हि ॥ १७-८४ ॥
घृतोदेऽग्नेश्च देवानां दध्यब्धौ ब्रह्मणो हरेः ।
नारायणस्य क्षीराब्धौ श्वेतद्वीपोऽतिशोभनः ॥ १७-८५ ॥
हेमरत्नविमानाढ्यः पञ्चलक्षप्रविस्तृतः ।
चतुर्भुजैः श्वेतवर्णैः शङ्खचक्रगदाधरैः ॥ १७-८६ ॥
विष्णुसारूप्यमुक्तैस्तु जनैः स्त्रीभिश्च शोभितम् ।
तत्र दिव्ये विमाने तु शेते नारायणो विभुः ॥ १७-८७ ॥
शेषाहिशयने दिव्ये श्रीभूमिसहितो विराट् ।
सेवितः कुमुदाद्यैश्च विष्वक्सेनादिकैर्गणैः ॥ १७-८८ ॥
तत्रापि च गणाः केचिद् दिव्यरूपास्त्रिलोचनाः ।
भस्मच्छन्नास्त्रिपुण्ड्राङ्काः सन्ति रुद्रार्चने रताः ॥ १७-८९ ॥
स्वादूदकाब्धौ स्वाशासु लोकेशानां (पुरा)ण्यपि ।
प्रजापतीनां च पृथग् भोगवन्ति भवन्ति हि ॥ १७-९० ॥
अलमतिविस्तरेण । प्रस्तुतमेव प्रस्तूयते ।
जम्बूः शाकः कुशः क्रौञ्चः शल्मलप्लक्षपुष्कराः ।
लवणक्षीरदध्याज्यगुलमद्यजलार्णवाः ॥ १७-९१ ॥
इति * * * * * * * न्त्रेष्वपि च केषुचित् ।
मध्वादिकः क्रमः प्रोक्तो द्विपाब्धीनां विभागशः ॥ १७-९२ ॥
जम्बूः प्लक्षः शाल्मलश्च कुशः क्रौञ्चस्ततः परम् ।
शाकश्च पुष्कराख्यश्च द्वीपाः सप्तार्णावावृताः ॥ १७-९३ ॥
लवणेक्षुसुरासर्पिर्दधिदुग्धजलार्णवाः ।
प्रोक्ताः * * * * * * * * * * * पि सर्वशः ॥ १७-९४ ॥
मिथोविरोधिनोरेवं द्वीपाब्धिक्रमपक्षयोः ।
उत्तरं मतबहुल्यादत्राश्रित्य निगद्यते ॥ १७-९५ ॥
जम्बूद्वीपाल्लावणोऽब्धिर्द्विगुणस्तस्य बाह्यतः ।
लावणाद् द्विगुणो द्वीपः प्लक्षाख्यो वलयाकृतिः ॥ १७-९६ ॥
तस्मिन् सप्तैव वर्षाणि सन्ति सप्त (च) पर्वताः ।
तद्यथा – शान्ताभयशिशिरसुखोदयानन्दशिवक्षेमकध्रुवसञ्ज्ञानि वर्षाणि ।
गोमेदचक्रकनारददुन्दुभिसोमक-ऋषभवैभ्राजसञ्ज्ञा वर्षगिरयो लवणेक्षुसमुद्रस्पर्शिनः सर्वे सहस्रयोजनविस्तारोच्छ्रयाः । तत्र तु –
आर्यकाः कुरराश्चैव विदंशा भाविनस्तथा ॥ १७-९७ ॥
वर्णाश्चत्वार एवं स्युर्यथात्र ब्राह्मणादयः ।
ते च पञ्चसहस्रायुःस्थिरयौवनशालिनः ॥ १७-९८ ॥
सोममूर्तिं महादेवं यजन्तः सुखमासते ।
वर्षनद्योऽपि सप्तात्राप्यनुतप्ता शिवामृता ॥ १७-९९ ॥
विपापा त्रिदिवा नन्दा सुकृता चामलोदकाः ।
प्लक्षाद् द्विगुण इक्षूदो द्विगुणोऽस्माच्च शाल्मलः ॥ १७-१०० ॥
द्वीपस्तत्र च वर्षणि सप्त शैलाश्च निम्नगाः ।
यथाहुः –
हरीतजीमूतरोहितवैद्युतमानसहंससुप्रभसञ्ज्ञानि वर्षाणि । कुमुदकुमुदोन्नतवलाहकद्रोणकङ्कमहिषककुद्मसञ्ज्ञाः पर्वता ऋज्वायता इक्षूदसुरोदस्पर्शिनः ।
योनितोया वितृष्णा च चन्द्रा शुक्ला विमोचनी ॥ १७-१०१ ॥
निवृत्तिश्च सुभद्रा च सप्त नद्यस्तु शाल्मले ।
कापिला अरुणाः पीताः कृष्णाख्याश्च द्विजादयः ॥ १७-१०२ ॥
तत्रायुतायुषो मर्त्या धूम्रा वायुं यजन्ति ते ।
शाल्मलाद् द्विगुणो वाह्ये सुरोदो मण्डलाकृतिः ॥१०३ ॥
द्विगुणोऽस्य कुशद्वीपस्तस्मिन् वर्षाणि सप्त वै ।
उद्भिदो वेणुमांश्चैव सुरयो लम्बनो धृतिः ॥ १७-१०४ ॥
प्रभाकरश्च कपिलो वर्षाः स्फीतजनाकुलाः ।
विद्रुमो द्युतिमान् हेमो हरिः पुष्टः कुशेशयः ॥ १७-१०५ ॥
मन्दरश्चेति गिरयः सुराज्योदधिसङ्गताः ।
हेमाभास्ते च वर्षाणां सप्तसाहस्रजीविनः ॥ १७-१०६ ॥
कुशाद् घृतोदाद् द्विगुणो बाह्येऽस्माद् द्विगुणः पुनः ।
क्रौञ्चद्वीपोऽस्य वर्षाणि सप्त नद्यश्च पर्वताः ॥ १७-१०७ ॥
कुशलमनोहरोष्णकप्रवरान्धकारमुनिदुन्दुभिसञ्ज्ञानि वर्षाणि । क्रौञ्चवामनकारण्डकदिविस्पृग्विविदपुण्डरीकदुन्दुभिस्व-नसञ्ज्ञाः पर्वताः ।
गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ।
ख्यातिश्च पुण्डरीका च नद्यः प्राधान्यतः स्मृताः ॥ १७-१०८ ॥
पुष्कराः पुष्कला धन्यास्तिष्याश्च ब्राह्मणादयः ।
जीवन्त्यष्टसहस्राणि वर्षाणि शिवपूजकाः ॥ १७-१०९ ॥
क्रौञ्चात् तु द्विगुणो बाह्ये दध्यब्धिस्तस्य बाह्यतः ।
शाकद्वीपो द्विमानोऽस्मात् तत्र वर्षाणि सप्त हि ॥ १७-११० ॥
जलदकुमारसुकुमारमणिचककुसुमोत्तरमोदकमहाद्रुमसञ्ज्ञानि वर्षाणि ।
उदयो रैवतश्चैव श्यामाकोऽस्तगिरिस्तथा ।
आम्बिकेयस्तथा रम्यः केसरी चेति पर्वताः ॥ १७-१११ ॥
सुकुमारी कुमारी च नन्दिनी वेणुका तथा ।
इक्षुका धेनुका चैव गभस्तिः सप्त निम्नगाः ॥ १७-११२ ॥
तत्र वर्णाश्च चत्वारो नगा मगधवामनाः ।
नन्दकाश्चैव पीताभाः सप्तसाहस्रजीविनः ॥ १७-११३ ॥
ते च सूर्यमूर्तिं यजन्ते ।
शाकाद् बाह्ये तु दुग्धाब्धिर्द्विगुणोऽस्माच्च पुष्करः ।
तत्र वर्षाचलस्त्वेको मानसोत्तरसञ्ज्ञितः ॥ १७-११४ ॥
मध्येन वलयाकारः पञ्चाशद्भिः सहस्रकैः ।
योजनानां तु विस्तीर्णस्तावदुच्चो महागिरिः ॥ १७-११५ ॥
तस्य चोभयतो वर्षे तथैवोपरिमण्डले ।
अभ्यन्तरे महावीतो धातकी षण्डको बहिः ॥ १७-११६ ॥
तस्मिन् न नद्यो वर्णा वा द्विजप्रायोऽखिलो जनः ।
अयुतायुर्हेमवर्णो वायुमूर्तिं यजत्यसौ ॥ १७-११७ ॥
तस्य मानसोत्तरस्य मध्ये त्रिषहस्रयोजनप्रमाणो न्यग्रोधतरुः, तस्मिन् ब्रह्मा सपरिवारो निवसति ।
तस्योत्तरेण हर्यर्धतनोः शम्भोर्निकेतनम् ।
वसत्यस्मिन् हरिहरः पूज्यमानः सुरासुरैः ॥ १७-११८ ॥
पुष्कराद् द्विगुणो बाह्ये स्वादूदः सागरो महान् ।
तद्बाह्ये दशकोट्यास्ति योजनानां हिरण्यभूः ॥ १७-११९ ॥
स्वाद्वब्धेस्तु बहिर्हिरण्यधरणिः कोट्या दशास्या बहि –
र्लोकालोकगिरिस्तु मेरुसदृशश्चोत्सेधविस्तारतः ।
निर्जीवः खलु बाह्यतोऽस्य तु तमः षट्त्रिंशता कोटिभि –
र्बाह्ये चाण्डकटाहतः स च घनः षट्कोटिगव्यूतिभिः ॥ १७-१२० ॥
अलमतिप्रसङ्गेन । अथ भुवर्लोकादयः कथ्यन्ते । तद् यथा –
भूमेरूर्ध्वं योजनानां लक्षे सूर्यगतिः स्मृता ।
योजनैर्नवसाहस्रैर्विष्कम्भोऽर्करथस्य तु ॥ १७-१२१ ॥
तत्प्रभामण्डलं तस्मात् त्रिगुणं हि प्रमाणतः ।
सूर्यलोकस्तु विज्ञेयो विमानशतसङ्कुलः ॥ १७-१२२ ॥
उद्यानैः ससभै रम्यैः शोभितः सजलाशयैः ।
सूर्याल्लक्षे स्थितश्चन्द्रस्तस्मान्नक्षत्रमण्डलम् ॥ १७-१२३ ॥
तस्माद् द्विलक्षे तु बुधो द्विलक्षेऽस्माच्च भार्गवः ।
द्विलक्षे भार्गवाद् भौमस्तद्वद् भौमाद् बृहस्पतिः ॥ १७-१२४ ॥
योजनानां द्विलक्षे तु गुरोः सौरिर्व्यवस्थितः ।
रथस्त्रिचक्रः सोमस्य कुन्दगौराश्च वाजिनः ॥ १७-१२५ ॥
दश ते च वहन्त्येनं सोमलोकस्तु स स्मृतः ।
रक्ताष्टाश्वो बुधस्यापि रथो लोकः स तस्य हि ॥ १७-१२६ ॥
कुसुम्भसदृशाष्टाश्वः शुक्रस्यापि रथो महान् ।
पद्मरागारुणाष्टाश्वो हैमो भौमस्य वै रथः ॥ १७-१२७ ॥
रथस्तु पाण्डराष्टाश्वो हैमः ख्यातो बृहस्पतेः ।
रथस्तु शबलाष्टाश्वः शनेरपि हिरण्मयः ॥ १७-१२८ ॥
धूमरस्तु रथो राहोर्नीलाष्टाश्वैरलङ्कृतः ।
अष्टौ धूम्रारुणाः केतोरश्वा युक्ता रथे स्मृताः ॥ १७-१२९ ॥
तयोरपि स्थितिः ख्याता ह्यधस्तात् सोमसूर्ययोः ।
एतेषां तु पृथग् लोकास्त एव परिकीर्तिताः ॥ १७-१३० ॥
शनेरुपरि लक्षे तु सप्तर्षीणां तु मण्डलम् ।
तेषामुपरि लक्षे तु मेधीभूते ध्रुवः स्थितः ॥ १७-१३१ ॥
ग्रहनक्षत्रताराणां प्रेरको ध्रुव ईरितः ।
भूमेरूर्ध्वं भुवर्लोकस्त्वा नक्षत्रपथात् स्मृतः ॥ १७-१३२ ॥
तदूर्ध्वमा ध्रुवपथात् स्वर्लोकः स्वर्ग उच्यते ।
तत्रामरावती नाम शक्रस्य तु पुरी शुभा ॥ १७-१३३ ॥
देवर्षीणां विमानानि तत्र सन्ति सहस्रशः ।
आदित्यानां च रुद्राणां वसूनामश्विनोरपि ॥ १७-१३४ ॥
मरुतामपि साध्यानां पुराणि भुवनानि च ।
स्वदिक्षु लोकपालानां राजर्षीणां च मुख्यशः ॥ १७-१३५ ॥
गन्धर्वाणां पितॄणां च विमानानि सहस्रशः ।
अन्येषां च स्वर्गजितामावासः स्वरि (तः ? ति)स्मृतः ॥ १७-१६६ ॥
ते स्वपुण्यानुरूपांस्तु भोगांस्तत्रैव भुञ्जते ।
शिंशुमारो ध्रुवस्यापि स्यादाधारो ध्रुवोपरि ॥ १७-१३७ ॥
ध्रुवात् कोट्या महर्लोको वैमानिकसुरैर्वृतः ।
कोटिद्वये महर्लोकादूर्ध्वं लोको जनः स्मृतः ॥ १७-१३८ ॥
तत्र सिद्धा विधानेषु मानसा ब्रह्मणः सुताः ।
निवसन्ति महात्मानो योगैश्वर्योपबृंहिताः ॥ १७-१३९ ॥
आ ब्रह्मप्रलयादिति यावत् ।
कोटित्रये जनादूर्ध्वं तपोलोकः प्रतिष्ठितः ।
वैराजा नाम ये देवास्तपोलोके वसन्ति ते ॥ १७-१४० ॥
आ ब्रह्मप्रलयात् तेऽपि वसन्ति ।
तपोलोकात् तु षट्कोट्यामूर्ध्वं सत्यं प्रतिष्ठितम् ।
ब्रह्मलोकस्तु स ज्ञेय आब्रह्मप्रलया स्थितिः ॥ १७-१४१ ॥
प्रजानां पतयश्चैव दक्षभृग्वादयोऽमलाः ।
ब्रह्मलोकजितोऽन्ये च यतयो ब्रह्मवादिनः ॥ १७-१४२ ॥
यत्र यद् ब्रह्मसदनं न तद् वर्णयितुं क्षमम् ।
सत्यलोकात् ततः किञ्चिदूर्ध्वं विष्णुपुरं महत् ॥ १७-१४३ ॥
तेजोमयमपर्यन्तं तन्न वर्णयितुं क्षमम् ।
ब्राह्मे ब्रह्मा सदैवास्ते पूज्यमानः सुरादिभिः ॥ १७-१४४ ॥
स्वलोके भगवान् विष्णुरास्तेऽनन्तासने विभुः ।
योगिभिः कुमुदाद्यैश्च विष्वक्सेनादिभिर्गणैः ॥ १७-१४५ ॥
चक्राद्यैश्चायुधैः सर्वैर्मूर्तिमद्भिरुपस्थितः ।
योजनानां तथा कोट्यां विष्णुलोकादथोपरि ॥ १७-१४६ ॥
रुद्रलोकः स्थितस्तस्य प्रभावो नोदितुं क्षमः ।
ज्योतिःप्राकारसंवीतः सूर्यकोटिसमप्रभः ॥ १७-१४७ ॥
तत्र दिव्यवपुर्देवस्त्रिणेत्रश्चन्द्रशेखरः ।
स्कन्दनन्दिगणेशैश्च गणैर्दिव्यवपुर्धरैः ॥ १७-१४८ ॥
उपास्यमानः सारूप्यमुक्तैरीशार्चने रतैः ।
आस्ते दिव्यविमानेषु शश्वद् देव्या सहोमया ॥ १७-१४९ ॥
अलं वर्णनया । भूरादिसत्यान्तेषु पृथक् पृथग् रुद्रास्तदधिपतयः सप्त ।
यथा मञ्जर्यां –
भूमौ सुभद्रो दिवि वायुवेगः स्वर्गे महावीर्यपराक्रमाख्यः ।
रुद्रो महःस्थो विकटः परस्तात् ख्यातो महाकालकवैद्युतौ च ॥
सत्यलोकेश्वरः श्वेतस्ततो ब्रह्मा ततो हरिः ।
रुद्रः स्वयं स्वलोकेशो ब्रह्माण्डान्तरितीरितः ॥
अथ ब्रह्माण्डाद् बाह्यतो दशदिक्षु प्रतिदिशं दश दश रुद्रपुराणि तेषां नामधेयानि कपालीशादिशतरुद्राणां सञ्ज्ञावेद्यानि । अत्र पौष्करे –
लक्षयोजनमानानां तेजिष्ठानां पृथक् पृथक् ।
तत्रास्ते रुद्रशक्तिर्या भद्रकाली स्वकैर्गणैः ॥
एवं कालाग्निपूर्वाणि भुवनानि पृथक् पृथक् ।
भद्रकालीपुरान्तानि पृथ्वीतत्त्वे स्थितानि हि ॥
अष्टोत्तरशतं भुवनानीति यावत् ।
अतः परं च भुवनान्यप्तत्त्वादिस्थितानि हि ।
तानि चातिविशालानि तेजिष्ठानि महान्ति च ॥ १७-१५० ॥
स्वरूपतो वर्णयितुं तानि वर्षशतैरपि ।
न शक्यानि यतो ग्रन्थगौरवाद् भयमस्त्यतः ॥ १७-१५१ ॥
समासेन प्रदर्श्यन्ते भुवनाध्वप्रसिद्धये ।
पृथ्वीतत्त्वादथाप्तत्त्वं ज्ञेयं दशगुणं ततः ॥ १७-१५२ ॥
तेजस्तत्त्वं दशगुणं ततो वायुस्ततो वियत् ।
एवमुत्तरोत्तरप्रमाणानि पृथिव्यादिमायान्तानि तत्त्वानि विद्यात् । शुद्धविद्येश्वरसदाशिवतत्त्वानि क्रमात् सहस्रगुणितानि । शक्तिशिवतत्त्वयोरनाद्यन्तत्वात् परि(माणं नो)च्यते ।
अथाबादिषु तत्त्वेषु भुवनानां व्यवस्थितिः ॥ १७-१५३ ॥
क्रमात् पृथग् वेदितव्या देशिकैरध्वशोधने ।
गुह्याष्टकाख्यमप्तत्त्वेऽप्यमरेशादिकं न * ॥ १७-१५४ ॥
वह्नौ गुह्यातिगुह्याख्यं हरिश्चन्द्राद्यमष्टकम् ।
वस्त्रापदाद्यं भीमाख्यमष्टकं व्योम्नि संस्थितम् ।
अहङ्कारान्तकं गन्धतन्मात्राद्येषु सप्तसु ॥ १७-१५६ ॥
तत्त्वेषुच्छगलण्डादिशर्वाष्टकमवस्थितम् ।
पैशाचाद्यं तथा बुद्धौ देवयोन्यष्टकं स्थितम् ॥ १७-१५७ ॥
योन्यष्टकाद्यं प्रकृतावकृताद्यमिह स्थितम् ।
स्थलेश्वराष्टकं यत् तु महादेवादिकं तु तत् ॥ १७-१५८ ॥
कालतत्त्वे च मायायां विज्ञेयं स्याद् व्यवस्थितम् ।
वामाज्येष्ठादि नवकं शुद्धविद्याह्वये स्थितम् ॥ १७-१५९ ॥
अनन्तेशादिसञ्ज्ञाभिर्विद्येशभुवनाष्टकम् ।
स्थितमीश्वरतत्त्वे तु विज्ञेयं देशिकैः क्रमात् ॥ १७-१६० ॥
सदाशिवाख्यं भुवनं स्थितं तत्त्वे सदाशिवे ।
निवृत्त्यादिकलासञ्ज्ञं बिन्दौ भुवनपञ्चकम् ॥ १७-१६१ ॥
इन्धिकाद्यं पञ्चकं तु स्थितं नादे ततः परम् ।
व्यापिन्याद्यं पञ्चकं यच्छक्तावेव व्यवस्थितम् ॥ १७-१६२ ॥
भुवनानां चतुर्विंशत्यधिकं यच्छतद्वयम् ।
सङ्क्षेपात् कथितं विद्यादेवं तत्त्वाध्वनि स्थितम् ॥ १७-१६३ ॥
पूर्णान्येतानि सर्वाणि भुवनानि शरीरिभिः ।
प्रवर्तितैः शिवेच्छातः क्रियाशक्तेर्विजृम्भणात् ॥ १७-१६४ ॥
भूलोकान्तं शरीराणि पार्थिवैर्द्व्यणुकादिभिः ।
प्रारब्धान्यधिकैर्यस्मात् पार्थिवानि भवन्ति हि ॥ १७-१६५ ॥
भुवर्लोकादिलोकेषु देवानां तनवः शुभाः ।
आप्याश्च तैजसाः काश्चिद् वायवीयाः स्मृताः क्वचित् ॥ १७-१६६ ॥
सर्वत्रगं स्मृतं व्योम पुर्यष्टकविमिश्रितम् ।
मनःप्रभृति तत्त्वेषु मायान्तं भुवनेष्विह ॥ १७-१६७ ॥
तत्तत्तत्त्वप्रधानाः स्युर्देहा मायाविजृम्भणात् ।
शुद्धविद्यादिशक्त्यन्तमणूनां देहसङ्ग्रहः ॥ १७-१६८ ॥
विद्यामयः स्मृतः शुद्धः शुद्धतत्त्वोपलम्भनात् ।
किन्तु निर्वाणदीक्षादौ प्राक्कर्मागामिकर्मभिः ॥ १७-१६९ ॥
भुवनेष्वेषु सर्वेषु पशुः शोध्यः शरीरवान् ।
अलमतिविस्तरेण ।
अथाध्वनां क्रमादेषां व्याप्तिः सम्यङ् निगद्यते ॥ १७-१७० ॥
पृथ्वीतत्त्वं क्षवर्णश्च मन्त्रौ हृदयसद्यकौ ।
कालाग्निरपि कूश्माण्डो हाटकं ब्राह्मवैष्णवे ॥ १७-१७१ ॥
रौद्रं च भुवनान्यन्तर्ब्रह्माण्डस्य भवन्ति षट् ।
अण्डाद् बहिः शतरुद्रा दशदिक्षु व्यवस्थिताः ॥ १७-१७२ ॥
कपालीशो ह्यजो बुद्धो वज्रदेहः प्रमर्दनः ।
विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ॥ १७-१७३ ॥
अग्नी रुद्रो हुताशश्च पिङ्गलः खनको हरः ।
ज्वलनो दहनो बभ्रुर्भस्मान्तश्च क्षयान्तकः ॥ १७-१७४ ॥
यमो मृत्युर्हरो धाता विधाता च तथापरः ।
कर्ता चैव च संयोक्ता वियोक्ता धर्म एव च ॥ १७-१७५ ॥
तद्वद् धर्मपतिस्तत्र दशमो दक्षिणे स्थितः ।
निर्-ऋतिर्मारणो हन्ता क्रूरदृष्टिर्भयानकः ॥ १७-१७६ ॥
ऊर्ध्वकेशो विरूपाक्षो धूम्रलोहितदंष्ट्रिणः ।
बलश्चातिबलश्चैव पाशहस्तो महाबलः ॥ १७-१७७ ॥
श्वेतोऽथ जयभद्रश्च दीर्घहस्तो जलान्तकः ।
मेघनादः सुनादश्च वारुण्यां दश संस्थिताः ॥ १७-१७८ ॥
शीघ्रो वायुर्वायुवेगः सूक्ष्मस्तीक्ष्णः क्षयान्तकः ।
पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः ॥ १७-१७९ ॥
रुद्रा दशैते विख्याता वायव्यां दिशि संस्थिताः ।
निधीशो रूपवान् धन्यः सौम्यदेहो जटाधरः ॥ १७-१८० ॥
लक्ष्मीधरो रत्नधरः श्रीधरश्च प्रसादनः ।
प्रकाशो दशमश्चेति कौबेर्यां दिशि संस्थिताः ॥ १७-१८१ ॥
विद्याधिपेशसर्वज्ञा ज्ञानभुग् वेदपारगः ।
सुरेशशर्वज्येष्ठाश्च भूतपालो बलिप्रियः ॥ १७-१८२ ॥
वृषो वृषधरोऽनन्तः क्रोधनो मारुताशनः ।
ग्रसनोदुम्बरीशश्च फणीन्द्रो वज्रदंष्ट्रिणौ ॥ १७-१८३ ॥
शम्भुर्विभुर्गुणाध्यक्षस्त्रिदशस्त्रिदशेश्वरः ।
संवाहश्च विवाहश्च लिप्सुर्ब्रह्मा त्रिलोचनः ॥ १७-१८४ ॥
तेषामुपरि रुद्राणां वीरभद्रो व्यवस्थितः ।
भद्रकाल्याश्च भुवनमेवमष्टाधिकं शतम् ॥ १७-१८५ ॥
भुवनानि क्रमोक्तानि रुद्राणां स्वाख्यया पृथक् ।
ॐ नमोऽनन्त नमः शिवाय ॐ नमोनमः सर्वद शर्व शिव सूक्ष्म सूक्ष्म शब्द शब्द पिङ्ग पिङ्ग पतङ्ग पतङ्ग तुरुङ्ग तुरुङ्ग साक्षिन् साक्षिन् पूर्वस्थित असंस्तु(त ? ता)संस्तुत अनर्चिता(न)र्चित ब्रह्मविष्णुरुद्रपर सर्वसान्निध्यकर
सर्वभूतसुखप्रद भवोद्भव भव भव सर्व सर्व प्रथम प्रथम मुञ्च मुञ्च योगाधिपते महातेजः सद्भावेश्वर महादेव । थप्र —- २८ ॥
मन्त्रावसानिकपदान्महादेवपदावधि ॥ १७-१८३ ॥
विलोमतः पदानि स्युरष्टाविंशतिसङ्ख्यया ।
इत्यध्वपञ्चकं षष्ठ्या निवृत्तिकलया समन् ॥ १७-१८७ ॥
व्याप्तं सञ्चिन्तनीयं स्यादध्वषट्कं विभागतः ।
आपोऽग्निर्वायुराकाशो गन्धश्च रसरूपके ॥ १७-१८८ ॥
स्पर्शः शब्दश्च वाक्पादपाणिपायुभगानि च ।
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणश्चेतीन्द्रियाणि च ॥ १७-१८९ ॥
मनोहङ्कारबुद्ध्याख्यं तदन्तःकरणत्रयम् ।
सर्वेषां त्रिगुणाथ स्यात् प्रकृतिः कारणं परा ॥ १७-१९० ॥
त्रयोविंशतितत्त्वानि विलोमादिति सङ्ख्यया ।
हसषाः शवला रो यमभबाः फपना धदौ ॥ १७-१९१ ॥
यतणा ढडठा टश्च त्रयोविंशतिवर्णकाः ।
शिरश्च वामदेवाख्यौ मन्त्रौ तद्वत् पुराणि तु ॥ १७-१९२ ॥
षट्पञ्चाशत् क्रमेण स्युरमरेशादिनामभिः ।
अमरेशः प्रभासश्च नैमिशः पुष्कराषढी ॥ १७-१९३ ॥
डिण्डी मुण्डी भारभूतिरित्यष्टावम्बुतत्त्वके ।
हरिश्चन्द्रश्च शीशैलो जल्पीशाम्रादकेश्वरौ ॥ १७-१९४ ॥
मध्यमेशो महाकालः केदारो भैरवस्तथा ।
भुवनाष्टकमित्येतत् तेजस्तत्त्वे व्यवस्थितम् ॥ १७-१९५ ॥
गया चैव कुरुक्षेत्रं नोखलं कनखालकम् ।
विमलेशोऽट्टहासश्च महेन्द्रो भीमकेश्वरः ॥ १७-१९६ ॥
इत्यष्टौ भुवनानि स्युर्वायुतत्त्वगतानि तु ।
वस्त्रापदो रुद्रकोटिरविमुक्तो महालयः ॥ १७-१९७ ॥
गोकर्णभद्रकर्णौ च स्वर्णाक्षः स्थाणुरित्यपि ।
भुवनाष्टकमाकाशसञ्ज्ञे तत्त्वे व्यवस्थितम् ॥ १७-१९८ ॥
छगलण्डो द्विरण्डश्च माकोटो मण्डलेश्वरः ।
कालञ्जरः शङ्कुकर्णः स्थूलेशोऽथ स्थलेश्वरः ॥ १७-१९९ ॥
प्रारभ्य गन्धतन्मात्रमहङ्कारान्तमध्वनि ।
स्थितानि भुवनान्यष्टावेतानि च यथाक्रमम् ॥ १७-२०० ॥
पैशाचं राक्षसं याक्षं गान्धर्वं चैन्द्रसौम्यके ।
प्राजेशं ब्राह्ममित्येतद् देवयोन्यष्टकं धियाम् ॥ १७-२०१ ॥
अकृतं च कृतं चैव भैरवं ब्राह्मवैष्णवे ।
कौमारमौमं श्रीकण्ठमिति योगाष्टकं स्थितम् ॥ १७-२०२ ॥
गुणप्रकृतितत्त्वे तु स्थितमेतत् तु भौवनम् ।
अष्टकैः सप्तभिस्त्वेवं षट्पञ्चाशद् यथाक्रमम् ॥ १७-२०३ ॥
भुवनानि स्थितान्येवं पदान्यप्येकविंशतिः ।
महेश्वर परमात्मन् शर्व शिव निधनोद्भव निधन अनिधन ॐ स्व ॐ भुवः ॐ भूः धू धू धू ना ना ना अनादे अभस्म अधूम अनग्ने अरूप ज्योति ज्योति तेज तेज प्रथम अरूपिन् अरूपिन् । थन = २१ ॥
महेश्वराख्यात् प्रारभ्य स्यादरूपिपदावधि ॥ १७-२०४ ॥
एवं पञ्चविधाध्वा स्यात् प्रतिष्ठाकलया समम् ।
षष्ठ्या व्याप्तं विचिन्त्यं स्यात् षोढाध्वव्याप्तिरीदृशी ॥ १७-२०५ ॥
अथ विद्याकलायां तु पुरुषो राग एव च ।
अशुद्धविद्या च कला नियतिः काल एव च ॥ १७-२०६ ॥
माया च सप्त तत्त्वानि वर्णसप्तकसंयुतम् ।
ञझजाश्छचङा घश्च शिखाघोरौ च मन्त्रकौ ॥ १७-२०७ ॥
वामानि भुवनानि स्युः सप्तविंशतिसङ्ख्यया ।
वामो भीमस्तथैवोग्रो भवश्चेशान एव च ॥ १७-२०८ ॥
एकवीरश्च पुरुषे षडेते भुवनेश्वराः ।
प्रचण्डोमापतिश्चाजो ह्यनन्तश्चैकरुद्रकः ॥ १७-२०९ ॥
रागतत्त्वे स्थितं त्वेतद् भुवनानां तु पञ्चकम् ।
क्रोधचण्डावशुद्धायां विद्यायां तु व्यवस्थितौ ॥ १७-२१० ॥
नियत्यां ज्योतिसंवर्तौ ततः सुकरसञ्ज्ञितः ।
पञ्चान्तकैकवीरौ च शिवदश्च कलागताः ॥ १७-२११ ॥
काले चेति यावत् ।
महादेवो वामदेव उद्भवश्चैकपिङ्गलः ।
एकनेत्रस्तथेशानो भुवनेशस्ततः परः ॥ १७-२१२ ॥
अङ्गुष्ठमात्र इति चाप्यष्टावेते स्थलेश्वराः ।
कालतत्त्वाच्च मायायां भौवनी सप्तविंशतिः ॥ १७-२१३ ॥
व्यपिन्व्यापिन् व्योम्निव्योम्नि अचेतनाचेतन महेश्वरपराय ज्योतीरूपाय सर्वयोगाधिपाय सर्वविद्याधिकृताय अनिधनाय गोप्त्रे गुह्यातिगुह्याय ॐ नमोनमः सद्योजातमूतये वामदेवगुह्याय अघोरहृदयाय तत्पुरुषवक्त्राय ईशानमूर्धाय शिवाय सर्वप्रभवे ॐ नमः शिवाय ध्यानाहाराय ।
व्यापिन्निति समारभ्य ध्यानाहारपदावधि ।
पदानां विंशतिश्चात्र स्याद् विद्याकलयाखिलम् ॥ १७-२१४ ॥ १७-
व्याप्तं सञ्चिन्तयेदेवं षड्विधाध्वव्यवस्थितिः ।
अथ शान्तिकलायां स्याच्छुद्धविद्येश्वरावपि ॥ १७-२१५ ॥
सदाशिवश्च तत्त्वानि त्रीणि तस्यां स्थितानि हि ।
वर्णास्त्रयः स्युर्गखका मन्त्रौ कवचपूरुषौ ॥ १७-२१६ ॥
अष्टादशैव भुवनान्यत्र वामादिसञ्ज्ञया ।
वामा ज्येष्ठा च रौद्री च काली कलविकरणी ॥ १७-२१७ ॥
बलविकरणी चैव बलप्रमथनी तथा ।
सर्वभूतदमन्येका नवमी तु मनोन्मनी ॥ १७-२१८ ॥
शुद्धविद्याह्वये तत्त्वे स्थितान्येवमनुक्रमात् ।
अनन्तेशश्च सूक्ष्मश्च ततश्चापि शिवोत्तमः ॥ १७-२१९ ॥
एकनेत्रश्चैकरुद्रस्त्रिमूर्तिश्च तथापरः ।
श्रीकण्ठश्च शिखण्डी च भुवनानीश्वराह्वये ॥ १७-२२० ॥
सदाशिवाख्यं भुवनं स्थितं तत्त्वे सदाशिवे ।
नित्ययोगिने योगपीठसंस्थाय शाश्वताय ध्रुवाय अनाश्रिताय अनाथाय अनन्ताय शिवाय सर्वव्यापिने व्योमरूपाय व्योमव्यापिने नमः ।
पदान्येकादशात्रैव नित्ययोगिन-आदितः ॥ १७-२२१ ॥
व्योमव्यापिपदान्तानि स्थितान्येवं तु पञ्चधा ।
षष्ठ्या तु शान्तिकलया व्याप्तान्येवं विचक्षणैः ॥ १७-२२२ ॥
षड्विधाध्वमयी व्याप्तिर्बोद्धव्या क्रमशो भवेत् ।
तथैव शान्त्यतीतायां शिवतत्त्वं व्यवस्थितम् ॥ १७-२२३ ॥
वर्णाः षोडश सर्गाद्याः स्वराः स्युस्ते विलोमतः ।
अस्त्रेशानौ तथा मूलं त्रयो मन्त्रा भवन्ति हि ॥ १७-२२४ ॥
निवृत्त्यादीनि भुवनान्यत्र पञ्चदशैव हि ।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ॥ १७-२२५ ॥
शान्त्यतीतेति हि कलाः स्युर्बिन्दौ भुवनानि हि ।
इन्धिका दीपिका रोचिर्मोचिका चोर्ध्वगा तथा ॥ १७-२२६ ॥
भुवनादीनि पञ्च स्युस्तानि नादकलाः खलु ।
व्यापिनी व्योमरूपा चाप्यनन्ता चाप्यनाथया ॥ १७-२२७ ॥
अनाश्रिता चेति कलाः शाक्ताः स्युर्भुवनान्यपि ।
मन्त्राद्यं प्रणवं यत् तद् विलोमेनान्तकं तु तत् ॥ १७-२२८ ॥
पदमेकं भवेदेवमध्वायं पञ्चधोदितः ।
शान्त्यतीतकलाव्याप्तं विद्यादित्यध्वनां क्रमात् ॥ १७-२२९ ॥
षड्विधा व्याप्तिरुद्दिष्टा शैवागमविनिर्णयात् ।
भुवनानि चतुर्विंशत्यधिकं तु शतद्वयम् ॥ १७-२३० ॥
षडध्वज्ञानवान् मुच्येन्मोचयेच्च भवार्णवात् ।
एकत्राध्वा षडविधैकादश स्युर्मन्त्रास्त्वेकं चाप्यशीतिः पदानि ।
षट्त्रिंशच्चाप्यत्र तत्त्वानि वर्णाः पञ्चाशत् स्युः पञ्चसङ्ख्याः कलाश्च ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे षडध्वनिर्णयपटलः सप्तदशः ॥ १७ ॥